नारायणसूक्तम्
(१) सहस्रशीर्षदेवं
विश्वाक्षं विश्वशंभुवं
विश्वन् नारायणदेवम्
अक्षरं परमं पदम्
(२) विश्वतपरमान्नित्यं
विश्वन्नारायणं हरिं
विश्वमेवेदं पुरुषस्
तद्विश्वमुपजीवति (३)
पतिं विश्वस्यात्मेश्वरं
शाश्वतं शिवमच्युतं
नारायणम्महाज्ञेयं
विश्वात्मानं परायणं (४)
नारायणपरं ब्रह्म-
तत्त्वन् नारायणपर
नारायणपरो ज्योतिर्
आत्मा नारायणपर (५)
यच्चकिञ्चज् जगत्यस्मिन्
दृश्यते श्रूयते ऽपिवा
अन्तर्बहिश्च तथ् सर्व्वं
व्याप्य नारायण स्थितः
(६) अनन्तम् अव्ययङ् कविं
समुद्रेन्तं विश्वतोमुखं
पद्मकोश-प्रतीकाशं
हृदयञ्चाप्यधोमुखं
(७) हृदयन्तद् विजानीयाद्
विश्वनारायणं हरिं
अधोहिकाविकस्त्यान्त
नाभ्याम् उपरि तिष्ठति
(८) सन्ततं सिराभिस् तु
लंबत्याकोशसन्निभं
तस्यान्ते सुषिरंसूक्ष्मन्
तस्मिन् सर्व्वं प्रतिष्ठितं
(९) ज्वालमालाकुलं भाति
विश्वस्यायतनम् महल्
तस्य मद्ध्ये महानग्निर्
विश्वार्च्चिर्व्विश्वतोमुखः
(१०) सोग्रभुग् विभजन् तिष्ठन्न्
आहारम् अजर कवि
तिर्यग् ऊर्द्ध्वम् अधश्शायी
रश्मयस्तस्य सन्तताः
(११) सन्तापयति स्वन् देहम्
आपादतलमस्तगाल्
तस्य मद्ध्ये वह्निशिखा
अणीयोर्द्ध्वा व्यवस्थिता
(१२) नीलतोयद-मद्ध्यस्था
विद्युल्लेखेव भास्वरा
नीवार-शूकवत्तन्वी
पीताभासात्यनोपमा
(१३) तस्याश्शिखाया मद्ध्ये
परमात्मा व्यवस्थितः
यद् वेदादौ स्वरप्रोक्ता
वेदान्ते च प्रतिष्ठितः
(१४) तस्य प्रकृतिलीनस्य
यपरस् समहेश्वरः
स ब्रह्मा स हरिस् स शिवस्
सेन्द्रस् सोऽक्षरपरमस्वराळ्