+०६ महा-नारायणोपनिषत्

पाठशुद्धि-विचारः (द्रष्टुं नोद्यम्)

आन्ध्रपाठोऽत्र बहुधा लक्षणाद् अपेत इति ज्ञायते - यथा विशिष्य मेधासूक्ते।

रङ्गरामानुजभाष्येण साकं भट्टभास्करभाष्यमपि दृष्ट्वा द्राविडपाठः ग्राह्यः इति मम धारणा ।… मुख्यतया गुरुमुखोच्चारणानूच्चारणपूर्वकाक्षरराशिग्रहणफलमध्ययनमिति हि श्रीभाष्यकाराः । अतः परम्परयाऽधीतवतां सन्देहः न स्यात् ।

  • इति रामानुजार्यः
भट्टभास्कर-टीका

1अथ पुरुषसंस्कारार्थस्नानाचमनादिमन्त्रा अग्निहोत्रादिश्रौतोपकारकतया अस्मिन् प्रपाठके आम्नाताः ।
एषां लिङ्गादिना विशेषविनियोगोऽन्विष्यः ।
एषां सूक्तक्रमेण विधिरिति न्यायेन कल्प्यो विधिः ।
अयं समस्तः प्रश्नो याज्ञिक्य उपनिषद उच्यन्ते,
यज्ञात्मना भगवता नारायणेन दृष्टत्वान् नारायणप्रतिपादकत्वात् ।
देवताश्च तत्सनाम्न्यः ।

01.01-02

अन्यत्र दृश्यताम्।

01.04

०१ ०४ ...{Loading}...
प्रजापतिः
भास्करोक्त-विनियोगः

14अथ देवार्य-गुणकीर्तनं द्वितीयं सूक्तमारभ्यते - एष हीत्याद्यास्त्रिष्टुभः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष हि दे॒वः प्र॒दिशो ऽनु॒ सर्वाः॒
पूर्वो॑ हि जा॒तस्स उ॒ गर्भे॑ अ॒न्तः ।
स वि॒जाय॑मानस्स जनि॒ष्यमा॑णः
प्र॒त्यङ्मुखा॑स् तिष्ठति वि॒श्वतो॑मुखः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

ए॒ष हि दे॒वः प्र॒दिशोनु॒ सर्वाः॒
पूर्वो॑ हि जा॒तस्स उ॒ गर्भे॑ अ॒न्तः ।
स वि॒जाय॑मानस्स जनि॒ष्यमा॑णः
प्र॒त्यङ्मुखा॑स्तिष्ठति वि॒श्वतो॑मुखः ॥

भट्टभास्कर-टीका

एष हि देवः विश्वाधिकः सर्वाः प्रदिशः प्रधानदिशः परमात्मा दिक्प्रदेशान् अनु लक्षीकृत्य सर्वासु दिक्ष्वनुगतो भवति सर्वत्र देवनशीलो भवति भानरूपत्वात् । न ह्यभातं किञ्चिदात्मानं लभते । तस्मात् सर्वत्रायमेव तत्तद्रूपेण भाति । किञ्च - स देवः पूर्वः प्रागेव विद्यमानः परमात्मा आदित्यरूपेण प्रादुर्भूत उ अपि तादृशो देव इदानीं गर्भे अन्तो ऽविच्छिन्नचैतन्यः सङ्कुचितचैतन्यो भूत्वा नानाजीवभावेन वर्तते । किञ्च - स एव विजायमानो ऽचेतनात्मना विरूपेण जायमानः । यद्वा - कर्मवशेन विविधशरीरपरिग्रहेण गर्भान्निर्गच्छन् भवति । स एव जनिष्यमाणः पुत्रपौत्रादिभावेन सन्तायमानो भवति । किञ्च - एष आत्मा प्रत्यक् प्रत्येकमञ्चन् मुखादुपक्रमाद् आरभ्य कार्यजातं व्याप्य तिष्ठति । छान्दसं वर्णान्यत्वम् । यद्वा - मुखादारभ्य प्रपञ्चाभिमुख्येन तिष्ठतीति । वचनव्यत्ययो वा - प्रत्यङ्मुखः प्रपञ्चाभिमुखः । आद्युदात्तत्वं मृग्यम् । कथमेकमुखस्यैवमवस्थानमित्याह - विश्वतोमुखः विश्वतो विद्यमानमुखभावः । तस्माद् बहुमुखत्वात् कृत्स्नं कार्यव्याप्तिः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒श्वत॑श्-चक्षुर् उ॒त वि॒श्वतो॑-मुखो
वि॒श्वतो॑-हस्त उ॒त वि॒श्वत॑स्-पात् ।
सं बा॒हुभ्या॒न् नम॑ति॒ सं पत॑त्रै॒र्
द्यावा॑पृथि॒वी ज॒नय॑न् दे॒व एकः॑ ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

वि॒श्वत॑श् चक्षुरु॒त वि॒श्वतो॑मुखो
वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् ।
सं बा॒हुभ्या॒न् नम॑ति॒ सं पत॑त्रै॒र्
द्यावा॑पृथि॒वी ज॒नय॑न् दे॒व एकः॑ ॥

भट्टभास्कर-टीका

15विश्वतश्चक्षुरिति ॥ व्याख्याता ‘य इमा विश्वा’ इत्यत्र । एको देवो रुद्र इत्युक्तम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

वे॒नस् तत् पश्य॒न् विश्वा॒ भुव॑नानि
वि॒द्वान् यत्र॒ विश्वं॒ भव॒त्य् एक॑-नीळम् ।
यस्मि॑न्नि् इ॒दँ सञ्च॒ विचैकँ॒ स
ओतः॒ प्रोत॑श्च वि॒भुः प्र॒जासु॑ ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

वे॒नस् तत् पश्य॒न्विश्वा॒ भुव॑नानि
वि॒द्वान् यत्र॒ विश्वं॒ भव॒त्येक॑नीळम् ।
यस्मि॑न्नि॒दँ सञ्च॒ विचैकँ॒ स
ओतः॒ प्रोत॑श्च वि॒भुः प्र॒जासु॑ ॥

भट्टभास्कर-टीका

16वेन इति ॥ वेनतिः कान्तिकर्मा । प्रपञ्चाविर्भावं कामयमानो देवस् तत् परं व्योम परव्योमावस्थानम् आत्मानं पश्यन् आविर्भावयन् यथा - ‘तदैक्षत बहु स्यां’ इति ‘सोऽकामयत । बहु स्यां’ इति । विश्वा विश्वानि भुवनानि विश्वं भुवनात्मकं विद्वान् सर्वार्थज्ञः विश्वभुवनयाथात्म्यज्ञस् तदुपादानयोग्यं प्रथमं बभूव । पुनश्च तद्विशिनष्टि - यत्र कारणद्रव्ये इदं विश्वं जगत एकनीळम् एकवासं सहावस्थितं भवति । उभयो रेकत्वं स्मरन्ति । किञ्च - यस्मिन् कारणे इदं विश्वम् एकं भूत्वा समेति व्येति च एकमिव द्रव्यं समुत्पद्यते विलीयते च तादृशं तत् परमकारणं पश्यन् स देवः विभुर् व्यापकः प्रजासु विकारेषु सर्वेष्व् ओतः प्रोतश्च वर्तते । ओतः कारणत्वेन सर्वत्र कार्ये सन्ततः । प्रोतो ऽधिष्ठानत्वेन भोक्तृत्वपर्यायेण तस्मिन्नपि कारणे सन्ततः । यद्वा - कारणव्याप्तिर् वानं, तद्व्याप्तव्याप्तिः प्रवाणम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

प्र तद् वो॑चे अ॒मृत॒न् नु वि॒द्वान्
ग॑न्ध॒र्वो नाम॒ निहि॑त॒ङ् गुहा॑सु । (3)
त्रीणि॑ प॒दा निहि॑ता॒ गुहा॑सु॒
यस् तद् वेद॑ सवि॒तुः पि॒ता ऽस॑त्

सर्वाष् टीकाः ...{Loading}...
मूलम्

प्र तद्वो॑चे अ॒मृत॒न् नु वि॒द्वान्
ग॑न्ध॒र्वो नाम॒ निहि॑त॒ङ्गुहा॑सु । (3)
त्रीणि॑ प॒दा निहि॑ता॒ गुहा॑सु॒
यस्तद्वेद॑ सवि॒तुः पि॒ताऽस॑त् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॒ बन्धु॑र्, जनि॒तावि॑धा॒ता
धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ ।
यत्र॑ दे॒वा अ॒मृत॑म् आनशा॒नास्
तृ॒तीये॒ धामा॑न्य् अ॒भ्यैर॑यन्त

सर्वाष् टीकाः ...{Loading}...
मूलम्

स नो॒ बन्धु॑र् जनि॒ता स वि॑धा॒ता
धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ ।
यत्र॑ दे॒वा अ॒मृत॑म् आनशा॒नास्
तृ॒तीये॒ धामा॑न्य् अ॒भ्यैर॑यन्त ॥

विश्वास-प्रस्तुतिः ...{Loading}...

परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः
परि॑ लो॒कान्, परि॒ दिशः॒, परि॒ सुवः॑ ।
ऋ॒तस्य॒ तन्तुव्ँ॑ विततव्ँ वि॒चृत्य॒
तद् अ॑पश्य॒त् तद् अ॑भवत् प्र॒जासु॑ ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः
परि॑ लो॒कान् परि॒ दिशः॒ परि॒ सुवः॑ ।
ऋ॒तस्य॒ तन्तुव्ँ॑ विततव्ँ वि॒चृत्य॒
तद् अ॑पश्य॒त् तद् अ॑भवत् प्र॒जासु॑ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

प॒रीत्य॑ लो॒कान् प॒रीत्य॑ भू॒तानि॑
प॒रीत्य॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च ।
प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्या॒त्मना॒ऽऽत्मान॑म् अ॒भिसं॑बभूव

सर्वाष् टीकाः ...{Loading}...
मूलम्

प॒रीत्य॑ लो॒कान् प॒रीत्य॑ भू॒तानि॑
प॒रीत्य॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च ।
प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्या॒त्मना॒ऽऽत्मान॑म् अ॒भिसं॑बभूव ॥

सदसस्पतिः
०६ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य ...{Loading}...

स᳓दसस्प᳓तिम् अ᳓द्भुतं
प्रिय᳓म् इ᳓न्द्रस्य का᳓म्यम् ।
सनिं᳓ +++(=दानरूपम्)+++ मेधा᳓म् अयासिषम् ६

006 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - सदसस्पतिः
  • ऋषिः - मेधातिथिः काण्वः
  • छन्दः - गायत्री
Thomson & Solcum

स᳓दसस् प᳓तिम् अ᳓द्भुतम्
प्रिय᳓म् इ᳓न्द्रस्य का᳓मियम्
सनि᳓म् मेधा᳓म् अयासिषम्

Vedaweb annotation

Strata
Normal


Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).


Morph
ádbhutam ← ádbhuta- (nominal stem)
{case:ACC, gender:M, number:SG}

pátim ← páti- (nominal stem)
{case:ACC, gender:M, number:SG}

sádasaḥ ← sádas- (nominal stem)
{case:GEN, gender:N, number:SG}

índrasya ← índra- (nominal stem)
{case:GEN, gender:M, number:SG}

kā́myam ← kā́mya- (nominal stem)
{case:ACC, gender:M, number:SG}

priyám ← priyá- (nominal stem)
{case:ACC, gender:M, number:SG}

ayāsiṣam ← √yā- 2 (root)
{number:SG, person:1, mood:IND, tense:AOR, voice:ACT}

medhā́m ← medhā́- (nominal stem)
{case:ACC, gender:F, number:SG}

saním ← saní- (nominal stem)
{case:ACC, gender:M, number:SG}

पद-पाठः

सद॑सः । पति॑म् । अद्भु॑तम् । प्रि॒यम् । इन्द्र॑स्य । काम्य॑म् ।
स॒निम् । मे॒धाम् । अ॒या॒सि॒ष॒म् ॥

Hellwig Grammar
  • sadasassadas
  • [noun], genitive, singular, neuter
  • “mansion; assembly; seat; seat.”

  • patimpati
  • [noun], accusative, singular, masculine
  • “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”

  • adbhutamadbhuta
  • [noun], accusative, singular, masculine
  • “extraordinary; amazing; supernatural.”

  • priyampriya
  • [noun], accusative, singular, masculine
  • “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”

  • indrasyaindra
  • [noun], genitive, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • kāmyamkāmya
  • [noun], accusative, singular, masculine
  • “desirable; optional; beautiful.”

  • sanimsani
  • [noun], accusative, singular, masculine
  • “gain.”

  • medhāmmedhā
  • [noun], accusative, singular, feminine
  • “intelligence; medhā [word]; Medhā.”

  • ayāsiṣam
  • [verb], singular, Athematic s aor. (Ind.)
  • “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”

सायण-भाष्यम्

मेधां लब्धुं सदसस्पतिम् एतन्नामकं देवम् अयासिषं प्राप्तवानस्मि । कीदृशम् । अद्भुतम् आश्चर्यकरं इन्द्रस्य प्रियं सोमपाने सहचारित्वात् ‘काम्यं कमनीयं सनिं धनस्य दातारम् ॥ सदसः । षद्लृ विशरणादौ । सर्वधातुभ्योऽसुन्’ । नित्त्वादाद्युदात्तः। पतिम् । पातेर्डतिः (उ. सू. ४. ४९७ )। टिलोपः । प्रत्ययस्वरः । प्रियम् । ‘इगुपधज्ञाप्रीकिरः कः’। इयङादेशः । प्रत्ययस्वरः । काम्यम्। कामयतेः ‘अचो यत्’। ‘ णेरनिटि ’ इति णिलोपः । ‘ यतोऽनावः’ इत्याद्युदात्तत्वम् । सनिम् । ‘ षणु दाने ‘। ‘ धात्वादेः षः सः’। ‘ अच इः ’ ( उ. सू. ४. ५७८ ) इत्यनुवृत्तौ खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च ’ ( उ. सू. ४. ५७९ ) इति इप्रत्ययः । प्रत्ययस्वरः । अयासिषम् । ‘ या प्रापणे । लुङ् । मिपोऽमादेशः । ‘ यमरमनमातां सक् च ’ ( पा. सू. ७. २. ७३ ) इति सिच इडागमः; धातोः सगागमः । निघातः ॥

Wilson

English translation:

“I solicit understanding from Sadasaspati (= Agni, protector of the assembly), the wonderful, the friend of Indra, the desirable, the bountiful.”

Jamison Brereton

The Lord of the Seat, infallible, dear and desirable to Indra,
I have besought for wisdom as our gain.

Jamison Brereton Notes

ayāsiṣam: I take this form to the root √yā ‘beseech, implore’, not to √yā ‘drive, go’, which does, admittedly, have a well-attested -siṣ-aorist. So also Witzel Gotō, though other translators (including Schmidt, Bṛhaspati und Indra) render as a verb of motion (Geldner “habe ich … angegangen”). That interpretation isn’t impossible, but ‘beseech’ fits the context better.

Griffith

To the Assembly’s wondrous Lord, to Indra’s lovely Friend who gives
Wisdom, have I drawn near in prayer.

Geldner

Den unsichtbaren Schutzgeist des Hauses, den geliebten Freund Indra´s, habe ich um Verdienst und Eingebung angegangen,

Grassmann

Den wunderbaren Wohnungsherrn, des Indra wünschenswerthen Freund, Hab’ ich um Weisheit angefleht.

Elizarenkova

К Господину сиденья удивительному,
К милому (другу) Индры, достойному любви,
Я обратился ради достижения мудрости.

अधिमन्त्रम् (VC)
  • सदसस्पतिः
  • मेधातिथिः काण्वः
  • पिपीलिकामध्यानिचृद्गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

अगले मन्त्र में इन्द्र शब्द से परमेश्वर के गुणों का उपदेश किया है-

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - मैं (इन्द्रस्य) जो सब प्राणियों को ऐश्वर्य्य देने (काम्यम्) उत्तम (सनिम्) पाप-पुण्य कर्मों के यथायोग्य फल देने और (प्रियम्) प्राणियों को प्रसन्न करानेवाले (अद्भुतम्) आश्चर्य्यमय गुण और स्वभाव स्वरूप (सदसस्पतिम्) और जिसमें विद्वान् धार्मिक न्याय करनेवाले स्थित हों, उस सभा के स्वामी परमेश्वर की उपासना और सब उत्तम गुण स्वभाव परोपकारी सभापति को प्राप्त होके (मेधाम्) उत्तम ज्ञान को धारण करनेवाली बुद्धि को (अयासिषम्) प्राप्त होऊँ॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो मनुष्य सर्वशक्तिमान् सबके अधिष्ठाता और सब आनन्द के देनेवाले परमेश्वर की उपासना करते और उत्कृष्ट न्यायाधीश को प्राप्त होते हैं, वे ही सब शास्त्रों के बोध से प्रसिद्ध क्रियाओं से युक्त बुद्धियों को प्राप्त और पुरुषार्थी होकर विद्वान् होते हैं॥६॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: अहमिन्द्रस्य काम्यं सनिं प्रियमद्भुतं सदसस्पतिं परमेश्वरमुपास्य सभाध्यक्षं प्राप्य मेधामयासिषं बुद्धिं प्राप्नुयाम्॥६॥

दयानन्द-सरस्वती (हि) - विषयः

अथेन्द्रशब्देन परमेश्वरगुणा उपदिश्यन्ते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (सदसः) सीदन्ति विद्वांसो धार्मिका न्यायाधीशा यस्मिँस्तत्सदः सभा तस्य। अत्राधिकरणेऽसुन्। (पतिम्) स्वामिनम् (अद्भुतम्) आश्चर्य्यगुणस्वभावस्वरूपम्। अदि भुवो डुतच्। (उणा०५.१) अनेन ‘भू’धातोरद्युपपदे डुतच् प्रत्ययः। (प्रियम्) प्रीणाति सर्वान् प्राणिनस्तम् (इन्द्रस्य) जीवस्य (काम्यम्) कमनीयम् (सनिम्) पापपुण्यानां विभागेन फलप्रदातारम्। खनिकष्यज्यसि० (उणा०४.१४०) अनेन ‘सन’धातोरिः प्रत्ययः (मेधाम्) धारणावतीं बुद्धिम् (अयासिषम्) प्राप्नुयाम्॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ये मनुष्याः सर्वशक्तिमन्तं सर्वाधिष्ठातारं सर्वानन्दप्रदं परमेश्वरसुपासते, ये च सर्वोत्कृष्टगुणस्वभावपरोपकारिणं सभापतिं प्राप्नुवन्ति त एव सर्वशास्त्रबोधक्रियायुक्तां धियं प्राप्य पुरुषार्थिनो विद्वांसश्च भूत्वा सुखिनो भवन्तीति॥६॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जी माणसे सर्वशक्तिमान, सर्वांचा अधिष्ठाता व संपूर्ण आनंददाता अशा परमेश्वराची उपासना करतात, त्यांना उत्कृष्ट, गुणवान, परोपकारी, न्यायाधीश सभाधीश प्राप्त होतो. तीच सर्व शास्त्रांचा बोध घेऊन क्रियायुक्त बुद्धीने पुरुषार्थी होऊन विद्वान बनतात आणि सुखी होतात. ॥ ६ ॥

(4)
अग्निः
विश्वास-प्रस्तुतिः ...{Loading}...

उद्दी॑प्यस्व जातवेदो
ऽप॒घ्नन् निर्ऋ॑तिं॒ मम॑ ।
प॒शूँश्च॒ मह्य॒म् आव॑ह॒
जीव॑नञ् च॒ दिशो॑ दिश ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

उद्दी॑प्यस्व जातवेदो
ऽप॒घ्नन्निर्ऋ॑तिं॒ मम॑ ।
प॒शूँश्च॒ मह्य॒म् आव॑ह॒
जीव॑नञ् च॒ दिशो॑ दिश ॥

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो॑ हिँसीज् जातवेदो॒
गाम् अश्वं॒ पुरु॑ष॒ञ् जग॑त् । अबि॑भ्र॒द्, अग्न॒ आग॑हि
श्रि॒या मा॒ परि॑पातय

सर्वाष् टीकाः ...{Loading}...
मूलम्

मा नो॑ हिँसीज् जातवेदो॒
गामश्वं॒ पुरु॑ष॒ञ् जग॑त् । अबि॑भ्र॒द् अग्न॒ आग॑हि
श्रि॒या मा॒ परि॑पातय ॥

01.05

01.06

01.07

०१ ०७ मृत्तिके ...{Loading}...
विश्वास-प्रस्तुतिः ...{Loading}...

