०१ ०२

मूलम्

अ॒द्भ्यस्संभू॑तः

भट्टभास्कर-टीका

12अद्भ्यस्सम्भूत इत्यनुवाको व्याख्यातो होतृप्रश्ने ॥

१३ अद्भ्यस् सम्भूतः ...{Loading}...

॥ उत्तरनारायणम् ॥

+++(सन्दर्भार्थम् आदौ पुरुषसूक्तम् ईक्षताम्।)+++

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒द्भ्यः संभू॑तः पृथि॒व्यै+++(व्याः)+++ रसा॑च् च +++(विराट् ब्रह्माण्डरूपः)+++।
वि॒श्व-क॑र्मणः॒+++(=परिपूर्णपुरुषात् पुरुषसूक्तोक्तात्)+++ सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑+++(=त्रिपात् पुरुषः)+++ वि॒दध॑द् रू॒पम् ए॑ति ।
तत् पुरु॑षस्य॒ विश्व॒म् आजा॑न॒म् अग्रे॑ । १

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा॑च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे॑ । १

भट्टभास्कर-टीका

1अद्भ्यस्सम्भूत इत्यादि ॥ ‘उत्तरनारायणेन आदित्यमुपस्थाय’ इत्यादौ विनियोगः । त्रैष्टुभस्सर्वोनुवाकः, विशेषो वक्ष्यते ॥ अद्भ्यः अबादिभ्यः पञ्चभ्यो भूतेभ्यः सम्भूतः उत्पन्नः पृथिव्यै पृथिव्याः रसात् अन्नाच्च उत्पन्नः ततो विश्वकर्मणः विश्वस्य कर्तुः अधि ऐश्वर्यविषयमधि समवर्तत सम्यक् सम्पन्नः प्रजापतिः । ततः तस्य रूपं विदधत् कुर्वन् त्वष्टा तद्रूपं एति सर्वाण्यङ्गानि विकर्तृत्वेन वायुरूपः प्रविशति तत् सर्वं पुरुषस्य प्रभावमहं आजानं आजानामि पुरुष एव सर्वं करोतीति अग्रे प्रथममेव जानामि । छान्दसमाकारस्य ह्रस्वत्वम् । यद्वा - अद्भ्यस्सम्भूतः प्रथमपरिणामः प्रजापतिः । ततः पृथिव्याः रसात् अन्नात् संभूतो वैराजः प्रजापतिः । ततः त्वष्टा विकुर्वन् वायुरूपः तदीयान्यङ्गानि गच्छतीति तृतीयः परिणामः । तत्सर्वं परस्य पुरुषस्य प्रभाव इति प्रथममेवाहं ज्ञातवानिति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

वेदा॒हम् ए॒तं पुरु॑षं म॒हान्त॑म् ।
आ॒दि॒त्य-व॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
तम् ए॒वं वि॒द्वान् अ॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॑ विद्य॒तेय॑ऽनाय । २

सर्वाष् टीकाः ...{Loading}...
मूलम्

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्॑ । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेय॑ऽनाय । २

भट्टभास्कर-टीका

2वेदाहमित्यादि गतम् ॥ तमसः परस्तात् तमश्शीलं विकारजातं तमः ततः परस्तात् स्थितं महान्तं पुरुषमहं वेद। एवं तं विद्वान् अमृतो भवति, अन्यः पन्थाः अयनाय अमृतत्वप्राप्तये साधनभूतो न विद्यते । अयनशब्दो लित्स्वरेणाद्युदात्तः, तेनैकादेशे एकार उदात्तः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

+++(त्रिपात्)+++ प्र॒जाप॑तिश् चरति॒ गर्भे॑ अ॒न्तः ।
अ॒जाय॑मानो बहु॒धा विजा॑यते +++(सहस्रशीर्षा!)+++।
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनि॑म् ।
मरी॑चीनां +++(ऋषीणां)+++ प॒दम् इ॑च्छन्ति वे॒धसः॑ +++(त्रिपादश् [च])+++। ३

सर्वाष् टीकाः ...{Loading}...
मूलम्

प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते । तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्॑ । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ । ३

भट्टभास्कर-टीका

3प्रजापतिरिति ॥ आत्मसमष्टिः प्रजानां पतिः जीवात्मा अन्तर्गर्भे चरति सर्वेषु शरीरेषु आब्रह्ममशकं स्वयं अजायमान एव बहुप्रकारशरीरसम्बन्धेन विविधं जायमान इव भवति । तस्यैतस्य जायमानस्य योनिं कारणं शरीरसम्बन्धकारणं वा धीराः धीमन्तः परिजानन्ति सर्वात्मना जानन्ति । कीदृशाः? ये वेधसः विधातारः प्रकृष्टज्ञानाः मरीचीनां पदं रश्मीनां पदं स्थानं आदित्यात्मानं इच्छन्ति याथात्म्येन विजानन्ति, प्रविशन्ति वा । ते तं योनि जानन्ति । नान्यत् [नान्यैः] ज्ञातुं शक्यते । ‘सूर्य आत्मा’ इति च श्रुतिः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यो दे॒वेभ्य॑ आ॒तप॑ति+++(=काशते, माध्यन्दिनतः)+++ ।
यो दे॒वानां॑ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः ।
नमो॑ रु॒चाय॒+++(=रोचमानाय)+++ ब्राह्म॑ये+++(=वेदवेद्याय परिपूर्णपुरुषाय)+++ । ४

सर्वाष् टीकाः ...{Loading}...
मूलम्

यो दे॒वेभ्य॒ आत॑पति +++(आ॒तप॑ति॒ माध्यन्दिने)+++ ।
यो दे॒वानां॑ पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः ।
नमो॑ रु॒चाय॒ ब्राह्म॑ये । ४

