२३ आपः पुनन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

आपः॑ पुनन्तु पृथि॒वीं
पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् ।
+++(पृथि॒वीं)+++ पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्
ब्रह्म॑ +++(च)+++, +++(सा)+++ पू॒ता पु॑नातु॒ माम् ॥

सर्वाष् टीकाः ...{Loading}...

भास्करोक्त-विनियोगः

स्नानकाले मन्त्रवदाचमने विनियोगः ।

मूलम्

आपः॑ पुनन्तु पृथि॒वीं
पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् ।
पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्
ब्रह्म॑पू॒ता पु॑नातु॒ माम् ॥

भट्टभास्कर-टीका

1आपः पुनन्त्व् इति ॥ अत्यष्टिर् अष्टपदा । द्वितीय-वर्जम् अष्टाक्षराः पादाः ।
द्वयोर्द्वयोः पादयोर्विरामः ।
स्नानकाले मन्त्रवदाचमने विनियोगः ।

आपः पुनन्तु शोधयन्तु
पृथिवीं कारणेन कार्यशुद्धिः प्रार्थ्यते ।
सा चाद्भिः पूता पृथिवी मां पुनातु स्वकार्यभूतम् ।
किञ्च - ब्रह्मणस्पतिः परिबृढस्य प्रपञ्चस्य ब्रह्मणः पतिः
परमात्मा कारणं ब्रह्म
ब्राह्मणानि मन्त्राश्च पृथिवीं पुनन्त्व् अपुनन् ।
सा च तैः पूता मां पुनातु ।

विश्वास-प्रस्तुतिः ...{Loading}...

यद् उच्छि॑ष्ट॒म् अभो॑ज्यय्ँ॒
यद् वा॒ दुश्-च॑रितं॒ +++(दु॒श्चरि॑तं॒)+++ मम॑ ।
सर्वं॑ पुनन्तु॒ माम् आपो॑
ऽस॒ताञ् च॑ प्रति॒ग्रहँ॒+++(←कृद्-उत्तर-पद-प्रकृति-स्वरः)+++ स्वाहा॑ ॥ (38)

सर्वाष् टीकाः ...{Loading}...

मूलम्

यदुच्छि॑ष्ट॒म् अभो॑ज्यय्ँ॒
यद्वा॑ दु॒श्चरि॑तं॒ मम॑ ।
सर्वं॑ पुनन्तु॒ मामापो॑
ऽस॒ताञ्च॑ प्रति॒ग्रहँ॒ स्वाहा॑ ॥ (38)

भट्टभास्कर-टीका

यन् मनस्-सम्बन्ध्य् उच्छिष्टम्
अप्रायत्य-करं मूत्रोत्सर्जनादि चण्डालोपस्पर्शनादि च
यच् चाभोज्यं केशकीटाद्य्-अवपन्नादि मम सम्बन्धि
दुश्चरितं दुष्टं शास्त्रनिषिद्धं प्रतिषिद्धमैथुनादि
तन्निमित्तं पापं सर्वं मदीयं धर्मधर्मिणोरभेद उपचर्यते । यद्वा - मां च मयि पूर्वसञ्चितं च पापम् आपः पुनन्तु । असतां शूद्रादीनां च प्रतिग्रहं प्रतिग्रहनिमित्तं च पापं शोधयत्विति ॥
इति याज्ञिक्युपनिषदि त्रयोविंशोऽनुवाकः ॥