मृ॒त्तिके॑ हन॑ मे पा॒पय्ँ॒
य॒न् म॒या दु॑ष्-कृत॒ङ् कृतम्
त्वया॑ ह॒तेन॑ पापे॒न॒
जी॒वा॒मि श॑रद॒श्शतम् ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

मृ॒त्तिके॑ हन॑ मे पा॒पय्ँ॒
य॒न् म॒या दु॑ष्कृत॒ङ् कृतम् ।
त्वया॑ ह॒तेन॑ पापे॒न॒
जी॒वा॒मि श॑रद॒श्शतम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

मृ॒त्तिके॑ देहि॑ मे पु॒ष्टि॒न्
त्व॒यि स॑र्वं प्र॒तिष्ठि॑तम् ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

मृ॒त्तिके॑ देहि॑ मे पु॒ष्टि॒न्
त्व॒यि स॑र्वं प्र॒तिष्ठि॑तम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

ग॒न्ध॒द्वा॒रान् दु॑राध॒र्षान्
नि॒त्य-पु॑ष्टाङ् करी॒षिणी॑म् ।
ई॒श्वरीँ॑ सर्व॑-भूता॒ना॒न्
त्वाम् इ॒होप॑ह्वये॒ श्रियम् ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

ग॒न्ध॒द्वा॒रान् दु॑राध॒र्षान्
नि॒त्यपु॑ष्टाङ्करी॒षिणी॑म् ।
ई॒श्वरीँ॑ सर्व॑भूता॒ना॒न्
त्वामि॒होप॑ह्वये॒ श्रियम् ॥

०१ ०७ हिरण्य-शृङ्गम् ...{Loading}...
विश्वास-प्रस्तुतिः

हिर॑ण्यशृङ्गव्ँ॒ वरु॑णं॒ प्रप॑द्ये
ती॒र्थं मे देहि॒ याचि॑तः ।

य॒न् मया॑ भु॒क्तम् अ॒साधू॑नां
पा॒पेभ्य॑श् च प्र॒तिग्र॑हः ।
यन् मे॒ मन॑सा वा॒चा॒
क॒र्म॒णा वा दु॑ष्कृत॒ङ् कृतम्

तन् न॒ इन्द्रो॒ वरु॑णो॒ बृह॒स्पति॑स्
सवि॒ता च॑ पुनन्तु॒ पुनः॑ पुनः । (7)

मूलम्

हिर॑ण्यशृङ्गव्ँ॒ वरु॑णं॒ प्रप॑द्ये
ती॒र्थं मे देहि॒ याचि॑तः ।
य॒न्मया॑ भु॒क्तम॒साधू॑नां
पा॒पेभ्य॑श्च प्र॒तिग्र॑हः ।
यन्मे॒ मन॑सा वा॒चा॒
क॒र्म॒णा वा दु॑ष्कृत॒ङ्कृतम् ।
तन्न॒ इन्द्रो॒ वरु॑णो॒ बृह॒स्पति॑स्
सवि॒ता च॑ पुनन्तु॒ पुनः॑ पुनः । (7)

01.08

०१ ०८ सुमित्रा ...{Loading}...
sumitrA ...{Loading}...
गोपालदेशिकोक्त-विनियोगः

इत्यात्मानमभिषिच्य,

विश्वास-प्रस्तुतिः - यजुः

सु॒मि॒त्रा न॒ आप॒ ओष॑धयस् सन्तु,

मूलम्

सु॒मि॒त्रा न॒ आप॒ ओष॑धयस् सन्तु,


गोपालदेशिकोक्त-विनियोगः

इति जलं हस्ताभ्यां तीरे त्रिर्निक्षिप्य,

विश्वास-प्रस्तुतिः - यजुः

दुर्मि॒त्रास् तस्मै॑ भूयासु॒र्
यो॑ऽस्मान् द्वेष्टि॒ यञ् च॑ व॒यन् द्वि॒ष्मः ।

मूलम्

दुर्मि॒त्रास् तस्मै॑ भूयासु॒र्
यो॑ऽस्मान् द्वेष्टि॒ यञ् च॑ व॒यन् द्वि॒ष्मः ।


गोपालदेशिकोक्त-विनियोगः

इति तीर्थाधिदैवतं श्रियः पतिं प्रणम्य,

विश्वास-प्रस्तुतिः - यजुः

नमो॒ऽग्नये॑ऽप्सु॒मते॒,
नम॒ इन्द्रा॑य॒,
नमो॒ वरु॑णाय॒,
नमो वारुण्यै॑,
नमो॒ऽद्भ्यः ।

मूलम्

नमो॒ऽग्नये॑ऽप्सु॒मते॒, नम॒ इन्द्रा॑य॒, नमो॒ वरु॑णाय॒, नमो वारुण्यै॑, नमो॒ऽद्भ्यः ।


गोपालदेशिकोक्त-विनियोगः

इति जलस्थामेध्यांशं दक्षिणतो निरस्य,

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अ॒पाङ् क्रू॒रय्ँ,
यद् अ॑मे॒द्ध्यय्ँ
यद् अ॑शा॒न्तन्,
तद् अप॑गच्छतात्

सर्वाष् टीकाः ...{Loading}...
मूलम्

यद॒पाङ् क्रू॒रय्ँ यद् अ॑मे॒द्ध्यय्ँ यद् अ॑शा॒न्तन् तद् अप॑गच्छतात् ।


गोपालदेशिकोक्त-विनियोगः

इत्यृग्भ्यां तोयं त्रिर् आलोड्य,
हस्तायाम-प्रमाणं चतुर्-अश्रं
तीर्थे पीठम् ओम् इति विलिख्य,

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒त्या॒श॒नाद् अ॑तीपा॒ना॒द्
य॒च् च उ॒ग्रात् प्र॑ति॒ग्रहा॑त् ।
तन् मे॒ वरु॑णो रा॒जा॒
पा॒णिना॑ ह्य् अव॒मर्श॑तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒त्या॒श॒नाद् अ॑तीपा॒ना॒द् य॒च् च उ॒ग्रात् प्र॑ति॒ग्रहा॑त् ।
तन्मे॒ वरु॑णो रा॒जा॒ पा॒णिना॑ ह्यव॒मर्श॑तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

सो॑ऽहम् अ॑पा॒पो वि॒रजो॒
निर्मु॒क्तो मु॑क्त-कि॒ल्बिषः ।
नाक॑स्य पृ॒ष्ठम् आरु॑ह्य॒
गच्छे॒द् ब्रह्म॑-सलो॒कताम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

सो॑ऽहम् अ॑पा॒पो वि॒रजो॒ निर्मु॒क्तो मु॑क्त-कि॒ल्बिषः ।
नाक॑स्य पृ॒ष्ठम् आरु॑ह्य॒ गच्छे॒द् ब्रह्म॑-सलो॒कताम् ।


गोपालदेशिकोक्त-विनियोगः

इति पुण्यतीर्थानि संस्मृत्य

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मं मे॑ गङ्गे यमुने सरस्वति॒
शुतु॑द्रि॒ स्तोमँ॑ सचता॒ परु॒ष्णिया ।
अ॒सि॒क्नि॒या म॑रुद्-वृधे वि॒तस्त॒या
ऽऽर्जी॑कीये श्रुणु॒ह्या सु॒षोम॑या ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

इ॒मं मे॑ गङ्गे यमुने सरस्वति॒
शुतु॑द्रि॒ स्तोमँ॑ सचता॒ परु॒ष्णिया ।
अ॒सि॒क्नि॒या म॑रुद्-वृधे वि॒तस्त॒या
ऽऽर्जी॑कीये श्रुणु॒ह्या सु॒षोम॑या ।

01.09

१९० ...{Loading}...

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ऋतम्’ इति तृचमेकोनचत्वारिंशं सूक्तं मधुच्छन्दसः पुत्रस्याघमर्षणस्यार्षमानुष्टुभम् । रात्र्यादीनां भावानां सृष्ट्यादिप्रतिपादकत्वात्तादृग्रूप एवार्थो देवता । तथा चानुक्रान्तम्—-ऋतं माधुच्छन्दसोऽघमर्षणो भाववृत्तमानुष्टुभं तु’ इति । लिङ्गाद्विनियोगोऽवगन्तव्यः ॥

Jamison Brereton

190 (1016)
Bhāvavr̥ttam (“Cosmogonic”)
Aghamarṣaṇa Mādhuchandasa
3 verses: anuṣṭubh
This hymn presents a cosmogony with tápas “ascetic heat, fervor” as the ultimate origin of everything. The entities created and the order and source of their cre ation are curious and thought-provoking, but unlike the famous cosmogonic hymn X.129, there are no puzzles to decode.

01 ऋतं च - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋतं᳓ च सत्यं᳓ चाभी᳙द्धात्
त᳓पसो᳓ ऽध्यजायत ।
त᳓तो रा᳓त्रिर् +++(रात्र्य् इति शाकले)+++ अजायत
त᳓तः समुद्रो᳓ अर्णवः᳓+++(←अर्णः = जलम्)+++ ॥

02 समुद्रादर्णवादधि संवत्सरो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

समुद्रा᳓द् अर्णवा᳓द्+++(←अर्णः = जलम्)+++ अ᳓धि
संवत्सरो᳓ अजायत ।
अहो-रात्रा᳓णि विद᳓धद्
वि᳓श्वस्य +++(नेत्राभ्यां)+++ मिषतो᳓ +++(प्राणिजातस्य)+++ वशी᳓ +++(प्रजापतिर् demiurge)+++॥

03 सूर्याचन्द्रमसौ धाता - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्या-चन्द्रम᳓सौ धाता᳓
यथा-पूर्व᳓म् अकल्पयत् ।
दि᳓वं च पृथिवीं᳓ चान्त᳓रिक्षम् अ᳓थो स्वः᳙+++(=लोक-विशेषम्)+++ ॥

०१ ०९ यत् पृथिव्याम् ...{Loading}...
गोपालदेशिकोक्त-विनियोगः

इत्य् अञ्जलिना जलं गृहीत्वा,
शिरस्य् अभिषिच्य,

विश्वास-प्रस्तुतिः - यजुः

यत् पृ॑थि॒व्याँ रज॑स्व॒म्
आन्तरि॑क्षे वि॒रोद॑सी । इ॒माँस् तद् आ॒पो व॑रुणः
पु॒नात्व् अ॑घमर्ष॒णः ।
ए॒ष भू॒तस्य॑ भ॒व्ये भुव॑नस्य गो॒प्ता ।
ए॒ष पु॒ण्यकृ॑ताल्ँ लो॒का॒न्, ए॒ष मृ॒त्योर् हि॑र॒ण्मय॑म् ।
द्यावा॑-पृथि॒व्योर् हि॑र॒ण्मयँ॒ सँश्रि॑तँ॒ सुवः॑ । (9) स न॒स् सुव॒स् सँशि॑शाधि ।

मूलम्

यत् पृ॑थि॒व्याँ रज॑स्व॒मान्तरि॑क्षे वि॒रोद॑सी । इ॒माँस् तद् आ॒पो व॑रुणः पु॒नात्व् अ॑घमर्ष॒णः ।
ए॒ष भू॒तस्य॑ भ॒व्ये भुव॑नस्य गो॒प्ता ।
ए॒ष पु॒ण्यकृ॑ताल्ँ लो॒का॒न्, ए॒ष मृ॒त्योर् हि॑र॒ण्मय॑म् ।
द्यावा॑-पृथि॒व्योर् हि॑र॒ण्मयँ॒ सँश्रि॑तँ॒ सुवः॑ । (9) स न॒स् सुव॒स् सँशि॑शाधि ।

01.10

०१ १० आर्द्रं ज्वलति ...{Loading}...

गोपालदेशिकोक्त-विनियोगः

इति चुलुकेन जलं पीत्वा,

विश्वास-प्रस्तुतिः ...{Loading}...

आर्द्र॒ञ् ज्वल॑ति॒ ज्योति॑र् अ॒हम् अ॑स्मि
ज्योति॒र् ज्वल॑ति॒ ब्रह्मा॒ ऽहम् अ॑स्मि ।
यो॑ऽहम् अ॑स्मि॒ ब्रह्मा॒ ऽहम् अ॑स्मि ।
अ॒हम् ए॒वा ऽहं माञ् जु॑होमि॒ स्वाहा॑ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

आर्द्र॒ञ् ज्वल॑ति॒ ज्योति॑र् अ॒हम् अ॑स्मि ।
ज्योति॒र् ज्वल॑ति॒ ब्रह्मा॒ ऽहम् अ॑स्मि ।
यो॑ऽहम् अ॑स्मि॒ ब्रह्मा॒ ऽहम् अ॑स्मि ।
अ॒हम् ए॒वा ऽहं माञ् जु॑होमि॒ स्वाहा॑ ।


गोपालदेशिकोक्त-विनियोगः

इति द्वाभ्यां प्रोक्ष्य आचम्य,

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒-का॒र्य॒-का॒र्य्॑ अवकी॒र्णी
स्ते॒नो भ्रू॑ण॒हा गु॑रु-त॒ल्प-गः ।
वरु॑णो॒ऽपाम् अ॑घ-मर्ष॒णस्
तस्मा॑त् पा॒पात् प्रमु॑च्यते

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒का॒र्य॒-का॒र्य्॑-अवकी॒र्णी स्ते॒नो भ्रू॑ण॒हा गु॑रुत॒ल्पगः ।
वरु॑णो॒ऽपाम् अ॑घमर्ष॒णस् तस्मा॑त् पा॒पात् प्रमु॑च्यते ।

विश्वास-प्रस्तुतिः - यजुः

र॒जो भूमि॑स् त्व॒माँ रोद॑यस्व॒ प्रव॑दन्ति॒ धीराः॑ ।
पु॒नन्तु॒ ऋष॑यः, पु॒नन्तु॒ वस॑वः,
पु॒नातु॒ वरु॑णः, पु॒नात्व् अ॑घमर्ष॒णः ।

मूलम्

र॒जो भूमि॑स् त्व॒माँ रोद॑यस्व॒ प्रव॑दन्ति॒ धीराः॑ ।
पु॒नन्तु॒ ऋष॑यः। पु॒नन्तु॒ वस॑वः। पु॒नातु॒ वरु॑णः। पु॒नात्व् अ॑घमर्ष॒णः ।

४० अक्रान्त्समुद्रः प्रथमे ...{Loading}...

अ᳓क्रान्+++(=अतिक्रामति)+++ त्समुद्रः᳓+++(=सम् + उन्द क्लेदने + रा + क)+++ प्रथमे᳓ वि᳓धर्मञ् +++(=विधाराः)+++
जन᳓यन् प्रजा᳓+++(ः)+++, भु᳓वनस्य रा᳓जा +++(गोपाः इति साम्नि)+++ ।
वृ᳓षा पवि᳓त्रे अ᳓धि सा᳓नो +++(=समुच्छ्रिते)+++ अ᳓व्ये
बृह᳓त् सो᳓मो वावृधे सुवान᳓ इ᳓न्दुः +++(=अद्रिः इति साम्नि?)+++ ४०

अ꣡क्रा꣢न्त्समु꣣द्रः꣡ प्र꣢थ꣣मे꣡ वि꣢꣫धर्म꣣न्
ज꣡न꣢य꣣न्प्र꣡जा भु꣢꣯वनस्य꣣ गो꣢पाः।
वृ꣡᳓षा꣢᳓ प꣣᳓वि꣢᳓त्रे꣣᳓ अ꣢᳓धि꣣᳓ सा꣢᳓नो꣣᳓
अ꣡᳓व्ये꣢᳓ बृ꣣᳓ह꣡᳓त्सो᳓मो꣢꣯᳓ वा᳓वृ᳓धे᳓ स्वा꣣᳓नो꣡᳓ अ᳓द्रिः꣢꣯᳓ ॥1 ॥

040 ...{Loading}...

अधिमन्त्रम् - sa
  • देवता - पवमानः सोमः
  • ऋषिः - पराशरः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अ᳓क्रान् समुद्रः᳓ प्रथमे᳓ वि᳓धर्मञ्
जन᳓यन् प्रजा᳓ भु᳓वनस्य रा᳓जा
वृ᳓षा पवि᳓त्रे अ᳓धि सा᳓नो अ᳓व्ये
बृह᳓त् सो᳓मो वावृधे स्वान᳓° इ᳓न्दुः

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M
genre M
genre M


Morph
ákrān ← √krand- (root)
{number:SG, person:2, mood:IND, tense:AOR, voice:ACT}

prathamé ← prathamá- (nominal stem)
{case:LOC, gender:N, number:SG}

samudráḥ ← samudrá- (nominal stem)
{case:NOM, gender:M, number:SG}

vídharman ← vídharman- (nominal stem)
{case:LOC, gender:N, number:SG}

bhúvanasya ← bhúvana- (nominal stem)
{case:GEN, gender:N, number:SG}

janáyan ← √janⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

prajā́ḥ ← prajā́- (nominal stem)
{case:ACC, gender:F, number:PL}

rā́jā ← rā́jan- (nominal stem)
{case:NOM, gender:M, number:SG}

ádhi ← ádhi (invariable)

ávye ← ávya- (nominal stem)
{case:LOC, gender:M, number:SG}

pavítre ← pavítra- (nominal stem)
{case:LOC, gender:N, number:SG}

sā́no ← sā́nu- ~ snú- (nominal stem)
{case:LOC, gender:M, number:SG}

vŕ̥ṣā ← vŕ̥ṣan- (nominal stem)
{case:NOM, gender:M, number:SG}

br̥hát ← br̥hánt- (nominal stem)
{case:NOM, gender:N, number:SG}

índuḥ ← índu- (nominal stem)
{case:NOM, gender:M, number:SG}

sómaḥ ← sóma- (nominal stem)
{case:NOM, gender:M, number:SG}

suvānáḥ ← √su- (root)
{case:NOM, gender:M, number:SG, tense:AOR, voice:MED}

vāvr̥dhe ← √vr̥dh- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}

पद-पाठः

अक्रा॑न् । स॒मु॒द्रः । प्र॒थ॒मे । विऽध॑र्मन् । ज॒नय॑न् । प्र॒ऽजाः । भुव॑नस्य । राजा॑ ।
वृषा॑ । प॒वित्रे॑ । अधि॑ । सानौ॑ । अव्ये॑ । बृ॒हत् । सोमः॑ । व॒वृ॒धे॒ । सु॒वा॒नः । इन्दुः॑ ॥

Hellwig Grammar
  • akrānkrand
  • [verb], singular, Athematic s aor. (Ind.)
  • “roar; neigh; cry; howl; shout.”

  • samudraḥsamudra
  • [noun], nominative, singular, masculine
  • “ocean; Samudra; sea; samudra [word]; four.”

  • prathameprathama
  • [noun], locative, singular, neuter
  • “first; prathama [word]; third; young; chief(a); best; antecedent.”

  • vidharmañvidharman
  • [noun], locative, singular, neuter
  • “receptacle; enclosure.”

  • janayanjanay√jan
  • [verb noun], nominative, singular
  • “cause; give birth; produce; beget; generate; originate; create; create; make.”

  • prajāprajāḥprajā
  • [noun], accusative, plural, feminine
  • “people; offspring; being; national; man; prajā [word]; creature; child; descendants; population; race; animal.”

  • bhuvanasyabhuvana
  • [noun], genitive, singular, neuter
  • “Earth; being; world; bhuvana [word].”

  • rājārājan
  • [noun], nominative, singular, masculine
  • “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”

  • vṛṣāvṛṣan
  • [noun], nominative, singular, masculine
  • “bull; Indra; stallion; Vṛṣan; man.”

  • pavitrepavitra
  • [noun], locative, singular, neuter
  • “strainer.”

  • adhi
  • [adverb]
  • “on; from; accordingly.”

  • sānosānu
  • [noun], locative, singular, masculine
  • “tableland; ridge; peak; back; ridge; guru.”

  • avyeavya
  • [noun], locative, singular, masculine

  • bṛhat
  • [noun], accusative, singular, neuter
  • “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”

  • somosomaḥsoma
  • [noun], nominative, singular, masculine
  • “Soma; moon; soma [word]; Candra.”

  • vāvṛdhevṛdh
  • [verb], singular, Perfect indicative
  • “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”

  • suvānasuvānaḥsu
  • [verb noun], nominative, singular
  • “press out; su.”

  • induḥindu
  • [noun], nominative, singular, masculine
  • “moon; Soma; drop; anusvāra; one; Candra; silver; camphor; point; juice.”

सायण-भाष्यम्

समुद्रः यस्मादापः समुद्द्रवन्ति ससमुद्रः अपांवर्षकोराजासोमः प्रथमे विस्तृते भुवन- स्योदकस्य विधर्मन् विधारकेन्तरिक्षे प्रजा जनयन् । उत्पादयन् अक्रान् सर्वमतिक्रामति । क्रमतेर्लुङि तिपीडभावे वृद्धौ च कृतायां सिज् लोपे मकारस्य मोनोधातोरितिनकारेरूपम् । वृषा कामानां वर्षिता सुवानोभिषूयमाणः इन्दुर्दीप्तः ससोमः अधि अधिकं सानौ समु- च्छ्रिते अव्ये अविमये पवित्रे बृहत् प्रभूतं ववृधे वर्धते ॥ ४० ॥

Wilson

English translation:

“The ocean, the royal (Soma), genitive rating progeny in the outstretched (firmament, the) supporter of the water traverses the universe; the showerer (of benefits), the brilliant Soma when effused increases abundantly in the elevated woollen filter.”

Jamison Brereton

As the sea he has roared at his first expansion, begetting the creatures as king of creation.
The bull in the filter, on the sheep’s back, Soma has grown loftily, the drop being pressed.

Jamison Brereton Notes

The verb vāvṛdhe in d concatenates with vardhitā́várdhanaḥ in 39a.

Geldner’s tr. of pāda a, “Der Ocean hat gebrüllt bei seiner ersten Ausbreitung,” seems to imply (though this is not a necessary interpr. of his tr.) that the samudrá- is a different entity from Soma himself, and his cited IX.107.23 tváṃ samudrám prathamó ví dhārayaḥ “You were [/are] the first to to spread out the sea” (with both samudrá- and ví √dhṛ) certainly depicts them as separate. However, IX.86.29 tváṃ samudró asi …, távemā́ḥ páñca pradíśo vídharmaṇi “You are the sea, …; yours are these five regions in your [/their] expansion” (also with samudrá- and the -n-stem loc. vídharman/-ṇi as here) asserts the identity of Soma and the samudrá-. Since forms of √krand ‘roar’ in IX (like ákrān here) have Soma as their subject (incl. in vss. 13, 18, 28, 32, 33 in this hymn), the identification of Soma and the sea seems assured here.

40-42 ...{Loading}...
Jamison Brereton Notes

No particular unity detectable in the tṛca, though the 2nd two vss. do focus on Soma’s role in strengthening and exhilarating the gods.

Griffith

In the first vault of heaven loud roared the Ocean, King of all being, generating creatures.
Steer, in the filter, on the fleecy summit, Soma, the Drop effused, hath waxen mighty.

Geldner

Der Ozean hat gebrüllt bei seiner ersten Ausbreitung, die Geschöpfe erzeugend, der König der Welt. Der Bulle Soma ist in der Seihe auf dem Schafrücken hoch gewachsen, der ausgepreßte Saft.

Grassmann

Das Meer erbrauste in dem ersten Himmel, des Weltalls König, die Geschöpfe zeugend, Der starke Soma, der gepresste Indu wuchs hoch auf wollnem Gipfel in der Seihe.

Elizarenkova

Взревел океан при первом распространении,
Порождая потомство, (этот) царь мироздания:
Бык в цедилке на спине (сита) из овечьей шерсти,
Сома мощно возрос, (этот) выжатый сок.

