भास्करोक्त-विनियोगः
तत्र प्रथमानुवाके अध्यात्मविषया मन्त्रास् तानेव विनियुज्यन्ते ।
तत्र वारुणीषूपनिषत्सु ‘ब्रह्मविदाप्नोति परं’ इति परप्राप्तिहेतुत्वेन
तद्विभूत्यात्मकमानन्दं ब्रह्म वेद्यं प्रतिज्ञाय
तत्स्वरूपं तदुपासनाविशेषास्सिद्धयश्च उक्ताः ।
इदानीं तस्यात्मनः परमविभूतिस्थानीयस्य कीदृशो विजृम्भण-प्रकार
इत्याकाङ्क्षायां तमेवात्मानमधिकृत्योच्यते - अम्भस्यपार इत्यादि ॥
अयं स्वगुणैः प्रकृत्येकान्तैः कदाचिद्वर्ण्यते । परगुणेन कदाचित् तदभेदात् । त्रैष्टुभस्सर्वोऽनुवाकः । विशेषो वक्ष्यते ।
विश्वास-प्रस्तुतिः ...{Loading}...
अंभ॑स्य् अपा॒रे, भुव॑नस्य॒ मद्ध्ये॒,
नाक॑स्य पृ॒ष्ठे - म॑ह॒तो मही॑यान् ।
शु॒क्रेण॒ ज्योतीँ॑षि समनु॒प्रवि॑ष्टः
प्र॒जाप॑तिश् चरति॒ गर्भे॑ अ॒न्तः ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
अंभ॑स्यपा॒रे भुव॑नस्य॒ मद्ध्ये॒
नाक॑स्य पृ॒ष्ठे म॑ह॒तो मही॑यान् ।
शु॒क्रेण॒ ज्योतीँ॑षि समनु॒प्रवि॑ष्टः
प्र॒जाप॑तिश् चरति॒ गर्भे॑ अ॒न्तः ॥
भट्टभास्कर-टीका
अम्भसि तोये अपारे पाररहिते अधस्ताद् भुवनस्य मध्ये प्रपञ्चस्य मध्यावकाशे नाकस्य स्वर्गस्य पृष्ठे उपरि च एवं सर्वेषु विकारेषु समनुप्रविष्टः समन्तादनुक्रमेण च प्रविश्य स्थितः कारणत्वान् मृदिव घटादिषु महतो महीयान् यन्नाम किञ्चिन्महत् ततोऽपि महीयान् महत्तरः । यद्वा - अम्भस्य् अपारे महाप्रळयावस्थायां भुवनस्य मध्ये प्रपञ्चावस्थायां नाकस्य पृष्ठे अपवर्गावस्थायां च सर्वदा सन्निहितः । किञ्च - अयं प्रजापतिः प्रजानां पाता परमात्मा विष्णुः शुक्रेण ज्योतींषि द्योतमानान्य् अग्निसोमपूषादीन् प्रजापरिणामहेतुभूतान् देवान् समनुप्रविष्टस् तैरेकीभूतः गर्भे अन्तः शरीरमध्ये चरति जीवत्वेन वर्तते कर्म वैचित्र्यद्वारेण नानाक्षेत्रज्ञात्मना चरति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मि॑न्न् इ॒दँ सञ् च॒ विचैति॒ सर्वय्ँ॒
यस्मि॑न् दे॒वा अधि॒ विश्वे॑ निषे॒दुः ।
तद् ए॒व भू॒तन्, तद् उ॒ भव्य॑म् आ+++(=आसीत्)+++
इ॒दन् तद् अ॒क्षरे॑ पर॒मे व्यो॑मन्न् ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
यस्मि॑न्न् इ॒दँ सञ् च॒ विचैति॒ सर्वय्ँ॒
यस्मि॑न् दे॒वा अधि॒ विश्वे॑ निषे॒दुः ।
तद् ए॒व भू॒तन् तद् उ॒ भव्य॑म् आ
इ॒दन् तद् अ॒क्षरे॑ पर॒मे व्यो॑मन्न् ॥
भट्टभास्कर-टीका
2एवं समस्तचिदचित्प्रपञ्चात्मकत्वम् अस्योक्तम् ।
इदानीमेतदेव प्रपञ्चयति - यस्मिन्निति ॥
यस्मिन्निदं सर्वं विकारजातं
यस्मिन् कारणे समेति व्येति च सृष्टिकाले अनेन सङ्गतं समुन्मिषत्य् ऐतदात्म्येन स एव स्फुरति स हि तस्मिन् चरन् यत् प्रळयकाले व्येति व्ययं भजते आकिञ्चन्यं भजमानो निमिषति । किञ्च - यस्मिन् देवा अधिनिषेदुर् विश्वेऽपि देवा देवनवन्तः विचित्रभावा निषेदुर् निषीदन्ति । अधिर् ऐश्वर्ये वर्तते । एवं वर्तमानस्य तादात्म्यमुक्तम् । अथ तदेव भूतम् उत्पन्नं तदेव भव्यं भविष्यद् आः आसीत् । अस्तेश्छान्दसे लङि इडभावः ।