भट्टभास्कर-टीका

4यो देवेभ्य इत्याद्ये अनुष्टुभौ ॥ अधुना स एव आदित्वो वर्ण्यते । यो देवेभ्यः सर्वविकारेभ्यः आतपति समन्तात्तपति सर्वेभ्यो रश्मिमद्भ्योऽधिकं तपति अव्यक्तात्मस्वरूपादागत्य तपनेन सर्वान् विकारान् उत्पाद्य अनुगृह्णाति । यश्च तेषां देवानां देवादीनां विकाराणां पुरोहितः पुरस्तात् स्थितः। तेषां अनुज्ञानार्थं उदयादिना उपकरोति । यश्च पूर्वः प्रथम एव देवेभ्यो जातः सर्वविकाराणां अग्रे जातः । तस्मै रुचाय रोचनशीलाय परमेश्वरदीप्तिमूर्तये । इगुपधलक्षणः कः । ब्राह्मये ब्रह्मणोऽपत्याय । छान्दस इञ् , बाह्वादिर्वा द्रष्टव्यः । तस्मै नम इति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

रुचं॑ ब्रा॒ह्मम् ज॒नय॑न्तः +++(विद्यया)+++।
दे॒वा अग्रे॒ तद् अ॑ब्रुवन् ।
यस् त्वा॒ +ए॒वं ब्रा॑ह्म॒णो वि॒द्यात् -
तस्य॑ दे॒वा अस॒न्+++(अ॑सन्)+++ वशे॑ । ५

सर्वाष् टीकाः ...{Loading}...
मूलम्

रुचं॑ ब्रा॒ह्मम् ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन् । यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् +++(अ॒स॒न् माध्यन्दिने)+++ वशे॑ । ५

भट्टभास्कर-टीका

5रुचमिति ॥ एवं महानुभावं रुचं रोचनशीलं ब्राह्मं ब्रह्मणोऽपत्यम् । अजातित्वाट्टिलोपः । तमेवादित्यं जीवात्मना स्थितं जनयन्तः ब्राह्मणाः आत्मवन्तः स्यामेति ईशं शरीरे सन्निधापयन्तः देवाः इन्द्रियाणि अग्रे पूर्वमेव अब्रुवन् सृष्ट्यादौ आत्मना समयमिव कृतवन्तः । तत् तदानीं जन्मकाल एव यो ब्राह्मणः त्वा त्वां एवं जीवात्मना स्थितं विद्वान् एवं सृष्टयादिप्रवृत्तं यः त्वां विद्वान् यथावत् जानन् भवति, तस्य वशे असन् भवन्ति देवाः इन्द्रियाणि जितेन्द्रियो मुक्तो भवति । यद्वा - देवादयः स तस्य वशे तिष्ठन्ति विधेया भवन्ति । अस्तेर्लटि शपो लुक् ॥

परिपूर्णपुरुषध्यानम्
विश्वास-प्रस्तुतिः

ह्रीश् च॑ ते ल॒क्ष्मीश् च॒ पत्न्यौ॑ ।
अ॒हो॒रा॒त्रे पा॒र्श्वे ।
नक्ष॑त्राणि रू॒पम् ।
अ॒श्विनौ॒ व्यात्त॑म् +++(=मुखम्)+++ ।
+++(अश्विनयोः खल्ववर्तत विशुवस्थानम् पुरा।)+++

इ॒ष्टम् म॑निषाण+++(=यच्छ)+++ । अ॒मुं +++(स्वर्लोकं)+++ म॑निषाण । सर्व॑म् मनिषाण । ६

मूलम्

ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ॑ । अ॒हो॒रा॒त्रे पा॒र्श्वे । नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्तम्॑ । इ॒ष्टम् म॑निषाण । अ॒मुं म॑निषाण । सर्व॑म् मनिषाण । ६

भट्टभास्कर-टीका

6ह्रीश्चेत्यादिकं यजुः ॥ ह्रीः लज्जा लक्ष्मीः श्रीः ते उभे तव पत्न्यौ सहधर्मचारिण्यौ, हे आत्मन् ! अहोरात्रे अहश्च रात्रिश्च पार्श्वस्थानीये । पशूनां समूहः पार्श्वं, ‘पशोर्णस् वक्तव्यः’ । घटिकासमूहात्मके अहोरात्रे पार्श्वस्थानीये धारकत्वसामान्यात् । नक्षत्राणि चन्द्रयुतानि तव रूपं रूपणनिमित्तानि,नक्षत्रयुक्तचन्द्राधीनकालनिबन्धनत्वात् जीवानां स्थितेः । अश्विनौ द्यावापृथिव्यौ व्यात्तं व्यात्तास्यस्थानीयौ, विश्वं निगिरतः तव व्यापकत्वात् तद्देवत्यत्वाद्वा द्यावापृथिव्योरश्वित्वम् । स त्वमेवं महाभागो मम इष्टं ईप्सितं आत्मबोधलक्षणं मनिषाण अनुमन्यस्व, देहीति यावत् । मनोतेर्व्यत्ययेन श्नाप्रत्ययः, ‘हलश्नश्शानज्झौ’ विकरणत्वेन सिप इडागमः, धात्वन्तरं वा छान्दसं द्रष्टव्यम् । अमुमिति विशेषार्थं, आयुश्च गां च अश्वं च देहि । किंबहुना ऐहिकमामुष्मिकं वा सर्वमिष्टं देहीति ॥ इत्यारण्यके तृतीये त्रयोदशोऽनुवाकः ॥