०२ भूर् अग्नये महाव्याहृतयः

सायणोक्त-विनियोगः

अथ होमार्थान् महाव्याहृतिसंज्ञकान्मन्त्रानाह।
अत्र द्रव्यविशेषस्यानुक्तत्वात्
सर्व-होम-साधारणम् आज्यम् एव द्रव्यम् इत्य् अवगन्तव्यम्।
फल-विशेषस्यानुक्तत्वात् पापक्षयोऽत्र साधारणं फलं द्रष्टव्यम्।

विश्वास-प्रस्तुतिः

भूर् अ॒ग्नये॑ पृथि॒व्यै स्वाहा॑॥
(अग्नय इदं न मम)

मूलम्

भूर् अ॒ग्नये॑ पृथि॒व्यै स्वाहा॑॥

विश्वास-प्रस्तुतिः

भुवो॑ वा॒यवे॒ ऽन्तरि॑क्षाय॒ स्वाहा॑॥
(वायव इदं न मम)

मूलम्

भुवो॑ वा॒यवे॒ ऽन्तरि॑क्षाय॒ स्वाहा॑॥

सायण-टीका

भूर्भुवः सुवरोमिति त्रीणि पदान्यव्ययानि।
तानि च व्यस्तरूपेण समस्तरूपेण च मन्त्रचतुष्टयरूपतां प्रतिपद्याग्न्यादिदेवताप्रतिपादकानि।
तथा सत्ययमर्थः संपद्यते। भूरित्यनेन मन्त्रेण प्रतिपाद्यायाग्नये तन्मन्त्रप्रतिपाद्यायै पृथिव्यै च स्वाहा सुहुतमिदं द्रव्यमस्त्विति। एवमुत्तरेष्वपि त्रिषु मन्त्रेषु योज्यम्।

विश्वास-प्रस्तुतिः

सुव॑र् आदि॒त्याय॑ दि॒वे स्वाहा॑॥
(आदित्यायेदं न मम)

मूलम्

सुव॑र् आदि॒त्याय॑ दि॒वे स्वाहा॑॥

विश्वास-प्रस्तुतिः

भूर् भुव॒स् सुव॑श् च॒न्द्रम॑से दि॒ग्भ्यस् स्वाहा॑॥
(चन्द्रमस इदं न मम)

मूलम्

भूर् भुव॒स् सुव॑श् च॒न्द्रम॑से दि॒ग्भ्यस् स्वाहा॑॥

सायणोक्त-विनियोगः

चतुर्भिर्मन्त्रैर्यथाशक्ति हुत्वाऽन्ते प्राङ्मुखो नमो देवेभ्य इति मन्त्रेणोपतिष्ठेत।
पश्चाद् दक्षिणाभिमुखः स्वधा पितृभ्य इति मन्त्रेणोपतिष्ठेत।

विश्वास-प्रस्तुतिः

नमो॑ दे॒वेभ्य॑स्, स्व॒धा पि॒तृभ्यो॒,
भूर् भुव॒स् सुव॒रोम् । (12) - । 2 ।

मूलम्

नमो॑ दे॒वेभ्य॑स्, स्व॒धा पि॒तृभ्यो॒,
भूर्भुव॒स्सुव॒रोम् । (12) - । 2 ।

सायण-टीका

स्वधाशब्दः पितृप्रियं नमस्काराद्युपचारं ब्रूते। भूर्भुवः सुवरिति लोकत्रयेऽपि पापरहितो भवामि। ओमित्ययं शब्दोऽङ्गीकारवाचित्वात्तत्र तत्रोचितार्था-ङ्गीकारं प्रतिपादयति।

नारायणाख्येनेश्वरेण मुनिना वा दृष्टत्वाद् अयं प्रपाठको नारायणीयः॥ इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्वितीयोऽनुवाकः॥ २॥