अधिमन्त्रम् (VC)
  • पवमानः सोमः
  • पराशरः शाक्त्त्यः
  • भुरिक्त्रिष्टुप्
  • धैवतः
आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (समुद्रः) “सम्यग्द्रवन्ति गच्छन्ति भूतानि यस्मात् स समुद्रः परमात्मा”। उससे सब भूतों की उत्पत्ति, स्थिति और प्रलय होता है, इसलिये उसका नाम समुद्र है। वह (भुवनस्य) सम्पूर्ण लोक-लोकान्तरों का (राजा) स्वामी परमात्मा (प्रथमे) पहिला (विधर्मन्) जो नाना प्रकार के धर्म्मोंवाला अन्तरिक्ष है, उसमें (प्रजाः) प्रजाओं को (जनयन्) उत्पन्न करता हुआ (अक्रान्) सर्वोपरि होकर विराजमान है। (इन्दुः) वह प्रकाशस्वरूप परमात्मा (सुवानः) सर्वोत्पादक (सोमः) सोमगुणसम्पन्न (बृहत्) जो सबसे बड़ा है, (वृषा) सब कामनाओं का देनेवाला है, वह (अव्ये) रक्षायुक्त (पवित्रे) पवित्र ब्रह्माण्ड के (सानौ) उच्च शिखर में (अधिवावृधे) सर्वव्यापकरूप से विराजमान हो रहा है ॥४०॥

आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (समुद्रः) सम्यग्भूतद्रवणाधारः परमात्मा (भुवनस्य) लोकस्य (राजा) स्वामी (प्रथमे, विधर्मन्) नानाधर्मवति प्रथमान्तरिक्षे (प्रजाः, जनयन्) प्रजा उत्पादयन् (अक्रान्) सर्वोपरि विराजते (इन्दुः) स प्रकाशस्वरूपः (सोमः) परमात्मा (सुवानः) सर्वस्य जनयिता (बृहत्) सर्वमहान् (वृषा) कामनाप्रदः (अव्ये, सानौ) रक्षायुक्ते ब्रह्माण्डस्य उच्चशिखरे (पवित्रे) शुद्धे (अधि, वावृधे) सर्वव्यापकरूपेण विराजते॥४०॥

01.11

02

०२ भूर् अग्नये महाव्याहृतयः ...{Loading}...
सायणोक्त-विनियोगः

अथ होमार्थान् महाव्याहृतिसंज्ञकान्मन्त्रानाह।
अत्र द्रव्यविशेषस्यानुक्तत्वात्
सर्व-होम-साधारणम् आज्यम् एव द्रव्यम् इत्य् अवगन्तव्यम्।
फल-विशेषस्यानुक्तत्वात् पापक्षयोऽत्र साधारणं फलं द्रष्टव्यम्।

विश्वास-प्रस्तुतिः

भूर् अ॒ग्नये॑ पृथि॒व्यै स्वाहा॑॥
(अग्नय इदं न मम)

मूलम्

भूर् अ॒ग्नये॑ पृथि॒व्यै स्वाहा॑॥

विश्वास-प्रस्तुतिः

भुवो॑ वा॒यवे॒ ऽन्तरि॑क्षाय॒ स्वाहा॑॥
(वायव इदं न मम)

मूलम्

भुवो॑ वा॒यवे॒ ऽन्तरि॑क्षाय॒ स्वाहा॑॥

सायण-टीका

भूर्भुवः सुवरोमिति त्रीणि पदान्यव्ययानि।
तानि च व्यस्तरूपेण समस्तरूपेण च मन्त्रचतुष्टयरूपतां प्रतिपद्याग्न्यादिदेवताप्रतिपादकानि।
तथा सत्ययमर्थः संपद्यते। भूरित्यनेन मन्त्रेण प्रतिपाद्यायाग्नये तन्मन्त्रप्रतिपाद्यायै पृथिव्यै च स्वाहा सुहुतमिदं द्रव्यमस्त्विति। एवमुत्तरेष्वपि त्रिषु मन्त्रेषु योज्यम्।

विश्वास-प्रस्तुतिः

सुव॑र् आदि॒त्याय॑ दि॒वे स्वाहा॑॥
(आदित्यायेदं न मम)

मूलम्

सुव॑र् आदि॒त्याय॑ दि॒वे स्वाहा॑॥

विश्वास-प्रस्तुतिः

भूर् भुव॒स् सुव॑श् च॒न्द्रम॑से दि॒ग्भ्यस् स्वाहा॑॥
(चन्द्रमस इदं न मम)

मूलम्

भूर् भुव॒स् सुव॑श् च॒न्द्रम॑से दि॒ग्भ्यस् स्वाहा॑॥

सायणोक्त-विनियोगः

चतुर्भिर्मन्त्रैर्यथाशक्ति हुत्वाऽन्ते प्राङ्मुखो नमो देवेभ्य इति मन्त्रेणोपतिष्ठेत।
पश्चाद् दक्षिणाभिमुखः स्वधा पितृभ्य इति मन्त्रेणोपतिष्ठेत।

विश्वास-प्रस्तुतिः

नमो॑ दे॒वेभ्य॑स्, स्व॒धा पि॒तृभ्यो॒,
भूर् भुव॒स् सुव॒रोम् । (12) - । 2 ।

मूलम्

नमो॑ दे॒वेभ्य॑स्, स्व॒धा पि॒तृभ्यो॒,
भूर्भुव॒स्सुव॒रोम् । (12) - । 2 ।

सायण-टीका

स्वधाशब्दः पितृप्रियं नमस्काराद्युपचारं ब्रूते। भूर्भुवः सुवरिति लोकत्रयेऽपि पापरहितो भवामि। ओमित्ययं शब्दोऽङ्गीकारवाचित्वात्तत्र तत्रोचितार्था-ङ्गीकारं प्रतिपादयति।

नारायणाख्येनेश्वरेण मुनिना वा दृष्टत्वाद् अयं प्रपाठको नारायणीयः॥ इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्वितीयोऽनुवाकः॥ २॥

03

०३ भूर् अन्नम् ...{Loading}...
विश्वास-प्रस्तुतिः

भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा॑॥
(अग्नये पृथिव्या इदं न मम)

मूलम्

भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा॑॥

विश्वास-प्रस्तुतिः

भुवोऽन्नव्ँ॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॑॥
(वायवे अन्तरिक्षायेदं न मम)

मूलम्

भुवोऽन्नव्ँ॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॑॥

विश्वास-प्रस्तुतिः

सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा॑॥
(आदित्याय दिव इदं न मम)

मूलम्

सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा॑॥

विश्वास-प्रस्तुतिः

भूर्भुव॒स्सुव॒रन्न॑ञ्च॒न्द्रम॑से दि॒ग्भ्यस्स्वाहा॑॥
(चन्द्रमसे दिग्भ्य इदं न मम)

मूलम्

भूर्भुव॒स्सुव॒रन्न॑ञ्च॒न्द्रम॑से दि॒ग्भ्यस्स्वाहा॑॥

विश्वास-प्रस्तुतिः

नमो॑ दे॒वेभ्य॑स् स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒रन्न॒मोम् । (13) - । 3 ।

मूलम्

नमो॑ दे॒वेभ्य॑स् स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒रन्न॒मोम् । (13) - । 3 ।

04

०४ भूर् अग्नये ...{Loading}...
विश्वास-प्रस्तुतिः

भूर॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॑॥
(अग्नये महत इदं न मम)

मूलम्

भूर॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॑॥

विश्वास-प्रस्तुतिः

भुवो॑ वा॒यवे॑ चा॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा॑॥
(वायवे महत इदं न मम)

मूलम्

भुवो॑ वा॒यवे॑ चा॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा॑॥

विश्वास-प्रस्तुतिः

सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॑॥
(आदित्याय महत इदं न मम)

मूलम्

सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॑॥

विश्वास-प्रस्तुतिः

भूर्भुव॒स्सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॑॥
(चन्द्रमसे महत इदम्)

मूलम्

भूर्भुव॒स्सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॑॥

विश्वास-प्रस्तुतिः

नमो॑ दे॒वेभ्य॑स् स्व॒धा पि॒तृभ्यो॒, भूर्भुव॒स्सुव॒र्मह॒रोम् । (14) - । 4 ।

मूलम्

नमो॑ दे॒वेभ्य॑स् स्व॒धा पि॒तृभ्यो॒, भूर्भुव॒स्सुव॒र्मह॒रोम् । (14) - । 4 ।

05

०५ पाहि नो अग्ने ...{Loading}...
विश्वास-प्रस्तुतिः (स्वाभाविक-स्वरेण)

पा॒हि नो अग्न॒ एन॑से॒ स्वाहा॑ ।
पा॒हि नो वि॒श्ववे॑दसे॒ स्वाहा॑ ।
य॒ज्ञं पा॒हि विभावसो॒ स्वाहा॑ ।
सर्वं॑ पा॒हि शतक्रतो॒ स्वाहा॑ । (15)

मूलम् (आरण्यक-स्वरेण)

पाहि नो अग्न एन॑से स्वा॒हा ।
पाहि नो विश्ववेद॑से स्वा॒हा ।
यज्ञं पाहि विभाव॑सो स्वा॒हा ।
सर्वं पाहि शतक्र॑तो स्वा॒हा । (15)

06

यश्छन्द॑सामृष॒भो वि॒श्वरू॑प॒श्
छन्दो॑भ्य॒श् छन्दाँ॑स्य् आवि॒वेश॑ ।
सताँ शिक्यः पुरोवाचो॑पनि॒षद्
इन्द्रो॑ ज्ये॒ष्ठ इ॑न्द्रि॒याय॒ ऋषि॑भ्यो॒
नमो॑ दे॒वेभ्य॑स्स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒रोम् । (16)

07

नमो॒ ब्रह्म॑णे धा॒रणं॑ मे अ॒स्त्व्
अनि॑राकरणन् धा॒रयि॑ता भूयास॒ङ्
कर्ण॑योश् श्रु॒तं मा च्यो॑ढ्वं॒
ममा॒मुष्य॒ ओम् । (17)

08

ऋ॒तन् तप॑स्
स॒त्यन्तपः॑
श्रु॒तन् तप॑श्
शा॒न्तन् तपो॒
दान॒न् तपो॒
यज्ञ॒स् तपो॒
भूर्भुव॒स्सुव॒र् ब्रह्मै॒तद् उपा॑स्यै॒तत् तपः॑ । (18)

09

यथा॑ वृ॒क्षस्य॑ सं॒पुष्पि॑तस्य दू॒राद् ग॒न्धो वा॑त्य्
ए॒वं पुण्य॑स्य क॒र्मणो॑ दू॒राद् ग॒न्धो वा॑ति॒,
यथा॑ ऽसिधा॒राङ् क॒र्ते ऽव॑हिताम् अव॒क्रामे॒द्
यद् युवे॒ युवे॒ ह वा॑ वि॒ह्वदि॑ष्यामि
क॒र्तं प॑तिष्या॒मीत्य्
ए॒वम् अ॒नृता॑द् आ॒त्मान॑ञ् जु॒गुप्से॑त् । (19)

10.1

१० १ ...{Loading}...
विश्वास-प्रस्तुतिः ...{Loading}...

अ॒णोरणी॑यान्मह॒तो मही॑यान्
आ॒त्मा गुहा॑या॒न् निहि॑तोऽस्य ज॒न्तोः ।
तम् अ॑क्रतुं पश्यति वीतशो॒को
धा॒तुः प्र॒सादा॑न् महि॒मान॑म् ईशम् ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒णोरणी॑यान्मह॒तो मही॑यान्
आ॒त्मा गुहा॑या॒न् निहि॑तोऽस्य ज॒न्तोः ।
तम् अ॑क्रतुं पश्यति वीतशो॒को
धा॒तुः प्र॒सादा॑न् महि॒मान॑म् ईशम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

स॒प्त प्रा॒णाः प्र॒भव॑न्ति॒ तस्मा॑त्
स॒प्तार्चिष॑स् स॒मिध॑स् स॒प्त जि॒ह्वाः ।
स॒प्त इ॒मे लो॒का येषु॒ चर॑न्ति प्रा॒णा
गु॒हाश॑या॒न् निहि॑तास् स॒प्त-स॑प्त ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

स॒प्त प्रा॒णाः प्र॒भव॑न्ति॒ तस्मा॑त्
स॒प्तार्चिष॑स् स॒मिध॑स् स॒प्त जि॒ह्वाः ।
स॒प्त इ॒मे लो॒का येषु॒ चर॑न्ति प्रा॒णा
गु॒हाश॑या॒न् निहि॑तास् स॒प्त-स॑प्त ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अत॑स् समु॒द्रा गि॒रय॑श् च॒ सर्वे॒
ऽस्मात् स्यन्द॑न्ते॒ सिन्ध॑व॒स् सर्व॑रूपाः ।
अत॑श्च॒ विश्वा॒ ओष॑धयो॒ रसा॑श्च॒
येनै॑ष भू॒तस् ति॑ष्ठत्यन्तरा॒त्मा ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

अत॑स् समु॒द्रा गि॒रय॑श् च॒ सर्वे॒
ऽस्मात् स्यन्द॑न्ते॒ सिन्ध॑व॒स् सर्व॑रूपाः ।
अत॑श्च॒ विश्वा॒ ओष॑धयो॒ रसा॑श्च॒
येनै॑ष भू॒तस् ति॑ष्ठत्यन्तरा॒त्मा ॥

०६ ब्रह्मा देवानां ...{Loading}...

ब्रह्मा᳓ देवा᳓नां, पदवीः᳓+++(=पद्धति-कृत्)+++ कवीना᳓म्
ऋ᳓षिर्वि᳓प्राणां महिषो᳓ मृगा᳓णाम् ।
श्येनो᳓ गृ᳓ध्राणां स्व᳓धितिर् +++(=परशुः/ वज्रः)+++ व᳓नानां +++(=हिंसकानां)+++
+++(ब्रह्मा, कवयः, ऋषयः इति चारु क्रमः। महिषः, श्योनः, वना इत्यपि। वज्रो वै स्वधितिः इति श्रुतौ दृश्यते।)+++
सो᳓मः पवि᳓त्रम᳓त्येति रे᳓भन् +++(=शब्दायमानः)+++ ६

006 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - पवमानः सोमः
  • ऋषिः - दैवोदासिः प्रतर्दनः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

ब्रह्मा᳓ देवा᳓नाम् पदवीः᳓ कवीना᳓म्
ऋ᳓षिर् वि᳓प्राणाम् महिषो᳓ मृगा᳓णाम्
श्येनो᳓ गृ᳓ध्राणां स्व᳓धितिर् व᳓नानां
सो᳓मः पवि᳓त्रम् अ᳓ति एति रे᳓भन्

Vedaweb annotation

Strata
Normal


Pāda-label
genre M
genre M
genre M
genre M


Morph
brahmā́ ← brahmán- (nominal stem)
{case:NOM, gender:M, number:SG}

devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}

kavīnā́m ← kaví- (nominal stem)
{case:GEN, gender:M, number:PL}

padavī́ḥ ← padavī́- (nominal stem)
{case:NOM, gender:M, number:SG}

mahiṣáḥ ← mahiṣá- (nominal stem)
{case:NOM, gender:M, number:SG}

mr̥gā́ṇām ← mr̥gá- (nominal stem)
{case:GEN, gender:M, number:PL}

ŕ̥ṣiḥ ← ŕ̥ṣi- (nominal stem)
{case:NOM, gender:M, number:SG}

víprāṇām ← vípra- (nominal stem)
{case:GEN, gender:M, number:PL}

gŕ̥dhrāṇām ← gŕ̥dhra- (nominal stem)
{case:GEN, gender:M, number:PL}

svádhitiḥ ← svádhiti- (nominal stem)
{case:NOM, gender:F, number:SG}

śyenáḥ ← śyená- (nominal stem)
{case:NOM, gender:M, number:SG}

vánānām ← vána- (nominal stem)
{case:GEN, gender:N, number:PL}

áti ← áti (invariable)

eti ← √i- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

pavítram ← pavítra- (nominal stem)
{case:NOM, gender:N, number:SG}

rébhan ← √ribh- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

sómaḥ ← sóma- (nominal stem)
{case:NOM, gender:M, number:SG}

पद-पाठः

ब्र॒ह्मा । दे॒वाना॑म् । प॒द॒ऽवीः । क॒वी॒नाम् । ऋषिः॑ । विप्रा॑णाम् । म॒हि॒षः । मृ॒गाणा॑म् ।
श्ये॒नः । गृध्रा॑णाम् । स्वऽधि॑तिः । वना॑नाम् । सोमः॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रेभ॑न् ॥

Hellwig Grammar
  • brahmābrahman
  • [noun], nominative, singular, masculine
  • “Brahma; Brahmin; dhak; Brahman; brahman [word]; Brahman; Brahmin; Brahmapurāṇa; Vishnu; Brihaspati.”

  • devānāmdeva
  • [noun], genitive, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • padavīḥpadavī
  • [noun], nominative, singular, feminine
  • “path; padavī [word].”

  • kavīnāmkavi
  • [noun], genitive, plural, masculine
  • “poet; wise man; bard; Venus; Uśanas; kavi [word]; Kavi; prophet; guru; Brahma.”

  • ṛṣirṛṣiḥṛṣi
  • [noun], nominative, singular, masculine
  • “Ṛṣi; spiritual teacher; ascetic; Mantra.”

  • viprāṇāmvipra
  • [noun], genitive, plural, masculine
  • “Brahmin; poet; singer; priest; guru; Vipra.”

  • mahiṣomahiṣaḥmahiṣa
  • [noun], nominative, singular, masculine
  • “Old World buffalo; Mahiṣa; Mahiṣa.”

  • mṛgāṇāmmṛga
  • [noun], genitive, plural, masculine
  • “game; deer; animal; antelope; mṛga [word]; Mṛgaśiras.”

  • śyenośyenaḥśyena
  • [noun], nominative, singular, masculine
  • “hawk; bird of prey; falcon; Śyena; eagle; śyena [word]; Śyena.”

  • gṛdhrāṇāṃgṛdhrāṇāmgṛdhra
  • [noun], genitive, plural, masculine
  • “vulture.”

  • svadhitirsvadhitiḥsvadhiti
  • [noun], nominative, singular, masculine
  • “ax; knife.”

  • vanānāṃvanānāmvana
  • [noun], genitive, plural, neuter
  • “forest; wood; tree; grove; vana [word]; forest; brush.”

  • somaḥsoma
  • [noun], nominative, singular, masculine
  • “Soma; moon; soma [word]; Candra.”

  • pavitrampavitra
  • [noun], accusative, singular, neuter
  • “strainer.”

  • atyati
  • [adverb]
  • “very; excessively; beyond; excessively.”

  • etii
  • [verb], singular, Present indikative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”

  • rebhanribh
  • [verb noun], nominative, singular
  • “moo; murmur; praise.”

सायण-भाष्यम्

सोम एवं-रूपो भवति।

देवानां स्तोत्रकारिणाम् ऋत्विजां ब्रह्मा ब्रह्माख्यर्त्विक् स्थानी यो भवति,
यद् वा देवानां द्योतमानानाम् इन्द्रादीनां ब्रह्मा राजाभवति ।

तथा कवीनां क्रान्तप्रज्ञानां पदवीः स्खलन्ति पदानि साधुत्वेन यो योजयति सपदवीः । वीगत्यादिष्व् इत्येतस्मात् क्विपि रूपम् ।

तथा विप्राणां मेधाविनाम्मध्ये ऋषिर्भवति । यः परोक्षम्पश्यति सऋषिः । ऋषिर्दर्श- नादिति । मृगाणां महिषोभवति महिषाख्योबलवान् राजाभवति । तथा गृध्राणां पक्षि- विशेषाणां श्येनः शंसनीयः पक्षिराजोभवति । वनानां वनतिर्हिसाकर्मा । हिंसकानां छेदका- नाम्मध्ये स्वधितिः एतन्नामकः छेदकोसि । एवम्प्रभावः सोमः रेभन् शब्दायमानःसन् पवि त्रमूर्णास्तुकेन कृतमत्येति अतिगच्छति ॥ ६ ॥

Wilson

English translation:

“The Brahmā of the gods, the guide of the sages, the ṛṣi of the pious, the buffalo of wild animals, the falcon of the vultures, the hatchet of deadly weapons, the Soma passes through the filter with a roar.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

The Brahmā of the gods: i.e., the king of the gods; or, it may mean the brāhmaṇa of the priests; the ṛṣi: yaḥ parokṣam paśyati sa ṛṣiḥ, ṛsirdarśanāt (Nirukta 2.11)

Jamison Brereton

Formulator for the gods, trail-blazer for the sage poets, seer for the inspired poets, buffalo of the wild beasts,
falcon of the birds of prey, axe of the trees—Soma goes rasping
through the filter.

Jamison Brereton Notes

Though the syntax is kept absolutely constant - nom. sg. + gen. pl. - there is a shifting functional relationship between the head noun and its genitive in the seven phrases here: the first two are roles Soma performs for the group identified by the gen., the next three a particular, and superior, individual token from the group (though the third pairing, “seer for/of the inspired poets,” is ambiguous between the first type and the second), and the last is sort of a negative version of the role he plays for the group.

Griffith

Brahman of Gods, the Leader of the poets, Rsi of sages, Bull of savage creatures,
Falcon amid the vultures, Axe of forests, over the cleansing sieve goes Soma singing.

Geldner

Der Hohepriester der Götter, der Pfadfinder der Seher, der Rishi unter den Beredten, der Büffel unter den wilden Tieren, der Adler unter den Geiern, die Axt für die Bäume, geht Soma laut redend durch die Seihe.

Grassmann

Der Götter Beter und der Priester Führer, der Sänger Dichter und der Stier der Thiere, Der Geier Adler und die Axt der Wälder, der Soma wandert singend durch die Seihe.

Elizarenkova

Брахман богов, пролагатель пути поэтов,
Риши среди вдохновенных, буйвол среди диких животных,
Орел среди хищных птиц, топор для деревьев,
Сома проходит сквозь цедилку, распевая.

अधिमन्त्रम् (VC)
  • पवमानः सोमः
  • प्रतर्दनो दैवोदासिः
  • निचृत्त्रिष्टुप्
  • धैवतः
विश्वास-प्रस्तुतिः ...{Loading}...

अ॒जाम् एकाल्ँ॒ लोहि॑त-शुक्लकृ॒ष्णां
ब॒ह्वीं प्र॒जाञ् ज॒नय॑न्तीँ॒ सरू॑पाम् ।
अ॒जो ह्येको॑ जु॒षमा॑णो ऽनु॒शेते॒
जहा॑त्य् एनां भु॒क्त-भो॑गा॒म् अजो॑ऽन्यः । (20)

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒जाम् एकाल्ँ॒ लोहि॑त-शुक्लकृ॒ष्णां
ब॒ह्वीं प्र॒जाञ् ज॒नय॑न्तीँ॒ सरू॑पाम् ।
अ॒जो ह्येको॑ जु॒षमा॑णो ऽनु॒शेते॒
जहा॑त्य् एनां भु॒क्त-भो॑गा॒म् अजो॑ऽन्यः । (20)

10.2

१० २ ...{Loading}...
विश्वास-प्रस्तुतिः ...{Loading}...

+++(अहं)+++ हँ॒सश् शु॑चि॒-षद्, वसु॑र् अन्तरिक्ष॒-सद्,
+होता॑ वेदि॒-षद्, अति॑थिर् दुरोण॒-सत् ।
नृ॒-षद्, व॑र॒-सद्, ऋ॑त॒-सद् व्यो॑म॒-सद्,
अ॒ब्-जा, गो॒-जा, ऋ॑त॒-जा, अ॑द्रि॒-जा, ऋ॒तं बृ॒हत् ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

हँ॒सश्शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम्बृ॒हत् ॥ [30]

Keith

I The gander seated in purity, the bright one seated in the atmosphere,
The Hotr seated at the altar, the guest seated in the house,
Seated among men, seated in the highest, seated in holy order, seated in the firmament, Born of the waters, born of the cows, born of holy order, born of the mountain, the great holy order.

भट्टभास्कर-टीका

अध्यात्ममधिदैवमधियज्ञं चाधिकृत्य त्रेधेमं मन्त्रं व्याचक्षते । तत्र प्रकरणानुरूपोर्थविशेषो गृहीतव्यः । अध्यात्मे तावत् - हंसः आत्मा । शुचिषु स्थानेषु सीदतीति शुचिषत् । वासयिता वसुः वरिष्ठो वा । अन्तरिक्षे हृदयाकाशादिषु सीदतीति अन्तरिक्षसत् । होता आह्वाता देवानामादाता वा । वेद्यां यागार्थं सीदतीति वेदिषत् । अतिथिस्सततगतिः, तिथिकृतविशेषरहितो वा । दुःखरक्षणेषु गृहादिषु सीदतीति दुरोणसत् । नृषु प्राणिशरीरेषु तद्भावेन सीदतीति नृषत् । वरेषु फलेषु भोक्तृत्वेन सीदतीति वरसत् । ऋते यज्ञे सत्ये वा सीदतीति ऋतसत् । विविधे रक्षणे तृप्तौ वा सीदतीति व्योमसत् । अद्भ्यो जातः अब्जाः शरीराभिप्रायं, शुक्क्लाज्जातत्वात् । यथा ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति । अपां वा यागद्वारेण जनयिता । अन्तर्भावितण्यर्थात् ‘जनसनखन’ इति विट्, ‘विड्वनोः’ इत्यात्वम् । गोषु पशुषु अनुग्राहकतया जातः गोजाः । ऋते यज्ञे ऋतार्थं वा जातः प्रादुर्भूतः ऋतजाः । अद्रिजाः पर्वतादिष्वपि प्रादुर्भूतः । ऋतं सत्यरूपं बृहद्ब्रह्म । अथाधिदैवे - हंस आदित्यः । शुचिनि मण्डले सीदतीति शुचिषत् । होता अपामादाता । वेद्यामाराध्यतया सीदतीति वेदिषत् । अतिथिस्सततगतिः । दुरोणेषु गृहेषु मेषादिषु सीदतीति दुरोणसत् । वराणां दातृत्वेन तेषु सीदतीति वरसत् । अपो जनयतीत्यब्जाः । गोजाः रश्मिसमूहवर्ती । ऋते सत्ये जात ऋतजाः । अद्रिजाः उदयाचलात्प्रादुर्भूतः । समानमन्यत् ।

अथाधियज्ञे - हंसो रथः हन्ति पृथिवीमिति । शुचौ देवयजने रथवाहने च सीदतीति शुचिषत् । शुचिर्यजमानः सीदत्यस्मिम्निति वा शुचिषत् । होतेव वेद्यां सीदतीति वेदिषत् । अतिथिस्सर्वत्राप्रतिहतगतिः । नृषत् मनुष्यार्थं शूरार्थं वा सीदतीति नृषु वा उपकारार्थं सीदतीति नृषत् । ऋतार्थं सत्यार्थं यज्ञार्थं वा सीदतीति ऋतसत् । अब्जाः उदकाज्जातः । गोजाः गोविकारचर्मादिग्रथितत्वात् ततो जात इत्युच्यते । अद्रिभिर्दारुभिरुत्पादितत्वात्ततो जात इत्युच्यते अद्रिजाः । गतमन्यत् ॥

इत्यष्टमे पञ्चदशोनुवाकः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मा॑ज् जा॒ता न प॒रा नैव॒ किञ्च॒नास॒
य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ ।
प्र॒जाप॑तिः प्र॒जया॑ सव्ँ विदा॒नस्
त्रीणि॒ ज्योतीँ॑षि सचते॒ स षो॑ड॒शी ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

यस्मा॑ज् जा॒ता न प॒रा नैव॒ किञ्च॒नास॒
य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ ।
प्र॒जाप॑तिः प्र॒जया॑ सव्ँ विदा॒नस्
त्रीणि॒ ज्योतीँ॑षि सचते॒ स षो॑ड॒शी ॥

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒ध॒र्तारँ॑ हवामहे॒
वसोः॑ कु॒विद् व॒नाति॑ नः ।
स॒वि॒तार॑न् नृ॒चक्ष॑सम् ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

वि॒ध॒र्तारँ॑ हवामहे॒
वसोः॑ कु॒विद् व॒नाति॑ नः ।
स॒वि॒तार॑न् नृ॒चक्ष॑सम् ॥

०४ अद्या नो ...{Loading}...