यस्मिन् इदं सर्वं तत्र अक्षरे अविनाशे परमे व्योनि वर्तते तादात्म्येन तिष्ठति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
येना॑वृ॒तङ् खञ् च॒ दिवं॑ म॒हीञ् च॒
येना॑दि॒त्यस् तप॑ति॒ तेज॑सा॒ भ्राज॑सा च ।
यम् अ॒न्तस् स॑मु॒द्रे क॒वयो॒ वय॑न्ति॒
यद् अ॒क्षरे॑ पर॒मे प्र॒जाः ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
येना॑वृ॒तङ् खञ् च॒ दिवं॑ म॒हीञ् च॒
येना॑दि॒त्यस् तप॑ति॒ तेज॑सा॒ भ्राज॑सा च ।
यम् अ॒न्तस् स॑मु॒द्रे क॒वयो॒ वय॑न्ति॒
यद् अ॒क्षरे॑ पर॒मे प्र॒जाः ॥
भट्टभास्कर-टीका
3येनेत्यादि ॥ येन कारणेन खं च द्योश्च मही च त्रैलोक्यम् आवृतं मृदा घटादिकमिव स्वात्मनाऽऽच्छादितम् । विभक्तिव्यत्ययः । येन आत्मवस्तुना कारणेन सूर्यस्तपति यदनुग्रहण येन वा इद्धस् तपति तेजसा औष्ण्येन भ्राजसा दीप्त्या च । यद्वा - येन आवृतं त्रैलोक्यं सूर्यस्तपति येन अनुगृहीतः येन तेजोनिधिनाऽनुगृहीतः सूर्यस्तपति तेजसा भ्राजसा चोपलक्षितः । समुद्रे यस्मादिन्द्रियाणि बहिः प्रसरन्ति स समुद्रः शरीरं तस्मिन् अन्तः मध्ये यं कवयो मेधाविनो वयन्ति सन्तन्वन्ति ध्यानतन्तुना बध्नन्ति तस्मिन्नक्षरे परमे व्योनि सर्वाः प्रजाः स्थिताः ॥
विश्वास-प्रस्तुतिः ...{Loading}...
यतः॑ प्रसू॒ता ज॒गतः॑ प्रसूती॒
तोये॑न जी॒वान् व्यस॑सर्ज॒ भूम्या॑म् ।
यद् ओष॑धीभिः पु॒रुषा॑न् प॒शूँश्च॒
विवे॑श भू॒तानि॑ चराच॒राणि॑ ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
यतः॑ प्रसू॒ता ज॒गतः॑ प्रसूती॒
तोये॑न जी॒वान् व्यस॑सर्ज॒ भूम्या॑म् ।
यद् ओष॑धीभिः पु॒रुषा॑न् प॒शूँश्च॒
विवे॑श भू॒तानि॑ चराच॒राणि॑ ॥
भट्टभास्कर-टीका
4यतः यस्मात् कारणाज् जगतः प्रसूती त्रिगुणात्मिका प्रकृतिः प्रसूता उत्पन्ना । छान्दसं दीर्घत्वम् । किञ्च - यद्वस्तु तोयेन उपलक्षितत्वात् तोयादिभूतैः पञ्चभिर् जीवान् व्यससर्ज विसृजत्य् उत्पादयति । अकारोपजनश्छान्दसः । लिटि वा अडागमः । भूम्यां तत्तद्भूमिकासु । यद्वा - एकमिदं वाक्यम् । यस्मात् प्रसूता जगतः प्रसूतिस् तोयादिभिस्सह शुक्लेन वा सहकारिणा जीवानुत्पादयति । किञ्च - यद्वस्तु भूतानि विकारद्रव्याणि चराचराणि जङ्गमानि स्थावराणि च पुरुषान् पशूंश्च प्रदर्शनार्थत्वाद् एवम्प्रकारांश्चेतनान् विवेश सृष्ट्वा प्रविवेश ओषधीभिः सहितान् प्रदर्शनार्थत्वात् सर्वाण्यचेतनानि ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अतः॑ पर॒न् नान्य॒द्, अणी॑यसँ हि॒,
परा॑त् परय्ँ॒, यन् मह॑तो म॒हान्त॑म् ।
यद् ए॑कम् अ॒व्यक्त॒म् अन॑न्त-रूपव्ँ॒
विश्वं॑ पुरा॒णन् तम॑सः॒ पर॑स्तात् ॥ (1)
सर्वाष् टीकाः ...{Loading}...
