१३-१५ आदित्यः

१३

आ॒दि॒त्यो वा ए॒ष ए॒तन् म॒ण्डल॒न् तप॑ति॒,
तत्र॒ ता ऋच॒स्, तद् ऋ॒चां म॒ण्डलँ॒, स ऋ॒चाल्ँ लो॒को,

ऽथ॒ य ए॒ष ए॒तस्मि॑न् म॒ण्डले॒ ऽर्चिर् दी॒प्यते॒
तानि॒ सामा॑नि॒, स सा॒म्नाम् म॒ण्डलँ॒, स सा॒म्नाल्ँ लो॒को,

ऽथ॒ य ए॒ष ए॒तस्मि॑न् म॒ण्डले॒ ऽर्चिषि॒ पुरु॑ष॒स्
तानि॒ यजूँ॑षि॒, स यजु॑षां म॒ण्डलँ॒, स यजु॑षाल्ँ लो॒कस्,

सैषा त्र॒य्य् एव॑ वि॒द्या त॑पति॒,
य ए॒षो॑न्तर् आ॑दि॒त्ये हि॑र॒ण्मयः॒ पुरु॑षः । (28)

१४

आ॒दि॒त्यो वै तेज॒ ओजो॒ बलय्ँ॒ यश॒श्
चक्षु॒श् श्रोत्र॑म्
आ॒त्मा मनो॑ म॒न्युर् मनु॑र् मृ॒त्युस्
स॒त्यो मि॒त्रो
वा॒युर् आ॑का॒शः प्रा॒णो लो॑कपा॒लः
कः किङ्कन्तत् स॒त्यम् अन्न॒म् आयु॑र् अ॒मृतो॑ जी॒वो विश्वः॑
कत॒मस् स्व॑यं॒भुः प्र॒जाप॑तिस् सव्ँवत्स॒र इति॑

सव्ँवत्स॒रो॑ ऽसावा॑दि॒त्यो
य ए॒ष पुरु॑ष
ए॒ष भू॒ताना॒म् अधि॑पति॒र्
ब्रह्म॑ण॒स् सायु॑ज्यँ सलो॒कता॑म् आप्नोत्य्
ए॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यँ सा॒र्ष्टिताँ॑ समानलो॒कता॑म् आप्नोति॒
य ए॒वव्ँ वेदे॑त्युप॒निषत् । (29)

१५

घृणि॒स्सूर्य॑,
आदि॒त्यम् अ॑र्चयन्ति॒,
तप॑स्स॒त्यं, मधु॑ क्षरन्ति॒,
तद्ब्रह्म॒, तदाप॒ आपो॒ ज्योती॒रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भु॑व॒स्सुव॒रोम् । (30)