अद्या᳓ नो देव सवितः
प्रजा᳓वत् सावीः सौ᳓भगम् ।
प᳓रा दुष्-ष्व᳓प्न्यं सुव

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - सविता
  • ऋषिः - श्यावाश्व आत्रेयः
  • छन्दः - गायत्री
Thomson & Solcum

अद्या᳓ नो देव सवितः
प्रजा᳓वत् सावीः सउ᳓भगम्
प᳓रा दुष्व᳓प्नियं सुव

मूलम् तैत्तिरीयम्

अ॒द्या नो॑ देव सवितः । प्र॒जाव॑त्सावी॒स्सौभ॑गम् । परा॑ दु॒ष्वप्नि॑यँ सुव ।

Vedaweb annotation

Strata
Archaic


Pāda-label
genre M
genre M
genre M


Morph
adyá ← adyá (invariable)

deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

savitar ← savitár- (nominal stem)
{case:VOC, gender:M, number:SG}

prajā́vat ← prajā́vant- (nominal stem)
{case:NOM, gender:N, number:SG}

saúbhagam ← saúbhaga- (nominal stem)
{case:NOM, gender:N, number:SG}

sāvīḥ ← √sū- 1 (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}

duṣvápnyam ← duṣvápnya- (nominal stem)
{case:NOM, gender:N, number:SG}

párā ← párā (invariable)

suva ← √sū- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

पद-पाठः

अ॒द्य । नः॒ । दे॒व॒ । स॒वि॒त॒रिति॑ । प्र॒जाऽव॑त् । सा॒वीः॒ । सौभ॑गम् ।
परा॑ । दुः॒ऽस्वप्न्य॑म् । सु॒व॒ ॥

Hellwig Grammar
  • adyāadya
  • [adverb]
  • “now; today; then; nowadays; adya [word].”

  • nonaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • deva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • savitaḥsavitarsavitṛ
  • [noun], vocative, singular, masculine
  • “Savitar; sun; Surya; Savitṛ.”

  • prajāvat
  • [noun], accusative, singular, neuter
  • “prolific.”

  • sāvīḥ
  • [verb], singular, Aorist inj. (proh.)
  • “give birth; urge; bestow; cause.”

  • saubhagamsaubhaga
  • [noun], accusative, singular, neuter
  • “well-being.”

  • parā
  • [adverb]
  • “away.”

  • duṣṣvapnyaṃduṣṣvapnyamduḥṣvapnya
  • [noun], accusative, singular, neuter
  • “nightmare.”

  • suva
  • [verb], singular, Present imperative
  • “give birth; urge; bestow; cause.”

सायण-भाष्यम्

हे सवितः देव नः अस्मभ्यम् अद्य अस्मिन् यागदिने प्रजावत् पुत्राद्युपेतं सौभगं धनं सावीः प्रेरय । दुःष्वप्न्यं दुःस्वप्नं दुःस्वप्नवद्दुःखकरं दारिद्र्यं परा सुव दूरे प्रेरय ॥


8अथाष्टमीमाह - हे सवितर्देव! अद्यास्मिन्कर्मणि नोऽस्माकं प्रजावत् पुत्रपौत्राद्युपेतं सौभगं सौभाग्यं सावीः अनुजानीहि । दुष्ष्वप्नियं दुस्स्वप्ननिमित्तं दोषं परासुव विनाश्य ॥

Wilson

English translation:

“Grant us today, divine Savitā affluence with progeny, and drive away evil dreams.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Para duhṣvapnyam suva: duhṣvapnyam = dāridryam, poverty

Jamison Brereton

Today, god Savitar, you have impelled to us a good portion consisting of offspring.
Impel away the bad dream.

Griffith

Send us this day, God Savitar, prosperity with progeny.
Drive thou the evil dream away.

Geldner

Mögest du, Gott Savitri, uns heute kinderreiches Glück zuweisen. Weise üblen Traum ab!

Grassmann

O schaffe heut, Gott Savitar, uns kinderreichen Segen her; Fort schaffe böses Traumgesicht.

Elizarenkova

Сегодня, о бог Савитар, вызови к жизни
Для нас удачу, заключающуюся в потомстве!
Прочь отзови дурной сон!

अधिमन्त्रम् (VC)
  • सविता
  • श्यावाश्व आत्रेयः
  • निचृद्गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (सवितः) सम्पूर्ण ऐश्वर्य्य के देनेवाले स्वामिन् (देव) शोभित ! आप कृपा से (नः) हम लोगों के लिये वा हम लोगों के (अद्या) आज (प्रजावत्) बहुत प्रजायें विद्यमान जिसके उस (सौभगम्) सुन्दर ऐश्वर्य के भाग को (सावीः) उत्पन्न कीजिये और (दुःष्वप्न्यम्) दुष्ट स्वप्नों में उत्पन्न दुःख को (परा, सुव) दूर कीजिये ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो परमेश्वर की प्रार्थना करके धर्म्मयुक्त पुरुषार्थ करते हैं, वे बहुत ऐश्वर्य्यवाले होकर दुःख और दारिद्र्य से रहित होते हैं ॥४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे सवितर्देव ! त्वं कृपया नोऽद्या प्रजावत्सौभगं सावीर्दुःष्वप्न्यं परा सुव दूरं गमय ॥४॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अद्या) अद्य। अत्र निपातस्य चेति दीर्घः। (नः) अस्मभ्यमस्माकं वा (देव) प्रकाशमान (सवितः) सर्वैश्वर्य्यप्रदेश्वर (प्रजावत्) बह्व्यः प्रजा विद्यन्ते यस्य तत् (सावीः) जनय (सौभगम्) शौभनैश्वर्य्यस्य भागम् (परा) (दुःष्वप्न्यम्) दुष्टेषु स्वप्नेषु भवं दुःखम् (सुव) प्रेरय ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ये परमेश्वरं प्रार्थयित्वा धर्म्यं पुरुषार्थं कुर्वन्ति ते महदैश्वर्या भूत्वा दुःखदारिद्र्यविरहा जायन्ते ॥४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जे परमेश्वराची प्रार्थना करून धर्मयुक्त पुरुषार्थ करतात. ते अत्यंत ऐश्वर्यवान होऊन दुःख व दारिद्र्यरहित होतात. ॥ ४ ॥

०५ विश्वानि देव ...{Loading}...

वि᳓श्वानि देव सवितर्
दुरिता᳓नि प᳓रा सुव
य᳓द् भद्रं᳓ त᳓न् न आ᳓ सुव

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - सविता
  • ऋषिः - श्यावाश्व आत्रेयः
  • छन्दः - गायत्री
Thomson & Solcum

वि᳓श्वानि देव सवितर्
दुरिता᳓नि प᳓रा सुव
य᳓द् भद्रं᳓ त᳓न् न आ᳓ सुव

मूलम् तैत्तिरीयम्

विश्वा॑नि देव सवितः । दु॒रि॒तानि॒ परा॑सुव । यद्भ॒द्रन्तन्म॒ आसु॑व ।

Vedaweb annotation

Strata
Archaic


Pāda-label
genre M
genre M
genre M


Morph
deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

savitar ← savitár- (nominal stem)
{case:VOC, gender:M, number:SG}

víśvāni ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}

duritā́ni ← duritá- (nominal stem)
{case:NOM, gender:N, number:PL}

párā ← párā (invariable)

suva ← √sū- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

ā́ ← ā́ (invariable)

bhadrám ← bhadrá- (nominal stem)
{case:NOM, gender:N, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

suva ← √sū- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

पद-पाठः

विश्वा॑नि । दे॒व॒ । स॒वि॒तः॒ । दुः॒ऽइ॒तानि॑ । परा॑ । सु॒व॒ ।
यत् । भ॒द्रम् । तत् । नः॒ । आ । सु॒व॒ ॥

Hellwig Grammar
  • viśvāniviśva
  • [noun], accusative, plural, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • deva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • savitarsavitṛ
  • [noun], vocative, singular, masculine
  • “Savitar; sun; Surya; Savitṛ.”

  • duritānidurita
  • [noun], accusative, plural, neuter
  • “danger; sin; difficulty; difficulty; evil.”

  • parā
  • [adverb]
  • “away.”

  • suva
  • [verb], singular, Present imperative
  • “give birth; urge; bestow; cause.”

  • yadyatyad
  • [noun], nominative, singular, neuter
  • “who; which; yat [pronoun].”

  • bhadraṃbhadrambhadra
  • [noun], nominative, singular, neuter
  • “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”

  • tantattad
  • [noun], nominative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nanaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • suva
  • [verb], singular, Present imperative
  • “give birth; urge; bestow; cause.”

सायण-भाष्यम्

हे सवितः देव त्वं विश्वानि दुरितानि परा सुव । यद्भदं प्रजापशुगृहादिकं तत् नः अस्मभ्यम् “ सुव अस्मदभिमुखं प्रेरय। ‘प्रजा वै भद्रं पशवो भद्रं गृहं भद्रम् ’ इति हि श्रुतिः ॥ ॥ २५ ॥


9अथ नवमीमाह - हे सवितर्देव विश्वानि दुरितानि परासुव विनाशय । यद्भद्रं कल्याणमस्ति तन्मे मम आसुव सर्वतोऽनुजानीहि ।

Wilson

English translation:

“Remove from us, divine Savitā, all misfortunes; bestow upon us that which is good,”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Bhadram = progeny, cattle, dwelling, prajā vai bhadram, pasa‘vo bhadram, gṛham bhadram iti

Jamison Brereton

All difficulties impel away, god Savitar.
What is beneficial, that impel here to us.

Griffith

Savitar, God, send far away all sorrows and calamities,
And send us only what is good.

Geldner

Weise alle Gefahren ab, Gott Savitri. Was Glück bringt, das weise uns zu!

Grassmann

O schaffe alles Ungemach von uns hinweg, Gott Savitar; Was heilsam ist, das schaff uns her.

Elizarenkova

Все, о бог Савитар,
Бедствия прочь отзови,
Что благого – то к жизни вызови для нас!

अधिमन्त्रम् (VC)
  • सविता
  • श्यावाश्व आत्रेयः
  • गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

मनुष्य किसलिये ईश्वर की प्रार्थना करें, इस विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (सवितः) संपूर्ण संसार के उत्पन्न करनेवाले (देव) और संपूर्ण संसार को प्रकाशित करनेवाले जगदीश्वर ! (विश्वानि) संपूर्ण (दुरितानि) दुष्ट आचरणों को आप (परा, सुव) दूर कीजिये और (यत्) जो (भद्रम्) कल्याणकारक है (तत्) उसको (नः) हम लोगों के लिये (आ, सुव) सब प्रकार से प्राप्त कीजिये ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे परमेश्वर ! आप कृपा से जितने हम लोगों में दुष्ट आचरण हैं, उनको अलग करके धर्म्मयुक्त गुण, कर्म्म और स्वभावों को स्थापित कीजिये ॥५॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे सवितर्देव जगदीश्वर ! विश्वानि दुरितानि त्वं परा सुव यद्भद्रं तन्न आ सुव ॥५॥

दयानन्द-सरस्वती (हि) - विषयः

मनुष्यैः किमर्थमीश्वरः प्रार्थनीय इत्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (विश्वानि) सर्वाणि (देव) सकलजगत्प्रकाशक (सवितः) सर्वविश्वोत्पादक (दुरितानि) दुष्टाचरणानि (परा) (सुव) दूरे प्रक्षिप (यत्) (भद्रम्) कल्याणकरम् (तत्) (नः) अस्मभ्यम् (आ) (सुव) समन्तात् प्रापय ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे परमेश्वर ! भवान् कृपया यावन्त्यस्मासु दुष्टाचरणानि सन्ति तावन्ति पृथक्कृत्य धर्म्यगुणकर्मस्वभावान् स्थापयतु ॥५॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे परमेश्वरा! आमचे जेवढे दुष्ट आचरण आहे ते तुझ्या कृपेने नाहीसे होऊन धर्मयुक्त गुण, कर्म, स्वभाव बनू दे. ॥ ५ ॥

10.3

१० ३ मधु ...{Loading}...
विश्वास-प्रस्तुतिः ...{Loading}...

मधु॒ वाता॑ ऋताय॒ते
मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माद्ध्वी॑र् नस् स॒न्त्व् ओष॑धीः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

मधु॒ वाता॑ ऋताय॒ते
मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माद्ध्वी॑र् नस् स॒न्त्व् ओष॑धीः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

मधु॒ नक्त॑म् उ॒तोषसि॒
मधु॑म॒त् पार्थि॑वँ॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

मधु॒ नक्त॑म् उ॒तोषसि॒
मधु॑म॒त् पार्थि॑वँ॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥

विश्वास-प्रस्तुतिः ...{Loading}...

मधु॑मान् नो॒ वन॒स्पति॒र्
मधु॑माँ अस्तु॒ सूर्यः॑ ।
माद्ध्वी॒र् गावो॑ भवन्तु नः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

मधु॑मान् नो॒ वन॒स्पति॒र्
मधु॑माँ अस्तु॒ सूर्यः॑ ।
माद्ध्वी॒र् गावो॑ भवन्तु नः ॥

१० ३ घृतम् ...{Loading}...
विश्वास-प्रस्तुतिः ...{Loading}...

घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्
घृ॒ते श्रि॒तो घृ॒तम् उ॑वस्य॒ धाम॑ ।
अ॒नु॒ष्व॒धम् आव॑ह, मा॒दय॑स्व॒ स्वाहा॑कृतव्ँ
वृषभ वक्षि ह॒व्यम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्
घृ॒ते श्रि॒तो घृ॒तम् उ॑वस्य॒ धाम॑ ।
अ॒नु॒ष्व॒धम् आव॑ह, मा॒दय॑स्व॒ स्वाहा॑कृतव्ँ
वृषभ वक्षि ह॒व्यम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मु॒द्राद् ऊ॒र्मिमधु॑माँ॒ उदा॑रद्
उपाँ॒शुना॒ सम॑मृत॒त्वम् आ॑नट् ।
घृ॒तस्य॒ नाम॒ गुह्यय्ँ॒ यद् अस्ति॑
जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभिः॑ ॥ (22)

सर्वाष् टीकाः ...{Loading}...
मूलम्

स॒मु॒द्राद् ऊ॒र्मिमधु॑माँ॒ उदा॑रद्
उपाँ॒शुना॒ सम॑मृत॒त्वम् आ॑नट् ।
घृ॒तस्य॒ नाम॒ गुह्यय्ँ॒ यद् अस्ति॑
जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभिः॑ ॥ (22)

10.4

१० ४ ...{Loading}...
विश्वास-प्रस्तुतिः ...{Loading}...

व॒यन्नाम॒ प्रब्र॑वामा घृ॒तेना॒स्मिन् य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।
उप॑ ब्र॒ह्माशृ॑णवच् छ॒स्यमा॑न॒ञ् चतु॑श्शृङ्गोवमीद्गौ॒र ए॒तत् ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

व॒यन्नाम॒ प्रब्र॑वामा घृ॒तेना॒स्मिन् य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।
उप॑ ब्र॒ह्माशृ॑णवच् छ॒स्यमा॑न॒ञ् चतु॑श्शृङ्गोवमीद्गौ॒र ए॒तत् ॥

०३ चत्वारि शृङ्गा ...{Loading}...

चत्वा᳓रि शृ᳓ङ्गा त्र᳓यो अस्य पा᳓दा
दुवे᳓ शीर्षे᳓ सप्त᳓ ह᳓स्तासो अस्य
त्रि᳓धा बद्धो᳓ वृषभो᳓ रोरवीति
महो᳓ देवो᳓ म᳓र्तियाँ आ᳓ विवेश

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः सूर्यो वापो वा गावो वा घृतं वा
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

चत्वा᳓रि शृ᳓ङ्गा त्र᳓यो अस्य पा᳓दा
दुवे᳓ शीर्षे᳓ सप्त᳓ ह᳓स्तासो अस्य
त्रि᳓धा बद्धो᳓ वृषभो᳓ रोरवीति
महो᳓ देवो᳓ म᳓र्तियाँ आ᳓ विवेश

Vedaweb annotation

Strata
Popular for non-linguistic reasons


Pāda-label
genre D
genre D
genre D
genre D


Morph
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

catvā́ri ← catúr- (nominal stem)
{case:NOM, gender:N, number:PL}

pā́dāḥ ← pā́da- (nominal stem)
{case:NOM, gender:M, number:PL}

śŕ̥ṅgā ← śŕ̥ṅga- (nominal stem)
{case:NOM, gender:N, number:PL}

tráyaḥ ← trí- (nominal stem)
{case:NOM, gender:M, number:PL}

asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

dvé ← dvá- (nominal stem)
{case:NOM, gender:F, number:DU}

hástāsaḥ ← hásta- (nominal stem)
{case:NOM, gender:M, number:PL}

saptá ← saptá- (nominal stem)
{case:NOM, gender:M, number:PL}

śīrṣé ← śíras- ~ śīrṣán- (nominal stem)
{case:DAT, gender:N, number:SG}

baddháḥ ← √bandh- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

roravīti ← √rū- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

trídhā ← trídhā (invariable)

vr̥ṣabháḥ ← vr̥ṣabhá- (nominal stem)
{case:NOM, gender:M, number:SG}

ā́ ← ā́ (invariable)

deváḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:SG}

maháḥ ← mahá- (nominal stem)
{case:NOM, gender:M, number:SG}

mártyān ← mártya- (nominal stem)
{case:ACC, gender:M, number:PL}

viveśa ← √viś- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

पद-पाठः

च॒त्वारि॑ । शृङ्गा॑ । त्रयः॑ । अ॒स्य॒ । पादाः॑ । द्वे इति॑ । शी॒र्षे इति॑ । स॒प्त । हस्ता॑सः । अ॒स्य॒ ।
त्रिधा॑ । ब॒द्धः । वृ॒ष॒भः । रो॒र॒वी॒ति॒ । म॒हः । दे॒वः । मर्त्या॑न् । आ । वि॒वे॒श॒ ॥

Hellwig Grammar
  • catvāricatur
  • [noun], nominative, plural, neuter
  • “four; catur [word].”

  • śṛṅgāśṛṅga
  • [noun], nominative, plural, neuter
  • “peak; horn; tusk; śṛṅga [word].”

  • trayotrayaḥtri
  • [noun], nominative, plural, masculine
  • “three; tri/tisṛ [word].”

  • asyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • pādāpādāḥpāda
  • [noun], nominative, plural, masculine
  • “foot; one-fourth; beam; pāda; foot; foundation; pāda [word]; leg; leg; animal foot; step; foot; footfall; verse.”

  • dvedvi
  • [noun], nominative, dual, neuter
  • “two; dvi [word]; second.”

  • śīrṣeśīrṣa
  • [noun], nominative, dual, neuter
  • “head; battlefront; ear; front; śīrṣa [word]; tip; skull.”

  • saptasaptan
  • [noun], nominative, singular, neuter
  • “seven; seventh.”

  • hastāsohastāsaḥhasta
  • [noun], nominative, plural, masculine
  • “hand; hand; proboscis; hasta [word]; autograph.”

  • asyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • tridhā
  • [adverb]
  • “threefold.”

  • baddhobaddhaḥbandh
  • [verb noun], nominative, singular
  • “bandh; tie; envelop; close; dress; wrap; bind; constipate; fixate; shape; paralyze; construct; bandage; compress; beset; oblige; strap; restrain; bind; gesticulate; wear; bar; bandh; connect; stud; mix; obstruct; write; restrain; bind; persecute; enclose; ligature; fill into; fasten.”

  • vṛṣabhovṛṣabhaḥvṛṣabha
  • [noun], nominative, singular, masculine
  • “bull; Vṛṣabha; Vṛṣabha; best.”

  • roravītiroro√ru
  • [verb], singular, Present indikative
  • “bellow.”

  • mahomahaḥmaha
  • [noun], nominative, singular, masculine
  • “great; abundant.”

  • devodevaḥdeva
  • [noun], nominative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • martyāṃmartya
  • [noun], accusative, plural, masculine
  • “mortal.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • viveśaviś
  • [verb], singular, Perfect indicative
  • “enter; penetrate; settle; settle.”

