विश्वास-प्रस्तुतिः ...{Loading}...
पुरु॑षस्य विद्म सहस्रा॒क्षस्य॑
महा-दे॒वस्य॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया॑त् ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
पुरु॑षस्य विद्म सहस्रा॒क्षस्य॑
महादे॒वस्य॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया॑त् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
तत्-पुरु॑षाय वि॒द्महे॑
महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया॑त् ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
तत्पुरु॑षाय वि॒द्महे॑
महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया॑त् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
तत्पुरु॑षाय वि॒द्महे॑
वक्र-तु॒ण्डाय॑ धीमहि ।
तन्नो॑ दन्तिः प्रचो॒दया॑त् ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
तत्पुरु॑षाय वि॒द्महे॑
वक्रतु॒ण्डाय॑ धीमहि ।
तन्नो॑ दन्तिः प्रचो॒दया॑त् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
तत् पुरु॑षाय वि॒द्महे॑
सुवर्ण-प॒क्षाय॑ धीमहि । (5)
तन् नो॑ गरुडः प्रचो॒दया॑त् ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
तत् पुरु॑षाय वि॒द्महे॑
सुवर्ण-प॒क्षाय॑ धीमहि । (5)
तन् नो॑ गरुडः प्रचो॒दया॑त् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
का॒त्या॒य॒नाय॑ वि॒द्महे॑
कन्यकु॒मारि॑ धीमहि ।
तन् नो॑ दुर्गिः प्रचो॒दया॑त् ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
का॒त्या॒य॒नाय॑ वि॒द्महे॑
कन्यकु॒मारि॑ धीमहि ।
तन्नो॑ दुर्गिः प्रचो॒दया॑त् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
ना॒रा॒य॒णाय॑ वि॒द्महे॑
वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया॑त् ॥
+++(लक्षणापेता आरण्यकस्वराः।)+++
सर्वाष् टीकाः ...{Loading}...
मूलम्
ना॒रा॒य॒णाय॑ वि॒द्महे॑
वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया॑त् ॥