16
भट्टभास्कर-टीका
1सर्वो वा इत्यादि त्वरितरुद्रनामाऽनुवाकः । त्वरितेन किल रुद्रजापिना तत्फलप्राप्तये जप्यम् ।
विश्वास-प्रस्तुतिः
सर्वो॒+++(→आपः)+++ वै रु॒द्रस्, तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ।
मूलम्
सर्वो॒ वै रु॒द्रस् तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ।
विश्वास-टिप्पनी
त᳓म् अब्रवीच् - “छ᳓र्व्वो ऽसी᳓“ति॥
त᳓द् य᳓द् अस्य त᳓न् ना᳓मा᳓करोद्
आ᳓पस् त᳓द् रूप᳓म् अभवन्न्,
आ᳓पो वै᳓ स᳓र्व्वो, ऽद्भ्यो᳓ हीदँ᳓ स᳓र्व्वं जा᳓यते।
इति शतपथ-ब्राह्मणे।
एवं शाङ्खायन-ब्राह्मणे ऽपि -
नाम मे कुर्वित्यब्रवीन्, … भव एवेति। यद् भव आपस्, …
भट्टभास्कर-टीका
सर्वः सर्वात्मा क्षिति-सलिल–हुत-वह– सवन-गगन- हिम-कर- दिन-मणि- यजमानात्मभिर् अष्टाभिर् मूर्तिभिः
सर्वं व्याप्य स्थितत्वात् ।
रुद्रो रोदयिता सर्वस्यान्त-काले स्वात्मन्य् उपसंहर्ता ।
यथा ‘य इमा विश्वा भुवनानि जुह्वत्’ इति ।
तस्मै तादृशाय रुद्राय नमोऽस्तु ।
रुद्रायेति पुनर्वचनं रुद्रपदप्रियत्वाद् देवस्य ।
विश्वास-प्रस्तुतिः
पुरु॑षो॒ वै रु॒द्रस् सन् म॒हो, +++(तस्मै)+++ नमो॒ नमः॑ ।
मूलम्
पुरु॑षो॒ वै रु॒द्रस्सन्म॒हो नमो॒ नमः॑ ।
भट्टभास्कर-टीका
ननु पुरुषोपादानत्वात् सर्वस्य
कथं विश्वाधिपती रुद्रः सर्वात्मा स्यात् ?
तत्राह - पुरुषो नारायणः यं सर्वात्मकम् आहुः ।
स खलु रुद्र एव - अवस्थाविशेषत्वात् ।
रुद्रो ऽपि तद्-आत्मना तिष्ठतीति ।
तस्माद् रुद्रस्यैव पुष्कल-सर्वात्मकत्वं प्रपञ्चावधिकं तु पुरुषस्य ।
का पुनस् सा ऽवस्थेत्याह –
सद् इति सङ्कल्पेन यदा सद् अजायत
तदा तत् सद्-रूपं विश्वोपादानं पुरुषो ऽभवत् ।
कीदृक् पुनस् तद् इत्याह - महो नम इति ।
षष्ठ्येकवचने ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् ।
असुनि चाद्युदात्तत्वं स्यात् ।
नमः नमनं प्रपञ्चसृष्टिं प्रति देवस्य प्रह्वीभावः । यथा ‘सम्बाहुभ्यां नमति सम्पतत्रैः’ इति ।
अयमर्थः - महतो देवस्य यन् नमनं प्रपञ्च-सृष्टौ प्रह्वी भावः सच्छब्दवाच्यः [च्या]
सा पुरुषावस्थाऽपि रुद्रस्यैवेति तस्मै देवाय नमस् कुर्मः ।
विश्वास-प्रस्तुतिः
विश्वं॑ भू॒तं भुव॑नञ् चि॒त्रं
ब॑हु॒धा जा॒तञ् जाय॑मानञ् च॒ यत् ।
सर्वो॒ ह्ये॑ष रु॒द्रस्
तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ (31)
मूलम्
विश्वं॑ भू॒तं भुव॑नञ्चि॒त्रं ब॑हु॒धा जा॒तञ्जाय॑मानञ्च॒ यत् ।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ (31)
भट्टभास्कर-टीका
यस्माद् एवं तस्माद् विश्वं विश्वात्मा पुरुषः भूतं तस्माद्विश्वात्मन उत्पन्नं भुवनं भूतजातं चित्रं चायनीयं पृथिव्यादि बहुधा बहुप्रकारं जातं तस्मात्पृथिव्यादेरुत्पन्नं घटादि, जायमानं जनिष्यमाणं च यत् तत् सर्वं रुद्र एव । तस्मै रुद्राय नमोऽस्तु ॥
इति याज्ञिक्युपनिषदि षोडशोऽनुवाकः ॥
17
१७ कद् रुद्राय ...{Loading}...
कद्रु॒द्राय॒ प्रचे॑तसे
मी॒ढुष्ट॑माय॒ तव्य॑से ।
वो॒चेम॒ शन्त॑मँ हृ॒दे ।
सर्वो॒ ह्ये॑ष रु॒द्रस्
तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु । (32)
18
नमो हिरण्यबाहवे हिरण्यपतये ऽम्बिकापतय उमापतये॑ नमो॒ नमः । (33)
19
यस्य॒ वैक॑ङ्कत्यग्निहोत्र॒हव॑णी भवति॒
प्रति॑ष्ठिताः॒ प्रत्ये॒वास्याहु॑तयस् तिष्ठ॒न्त्य्, अथो॒ प्रति॑ष्ठित्यै । (34)