सायण-भाष्यम्

यद्यपि सूक्तस्याग्निसूर्यादिपञ्चदेवताकत्वात् पञ्चधायं मन्त्रो व्याख्येयस्तथापि निरुक्ताद्युक्तनीत्या यज्ञात्मकाग्नेः सूर्यस्य च प्रकाशकत्वेन तत्परतया व्याख्यायते । अस्य यज्ञात्मकस्याग्नेः चत्वारि शृङ्गा चत्वारो वेदाः शृङ्गस्थानीयाः । यद्यप्यापस्तम्बेन यज्ञं व्याख्यास्यामः स त्रिभिर्वेदैर्विधीयते (परिभा. १. ३ ) इत्युक्तं तथाप्याथर्वणस्य इतरानपेक्षयैव एकाग्निसाध्यानां कृत्स्नकर्मणामभिधायक त्वात्तदपेक्षया चत्वारि शृङ्गेत्युक्तम् । त्रयो अस्य पादाः सवनानि त्रीण्यस्य पादाः । प्रवृत्तिसाधनत्वात् पादा इत्युच्यन्ते । द्वे शीर्षे ब्रह्मौदनं प्रवर्ग्यश्च । इष्टिसोमप्राधान्येनेदमुक्तम् । सप्त हस्तासः सप्त छन्दांसि । हस्ता: अनुष्ठानस्य मुख्यसाधनम् । छन्दांस्यपि देवताप्रीणनस्य मुख्यसाधनमिति हस्तव्यवहारः। त्रिधा बद्धः मन्त्रब्राह्मणकल्पैः त्रिप्रकारं बद्धः । बन्धनमस्य तन्निष्पाद्यत्वम् । वृषभः फलानां वर्षिता रोरवीति । भृशं शब्दायते । ऋग्यजुःसामोक्थैः शस्त्रयागस्तुतिरूपैर्होत्राद्युत्पादितैर्ध्वनिभिरसौ रौति । एवं महो देवः मर्त्यान् विवेश । मर्त्यैर्यजमानैर्निष्पाद्यत्वात् प्रवेश उपचर्यते । अत्र यास्कः – ‘ चत्वारिशृङ्गेति वेदा वा एत उक्ताः । ( निरु. १३.७ ) इत्यादिना निरवोचत् । तदत्रानुसंधेयम् ॥ अथ ‘ सूर्यपक्षे व्याख्यायते– अस्यादित्यस्य चत्वारि शृङ्गाणि चतस्रो दिशः । एताः श्रयणार्थत्वात् शृङ्गाणीत्युपचर्यन्ते । त्रयो अस्य पादाः । त्रयो वेदाः पादस्थानीया भवन्ति गमनसाधनत्वात् । तथा हि - ऋग्भिः पूर्वाह्णे दिवि देव ईयते ’ इत्युपक्रम्य • वेदैरशून्यस्त्रिभिरेति सूर्यः ’ (तै. ब्रा. ३. १२. ९. १ ) इति हि वेदत्रयेण गतिराम्नाता । द्वे शीर्षे । अहश्च रात्रिश्चेति द्वे शिरसी । सप्त हस्तासो अस्य । सप्त रश्मयः षड्विलक्षणा ऋतव एकः साधारण इति वा सप्त हस्ता भवन्ति । त्रिधा बद्धस्त्रिषु स्थानेषु क्षित्यादिषु अग्न्याद्यात्मकत्वेन संबद्धः । ग्रीष्मवर्षांहेमन्ताख्यैस्त्रिभिस्त्रेधा बद्धो वा । वृषभो वर्षिता रोरवीति । शब्दं करोति वृष्ट्यादिद्वारा । स महो महान् देवो मर्त्यानां विवेश तन्नियन्तृतया। सूर्य आत्मा जगतस्तस्थुषश्च’ ( ऋ. सं. १. ११५. १ ) इति हि श्रुतम् ॥ एवं त्वबादिपक्षेऽपि योज्यम् । शाब्दिकास्तु शब्दब्रह्मपरतया चत्वारि शृङ्गेति चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च इत्यादिना व्याचक्षते । अपरे त्वपरथा । तत्सर्वमत्र द्रष्टव्यम् ॥

Wilson

English translation:

“Four are his horns; three are his feet; his heads are two, his hands are seven; the triple-bound showerer (of benefits) roars aloud; the mighty deity has entered among men.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

This verse is preferentially applied to Agni, identified either with yajña or with Āditya; the four horns of the yajña are the four vedas; of Āditya, the four cardinal points of the horizon; the three feet of yajña are the three daily sacrifices; of Āditya, morning, noon, evening; the two heads of yajña are two particular ceremonies termed brahmaudanam and pravargya; of Āditya, day and night; the seven hands of yajña are the seven metres; of Āditya, the seven rays, or the six seasons and their aggregate, or the year, the seventh; the term vṛṣabha phalānām vaṛsitā, the rainer of rewards, applies to yajña and Āditya; so does roraite, he roars, implying the noise made by the repetition of the mantras of the vedas; the three bonds of yajña are: mantra, kalpa and brāhmaṇa, the prayer, the ceremonial; the rationale of Āditya, the three regions, earth, mid-air and heaven; another view is to limit vṛṣabha kāmānam varṣitā to yajña; the four horns are the priests: the hotā, udgātā, adhvaryu and brahmā; the three feet are the three vedas; the two heads the havirdhāna and pravargya rites; the hands are the seven priests, or seven metres; the three bonds the three daily sacrifices; Nirukta 13.7 applies the verse to yajña

Jamison Brereton

Four are his horns, three his feet; two heads, seven hands are his. Triply bound, the bull keeps on roaring. The great god has entered mortals.

Jamison Brereton Notes

Clearly no bull found in nature. The numerology here presumably has to do with items in the ritual. For a conspectus of later interpr., see Witzel Gotō n.

Griffith

Four are his horns, three are the feet that bear him; his heads are two, his hands are seven in number.
Bound with a triple bond the Steer roars loudly: the mighty God hath entered in to mortals.

Geldner

Vier Hörner, drei Füße hat er, zwei Köpfe, sieben Hände hat er. Dreifach gefesselt brüllt der Stier. Der große Gott ist in die Sterblichen eingegangen.

Grassmann

Vier Hörner hat er, auf drei Füssen steht er, zwei Köpfe sind ihm und der Hände sieben-, Dreifach gebunden brüllt der Stier gewaltig, der grosse Gott begab sich zu den Menschen.

Elizarenkova

Четыре рога, три ноги у него,
Две головы, семь рук у него.
Громко ревет бык, трижды связанный.
Великий бог вошел в бессмертных.

अधिमन्त्रम् (VC)
  • अग्निः सूर्यो वाऽपो वा गावो वा घृतं वा
  • वामदेवो गौतमः
  • भुरिक्पङ्क्ति
  • पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः

अब अगले मन्त्र में ईश्वर के विज्ञान को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! जो (महः) बड़ा सेवा और आदर करने योग्य (देवः) स्वप्रकाशस्वरूप और सब को सुख देनेवाला (मर्त्यान्) मरणधर्मवाले मनुष्य आदिकों को (आ) सब प्रकार से (विवेश) व्याप्त होता है (वृषभः) और जो सुखों को वर्षानेवाला (त्रिधा) तीन श्रद्धा, पुरुषार्थ और योगाभ्यास से (बद्धः) बँधा हुआ (रोरवीति) निरन्तर उपदेश देता है (अस्य) इस धर्म से युक्त नित्य और नैमित्तिक परमात्मा के बोध के (द्वे) दो उन्नति और मोक्षरूप (शीर्षे) शिरस्थानापन्न (त्रयः) तीन अर्थात् कर्म, उपासना और ज्ञानरूप (पादाः) चलने योग्य पैर (चत्वारि) और चार वेद (शृङ्गा) शृङ्गों के सदृश आप लोगों को जानने योग्य हैं और (अस्य) इस धर्म व्यवहार के (सप्त) पाँच ज्ञानेन्द्रिय वा पाँच कर्मेन्द्रिय अन्तःकरण और आत्मा ये सात (हस्तासः) हाथों के सदृश वर्त्तमान हैं और उक्त तीन प्रकार से बँधा हुआ व्यवहार भी जानने योग्य है ॥३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे मनुष्यो ! इस परमेश्वर से व्याप्त संसार में यज्ञ के चार वेद और नाम, आख्यात, उपसर्ग और निपात विश्व, तैजस, प्राज्ञ, तुरीय और धर्म, अर्थ, काम और मोक्ष आदि शृङ्ग हैं। तीन सवन अर्थात् त्रैकालिक यज्ञकर्म तीन काल कर्म, उपासना, ज्ञान मन, वाणी, शरीर इत्यादि पाद हैं। दो व्यवहार और परमार्थ नित्य, कार्य्य शब्दस्वरूप उदगयन और प्रायणीय अध्यापक और उपदेशक इत्यादि शिर हैं। गायत्री आदि सात छन्द सात विभक्तियाँ, सात प्राण, पाँच कर्म्मेन्द्रिय शरीर और आत्मा इत्यादि सात हस्त हैं। तीन मन्त्र, ब्राह्मण, कल्प और हृदय, कण्ठ, शिर में श्रवण, मनन, निदिध्यासनों में ब्रह्मचर्य्य, श्रेष्ठ कर्म, उत्तम विचारों के बीच सिद्ध यह व्यवहार महान् सत्कर्त्तव्य और मनुष्यों के बीच प्रविष्ट है, यह सब जानें ॥३॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या ! यो महो देवो मर्त्याना विवेश यो वृषभस्त्रिधा बद्धो रोरवीति अस्य परमात्मनो बोधस्य द्वे शीर्षे त्रयः पादाश्चत्वारि शृङ्गा च युष्माभिर्वेदितव्यान्यस्य च सप्त हस्तासस्त्रिधा बद्धो व्यवहारश्च वेदितव्यः ॥३॥

दयानन्द-सरस्वती (हि) - विषयः

अथेश्वरविज्ञानमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (चत्वारि) चत्वारो वेदाः (शृङ्गा) शृङ्गाणीव (त्रयः) कर्मोपासनाज्ञानानि (अस्य) धर्म्मव्यवहारस्य (पादाः) पत्तव्याः (द्वे) अभ्युदयनिःश्रेयसे (शीर्षे) शिरसी इव (सप्त) पञ्च ज्ञानेन्द्रियाणि वा कर्म्मेन्द्रियाण्यन्तःकरणमात्मा च (हस्तासः) हस्तवद्वर्त्तमानाः (अस्य) धर्मयुक्तस्य नित्यनैमित्तिकस्य (त्रिधा) श्रद्धापुरुषार्थयोगाभ्यासैः (बद्धः) (वृषभः) सुखानां वर्षणात् (रोरवीति) भृशमुपदिशति (महः) महान् पूजनीयः (देवः) स्वप्रकाशः सर्वसुखप्रदाता (मर्त्यान्) मरणधर्मान् मनुष्यादीन् (आ) समन्तात् (विवेश) व्याप्नोति ॥३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे मनुष्या ! अस्मिन् परमेश्वरव्याप्ते जगति यज्ञस्य चत्वारो वेदा नामाख्यातोपसर्गनिपाता विश्वतैजसप्राज्ञतुरीयधर्मार्थकाममोक्षाश्चेत्यादीनि शृङ्गाणि, त्रीणि सवनानि त्रयः कालाः कर्म्मोपासनाज्ञानानि मनोवाक्छरीराणि चेत्यादीनि पादाः, द्वौ व्यवहारपरमार्थौ नित्यकार्यौ शब्दात्मानावुदगयनप्रायणीया अध्यापकोपदेशकौ चेत्यादीनि शिरांसि, गायत्र्यादीनि सप्त छन्दांसि सप्त विभक्तयः सप्त प्राणाः पञ्च कर्मेन्द्रियाणि शरीरमात्मा चेत्यादयो हस्तास्त्रिषु मन्त्रब्राह्मणकल्पेषूरसि कण्ठे शिरसि श्रवणमनननिदिध्यासनेषु ब्रह्मचर्य्यसुकर्मसुविचारेषु सिद्धोऽयं व्यवहारो महान् सत्कर्तव्यो मनुष्येषु प्रविष्टोऽस्तीति सर्वे विजानन्तु ॥३॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे माणसांनो ! या परमेश्वराने व्याप्त केलेल्या संसारात यज्ञाचे चार वेद व नाम, आख्यात, उपसर्ग व निपात, विश्व, तैजस, प्राज्ञ, तुरीय व धर्म, अर्थ, काम, मोक्ष इत्यादी शृंग आहेत. तीन सवन यज्ञ कर्म, तीन काल, कर्म, उपासना, ज्ञान, मन, वाणी शरीर इत्यादी पाद आहेत. दोन व्यवहार व परमार्थ, नित्य कार्य शब्द स्वरूप उदगयन व प्रायणीय, अध्यापक व उपदेशक इत्यादी मस्तक आहेत. गायत्री इत्यादी सात छन्द, सात विभक्ती, सात प्राण, पाच कर्मेंद्रिये, शरीर व आत्मा इत्यादी हात आहेत. तीन मंत्र, ब्राह्मण, कल्प व ह्रदय, कंठ व मस्तकात श्रवण, मनन, निदिध्यासनात ब्रह्मचर्य, श्रेष्ठ कर्म, उत्तम विचारात सिद्ध हा व्यवहार महान सत्कर्तव्य माणसात प्रविष्ट आहे हे सर्वांनी जाणावे. ॥ ३ ॥

०४ त्रिधा हितं ...{Loading}...

त्रि᳓धा +++(क्षीर-दध्य्-आज्य-भेदेन)+++ हितं᳓ पणि᳓भिर् गुह्य᳓मानं
ग᳓वि देवा᳓सो घृत᳓म् अ᳓न्वविन्दन् ।
इ᳓न्द्र ए᳓कं सू᳓र्य ए᳓कं जजान
वेना᳓द् ए᳓कं स्वध᳓या नि᳓ष्टतक्षुः+++(=निरपादयन्)+++ ॥

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः सूर्यो वापो वा गावो वा घृतं वा
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

त्रि᳓धा हित᳓म् पणि᳓भिर् गुह्य᳓मानं
ग᳓वि देवा᳓सो घृत᳓म् अ᳓न्व् अविन्दन्
इ᳓न्द्र ए᳓कं सू᳓र्य ए᳓कं जजान
वेना᳓द् ए᳓कं स्वध᳓या नि᳓ष् टतक्षुः

Vedaweb annotation

Strata
Popular for non-linguistic reasons


Pāda-label
genre D
genre D
genre D
genre D


Morph
guhyámānam ← √guh- (root)
{case:NOM, gender:N, number:SG, tense:PRS, voice:PASS}

hitám ← √dhā- 1 (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

paṇíbhiḥ ← paṇí- (nominal stem)
{case:INS, gender:M, number:PL}

trídhā ← trídhā (invariable)

ánu ← ánu (invariable)

avindan ← √vid- 1 (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:ACT}

devā́saḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}

gávi ← gáv- ~ gó- (nominal stem)
{case:LOC, gender:F, number:SG}

ghr̥tám ← ghr̥tá- (nominal stem)
{case:NOM, gender:N, number:SG}

ékam ← éka- (nominal stem)
{case:NOM, gender:N, number:SG}

ékam ← éka- (nominal stem)
{case:NOM, gender:N, number:SG}

índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}

jajāna ← √janⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

sū́ryaḥ ← sū́rya- (nominal stem)
{case:NOM, gender:M, number:SG}

ékam ← éka- (nominal stem)
{case:NOM, gender:N, number:SG}

nís ← nís (invariable)

svadháyā ← svadhā́- (nominal stem)
{case:INS, gender:F, number:SG}

tatakṣuḥ ← √takṣ- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}

venā́t ← vená- (nominal stem)
{case:ABL, gender:M, number:SG}

पद-पाठः

त्रिधा॑ । हि॒तम् । प॒णिऽभिः॑ । गु॒ह्यमा॑नम् । गवि॑ । दे॒वासः॑ । घृ॒तम् । अनु॑ । अ॒वि॒न्द॒न् ।
इन्द्रः॑ । एक॑म् । सूर्यः॑ । एक॑म् । ज॒जा॒न॒ । वे॒नात् । एक॑म् । स्व॒धया॑ । निः । त॒त॒क्षुः॒ ॥

Hellwig Grammar
  • tridhā
  • [adverb]
  • “threefold.”

  • hitamdhā
  • [verb noun], accusative, singular
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • paṇibhirpaṇibhiḥpaṇi
  • [noun], instrumental, plural, masculine
  • “niggard; paṇ.”

  • guhyamānaṃguhyamānamguh
  • [verb noun], accusative, singular
  • “hide; cover; conceal; shroud; obscure.”

  • gavigo
  • [noun], locative, singular, masculine
  • “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”

  • devāsodevāsaḥdeva
  • [noun], nominative, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • ghṛtamghṛta
  • [noun], accusative, singular, neuter
  • “ghee; fat.”

  • anvanu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • avindanvid
  • [verb], plural, Imperfect
  • “find; detect; marry; get; think.”

  • indraindraḥindra
  • [noun], nominative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • ekaṃekameka
  • [noun], accusative, singular, neuter
  • “one; single(a); alone(p); some(a); single(a); eka [word]; alone(p); excellent; each(a); some(a); one; same; alone(p); some(a); consistent; any(a); undifferentiated; disjunct.”

  • sūryasūryaḥsūrya
  • [noun], nominative, singular, masculine
  • “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”

  • ekaṃekameka
  • [noun], accusative, singular, neuter
  • “one; single(a); alone(p); some(a); single(a); eka [word]; alone(p); excellent; each(a); some(a); one; same; alone(p); some(a); consistent; any(a); undifferentiated; disjunct.”

  • jajānajan
  • [verb], singular, Perfect indicative
  • “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”

  • venādvenātvena
  • [noun], ablative, singular, masculine
  • “Vena.”

  • ekaṃekameka
  • [noun], accusative, singular, neuter
  • “one; single(a); alone(p); some(a); single(a); eka [word]; alone(p); excellent; each(a); some(a); one; same; alone(p); some(a); consistent; any(a); undifferentiated; disjunct.”

  • svadhayāsvadhā
  • [noun], instrumental, singular, feminine
  • “free will; offering; libation; nature; svadhā [word]; comfort; power.”

  • niṣniḥ
  • [adverb]
  • “niḥ; away; out; without.”

  • ṭatakṣuḥtatakṣuḥtakṣ
  • [verb], plural, Perfect indicative
  • “produce; shape; fashion; chisel; invent.”

सायण-भाष्यम्

पणिभिः असुरैः गवि गोषु त्रिधा क्षीरदध्याज्यभेदेन त्रिप्रकारं हितं निहितं गुह्यमानं गोपितं घृतं दीप्तं रसरूपं वा द्रव्यं देवासः देवाः अन्वविन्दन् अलभन्त । तत्र इन्द्र एकं क्षीरं जजान उदपादयत् । सूर्य एकं जजान । वेनात् कान्तिमतः अग्नेर्गमनवतो वायोर्वा एकं घृतं स्वधया अन्नेन निमित्तेन द्रव्येण वा साधनेन निष्टतक्षुः निरपादयन् देवाः ॥

Wilson

English translation:

“The gods discovered the Ghī concealed by the Paṇis, plural ced three-fold in the cow; Indra genitive rated one (portion), Sūrya another, the (other gods) fabricated one from the resplendent (Agni), for the sake of the oblation.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

The paṇis are asuras; the three forms or states in which the ghī was deposited in the cow were milk, curds and butter, of which Indra engendered jajāna, milk, Sūrya butter, and the god (devāsaḥ) fabricated (tatakṣuḥ) curds from the shining, venāt, that is Agni; another rendering is devāsaḥ dvijātayaḥ, the twice-born

Jamison Brereton

Triply deposited, being hidden by the niggards—the gods discovered the ghee in the cow.
Indra begat one; the Sun begat one; from the seeker they fashioned one through their own power.

Jamison Brereton Notes

As was just noted, the Paṇis (niggards) may be indirectly implicated in the verb avamīt in 2d. Here they appear overtly, as the hiders of ghee – presumably a reference to their stealing of the cows, since the gods find the ghee in the cow in pāda b.

The threefold nature and creation of ghee has been variously interpreted; it again participates in the numerology of the hymn. I do not have a view on it.

Griffith

That oil in triple shape the Gods discovered laid down within the Cow, concealed by Panis.
Indra produced one shape, Surya another: by their own power they formed the third from Vena.

Geldner

Dreifach geteilt fanden das von den Pani´s verborgene Ghrita die Götter wieder in der Kuh. Indra hat das eine, Surya das eine erzeugt. Eines haben sie aus dem Seher durch eigene Kraft herausgebildet.

Grassmann

Die dreigetheilt versteckt war von den Pani’s, die Butter fanden in der Kuh die Götter; Die eine zeugte Indra, Surja eine, und eine schufen selbst sie aus Verlangen.

Elizarenkova

Боги снова нашли в корове жир,
Трояко разделенный (и) скрываемый Пани.
Индра породил один, Сурья – другой.
Третий образовали они своей силой из стремящегося (к богам).

अधिमन्त्रम् (VC)
  • अग्निः सूर्यो वाऽपो वा गावो वा घृतं वा
  • वामदेवो गौतमः
  • अनुष्टुप्
  • गान्धारः
दयानन्द-सरस्वती (हि) - विषयः

अब सूर्यदृष्टान्त से विद्वद्विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (देवासः) विद्वान् जन (पणिभिः) प्रशंसित व्यवहार करनेवालों के साथ (गवि) वाणी में (गुह्यमानम्) गुप्त कराया जाता (त्रिधा) तीन प्रकारों से (हितम्) स्थित और (घृतम्) घृत के सदृश आनन्द देनेवाले विज्ञान को (अनु, अविन्दन्) अनुकूल प्राप्त होते और (स्वधया) अपनी धारण की हुई बुद्धि से (निः, ततक्षुः) निरन्तर विस्तार करते हैं। और जैसे (इन्द्रः) बिजुली (वेनात्) सुन्दर परमात्मा के समीप से (एकम्) अव्यक्त अर्थात् प्रकृति को और (सूर्यः) सूर्य (एकम्) एक को (जजान) उत्पन्न करता है, वैसे आप लोग भी (एकम्) निरन्तर सुख अर्थात् मोक्ष को सिद्ध करो ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे श्रेष्ठ व्यवहारों के साथ वर्त्तमान विद्वान् जन, उत्तम प्रकार शिक्षित वाणी और बुद्धि को तथा बिजुली आदि की विद्या को प्राप्त हो परमेश्वर को जान और उसकी आज्ञा पालन करके सुख का विस्तार करते हैं, वैसे ही सब लोग अच्छा आचरण करें ॥४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या ! यथा देवासः पणिभिः सह गवि गुह्यमानं त्रिधा हितं घृतमिवान्वविन्दन् स्वधया निष्टतक्षुर्यथेन्द्रो वेनादेकं सूर्यश्चैकं जजान तथा यूयमप्येकमनुतिष्ठत ॥४॥

दयानन्द-सरस्वती (हि) - विषयः

अथ सूर्यदृष्टान्तेन विद्वद्विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (त्रिधा) त्रिभिः प्रकारैः (हितम्) स्थितम् (पणिभिः) प्रशंसितैर्व्यवहर्त्तृभिः (गुह्यमानम्) गोप्यमानम् (गवि) वाचि (देवासः) विद्वांसः (घृतम्) घृतमिवानन्दप्रदं विज्ञानम् (अनु) (अविन्दन्) लभन्ते (इन्द्रः) विद्युत् (एकम्) (सूर्यः) सविता (एकम्) निःश्रेयसम् (जजान) जनयति (वेनात्) कमनीयात् परमात्मनः सकाशात् (एकम्) अव्यक्तम् (स्वधया) स्वकीयया धृतया प्रज्ञया (निः) नितराम् (ततक्षुः) विस्तृण्वन्ति ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या ! यथा प्रशंसितैर्व्यवहारैः सह वर्त्तमाना विद्वांसः सुशिक्षितां वाचं प्रज्ञां च लब्ध्वा विद्युदादिविद्यां प्राप्य परमेश्वरं बुद्ध्वा तदाज्ञामनुसृत्य सुखं वितन्वन्ति तथैव सर्वे समाचरन्तु ॥४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो! श्रेष्ठ व्यवहार करणारे विद्वान सुशिक्षित वाणी व बुद्धी प्राप्त करून विद्युत इत्यादी विद्या शिकतात व परमेश्वराला जाणून त्याच्या आज्ञेचे पालन करून सुख मिळवितात, तसेच सर्व लोकांनी वागावे. ॥ ४ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यो दे॒वानां॑ प्रथ॒मं पु॒रस्ता॒द्
विश्वा॒धिको॑ रु॒द्रो म॒हर्षिः॑ ।
हि॒र॒ण्य॒ग॒र्भं प॑श्यत॒ जाय॑मानँ॒
स नो॑ दे॒वश् शु॒भया॒ स्मृत्या॒ सय्ँ यु॑नक्तु ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

यो दे॒वानां॑ प्रथ॒मं पु॒रस्ता॒द्
विश्वा॒धिको॑ रु॒द्रो म॒हर्षिः॑ ।
हि॒र॒ण्य॒ग॒र्भं प॑श्यत॒ जाय॑मानँ॒
स नो॑ दे॒वश् शु॒भया॒ स्मृत्या॒ सय्ँ यु॑नक्तु ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मा॒त् पर॒न् नाप॑र॒म् अस्ति॒ किञ्चि॒द्
यस्मा॒न् नाणी॑यो॒ न ज्यायो॑ऽस्ति॒ कश्चि॑त् ।
वृ॒क्ष इ॑व स्तब्धो दि॒वि ति॑ष्ठ॒त्य् एक॒स्
तेने॒दं पू॒र्णं पुरु॑षेण॒ सर्व॑म् ॥ (23)

सर्वाष् टीकाः ...{Loading}...
मूलम्

यस्मा॒त् पर॒न् नाप॑र॒म् अस्ति॒ किञ्चि॒द्
यस्मा॒न् नाणी॑यो॒ न ज्यायो॑ऽस्ति॒ कश्चि॑त् ।
वृ॒क्ष इ॑व स्तब्धो दि॒वि ति॑ष्ठ॒त्य् एक॒स्
तेने॒दं पू॒र्णं पुरु॑षेण॒ सर्व॑म् ॥ (23)

10.5

१० ५ ...{Loading}...
विश्वास-प्रस्तुतिः ...{Loading}...