मूलम्
अतः॑ पर॒न्नान्य॒दणी॑यसँ हि॒
परा॑त्परय्ँ॒ यन् मह॑तो म॒हान्त॑म् ।
यद् ए॑कम् अ॒व्यक्त॒म् अन॑न्तरूपव्ँ॒
विश्वं॑ पुरा॒णन् तम॑सः॒ पर॑स्तात् ॥ (1)
भट्टभास्कर-टीका
5अतः परमिति ॥ अत आत्मनः परं प्रकृष्टम् अणीयसम् अणुतरम् । छान्दसोऽकारः । अन्यद्वस्तु नास्ति पराभेदात् । यद्वा - अतो ऽन्यत् पृथग्भूतं वस्तु नास्ति । अतोऽन्यद् अणुतरं नास्ति । किञ्च - इदं कारणं परात्परं सर्वपरं महतो महान्तं सर्वमहत् । लिङ्गविभक्तिव्यत्ययः । यद्वा - महान् अन्त आभोगो यस्य तं महान्तं यदीदृशम् अतः परमणीयो नास्ति । किञ्च - यद् एकम् असहायमेव स्वकार्ये अव्यक्तम् अनिश्चितस्वभावम् अनन्तरूपम् अनन्तभेदशक्तिकं विश्वं विश्वात्मकं पुराणं कारणानामाद्यं तमसः प्रधानस्य अज्ञानस्य वा परस्ताद् अवस्थितम् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
तद् ए॒व र्तन्, तदु॑ स॒त्यम् आ॑हु॒स्
तद् ए॒व ब्रह्म॑ पर॒मङ् क॑वी॒नाम् ।
इ॒ष्टा॒पू॒र्तं ब॑हु॒धा जा॒तञ् जाय॑मानव्ँ
वि॒श्वं बि॑भर्ति॒ भुव॑नस्य॒ नाभिः॑ ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
तदे॒वर्तन् तदु॑ स॒त्यमा॑हु॒स्
तदे॒व ब्रह्म॑ पर॒मङ्क॑वी॒नाम् ।
इ॒ष्टा॒पू॒र्तं ब॑हु॒धा जा॒तञ् जाय॑मानव्ँ
वि॒श्वं बि॑भर्ति॒ भुव॑नस्य॒ नाभिः॑ ॥
भट्टभास्कर-टीका
6तदेवेति ॥ तदेव कारणवस्त्व् ऋतं मानसं सत्यं यज्ञं वा आहुर् उ एव तदेव सत्यं वाचिकं यज्ञदेवतां वा आहुस् तदेव कवीनां मेधाविनां यज्वनां परमं पूजितं ब्रह्म तपो ऽग्निर्वा । किञ्च - तदेव वस्त्व् इष्टं च पूर्तं च यज्ञसाध्यं फलं यज्ञद्वारेण बहुधा बहुप्रकारं जातं जायमानम् उपलक्षणत्वाज्जनिष्यमाणं च विश्वं बिभर्ति भुवनस्य भूतजातस्य नाभिर् नहनस्थानम् उपादानम् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
तद् ए॒वाग्निस् तद् वा॒युस्
तत् सूर्य॒स् तदु॑ च॒न्द्रमाः॑ ।
तद् ए॒व शु॒क्रम् अ॒मृत॒न्
तद् ब्रह्म॒ तद् आप॒स् स प्र॒जाप॑तिः ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
तदे॒वाग्निस् तद्वा॒युस्
तत्सूर्य॒स्तदु॑ च॒न्द्रमाः॑ ।
तदे॒व शु॒क्रम् अ॒मृत॒न्
तद् ब्रह्म॒ तदाप॒स् स प्र॒जाप॑तिः ॥
भट्टभास्कर-टीका
