५१-५७ विरजा विपाप्मा

51

विश्वास-प्रस्तुतिः

प्राणापान-व्यानोदान-समाना मे॑ शुद्ध्य॒न्ता॒ञ्,
ज्योति॑र् अ॒हव्ँ वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ । (66)

आन्ध्र-पाठ-परिशिष्ट-भाष्यम्

प्राणापानव्यानोदानसमाना इति। प्राणादयः पञ्च वायवः प्रसिद्धास्ते सर्वेऽप्यनेनाऽऽज्यहोमेन शुद्धा भवन्तु। य(त)तोऽहं विपाप्मा प्रतिबन्धकपातकरहितो विरजाः पापकारणीभूतरजोगुणेनापि रहितः सन्यज्ज्योतिर्जगत्कारणं परब्रह्म तद्वस्तु भूयासम्। तदर्थमिदामाज्यं [स्वाहा] सुहुतमस्तु।

मूलम्

प्राणापानव्यानोदानसमाना मे॑ शुद्ध्य॒न्ता॒ञ्
ज्योति॑र् अ॒हव्ँ वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ । (66)

52

विश्वास-प्रस्तुतिः

वाङ्-मनश्-चक्षुः-श्रोत्र-जिह्वा-घ्राण-रेतो-बुद्ध्य्-आकूति-सङ्कल्पा मे॑ शुद्ध्य॒न्ता॒ञ्,
ज्योति॑र् अ॒हव्ँ वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ । (67)

आन्ध्र-पाठ-परिशिष्ट-भाष्यम्

वागिति। वागादीनीन्द्रियाणि। रेतो गुह्येन्द्रियम्। मनःशब्दवाच्यस्यैवान्तःकरणस्य निश्चयात्मिका वृत्तिर्बुद्धिः। अनिश्चयरूपा वृत्तिराकूतिः। इदं समीचीनमितिकल्पनारूपा वृत्ति संकल्पः। अन्यत्पूर्ववत् *।

मूलम्

वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकूतिसङ्कल्पा मे॑ शुद्ध्य॒न्ता॒ञ्,
ज्योति॑र॒हव्ँ वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ । (67)

53

विश्वास-प्रस्तुतिः

शिरः-पाणि-पाद-पार्श्व-पृष्ठोदर-जङ्घ-शिश्ञोपस्थ-पायवो मे॑ शुद्ध्य॒न्ता॒ञ्
ज्योति॑र् अ॒हव्ँ वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ ।

सायण-टीका

पूर्वाभ्यामनुवाकाभ्यां सूक्ष्मशरीरशुद्धिरुक्ता। अत्र स्थूलशरीरावयवानां शिरःपाण्यादीनां शुद्धिरुच्यते। लिङ्गाण्डभेदविवक्षया शिश्नोपस्थशब्दौ द्वौ द्रष्टव्यौ। अन्यत्पूर्ववत्॥

आन्ध्र-पाठ-परिशिष्ट-भाष्यम्

शिरःपाणीत्यादि। अत्रापि स्थूलशरीरावयवानां शिरःपाण्यादीनां शुद्धिरुच्यते। लिङ्ग(लिङ्गाण्ड)भेदविवक्षया शिश्नोपस्थशब्दौ द्वौ द्रष्टव्यौ। अन्यत्पूर्ववत्*।

मूलम्

शिरःपाणिपादपार्श्वपृष्ठोदरजङ्घशिश्ञोपस्थपायवो मे॑ शुद्ध्य॒न्ता॒ञ्ज्योति॑र॒हव्ँ वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ । (68)

54

विश्वास-प्रस्तुतिः

त्वक्-चर्म-माँस-रुधिर-मेदो-ऽस्थि-मज्जा मे॑ शुद्ध्य॒न्ता॒ञ्
ज्योति॑र् अ॒हव्ँ वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ ।

सायण-टीका

अत्र स्थूलशरीरगतानां धातूनां शुद्धिरुच्यते। एकस्यैव धातोर्बाह्यान्तर्भाग-विवक्षयात्वक्चर्मशब्दौ प्रयुक्तौ। अन्यत्पूर्ववत्॥

आन्ध्र-पाठ-परिशिष्ट-भाष्यम्

त्वक्चर्मेत्यादि। अत्र स्थूलशरीरगतानां सप्तधातूनां शुद्धिरुच्यते। एकस्यैव धातोर्बाह्यान्तरभागविवक्षया त्वक्चर्मशब्दौ प्रयुक्तौ। अन्यत्पूर्ववत्+।

मूलम्

त्वक्-चर्म-माँस-रुधिर-मेदो-ऽस्थि-मज्जा मे॑ शुद्ध्य॒न्ता॒ञ् ज्योति॑र॒हव्ँ वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ । (69)

55

विश्वास-प्रस्तुतिः

शब्द-स्पर्श-रूप-रस-गन्धा मे॑ शुद्ध्य॒न्ता॒ञ्
ज्योति॑र् अ॒हव्ँ वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ ।

सायण-टीका

शरीरोपादानपञ्चमहाभूतेष्वाकाशादिषु वर्तमाना गुणाः शब्दादयः। अन्यत्पूर्ववत्॥

आन्ध्र-पाठ-परिशिष्ट-भाष्यम्

शब्दस्पर्शेत्यादि। शरीरोपादानपञ्चमहाभूतेश्वाकाशादिषु वर्तमाना गुणाः शब्दादयः। पूर्ववदन्यत्+।

मूलम्

शब्दस्पर्शरूपरसगन्धा मे॑ शुद्ध्य॒न्ता॒ञ्ज्योति॑र॒हव्ँ वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ । (70)

56

विश्वास-प्रस्तुतिः

पृथिव्य्-अप्-तेजो-वाय्व्-आकाशा मे॑ शुद्ध्य॒न्ता॒ञ्
ज्योति॑र् अ॒हव्ँ वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ ।

सायण-टीका

शरीरस्योपादानकारणानि पञ्च महाभूतानि पृथिव्यादीनि। अन्यत्पूर्ववत्॥

आन्ध्र-पाठ-परिशिष्ट-भाष्यम्

पृथिवीति। शरीरस्योपादानकारणानि पृथिव्यादीनि। पूर्ववदन्यत्*।

मूलम्

पृथिव्यप्तेजोवाय्वाकाशा मे॑ शुद्ध्य॒न्ता॒ञ्ज्योति॑र॒हव्ँ वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ । (71)

57

विश्वास-प्रस्तुतिः

अन्नमय-प्राणमय-मनोमय-विज्ञानमयानन्दमया मे॑ शुद्ध्य॒न्ता॒ञ्
ज्योति॑र् अ॒हव्ँ वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ ।

सायण-टीका

अन्नमयादयः पञ्च कोशा वारुण्यामुपनिषद्युक्ताः। अन्यत्पूर्ववत्। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि सप्तपञ्चाशत्तमोऽनुवाकः॥ ५७॥

मूलम्

अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे॑ शुद्ध्य॒न्ता॒ञ्ज्योति॑र॒हव्ँ वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ । (72)