01 03 हि॒र॒ण्य॒ग॒र्भ

मूलम्

हि॒र॒ण्य॒ग॒र्भ इत्य॒ष्टौ ।

भट्टभास्कर-टीका

17परमात्मवर्णनत्वेन ‘हिरण्यगर्भः’ इत्यष्टावृचो व्याख्याता अस्मिन्नेवार्थे ‘उर्ध्वा अस्य'13 इत्यत्र । एषां च आत्मतत्त्वप्रतिपादनमन्त्राणाम् अन्यत्र
पठितानामिहातिदेशसामर्थ्यात् कल्पसूत्रविनियोगमन्तरेणाप्य् अस्य लिङ्गादिना महापुरुषार्चनादौ विनियोगो द्रष्टव्यः ॥
॥ इति परमात्मसूक्तम् ॥