7तदेवाग्निरिति ॥ अतः पराश्चतस्रोऽनुष्टुभः । तत्र प्रथमायां ‘तद्ब्रह्म’ इति त्र्यक्षराभिक्रान्तस्तृतीयः पादः । तदेव वस्त्व् अग्निर् अग्निभूत्वा हविर्वहनादिना जगत उपकरोति । तद् एव वायुभावेन विहरणप्रेरणादिना जगद्यन्त्रं प्रवर्तयति । तद् एव सूर्यात्मकं वृष्टिप्रकाशादिकारणम् । तदेव कार्यद्वारेण सम्प्रति जगद्धारयति । तदेव चन्द्रमा भूत्वा ओषधिवनस्पत्यादिवृद्ध्या प्राणिनो जीवयति । तदेव शुक्रं रेतोभावेन परिणतं सद् अमृतम् अमृतत्वहेतुः प्रजाभावेन स जायते यथा - ‘प्रजामनु प्रजायसे । तदु ते मर्त्यामृतं’ इति । तद् एव ब्रह्म परिबृढमन्नं भूत्वा ताः प्रजा जीवयति । तद् एव आपो भूत्वा सस्यादिनिष्पत्तिद्वारेण प्राणिनः प्राणयति । तदेव प्रजापतिपदे स्थितं प्रजानां प्राकृतानां पाता उत्पादयिता भवति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वे॑ निमे॒षा ज॒ज्ञिरे॑
वि॒द्युतः॒ पुरु॑षा॒द् अधि॑ ।
क॒ला मु॑हू॒र्ताः काष्ठा॑श्
चाहोरा॒त्राश् च॑ सर्व॒शः ॥
अ॒र्द्ध॒मा॒सा मासा॑ ऋ॒तव॑स्
सव्ँवत्स॒रश् च॑ कल्पताम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
सर्वे॑ निमे॒षा ज॒ज्ञिरे॑ वि॒द्युतः॒ पुरु॑षा॒दधि॑ ।
क॒ला मु॑हू॒र्ताः काष्ठा॑श्चाहोरा॒त्राश्च॑ सर्व॒शः ॥
अ॒र्द्ध॒मा॒सा मासा॑ ऋ॒तव॑स्
सव्ँवत्स॒रश्च॑ कल्पताम् ।
भट्टभास्कर-टीका
8सर्व इति ॥ अस्मात्कारणाद् विद्युतः विद्योतमानाद् देदीप्यमानात् पुरुषात् पूरणशीलात् सर्वे निमेषादयः कालावयवा अधिजज्ञिरे अधि जायन्ते । अष्टादशनिमेषाः काष्ठाः, तास्त्रिंशत् कलाः, तास्त्रिंशन् मुहूर्ताः, ते त्रिंशद् अहोरात्राः, ते पञ्चदश अर्धमासाः, तौ द्वौ मासः, तौ द्वावृतुः, ते षट् संवत्सरः परस्मादात्मनो जातः कल्पतां स्वकार्ये समर्थो भवत्विति वेदात्मा आशास्ते । लकारव्यत्ययः । संवत्सरश्च परस्मादात्मनो जातः कल्पत इति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
स आपः॑ प्रदु॒घे उ॒भे +++(द्यावापृथिव्यौ)+++
इ॒मे, अ॒न्तरि॑क्ष॒म् अथो॒ सुवः॑ ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
स आपः॑ प्रदु॒घे उ॒भे
इ॒मे अ॒न्तरि॑क्ष॒मथो॒ सुवः॑ ॥
भट्टभास्कर-टीका
9किञ्च - स एव परमात्मा आप आपो भूत्वा प्राणिनो जीवयति । किञ्च - उभे इमे इयं च असौ च द्यावापृथिव्यौ ‘त्यदादीनां यद्यत्परं’ इतीदमश्शेषः । कीदृश्यौ प्रदुधे प्रकर्षण दोग्ध्र्यौ कामानां द्यावापृथिवीभावेन कामान् दुग्ध इत्यर्थः । स एव अन्तरिक्षभावेन अवकाशप्रदानादि कुर्वन् विश्वं बिभर्ति । किञ्च - स एव सुवः परमसुखस्थानादित्य-मण्डलभावेन विश्वं पुनाति । यद्वा - परमसुखभावेन प्राणिनः प्रीणयति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
नैन॑म् ऊ॒र्ध्वन् न ति॒र्यञ्च॒न्
न मद्ध्ये॒ परि॑जग्रभत् ।
न तस्ये॑शे॒ कश्च॒न
तस्य॑ नाम म॒हद् यशः॑ ॥ (2)
सर्वाष् टीकाः ...{Loading}...