न कर्म॑णा न प्र॒जया॒ धने॑न॒
त्यागे॑नैके अमृत॒त्वम् आ॑न॒शुः ।
परे॑ण॒ नाक॒न् निहि॑त॒ङ् गुहा॑याव्ँ
वि॒भ्राज॑ते॒ यद् यत॑यो वि॒शन्ति॑ ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

न कर्म॑णा न प्र॒जया॒ धने॑न॒
त्यागे॑नैके अमृत॒त्वम् आ॑न॒शुः ।
परे॑ण॒ नाक॒न् निहि॑त॒ङ् गुहा॑याव्ँ
वि॒भ्राज॑ते॒ यद् यत॑यो वि॒शन्ति॑ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

वे॒दा॒न्त॒वि॒ज्ञान॒-सुनि॑श्चिता॒र्थास्
सन्न्या॑स-यो॒गाद् यत॑यश् शुद्ध॒सत्वाः॑ ।
ते ब्र॑ह्मलो॒के तु॒ परा॑न्तकाले॒
परा॑मृता॒त् परि॑मुच्यन्ति॒ सर्वे॑ ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

वे॒दा॒न्त॒वि॒ज्ञान॒-सुनि॑श्चिता॒र्थास्
सन्न्या॑स-यो॒गाद् यत॑यश् शुद्ध॒सत्वाः॑ ।
ते ब्र॑ह्मलो॒के तु॒ परा॑न्तकाले॒
परा॑मृता॒त् परि॑मुच्यन्ति॒ सर्वे॑ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

द॒ह्रव्ँ॒ वि॒पा॒प्मं प॒रवे॑श्म-भूतय्ँ॒
यत् पु॑ण्डरी॒कं पु॒रम॑द्ध्य-सँ॒स्थम् ।
त॒त्रा॒पि द॒ह्रङ् ग॒गनव्ँ॑ विशोक॒स्
तस्मि॑न् यद् अ॒न्तस् तदुपा॑सित॒व्यम् ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

द॒ह्रव्ँ॒ वि॒पा॒प्मं प॒रवे॑श्म-भूतय्ँ॒
यत् पु॑ण्डरी॒कं पु॒रम॑द्ध्य-सँ॒स्थम् ।
त॒त्रा॒पि द॒ह्रङ् ग॒गनव्ँ॑ विशोक॒स्
तस्मि॑न् यद् अ॒न्तस् तदुपा॑सित॒व्यम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यद् वेदादौ स्व॑रः प्रो॒क्तो॒
वे॒दान्ते॑ च प्र॒तिष्ठि॑तः ।
तस्य॑ प्र॒कृति॑लीन॒स्य॒
यः॒ पर॑स्स म॒हेश्व॑रः ॥ (24)

सर्वाष् टीकाः ...{Loading}...
मूलम्

यद् वेदादौ स्व॑रः प्रो॒क्तो॒
वे॒दान्ते॑ च प्र॒तिष्ठि॑तः ।
तस्य॑ प्र॒कृति॑लीन॒स्य॒
यः॒ पर॑स्स म॒हेश्व॑रः ॥ (24)

11-12

११-१२ सहस्रशीर्षम् ...{Loading}...

विश्वास-टिप्पनी

अत्र कृत्रिमस्वरा हि राजन्ते मुद्रितग्रन्थेषु। पद्यगानम् इव गृहीतुम् उचितम्।

विश्वास-प्रस्तुतिः ...{Loading}...

स॒ह॒स्र॒-शी॑र्षन् दे॒वव्ँ॒
वि॒श्वाक्षव्ँ॑ वि॒श्व-शं॑-भुवम् ।
विश्व॑न् ना॒राय॑णन् दे॒व॒म्
अ॒क्षरं॑ पर॒मं प्र॒भुम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

स॒ह॒स्र॒शी॑र्षन्दे॒वव्ँ॒ वि॒श्वाक्ष॑व् विँ॒श्वशं॑भुवम् ।
विश्व॑न्ना॒राय॑णन्दे॒व॒म॒क्षरं॑ पर॒मं प्र॒भुम् ।

सायण-टीका

पूर्वानुवाकान्ते हृदयपुण्डरीक उपास्यं यन्महेश्वरस्वरूपं निर्दिष्टं तस्मिन्नुपास्यगुणविशेषा अस्मिन्ननुवाके विशेषेण प्रदर्श्यन्ते। तत्र प्रथमामृचमाह–

स॒ह॒स्र॒शी॑र्षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वशं॑भुवम्। विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प्र॒भुम्, इति।

देवं पूर्वोक्तं महेश्वरं ध्यायेदिति शेषः। कीदृशं देवम्। सहस्रशीर्षं सहस्र-शब्देनापरिमितत्वमुपलक्ष्यते। अनन्तशिरस्कमित्यर्थः। सर्वजगदात्मकं विराड्रूपं महेश्वरस्य देहः। तथा सत्यस्मादादिशिरांसि सर्वाण्यपि तदीयान्येवेत्यनन्तशिरस्त्वम्। अनेनैव न्यायेन विश्वानि सर्वाण्यस्मदीयान्यक्षाणीन्द्रियाणि तदीयान्येवेति विश्वाक्षत्वम्। विश्वस्य सर्वस्य जगतः शं सुखमस्माद्भवतीति विश्वशंभुः(भूः), तादृशम्। उक्ते सहस्रशीर्षे विराड्रूपे देहेऽवस्थितस्य महेश्वरस्य निजस्वरूपं द्वितीयार्धेनोच्यते। विश्वं जगदात्मकम्। आरोपितस्य जगतोऽधिष्ठानव्यतिरेकेण वास्तवरूपाभावात्। नाराय-णशब्दस्य निर्वचनं पुराणेषु दर्शितम्

“आपो नारा इति प्रोक्ता आपो वै नरसूनवः अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृतः "

इति।


१ ग. ०वाच्यव०। २ ख. विस्तरेण। ३ झ. ०रस्कत्वम्। ४ ग. ०चनम्। ५ ग. झ. ०तमित्य०। ६ ख.। ०र्थः। स०।

[[728]]

जगत्कारणेषु पञ्चभूतेष्ववस्थित इत्यर्थः। यद्वा प्रकृतेः प(तिर्न)रः। तस्माज्जातिनि श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १०]

यानि तानि नारशब्देनोच्यन्ते। तान्येतान्येवायनं स्थानं यस्य स नारायणः। स एवेन्द्रमित्रादिरूपेणावस्थितत्वाद्देव इत्युच्यते। तथा च शाखान्तरे मन्त्र आम्नात: — “इन्द्रं मित्रं वरुणमग्निमाहुः " इति। न क्षरतीत्यक्षरः, अश्नुत इति वा तस्याक्षरत्वम्। कारणत्वेनोत्कर्षात्परमत्वम्। नियन्तु समर्थत्वात्प्रभुत्वम्।

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒श्वतः॒ पर॑मन् नि॒त्यव्ँ॒
वि॒श्वन् ना॑राय॒णँ ह॑रिम् ।
विश्व॑म् ए॒वेदं पुरु॑ष॒स्
तद् विश्व॒म् उप॑जीवति ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

वि॒श्वतः॒ पर॑मन्नि॒त्यव्ँ॒ वि॒श्वन्ना॑राय॒णँ ह॑रिम् ।
विश्व॑मे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति ॥

सायण-टीका

द्वितीयामृचमाह— वि॒श्वतः॒ पर॑मं नि॒त्यं॒ वि॒श्वं ना॑राय॒ण ँ ह॑रिम्। विश्वमे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति, इति।

विश्वतो जगतो जडवर्गात्परममुत्कृष्टम्। ऋग्भेदेन पुनरुक्तिपरिहारो द्रष्टव्यः। यद्वा स्तुतिरूपत्वादनेन रूपेण ध्यातव्यत्वाच्च नास्ति पुनरुक्तिदोषः।विनाशरहितत्वान्नित्यत्वम्। सर्वात्मकत्वाद्विश्वत्वम्। नारायणत्वं पूर्वमेवोक्तम्। पापस्याज्ञानस्य च हरणाद्धरित्वम्। यदिदं विश्वमिदानीमज्ञानदृष्ठ्या प्रदृश्यते तत्सर्वं वस्तुतत्त्वदृष्ट्या पुरुषः परमात्मैव। स च परमात्मा तद्विश्वमुपजीवति स्वस्य व्यवहारार्थमाश्रयति।

विश्वास-प्रस्तुतिः ...{Loading}...

पतिव्ँ॒ विश्व॑स्या॒त्मेश्व॑रँ॒
शाश्व॑तँ शि॒वम् अ॑च्युतम् ।
ना॒राय॒णं म॑हा-ज्ञे॒यव्ँ॒
वि॒श्वात्मा॑नं प॒राय॑णम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

पतिव्ँ॒ विश्व॑स्या॒त्मेश्व॑रँ॒ शाश्व॑तँ शि॒वम॑च्युतम् ।
ना॒राय॒णं म॑हाज्ञे॒यव्ँ॒ वि॒श्वात्मा॑नं प॒राय॑णम् ।

सायण-टीका

तृतीयामृचमाह— पतिं॒ विश्व॑स्या॒ऽऽत्मेश्व॑र॒ ँ शाश्व॑त ँ शि॒वम॑च्युतम्। ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णम्, इति। विश्वस्य जगतः पालकत्वात्पतिः। आत्मनां जीवानां नियाकत्वादीश्वरः। निरकान्तरं वर्तमानत्वाच्छाश्वतः। परममङ्गलत्वाच्छिवः। न च्यवत इत्यच्युतः। नारायणत्वं पूर्वमुक्तम्। ज्ञेयेषु तत्त्वेषु मध्ये प्रौढत्वान्महाज्ञेय(त्व)म्। जगदुपादानत्वेन तदभेदाद्विश्वात्मत्वम्। उत्कृष्टाधारत्वात् परायणत्वम्। सर्वमप्यारोपितं जगदधिष्ठाने वर्तते।

विश्वास-प्रस्तुतिः ...{Loading}...

ना॒राय॒ण-प॑रं ब्र॒ह्म॒-
त॒त्वन् ना॑राय॒णः प॑रः ।
ना॒राय॒ण-प॑रो ज्यो॒ति॒र्-
आ॒त्मा ना॑राय॒णः प॑रः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ना॒राय॒णप॑रं ब्र॒ह्म॒ त॒त्वन्ना॑राय॒णः प॑रः ।
ना॒राय॒णप॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः ।

सायण-टीका

चतुर्थीमृचमाह—

  • ना॒राय॒ णः प॑रं ब्रह्मतत्त्वं ना॑राय॒णः प॑रः। नाराय॒ णः प॑रो ज्यो॒तिरा॒त्मा ना॑राय॒णः प॑रः, इति।

  • ग. पुस्तके पूर्वार्धोत्तरार्धव्यत्यासो वर्तते—“नारायणपरो ध्याता ध्यानं नारायणः परः " इत्यधिकं च।

१ ख. ०त्यश्रुत। २ झ. ०रः, न च्युत। ३ ख. झ. ०रमा नि०। ४ ग. ०व्यः। ०स्तु। ५ ख. ०ज्ञानाद्द्दश्य०। ६ ग. झ. ०त्पतिम्। आ०। ७ ग. ०श्वरं नियन्तारम्। नि०। ८ ग. झ. ०श्वतम्। प०। ९ ग. झ. ०च्छिवम्। न। १० ग. ०च्युतम्। ना०। ११ ख. ०रकत्वं परा०। १२ ख. ०यणं प०। १३ ख. ०यणप०।

[[729]]

[प्रपा॰ १० अनु॰ १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। पुराणेषु नारायणशब्देन व्यवह्रियमाणो यः परमेश्वरः स एव परमुत्कृष्टं सत्यज्ञानानन्दादिवाक्यैः प्रतिपाद्यस्य ब्रह्मणस्तत्त्वम्। अतो नारायणः पर एवाऽऽस्मा म त्वपरो मूर्तिविशेषः। तथा परो ज्योतिर्यदेदुत्कृष्टं ज्योतिश्छन्दोगै: — “परं ज्योतिरुपसंपद्य " इत्याम्नातं तदपि नारायण एव। तस्मान्नारायणः परमात्मा।

विश्वास-प्रस्तुतिः ...{Loading}...

यच् च॑ कि॒ञ्चिज् ज॑गत्य् अ॒स्मि॒न्
दृ॒श्यते॑ श्रूय॒तेऽपि॑ वा ।
अन्त॑र् ब॒हिश् च॑ तत् स॒र्वव्ँ॒
व्या॒प्य ना॑राय॒णस् स्थि॑तः ।(25)

सर्वाष् टीकाः ...{Loading}...
मूलम्

यच्च॑ कि॒ञ्चिज्ज॑गत्य॒स्मि॒न्दृ॒श्यते॑ श्रूय॒तेऽपि॑ वा ।
अन्त॑र्ब॒हिश्च॑ तत्स॒र्व॒व्व्ँया॒प्य ना॑राय॒णस्स्थि॑तः ।(25)

सायण-टीका

पञ्चमीमृचमाह—

यच्च॑ किं॒चिज्ज॑गत्स॒र्वं॒ दृश्यते॑ श्रूयते॑ श्रू॒यतेऽपि॑ वा। अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒ व्या॒प्य ना॑राय॒णः स्थि॑तः

इति।

* जगत्यस्मिन्निति पाठो भाष्यानुरोधी, स वर्तते क्वचिदिति ग. पुस्तकटिप्पणीतो ज्ञायते।

अस्मिन्वर्तमाने जगति यत्किंचित्समीपवर्ति वस्तुजातं दृश्यते। अपि वा दूरस्थं श्रूयते। तत्सर्वं वस्तुजातमयं नारायणोऽन्तर्बहिश्च व्याप्यावस्थितः। यथा कटकमुकुटाद्याभरणस्योपादानकारणं सुवर्णमन्तर्बहिर्व्याप्यावतिष्ठते। तद्वत्।

विश्वास-प्रस्तुतिः ...{Loading}...

अन॑न्त॒म् अव्य॑यङ् क॒विँ
स॑मु॒द्रे ऽन्तव्ँ॑ वि॒श्व-शं॑भुवम् ।
प॒द्म॒-को॒श-प्र॑तीका॒शँ॒
+++(तद्-आसनम्)+++ हृ॒दय॑ञ् चाप्य् अ॒धो-मु॑खम् +++(नोर्ध्वमुखं लोकवत्)+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अन॑न्त॒मव्य॑यङ्क॒विँ स॑मु॒द्रेन्तव्ँ॑ वि॒श्वशं॑भुवम् ।
प॒द्म॒को॒शप्र॑तीका॒शँ॒ हृ॒दय॑ञ्चाप्य॒धोमु॑खम् ।

सायण-टीका

षष्ठीमृचमाह— अन॑न्तमव्य॑यं क॒वि ँ स॑मु॒द्रेऽन्तं॑ वि॒श्वशं॑भुवम्। प॒द्म॒को॒शप्र॑तीका॒श॒ ँ हृ॒दयं॑ चाप्य॒धोमुखम्, इति।

अत्र पूर्वार्धेन नारायणस्य वास्तवस्वरूपं संक्षिप्योपन्यस्यते।
अनन्तं देशपरिच्छेदरहितम्।
अव्ययं विनाशरहितम्।
कविं चिद्रूपेण सर्वज्ञम्।
समुद्रे ऽतिबहुलत्वेन समुद्रसदृशे संसारे ऽन्तम् अवसानरूपम्।
यदा नारायणस्य स्वरूपं जानाति
तदा संसारः क्षीयत इत्यर्थः।
विश्वशंभुवं सर्वस्य संसारसुखस्योत्पत्तिकारणरूपम्। “एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति " इति श्रुत्यन्तरात्। ईदृशं नारायणस्वरूपमुपासीतेति शेषः। उत्तरार्धेनोमासनस्थानम् उच्यते—
पद्मकोशप्रतीकाशं यथा लोकेऽष्टदलकमलस्य कोशो मध्यच्छिद्रं
तत्सदृशं
तच् च हृदय-शब्द-वाच्यम्।
लौकिकं पद्मम् ऊर्ध्वाभिमुखं हृदयपद्मं त्व् अधोमुखम् इति विशेषः।

विश्वास-प्रस्तुतिः ...{Loading}...

अधो॑ नि॒ष्ट्या+++(=ग्रीवा-बन्धः)+++ वि॑तस्त्या॒न्+++(←१२-आङ्गुल्याम् [नाभिं यावत्])+++ तु॒
ना॒भ्याम् उ॑परि॒ +++(मध्ये)+++ तिष्ठ॑ति
हृ॒दय॑न् तद् वि॑जानी॒या॒द्
वि॒श्वस्या॑यत॒नं म॑हत् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अधो॑ नि॒ष्ट्या वि॑तस्त्या॒न्तु॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति ।
हृ॒दय॑न्तद्वि॑जानी॒या॒द्वि॒श्वस्या॑यत॒नं म॑हत् ।

सायण-टीका

सप्तमीमृचमाह— अधो॑ नि॒ष्ठ्या वि॑तस्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति। +हृदयं तद्विजानीयाद्विश्वस्या॑ऽऽयत॒नं म॑हत, इति।


+पदत्रयमनिश्चितस्वरकम्।


१ ख. ०नादि०। २ ख. ०वाक्यप्र०। ३ ख. ०परस्तीति शे०। ४ ख. झ. ०नमु०। ५ झ. लोके शतद०। ६ ०तस्त्यां तु ना। ७ ग. ०ति। जालमालाकुलं भाति विश्व०। ९२

[[730]]

निष्टिर् ग्रीवाबन्धः, तस्या अधस्ताद्वर्तते।
तत्रापि नाभ्याम् उपरि नाभिदेशस्योर्ध्वभागे
वितस्त्यान्ते द्वादशाङ्गुल-परिमिता वितस्तिस्तस्यामतीतायामुपरि तिष्ठति।
तद् एतन् निष्टि-नाभ्योर् मध्य-देश-वर्ति कमलं
हृदयम् इति विजानीयात्। तच्च हृदयं विश्वस्य सर्वस्य जगतो महदायतनम्। मनस्तावद्भृदयपुण्डरीके वर्तते “चन्द्रमा मनो भूत्वा त्द्ददयं प्राविशत् " इति श्रुत्यन्तरात्। तेव च मनसा स्वप्नवत्सर्वमिदं जगत्कल्पितम्। “मनोमूलमिदं द्वैतं यत्किंचित्सचाराचरम् " इति संप्रदायविद्भिरुक्तत्वात्।

विश्वास-प्रस्तुतिः ...{Loading}...

सन्त॑तँ सि॒राभि॑स्+++(=नाडीभिस्)+++ तु॒
लम्ब॑त्य् आ-+++(पूर्वोक्त-पद्म)+++कोश॒-सन्नि॑भम् ।
तस्यान्ते॑ सुषि॒रँ +++(सुषुम्ना-नाडी-नालं)+++ सू॒क्ष्मं
तस्मि॑न्त् स॒र्वं प्रति॑ष्ठितम्

सर्वाष् टीकाः ...{Loading}...
मूलम्

सन्त॑तँ सि॒राभि॑स्तु॒ लंब॑त्याकोश॒सन्नि॑भम् ।
तस्यान्ते॑ सुषि॒रँ सू॒क्ष्मं तस्मि॑न्त्स॒र्वं प्रति॑ष्ठितम् ।

सायण-टीका

अष्टमीमृचमाह— संत॑त ँ शि॒लाभिस्तु॒ लम्ब॑त्याकोश॒संनि॑भम्। तस्यान्ते॑ सुषि॒र ँ सू॒क्ष्मं तस्मि॑न्त्स॒र्वं प्रतिष्ठितम्

, इति।

आकोशः। पद्मस्य मुकुलं तत्संनिभं तत्सदृशं हृदय-कमलं लम्बति शरीरे- मध्ये ऽधोमुखत्वेनावलम्बते।
तच् च शिराभिर् नाडीभिः संततं परितः सम्यग्व्याप्तम् “शतं चैका च हृदयस्य नाड्यः " इति श्रुत्यन्तरात्।
तस्य हृदयस्यान्ते समीपे सूक्ष्मं सुषिरं छिद्रं सुषुम्ना-नाडी-नालं तिष्ठति तस्मिन्सुषिरे सर्वमिदं जगत्प्रतिष्ठितमाश्रितम्। तत्र मनसि प्रविष्टे सति सर्वजगदाधारस्य ब्रह्मणोऽभिव्यज्यमानत्वात्।

विश्वास-प्रस्तुतिः ...{Loading}...

तस्य॒ +++(→सुषुम्ना-नाड्या)+++ मद्ध्ये॑ म॒हान् अ॑ग्निर् +++(पाचको वैश्वानरः)+++
वि॒श्वार्चि॑र् वि॒श्वतो॑मुखः ।
सोऽग्र॑-भु॒ग् विभ॑जन् ति॒ष्ठ॒न्न्
आहा॑रम् अज॒रः क॒विः ।+++(5)+++

सर्वाष् टीकाः ...{Loading}...
मूलम्

तस्य॒ मद्ध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः ।
सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः ।

सायण-टीका

नवमीमृचमाह—

तस्य॒ मध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः। सोऽग्र॑भु॒जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः*, इति।

* एतदग्रे ग. पुस्तके मूले “तिर्यगूर्ध्वमधःशायी रश्मयस्तस्य संतताः " इत्य् अधिकम्।

तस्य सुषुम्नालस्य मध्ये महान्प्रौढोऽग्निर्वर्तते। स च विश्वार्चिर्बहुज्वालोपेतः। अत एव ज्वालाविशेषैः परितोऽवस्थितासु सर्वासु माडीषु संसारणाद्विश्वतोमुखो बहुविधेश्वररूपः। सोऽग्निग्रभुक्, स्वस्य पुरतः प्राप्तमन्नं भुङ्क्त इत्यग्रभुक्।
स च भुक्तमाहारं शरीरे सर्वावयवेषु विभजन् प्रसारयंस्तिष्ठन्, अवस्थित इत्यर्थः। तथा च भगवतोक्तम्

“अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् "

इति॥

तस्माद्भुक्तमन्नमासौ जरयति न तु स्वयं जीर्यत इत्यजरः। अत एव कविरभिज्ञः कुशल इत्यर्थः।



१ ग. ०र्ध्वदेशभा०। २ ग. ०तस्त्यां द्वा०। ३ ख. ०स्यामुप०। ४ ग. शिराभि०। ५ झ. कोशः। ६ झ. ०मलमाल०। ७ ग. ०षुम्णाना०।। ७ ग. ०षुम्णाना०। ८ ग. ०षुम्णाना०। ९ ख. ०विधे ०स्थिर०। ग. ०विधैश्व०।

[[731]]

विश्वास-प्रस्तुतिः ...{Loading}...