मूलम्
नैन॑मू॒र्ध्वन् न ति॒र्यञ्च॒न्
न मद्ध्ये॒ परि॑जग्रभत् ।
न तस्ये॑शे॒ कश्च॒न
तस्य॑ नाम म॒हद्यशः॑ ॥ (2)
भट्टभास्कर-टीका
10नैनमिति ॥ एनं परमात्मानम् उर्ध्वम् उर्ध्वाधोभावेन परिच्छिन्नं न खलु कश्चित् परिजग्रभत् परिगृह्णाति परिच्छिन्नं नोपादत्ते । तिर्यञ्चं तिर्यग्विस्तारप्रमाणपरिच्छिन्नम् एनं न कश्चित् परिगृह्णाति । न मध्ये विष्कम्भगत्या परिच्छिन्नमध्यावकाशम् एनं न कश्चित् परिगृह्णाति । यद्वा - अयमस्य मध्यमः प्रदेश इति न कश्चित्तं परिगृह्णाति । लेटि शपः श्लुः । ‘लेटाऽडाटौ’ इत्यडागमः । ‘हग्रहोर्भः’ इति भत्वम् । बुद्ध्या परिग्रहणं ज्ञानमेव । तस्य परमात्मनो ऽन्यः कश्चन कश्चिदपि नेशे नेष्टे पराभेदात् स एव सर्वस्येष्टे । हेतुमाह - तस्य कारणस्य यन् नाम नमनं कार्यप्रपञ्चं प्रति प्रह्वीभवनं, यथा - ‘सं बाहुभ्यां नमति सम्पतत्रैः’ इति । तत्खलु महद्यशः महायशोहेतुस् तद्धेतुत्वात्ताच्छब्द्यम् । तत्खल्वन्येन कर्तुमशक्यम् । महाश्चर्यभूतस्य महते यशसे भवति । तस्मान् नान्यः कश्चिदस्येष्टे ॥
विश्वास-प्रस्तुतिः ...{Loading}...
न स॒न्दृशे॑ तिष्ठति॒ रूप॑म् अस्य॒
न चक्षु॑षा पश्यति॒ कश्च॒नैन॑म् ।
हृ॒दा म॑नी॒षा मन॑सा॒ ऽभिक्लृ॑प्तो॒
य ए॑नव्ँ वि॒दुर् अमृ॑ता॒स् ते भ॑वन्ति ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
न स॒न्दृशे॑ तिष्ठति॒ रूप॑मस्य॒
न चक्षु॑षा पश्यति॒ कश्च॒नैन॑म् ।
हृ॒दा म॑नी॒षा मन॑सा॒ऽभिक्लृ॑प्तो॒
य ए॑नव्ँ वि॒दुर् अमृ॑ता॒स्ते भ॑वन्ति ॥
भट्टभास्कर-टीका
11 न सन्दृशे इति त्रिष्टुप् ॥ अस्य रूपं स्वभावो न कस्य चिदपि सन्दृशे सन्दर्शनाय निरूपणाय तिष्ठति योग्यतां न प्रतिपद्यते । तथा कश्रिदप्य् एनं न चक्षुषा पश्यति प्रदर्शनार्थत्वात् सर्वेन्द्रियैर्न जानाति ज्ञातुं न शक्नोति । तर्हि प्रमाणैरवेद्यत्वाद् असत्त्वमेवास्य प्राप्तमित्यत आह - हृदा हृदयाधिष्ठानेन अविक्षिप्तेन वश्येन मनीषा मनीषावतां मननशक्तिर् मनीषा । तृतीयाया आकारः । मनन कुशलेन योगिनां मनसा अभिकॢप्तो ऽभिसम्पादितस् तेनैव वेद्यत इति यावत् ।
एनम् एवंस्वभावम् आत्मानं ये विदुर् जानन्ति ते अमृता अमरणधर्माणो भवन्ति परं प्राप्नुवन्ति ‘ब्रह्मविदाप्नोति परं’ इति दर्शनात् ॥