स॒न्ता॒पय॑ति स्वन् दे॒हम्
आपा॑द-तल॒-मस्त॑कम् ।
तस्य॒ मद्ध्ये॒ वह्नि॑-शिखा +++(→जीवः)+++
अ॒णीयो॑र्ध्वा व्य॒वस्थि॑ता (←द्रविडपाठे लिङ्गव्यत्ययः) ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

स॒न्ता॒पय॑ति स्वन्दे॒हमापा॑दतल॒मस्त॑कम् ।
तस्य॒ मद्ध्ये॒ वह्नि॑शिखा अ॒णीयो॑र्द्ध्वा व्य॒वस्थि॑तः ।

सायण-टीका

दशमीमृचमाह— सं॒ता॒पय॑ति स्वं दे॒हमापा॑दतल॒वस्त॑कम्। तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो॑र्ध्वा व्य॒वस्थि॑ता, इति। पादतलमारभ्य मस्तकपर्यन्तं कृत्स्नमपि स्वकीयं देहं सर्वदा संतापयति। सोऽयं शरीरगतः संतापोऽग्निसद्भावे लिङ्गम्। तस्य ज्वालाविशेषैः कृत्स्नदेहव्यापिनोऽग्नेर्मध्ये वह्निशिखा काचिज्ज्वालाऽणीयाऽत्यन्तसूक्ष्मोर्ध्वा सुषुम्नानाडीनालेनोर्ध्वं ब्रह्मरन्ध्रपर्यन्तं प्रसृत्य व्यवस्थिता विशेषेणावस्थिता।

विश्वास-प्रस्तुतिः ...{Loading}...

नी॒ल-तो॑य-द॑-मध्य॒-स्था॒
वि॒द्युल्-ले॑खेव॒ भास्व॑रा ।
नी॒वार॒-शूक॑वत्+++(=धान्यान्त-त्वक्-कण्टकवत्)+++ त॒न्वी॒
पी॒ताभा॑ स्यात् त॒नूप॑मा ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

नी॒लतो॑यद॑मद्ध्य॒स्था॒ वि॒द्युल्ले॑खेव॒ भास्व॑रा ।
नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ताभा॑स्यात्त॒नूप॑मा ।

सायण-टीका

एकादशीमृचमाह— नी॒लतो॑यदमध्य॒स्था॒ वि॒द्युल्ले॑खेव॒ भास्व॑रा। नी॒वार॒शूक॑वत्त॒न्वी पी॒ता भा॑स्वत्य॒णूप॑मा, इति। तोयमुदकं ददातीति तोयदो मेघः, स च वर्षितुं जलपूर्णत्वान्नीलवर्णः। तादृशस्य मेघस्य मध्ये स्थिता विद्युल्लेखेव। सेयं पूर्वोक्ताऽग्निशिखा भास्वरा प्रभावती नीवारबीजस्य शूकं दीर्घं पुच्छं यथा तनु भवति तद्वदियं शिखा तन्वी बाह्यवह्निशिखेव पीता भास्वती पीतवर्णा दीप्तियुक्ता भवेत्। सा चाणूपमा लौकिकानां तनूनां सूक्ष्मवस्तूनामुपमा भवितुं योग्या।

विश्वास-प्रस्तुतिः ...{Loading}...

तस्या॑श् शिखा॒या म॑द्ध्ये
प॒रमा॑त्मा व्य॒वस्थि॑तः ।
स ब्रह्मा॒ स शिव॒स् सेन्द्र॒स्
सोऽक्ष॑रः पर॒मस् स्व॒राट् ।।(26)

सर्वाष् टीकाः ...{Loading}...
मूलम्

तस्या॑श्शिखा॒या म॑द्ध्ये प॒रमा॑त्मा व्य॒वस्थि॑तः ।
स ब्रह्मा॒ स शिव॒स्सेन्द्र॒स्सोऽक्ष॑रः पर॒मस्स्व॒राट् ।। (26)

सायण-टीका

द्वादशीमृचमाह— तस्याः॑ शिखा॒या म॑ध्ये प॒रमा॑त्मा व्य॒वस्थितः। स ब्रह्मा॒ स शिवः॒ सेन्द्रः सोऽक्ष॑रः पर॒मः स्व॒राट्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्येकादशोऽनुवाकः॥ ११॥

तस्याः पूर्वोक्ताया वह्निशिखाया मध्ये जगत्कारणभूतः परमात्मा विशेषेणावस्थितः। तस्योपासनार्थमल्पस्थानत्वेऽपि न स्वयमल्पः, किंतु सर्वदेवात्मकः। ब्रह्मा चतुर्मुखः, शिवो गौरीपतिः, इन्द्रः स्वार्गाधिपतिः, अक्षरो जगद्धेतुर्मायाविशिष्टोऽन्तर्यामीश्वरः “क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते " इति भगवतोक्तत्वात्। परमो मायारहितः शुद्धश्चिद्रूपः। अत एव पारतन्त्र्याभावात्स्वराट्स्वयमेव राजा।


१ झ. ०स्तकः। त०। २ ख. ०द्भावो लि०। ३ ख. ०र्मध्येऽपि व०। ४ ग. ०षुम्णाना०। ५ ग. ०ह्निज्वालेव ६ ग. ०किकीनां। ७ ख. झ. ब्रह्म। ८ ग. झ. ०वः स हरिः से०। ९ झ. ०द्धचिद्रू०।

[[732]]

सहस्रशीर्षमित्यादिवाक्यप्रतिपाद्यं तत्त्वं पद्मकोश पद्मकोशप्रतीकाशमित्यादि- वाक्योक्तप्रकारेण ध्यायेदिति तात्पर्यार्थः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदिनिषद्येकादशोऽनुवाकः॥ २१॥


विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तँ स॒त्यं प॑रं ब्र॒ह्म॒
पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒
वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ऋ॒तँ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ।

सायण-टीका

अथ द्वादशोऽनुवाकः।


पूर्वोक्त-प्रकारेणोपासीनस्य पुरुषस्योपास्यदेवतानमस्कारार्थमेकामृचमाह–

ऋ॒त ँ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम्। ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमः॑, इति॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि द्वादशोऽनुवाकः॥ १२॥

यदेतत्परं ब्रह्म तत्सत्यमबाध्यम्। सत्यं च द्विविधम्, व्यावहारिकं पारमार्थिकं च। हिरण्यगर्भाद्गिकं रूपं व्यावहारिकं सत्यं तन्निवारेण पारमार्थिकसत्यं प्रदर्शयितुमृतं सत्यमिति विशेष्यते। अत्यन्तसत्यमित्यर्थः। तादृशं ब्रह्म स्वभक्तानुग्रहायोमामहेश्वरात्मकं पुरुषरूपं भवति। तत्र दक्षिणे महेश्वरभागे कृष्णवर्णः। उमाभागे वामे पिङ्गलवर्णः। स च योगेन स्वकीयं रेतो ब्रह्मरन्ध्रे धृत्वोर्ध्वरेता भवति। त्रिनेत्रत्वाद्विरूपाक्षः। तादृशं परमेश्वरमनुस्मृत्येति शेषः। विश्वरूपाय जगत्कारणत्वेन सर्वजगदात्मकाय विरूपाक्षाय पुरुषायैव नमस्कारोऽस्तु॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्वादशोऽनुवाकः॥ १२॥


१३-१५ आदित्यः ...{Loading}...
१३

आ॒दि॒त्यो वा ए॒ष ए॒तन् म॒ण्डल॒न् तप॑ति॒,
तत्र॒ ता ऋच॒स्, तद् ऋ॒चां म॒ण्डलँ॒, स ऋ॒चाल्ँ लो॒को,

ऽथ॒ य ए॒ष ए॒तस्मि॑न् म॒ण्डले॒ ऽर्चिर् दी॒प्यते॒
तानि॒ सामा॑नि॒, स सा॒म्नाम् म॒ण्डलँ॒, स सा॒म्नाल्ँ लो॒को,

ऽथ॒ य ए॒ष ए॒तस्मि॑न् म॒ण्डले॒ ऽर्चिषि॒ पुरु॑ष॒स्
तानि॒ यजूँ॑षि॒, स यजु॑षां म॒ण्डलँ॒, स यजु॑षाल्ँ लो॒कस्,

सैषा त्र॒य्य् एव॑ वि॒द्या त॑पति॒,
य ए॒षो॑न्तर् आ॑दि॒त्ये हि॑र॒ण्मयः॒ पुरु॑षः । (28)

१४

आ॒दि॒त्यो वै तेज॒ ओजो॒ बलय्ँ॒ यश॒श्
चक्षु॒श् श्रोत्र॑म्
आ॒त्मा मनो॑ म॒न्युर् मनु॑र् मृ॒त्युस्
स॒त्यो मि॒त्रो
वा॒युर् आ॑का॒शः प्रा॒णो लो॑कपा॒लः
कः किङ्कन्तत् स॒त्यम् अन्न॒म् आयु॑र् अ॒मृतो॑ जी॒वो विश्वः॑
कत॒मस् स्व॑यं॒भुः प्र॒जाप॑तिस् सव्ँवत्स॒र इति॑

सव्ँवत्स॒रो॑ ऽसावा॑दि॒त्यो
य ए॒ष पुरु॑ष
ए॒ष भू॒ताना॒म् अधि॑पति॒र्
ब्रह्म॑ण॒स् सायु॑ज्यँ सलो॒कता॑म् आप्नोत्य्
ए॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यँ सा॒र्ष्टिताँ॑ समानलो॒कता॑म् आप्नोति॒
य ए॒वव्ँ वेदे॑त्युप॒निषत् । (29)

१५

घृणि॒स्सूर्य॑,
आदि॒त्यम् अ॑र्चयन्ति॒,
तप॑स्स॒त्यं, मधु॑ क्षरन्ति॒,
तद्ब्रह्म॒, तदाप॒ आपो॒ ज्योती॒रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भु॑व॒स्सुव॒रोम् । (30)

१६-१९ रौद्रम् ...{Loading}...
16

सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ।
पुरु॑षो॒ वै रु॒द्रस्सन्म॒हो नमो॒ नमः॑ ।
विश्वं॑ भू॒तं भुव॑नञ्चि॒त्रं ब॑हु॒धा जा॒तञ्जाय॑मानञ्च॒ यत् ।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ (31)

17
१७ कद् रुद्राय ...{Loading}...

कद्रु॒द्राय॒ प्रचे॑तसे
मी॒ढुष्ट॑माय॒ तव्य॑से ।
वो॒चेम॒ शन्त॑मँ हृ॒दे ।

सर्वो॒ ह्ये॑ष रु॒द्रस्
तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु । (32)

18

नमो हिरण्यबाहवे हिरण्यपतये ऽम्बिकापतय उमापतये॑ नमो॒ नमः । (33)

19

यस्य॒ वैक॑ङ्कत्यग्निहोत्र॒हव॑णी भवति॒
प्रति॑ष्ठिताः॒ प्रत्ये॒वास्याहु॑तयस् तिष्ठ॒न्त्य्, अथो॒ प्रति॑ष्ठित्यै । (34)

20

कृ॒णु॒ष्व पाज॒ इति॒ पञ्च॑ । (35)

21

अदि॑तिर्दे॒वा ग॑न्ध॒र्वा म॑नु॒ष्याः॑ पि॒तरो ऽसु॑रा॒स्
तेषाँ॑ सर्वभू॒तानां॑ मा॒ता मे॒दिनी॑ मह॒ती म॒ही
सा॑वि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हु॒ला
विश्वा॑ भू॒ता क॑त॒मा का या सा स॒त्येत्य॒मृतेति॑ वसि॒ष्ठः । (36)

२२ आपो वा इदम् ...{Loading}...

विश्वास-प्रस्तुतिः

आपो॒ वा इ॒दँ सर्वं॒
विश्वा॑ भू॒तान्य् आपः॑
प्रा॒णा वा आपः॑
प॒शव॒ आपो, ऽन्न॒म् आपो, ऽमृ॑त॒म् आपः॑
स॒म्राड् आपो॑, वि॒राड् आपः॑, स्व॒राड् आप॒श्
छन्दाँ॒स्य् आपो॒, ज्योतीँ॒ष्य् आपो॒, यजूँ॒ष्य् आप॑स्,
स॒त्यम् आप॒स्, सर्वा॑ दे॒वता॒ आपो॒,
भूर् भुव॒स् सुव॒र् आप॒
ॐ ॥

मूलम्

आपो॒ वा इ॒दँ सर्वं॒
विश्वा॑ भू॒तान्यापः॑
प्रा॒णा वा आपः॑
प॒शव॒ आपो ऽन्न॒मापो ऽमृ॑त॒म् आपः॑
स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्
छन्दाँ॒स्यापो॒ ज्योतीँ॒ष्यापो॒ यजूँ॒ष्याप॑स्
स॒त्यमाप॒स् सर्वा॑ दे॒वता॒ आपो॒
भूर्भुव॒स्सुव॒राप॒ ॐ ॥

23

२३ आपः पुनन्तु ...{Loading}...
विश्वास-प्रस्तुतिः ...{Loading}...

आपः॑ पुनन्तु पृथि॒वीं
पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् ।
+++(पृथि॒वीं)+++ पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्
ब्रह्म॑ +++(च)+++, +++(सा)+++ पू॒ता पु॑नातु॒ माम् ॥

सर्वाष् टीकाः ...{Loading}...
भास्करोक्त-विनियोगः

स्नानकाले मन्त्रवदाचमने विनियोगः ।

मूलम्

आपः॑ पुनन्तु पृथि॒वीं
पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् ।
पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्
ब्रह्म॑पू॒ता पु॑नातु॒ माम् ॥

भट्टभास्कर-टीका

1आपः पुनन्त्व् इति ॥ अत्यष्टिर् अष्टपदा । द्वितीय-वर्जम् अष्टाक्षराः पादाः ।
द्वयोर्द्वयोः पादयोर्विरामः ।
स्नानकाले मन्त्रवदाचमने विनियोगः ।

आपः पुनन्तु शोधयन्तु
पृथिवीं कारणेन कार्यशुद्धिः प्रार्थ्यते ।
सा चाद्भिः पूता पृथिवी मां पुनातु स्वकार्यभूतम् ।
किञ्च - ब्रह्मणस्पतिः परिबृढस्य प्रपञ्चस्य ब्रह्मणः पतिः
परमात्मा कारणं ब्रह्म
ब्राह्मणानि मन्त्राश्च पृथिवीं पुनन्त्व् अपुनन् ।
सा च तैः पूता मां पुनातु ।

विश्वास-प्रस्तुतिः ...{Loading}...

यद् उच्छि॑ष्ट॒म् अभो॑ज्यय्ँ॒
यद् वा॒ दुश्-च॑रितं॒ +++(दु॒श्चरि॑तं॒)+++ मम॑ ।
सर्वं॑ पुनन्तु॒ माम् आपो॑
ऽस॒ताञ् च॑ प्रति॒ग्रहँ॒+++(←कृद्-उत्तर-पद-प्रकृति-स्वरः)+++ स्वाहा॑ ॥ (38)

सर्वाष् टीकाः ...{Loading}...
मूलम्

यदुच्छि॑ष्ट॒म् अभो॑ज्यय्ँ॒
यद्वा॑ दु॒श्चरि॑तं॒ मम॑ ।
सर्वं॑ पुनन्तु॒ मामापो॑
ऽस॒ताञ्च॑ प्रति॒ग्रहँ॒ स्वाहा॑ ॥ (38)

भट्टभास्कर-टीका

यन् मनस्-सम्बन्ध्य् उच्छिष्टम्
अप्रायत्य-करं मूत्रोत्सर्जनादि चण्डालोपस्पर्शनादि च
यच् चाभोज्यं केशकीटाद्य्-अवपन्नादि मम सम्बन्धि
दुश्चरितं दुष्टं शास्त्रनिषिद्धं प्रतिषिद्धमैथुनादि
तन्निमित्तं पापं सर्वं मदीयं धर्मधर्मिणोरभेद उपचर्यते । यद्वा - मां च मयि पूर्वसञ्चितं च पापम् आपः पुनन्तु । असतां शूद्रादीनां च प्रतिग्रहं प्रतिग्रहनिमित्तं च पापं शोधयत्विति ॥
इति याज्ञिक्युपनिषदि त्रयोविंशोऽनुवाकः ॥

24

२४ अग्निश् च ...{Loading}...

विश्वास-प्रस्तुतिः

अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः।
पापेभ्यो॑ रक्ष॒न्ताम् ।

यद् अह्ना पाप॑म् अका॒र्षम् ।
मनसा वाचा॑ हस्ता॒भ्याम् ।
पद्भ्याम् उदरे॑ण शि॒श्ना ।
अह॒स् तद् अ॑वलु॒म्पतु ।

यत्किञ् च॑ दुरि॒तं मयि॑ ।
इदम् अहं माम् अमृ॑त-यो॒नौ ।
सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।

मूलम्

अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः।
पापेभ्यो॑ रक्ष॒न्ताम् ।

यद् अह्ना पाप॑म् अका॒र्षम् ।
मनसा वाचा॑ हस्ता॒भ्याम् ।
पद्भ्याम् उदरे॑ण शि॒श्ना ।
अह॒स् तद् अ॑वलु॒म्पतु ।

यत्किञ् च॑ दुरि॒तं मयि॑ ।
इदम् अहं माम् अमृ॑त-यो॒नौ ।
सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।

25

२५ सूर्यश् च ...{Loading}...

विश्वास-प्रस्तुतिः

सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः।
पापेभ्यो॑ रक्ष॒न्ताम् ।

यद् रात्रिया पाप॑म् अका॒र्षम्।
मनसा वाचा॑ हस्ता॒भ्याम् ।
पद्भ्याम् उदरे॑ण शि॒श्ना ।
रात्रि॒स् तद् अ॑वलु॒म्पतु ।

यत् किञ्च॑ दुरि॒तं मयि॑ ।
इदम् अहं माम् अमृ॑तयो॒नौ ।
सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा । (40)

मूलम्

सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः।
पापेभ्यो॑ रक्ष॒न्ताम् ।

यद् रात्रिया पाप॑म् अका॒र्षम्।
मनसा वाचा॑ हस्ता॒भ्याम् ।
पद्भ्याम् उदरे॑ण शि॒श्ना ।
रात्रि॒स् तद् अ॑वलु॒म्पतु ।

यत् किञ्च॑ दुरि॒तं मयि॑ ।
इदम् अहं माम् अमृ॑तयो॒नौ ।
सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा । (40)

विश्वास-टिप्पनी

क्वचिद् एवम् - अग्निर् ऋषिः, देवीगायत्री-छन्दः, सूर्यो देवता ।

26

२६ आयातु वरदा ...{Loading}...

विश्वास-प्रस्तुतिः ...{Loading}...

+++(आरण्यक-स्वर-विकारम् उपेक्षते विश्वासः।)+++

आया॑तु॒ वर॑दा दे॒वी॒
अ॒क्षरं॑ ब्रह्म॒संमि॑तम् ।
गा॒य॒त्री॑ञ् छन्द॑सां
मा॒तेदं ब्र॑ह्म जु॒षस्व॑ नः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

आया॑तु॒ वर॑दा दे॒वी॒
अ॒क्षरं॑ ब्रह्म॒संमि॑तम् ।
गा॒य॒त्री॑ञ् छन्द॑सां
मा॒तेदं ब्र॑ह्म जु॒षस्व॑ नः ।

विश्वास-प्रस्तुतिः - यजुः

ओजो॑ऽसि।
सहो॑ऽसि।
बल॑मसि।
भ्राजो॑ऽसि।
दे॒वाना॒न् धाम॒ नामा॑सि॒।
विश्व॑म् असि वि॒श्वायु॒स्,
सर्व॑म् असि स॒र्वायुः॑।
अ॒भि॒भूर् [ओङ् गायत्रीम् आवा॑हयामि । (41)]

विश्वास-टिप्पनी - यजुः

श्येनरूपेणागताया आवाहने कल्पनम् -

  • प्रातः - बाला रक्ता हंसवाहना जपमालाहस्ता ब्राह्मीरूपा,
  • मधाह्ने - युवती सावित्री वृषवाहना शूलहस्ता रोद्ररूपिणी,
  • सायम् - वृद्धा सरस्वती गरुडवाहना चक्रहस्ता वैष्णवरूपा।
मूलम्

ओजो॑ऽसि।
सहो॑ऽसि।
बल॑मसि।
भ्राजो॑ऽसि।
दे॒वाना॒न् धाम॒ नामा॑सि॒।
विश्व॑म् असि वि॒श्वायु॒स्,
सर्व॑म् असि स॒र्वायुः॑।
अ॒भि॒भूर् [ओङ् गायत्रीम् आवा॑हया॒मि । (41)]

27

२७ सशिरो गायत्री ...{Loading}...

शिरः

विश्वास-प्रस्तुतिः

ओं भूः । ओं भुवः॑ । ओँ सुवः॑ । ओं महः॑ । ओञ् जनः॑ । ओं तपः॑ । ओँ स॒त्यम् ।

मूलम्

ओं भूः । ओं भुवः॑ । ओँ सुवः॑ । ओं महः॑ । ओञ्जनः॑ । ओं तपः॑ । ओँ स॒त्यम् ।

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

त᳓त् सवितु᳓र् व᳓रेण्य᳓+++(णिय)+++म्
भ᳓र्गो+++(=भर्जनम्)+++ देव᳓स्य धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धि᳓यो यो᳓ नः प्रचोद᳓यात् ॥
(परो᳓-रजसे ऽसा᳓वद् ओ᳓३म् ॥)

प्र᳓चो᳓द᳓या᳓त्-स्व᳓रः᳓

प्र᳓ + चु᳓द् + णि᳓च् उ᳓दा᳓त्तः᳓ + श᳓प् अ᳓नु᳓दा᳓त्तः᳓ पि᳓त्त्वा᳓त् + [ले᳓ट् → आ᳓ट् + ति᳓प् अ᳓नु᳓दा᳓त्तः᳓ पि᳓त्त्वा᳓त्]।

प्रा᳓नु᳓दा᳓त्त᳓त्वं᳓ ति᳓ङ᳓न्त᳓स्यो᳓दा᳓त्त᳓व᳓त्त्वा᳓त्। त᳓च्च᳓ य᳓त्का᳓र᳓स᳓द्भा᳓वा᳓त्।

010 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - सविता
  • ऋषिः - गाथिनो विश्वामित्रः
  • छन्दः - गायत्री
Thomson & Solcum

त᳓त् सवितु᳓र् व᳓रेणियम्
भ᳓र्गो देव᳓स्य धीमहि
धि᳓यो यो᳓ नः प्रचोद᳓यात्

Vedaweb annotation

Strata
Strophic on metrical evidence alone


Pāda-label
genre M
genre M
genre M


Morph
savitúḥ ← savitár- (nominal stem)
{case:GEN, gender:M, number:SG}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

váreṇyam ← váreṇya- (nominal stem)
{case:NOM, gender:N, number:SG}

bhárgaḥ ← bhárgas- (nominal stem)
{case:NOM, gender:N, number:SG}

devásya ← devá- (nominal stem)
{case:GEN, gender:M, number:SG}

dhīmahi ← √dhā- 1 (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:MED}

dhíyaḥ ← dhī́- (nominal stem)
{case:ACC, gender:F, number:PL}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

pracodáyāt ← √cud- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

पद-पाठः

तत् । स॒वि॒तुः । वरे॑ण्यम् । भर्गः॑ । दे॒वस्य॑ । धी॒म॒हि॒ ।
धियः॑ । यः । नः॒ । प्र॒ऽचो॒दया॑त् ॥

Hellwig Grammar
  • tattad
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • savitursavituḥsavitṛ
  • [noun], genitive, singular, masculine
  • “Savitar; sun; Surya; Savitṛ.”

  • vareṇyamvareṇya
  • [noun], accusative, singular, neuter
  • “excellent; desirable.”

  • bhargobhargaḥbhargas
  • [noun], accusative, singular, neuter

  • devasyadeva
  • [noun], genitive, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • dhīmahidhā
  • [verb], plural, Root aorist (Ind.)
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • dhiyodhiyaḥdhī
  • [noun], accusative, plural, feminine
  • “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”

  • yoyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • naḥmad
  • [noun], genitive, plural
  • “I; mine.”

  • pracodayātpracoday√cud
  • [verb], singular, Present conjunctive (subjunctive)
  • “push; drive; command; excite; proclaim; demand; request; request.”

ब्राह्मणोद्धरणानि

सविता वै प्रसवानामीशे॥

ऋचस्सामानि यजूंषि ।
सा हि श्रीरमृता सताम् ।
सर्वेभ्यो वै वेदेभ्यः
सावित्र्यनूच्यते॥

सायण-भाष्यम्

यः सविता देवः नः अस्माकं धियः कर्माणि धर्मादिविषया वा बुद्धीः प्रचोदयात् प्रेरयेत्
तत् तस्य देवस्य सवितुः सर्वान्तर्यामितया प्रेरकस्य जगत्स्रष्टुः परमेश्वरस्य वरेण्यं सर्वैः उपास्यतया ज्ञेयतया च संभजनीयं भर्गः अविद्यातत्कार्ययोर्भर्जनाद्भर्गः स्वयंज्योतिः परब्रह्मात्मकं तेजः धीमहि वयं ध्यायामः ।

यद्वा । तत् इति भर्गोविशेषणम् । सवितुः देवस्य तत्तादृशं भर्गो धीमहि। किं तदित्यपेक्षायामाह । यः इति लिङ्गव्यत्ययः। यद्भर्गो धियः प्रचोदयात् । तत् ध्यायेमेति समन्वयः।

यद्वा । यः सविता सूर्यो धियः कर्माणि प्रचोदयात् प्रेरयति तस्य सवितुः सर्वस्य प्रसवितुः देवस्य द्योतमानस्य सूर्यस्य तत्सर्वैः दृश्यमानतया प्रसिद्धं वरेण्यं सर्वैः संभजनीयं भर्गः पापानां तापकं तेजोमण्डलं धीमहि ध्येयतया मनसा धारयेम ।

यद् वा - भर्गः-शब्देनान्नम् अभिधीयते ।
यः सविता देवो धियः प्रचोदयति तस्य प्रसादाद् भर्गो ऽन्नादि-लक्षणं फलं धीमहि धारयामः । तस्याधार-भूता भवेमेत्य् अर्थः । भर्गः-शब्दस्यान्नपरत्वे धी-शब्दस्य कर्मपरत्वे चाथर्वणं - ‘ वेदांश्छन्दांसि सवितुर्वरेण्यं भर्गो देवस्य कवयोऽन्नमाहुः । कर्माणि धियस्तदु ते प्रब्रवीमि प्रचोदयत्सविता याभिरेति’ (गो. ब्रा. १. ३२) इति ॥

भर्गः । ‘ भ्रस्ज पाके’। असुन् । ‘ भ्रस्जो रोपधयो रमन्यतरस्याम् ’ ( पा. सू. ६. ४. ४७ ) इति रोपधयोर्लोपो रमागमः । न्यङ्वांरसदिपाठात् कुत्वम् ।

धीमहि । ध्यायतेर्लिङि ‘बहुलं छन्दसि ’ इति ‘संप्रसारणम् । व्यत्ययेनात्मनेपदम् ।
यद्वा - ‘धीङ् आधारे’ । लिङि ‘ बहुलं छन्दसि ’ इति विकरणस्य लुक् ।

प्रचोदयात् । चोदयतेर् लेट्याडागमः । यद्-वृत्त-योगाद् अनिघातः । आगमस्यानुदात्तत्वे णिचः स्वरः ॥ ॥ १० ॥

भट्टभास्कर-टीका

तत् तस्य ‘सुपां सुलुक्’ इति षष्ठ्या लुक् । तस्य सवितुः देवस्य दाना[देवना]दिगुणयुक्तस्य स्वभूतं तत्प्रसादलभ्यं वा अत एव वरेण्यं वरणीयं सर्वैः प्रार्थनीयं भर्गः तेजः अन्नं धनं वा वयं धीमहि धारयेम तस्यैव प्रसादात् तस्याधारभूता भवेम । धीङ् आधारे दैवादिकः । ‘छन्दसि लुङ्लङ्लिटः’ इति लङि ‘बहुलं छन्दस्यमाङ्’ इत्यडभावः । दधातेर्वा लिङ् । सर्वत्र ‘बहुलं छन्दसि’ इति शपोलुक् ।

कस्येत्याह - यो देवस्सवितास्माकं धियः कर्माणि प्रचोदयात् प्रचोदयेत् प्रवर्तयेत् ।

यद्वा - धियः धर्मादिगोचराः बुद्धीः प्रचोदयात् प्रेरयेत् । लेट्य् आडागमः ।

तस्य सवितुर् इति - यद्वा - सवितुर् देवस्य तद् अन्नादि धीमहि
किमित्याह - इति । लिङ्गव्यत्ययः । यद् अस्माकं धियः प्रचोदयात् प्रेरयति ।

यद्वा - यो देवस् सविता विश्वस्य प्रसवितास्माकं धर्मादिगोचराः धियः प्रेरयति तस्य स्वभूतं वरेण्यं सर्वैर्भजनीयं भर्गः पापानां तापनं तेजो मण्डलात्मकं धीमहि मनसा धारयामः । ध्यायतेरेव वा छान्दसं सम्प्रसारणम् ।

एवं बोधप्रकाशाभ्यां समस्तस्य प्रपञ्चस्य उपकुर्वाणं श्रेयोर्थिभिर् भजनीयं सूर्यात्मना स्थितं पारमेश्वरं तेज उपास्यत्वेन उपदिश्यते ॥

हरदत्तः

अथ सावित्री - तत्सवितुरिति ॥
तच्-छब्दश्रुतेः यच्-छब्दोभ्याहर्तव्यः । यत् सर्वेषां ध्येयं तद्देवस्य सवितुः वरेण्यं वरणीयं भर्गः पापानां भर्जनं तेजोमयं रूपं वयं धीमहि ध्यायामः । कीदृशस्य सवितुः? यो नः अस्माकं सर्वेषां धियो धर्मादिविषया वृद्धिः प्रचोदयात् प्रेरयेत् ।

सवित्राभ्यनुज्ञातो हि सर्वोपि कर्म करोति सविता वै प्रसवानामीशे इति ब्राह्मणम् ॥

विद्यारण्यः

अथ सर्वदेवात्मनः सर्वशक्तेः सर्वावभासक-तेजो-मयस्य परमात्मनः सर्वात्मकत्व-द्योतनार्थं सर्वात्मकत्व-प्रतिपादक-गायत्री-महा-मन्त्रस्योपासन-प्रकारः प्रकाश्यते ।

तत्र गायत्रीं प्रणवादि-सप्त-व्याहृत्य्-उपेतां शिरःसमेतां सर्व-वेद-सारम् इति वदन्ति। एवं-विशिष्टा गायत्री प्राणायामैर् उपास्या ।
सप्रणव- व्याहृति-त्रयोपेता प्रणवान्ता गायत्री जपादिभिर् उपास्या ।

तत्र शुद्ध-गायत्री प्रत्यग्-ब्रह्मैक्य-बोधिका ।

धियो यो नः प्रचोदयाद् इति । नो ऽस्माकं, धियो बुद्धिय, प्रचोदयाद् प्रेरयेदिति सर्वबुद्धि-संज्ञातः करण-प्रकाशक-सर्व-साक्षी प्रत्यग्-आत्मेत्य् उच्यते । तस्य प्रचोदयात्-शब्द-निर्दिष्टस्यात्मनः स्वरूप भूतं परं ब्रह्म तत् सवितुर् इति+आदि-पदैर् निर्दिश्यते ।

“तत्र ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः” इति तच्-छब्देन प्रत्यग्भूतं स्वतः सिद्धं परं ब्रह्मोच्यते ।

सवितुर् इति सृष्टिस्थितिलय-लक्षणकस्य सर्व-प्रपञ्चस्य समस्त-द्वैत-विभ्रमस्याधिष्ठानं लक्ष्यते ।
वरेण्यम् इति सर्व-वरणीयं निरतिशयानन्द-रूपम् ।
भर्ग इत्य् अविद्यादि- दोष-भर्जनात्मक-ज्ञानैक-विषयम् ।
देवस्येति सर्व-द्योतनात्मकाखण्ड-चिद्-एक-रसम् ।
सवितुर् देवस्येत्यत्र षष्ठ्यर्थो राहोः शिर इतिवद् औपचारिकः बुद्ध्यादि-सर्व-दृश्य-साक्षि-लक्षणं यन् मे स्व-रूपं तत्-सर्वाधिष्ठान-भूतं परमानन्दं निरस्त-समस्तानर्थ-रूपं स्व-प्रकाश-चिद्-आत्मकं ब्रह्मेत्य् एवं धीमहि ध्यायेम ।

एवं सति सह ब्रह्मणा स्व-विवर्त-जड-प्रपञ्चस्य रज्जु-सर्प-न्यायेन अपवाद-सामानाधिकरण्य-रूपम् एकत्वं, सोऽयम् इति न्यायेन सर्व-साक्षि-प्रत्यग्-आत्मनो ब्रह्मणा सह तादात्म्य-रूपम् एकत्वं भवतीति सर्वात्मक-ब्रह्म-बोधकोऽयं गायत्री-मन्त्रः सम्पद्यते ।

सप्तव्याहृतिनामयमर्थः—

भूर् इति सन्-मात्रम् उच्यते
भुव इति सर्वं भावयति प्रकाशयतीति व्युत्पत्त्या चिद्-रूपम् उच्यते ।
सुवर् इति - सुव्रियत इति व्युत्पत्त्या, सुष्ठु सर्वैर् व्रियमाण-सुख-स्वरूपम् उच्यते ।
मह इति महीयते पूज्यत इति व्युत्पत्त्या सर्वातिशयत्वम् उच्यते ,
जन इति—जनयतीति जनः, सकल-कारणत्वमुच्यते ।
तप इति सर्व-तेजो-रूपत्वम् ।
सत्यम् इति सर्व-बाध-रहितम् ।

एतद् उक्तं भवति—
यल् लोके सद् रूपं तदोंकार-वाच्यं ब्रह्मैव, आत्मनोऽस्य सच्-चिद्-रूप-स्वभावाद् इति ।
अथ भूरादयः सर्वलोका ओंकार-वाच्य-ब्रह्मात्मकाः,
न तद्-व्यतिरिक्तं किंचिद् अस्तीति व्याहृतयो ऽपि सर्वात्मक-ब्रह्मबोधिकाः ।

गायत्री-शिरसोऽप्य् अयम् एवार्थः—
आप इत्य् आप्नोतीति व्युत्पत्त्या व्यापित्वम् उच्यते
ज्योतिर् इति प्रकाशरूपत्वम् ।
रस इति सर्वातिशयत्वम् ।
अमृतम् इति मरणादि संसारनिर्मुक्तत्वम् ।
सर्व-व्यापि-सर्व-प्रकाशक-सर्वोत्कृष्ट-नित्य-मुक्तम् आत्मरूपं सच्-चिद्-आत्मकं यद् ओंकार-वाच्यं ब्रह्म तद् अहम् अस्मि ।

इति गायत्रीमन्त्रस्यार्थः ।

गुहाशय-ब्रह्म-हुताशनोऽहं
कर्त्रेदम् अंशाख्य-हविर्-हुतं सत्।
विलीयते नेदम् अहं भवानीत्य्
एष प्रकारस् तु विभिद्यतेऽत्र ॥

यद् अस्ति यद् भाति तद् आत्मरूपं
नान्यत् ततो भाति न चान्यद् अस्ति ।
स्वभाव-संवित्-प्रविभाति केवला
ग्राह्यं ग्रहीतेति मृषैव कल्पना ॥

विश्वामित्रः

देवस्य सवितुस् तस्य
धियो यो नः प्रचोदयात् ।
भर्गो वरेण्यं तत् ब्रह्मा
धीमहीत्य् अर्थ उच्यते ।

यो देवस् सविताऽस्माकं
धियो धर्मादिगोचराः ।
प्रेरयेत् तस्य यद् भर्गस्
तद्वरेण्यम् उपास्महे ।

… आदित्यमण्डलासीनं
रुक्माभं पुरुषं परम् ।
ध्यायञ् जपेत् तद् इत्य् एतां
निष्कामो मुच्यतेऽचिरात् ॥
सुप्रभं सत्यम् आनन्दं
हृदये मण्डलेऽपि च ।
ध्यायन् जपेत् तदित्येतां
निष्कामो मुच्यतेऽचिरात् ॥

स यश्चायं पुरुषे यश् चासाव् आदित्ये स एकः

इति ध्यानार्थः॥

विद्यारण्यः - हिन्दी

शुद्ध गायत्री जीवात्मा और ब्रह्म की एकता का सूचक है। ‘धियोयोनः प्रचोदयात्’ अर्थात् हमारी बुद्धि को प्रेरणा देता है तथा जो अन्तःकरण की प्रकाशिका तथा सर्व साक्षी है उसे प्रत्यगात्मा कहा जाता है। उस प्रचोदयात् शब्द से आत्मा स्वरूप भूत परब्रह्म का तत् सवितुः आदि पदों से कथन किया है। यहां ‘ॐ’ तत्सत् इस पद से ब्रह्म के तीन प्रकारों का वर्णन है। तत् शब्द स्वतः सिद्ध सब भूतों में स्थित परब्रह्म के लिए कहा जाता है। सविता, सृष्टि, स्थिति, प्रलय लक्षण वाले सब प्रपंच के, समस्त द्वैत भ्रम के अधिष्ठान हैं। वरेण्यं सर्व वरणीयं, निरतिशय एवं आनन्द रूप है। ‘भर्ग’ अविद्या रूपी दोष को नष्ट करने वाला ज्ञान रूप है। ‘देवस्य’ सबका प्रकाशक अखण्ड-आत्मा एवं रस वाला देव है। ‘सवितुर्देवस्य’ यहां षष्ठी है। सम्बन्ध कारक है। राहोः शिरो की तरह औपचारिक है। बुद्धि से सब पदार्थों का साक्षी रूप जो मेरा स्वरूप है वह सब का अधिष्ठान है। उस परमानन्द, सब अनर्थ रहित, स्वयं प्रकाश चैतन्य रूप ब्रह्म का ध्यान करते हैं। इस तरह ब्रह्म अपने ही विवर्त भूत जड़ जगत रज्जु में सर्प की तरह अपवाद है। समान अधिकरण होने से एक रूपता है। इस तरह सब का साक्षी जीवात्मा ब्रह्म के साथ तादात्म्य होने के कारण एकत्व है। यह गायत्री मंत्र सर्वात्मक ब्रह्म का बोध कराने वाला है। तीन महाव्याहृतियों का अर्थ यों है। भूः का अर्थ सत है, भुवः सब का प्रकाशक (इस व्युत्पत्ति से चिद् रूप कहलाता है) स्वः सुव्रियते इस व्युत्पत्ति से सबसे प्रथिति सुख रूप है।

वेङ्कटनाथः

प्रतिपुरुषम् अनेकाः, प्रत्य्-अवस्थं विचित्राश्
शुभ-गतिषु धियो नश् चोदयत्य् अञ्जसा नः
अखिल-चिद्-अचिद्-अन्तर्-यामि-तद्-विष्णु-संज्ञं
सवितुर् अहम् उपासे तस्य देवस्य भर्गः

इति शतदूषणी।

तेजः परं तत् सवितुर् वरेण्यं
धाम्ना परेणाप्रणखात् सुवर्णम् ।
त्वां पुण्डरीकेक्षणम् आमनन्ति
श्रीरङ्गनाथं समुपासिषीया ।

इति श्रीरङ्गराजस्तवः।

चिन्नाण्डवन् - आह्निकार्थप्रकाशिका

… अनयोर् वचनयोर् भर्गशब्दस्य तेजःपरत्वेन
यच्-छब्दस्य सवितृ-परत्वेन च व्याख्यानं कृतं वरदराजीये -
तच्-छब्द-श्रुतेर् यच्छब्दो ऽध्याहर्तव्यः ।

सवितुः जगतां प्रसवितुः,

सवि॒ता वै प्र॑स॒वाना॑मीशे,
उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒

इति श्रुतेः ।

वरेण्यं वृङ् संभक्तौ एण्यप्रत्ययः ।

सर्वेषां भजनीयं भर्गः तेजः ।
भञ्जनाद् भर्गः, प्रकाश-प्रदानेन जगतो बाह्यान्तर-तमो-भञ्जकत्वाद् वा,
भर्जनाद् वा कालात्मकतया सकल-कर्म-फल-पाक-हेतुत्वात्,
भरणाद् वा वृष्टि-प्रदानेन भूतानां भरण-हेतुत्वात् ।

देवस्य द्योतमानस्य धीमहि चिन्तयामः ।
“ध्यै चिन्तायाम्”।

देवस्य सवितुः वरेण्यं यद्भर्गः तत् ध्यायेम ।
आदित्यमण्डलान्तर्वर्तिनं तेजोमयं पुरुषम् अनुचिन्तयामः ।

य एषोऽन्तरादित्ये हिरण्मयः पुरुषः,
अथ य एष एतस्मिन् मण्डलेर्चिषि पुरुषः

इत्यादिश्रुतेः ।
यः सविता, नः अस्माकं,
धियः हानोपादान-विषय-ज्ञानानि,
प्रचोदयात् प्रचोदयति,
तत्सवितुः भर्गश् चिन्तयाम इति ।

… एवं च सवितृ-मण्डलान्तर्-वर्ति-पुण्डरीकाक्षं सकल-जगदाधारं विष्णुसंज्ञं
यद् भर्गस् तेजः
तत् तेजश् चिन्तयाम इति सिद्धम् ।

अत्र मैत्रावरुणीयश्रुतिः +++(=(मै.उ.६-३४))+++ -

एतत् सवितुर् वरेण्यं ध्रुवम् अचलम् अमृतं भर्गाख्यं विष्णुसंज्ञं सर्वाधारं धाम

इति ।

अहिर्बुध्न्यसंहिता

सावित्रं नाम तज् ज्योतिः
तत् सावित्रीसमाह्वयम् ।
तस्य व्याख्याम् इमां सम्यग्
गदतो मे निशामय

प्रतिसञ्चर-वेलायां
ताम् अयत्य्+++(←पदविग्रहः??)+++ एव तां पुनः ।
त्रायते तत्र तत्रैव
भूत्य्-अंशे धारकात्मना ।
प्रमाणत्वेन भूयश् च,
तत्-तद्-अर्थतया +++(→प्रमेयतया)+++ पुनः +++(प्रतिभाति?)+++ ।
अतस् तद् इति सङ्कल्पः
प्रोच्यते वैष्णवः परः ।

प्रसौति सकलां चेष्टां
प्रसौति सकलं जगत् ।
अवतेर् गतिकान्त्य् अर्थात्
तरतेर् दानकर्मणः ।
गतो ह्य् अवति सर्वत्र
षड्भिः कान्तो गुणैः परम् ।
भोगापवर्गयोर् दाता
सवितेति निरुच्यते ।
वरैर् नेयं वरेण्यन् तु
वरदातार ईरिताः ।
वरेणियं वरेण्यं वा
वरं नयति तत्परम् ।

भर्गस् तेजस् समाख्यातं
प्रभावः कर्तृरूपता । भरतीदं जगत्कृत्स्नं
सम्भरत्य् अपि चेश्वरान् ।
रमयत्य् अपि तत्सर्वं
राति चार्थम् अभीप्सितम् ।
गमयत्य् अपि तन् नाशं
स्मृति-बन्धम् अशेषतः ।
भर्गयत्य् अपि तत्-कष्टं
भर्गतस् तेन तत्तथा ।
अतो भर्गः परं विष्णोः
सङ्कल्पं विदुर् अद्भुतम् ।

द्योतनस् सर्वभावानां
द्योतमानः स्वयं सदा ।
अज्ञानम् अखिलं चान्यच्
चोदयन्न् अखिलञ् जगत् ।
अयं सकलम् एवेदं
तथोतं मणि-सूत्रवत् ।
इन ईरण ईभ्यश् च
परितस् सकलं दधत् ।
देव इत्य् उच्यते विष्णुः
परमात्मा सनातनः ।

धीमहीत्य् अधिविज्ञानं
मननं भावनं तथा ।
धियो धीपूर्विकाश् चेष्टाः
प्रेरणन् तु प्रचोदनम्

यस् सर्व-शक्तिस् सविता
देवस् संविन्-मयश् च यः ।
यश् च सर्वदिगीशानो
धियस् तास् ताः प्रचोदयात्

सृष्टि-स्थिति-लय-त्राण-
त्रिधा-करणम् अव्ययम् ।
तस्य देवस्य सङ्कल्पं
भर्ग-संज्ञम् उपास्महे ।

गायतस् त्रायमाणायाः
गायत्र्या अर्थ ईदृशः ।
या सत्ता सर्वभूतानां
विष्णुशक्तिः परावरा ।

सा भूर् इति समाख्याता
भरतीदं जगत्स्वयम् ।

भू(त)त्वा शक्तिं समास्थाय
यावतीदं जगत् स्वयम् ।
सा भुवः कथिता सद्भिर्
अवती भावितं जगत् ।

वसीयो भोग-मोक्षाख्यं
सूते या सततं सताम् ।
सा सुवः कथिता ब्रह्मन्
व्याहृती वाङ्मयी ततः ॥

नित्यानन्दमिश्रः - प्रचोदयात्

प्र + चुद सञ्चोदने (चुरादिगण १०.४९) + णिच् + लेट् (शप् + तिप्) = प्रचोदयात्। लेटि छान्दसरूपमिदम्।


निष्पत्तिः

प्र चुद → अनुबन्धलोपः → प्र चुद् → सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५) → प्र चुद् णिच् → अनुबन्धलोपः → प्र चुद् इ → पुगन्तलघूपधस्य च (७.३.८६) → प्र चोद् इ → प्र चोदि → सनाद्यन्ता धातवः (३.१.३२) → लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९) → विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् (३.३.१६१) → लिङर्थे लेट् (३.४.७) → शेषात्कर्तरि परस्मैपदम् (१.३.७८) → प्र चोदि तिप् → कर्तरि शप् (३.१.६८) → प्र चोदि शप् तिप् → अनुबन्धलोपः → प्र चोदि अ ति → सार्वधातुकार्धधातुकयोः (७.३.८४) → प्र चोदे अ ति → लेटोऽडाटौ (३.४.९४) → आद्यन्तौ टकितौ (१.१.४६) → प्र चोदे अ आट् ति → अनुबन्धलोपः → प्र चोदे अ आ ति → एचोऽयवायावः (६.१.७८) → प्र चोदय् अ आ ति → अकः सवर्णे दीर्घः (६.१.१०१) → प्र चोदय् आ ति → इतश्च लोपः परस्मैपदेषु (३.४.९७) → प्र चोदय् आ त् → प्रचोदयात्।


अर्थः

यदि प्रार्थने लिङ् स्वीक्रियते तर्हि ‘लिङर्थे लेट्’ (३.४.७) इत्यनेन लेटि सिद्धस्य ‘प्रचोदयात्’ इत्यस्य “प्रकर्षेण सञ्चोदनं कुर्यात्” इत्यर्थः। यदि लडर्थे बहुलव्यत्ययाल्लेट् स्वीक्रियते तर्हि ‘प्रचोदयात्’ इत्यस्य “प्रकर्षेण सञ्चोदनं करोति” इत्यर्थः।

सम्पुटीकरणादि

वृद्धयमस्मृतौ तृतीयाध्याये -

वरेण्यं विरलं जप्यं
जपकाले द्विजोत्तमैः ।
वरेण्यं संहिताकाले
वरेणीयं जपे स्मृतम् ॥

काश्यपस्मृतौ -

एक-प्रणव-संयुक्तां
गायत्रीं प्रजपेद् गृही ।
ब्रह्मचारी च सन्ध्यासु
नियतो नियतेन्द्रियः ।
वनी सम्पुट-गायत्रीं
यतिष् षड्-प्रणवान्विताम् ॥

वृद्धयमस्मृतौ तृतीयाध्याये -

एकोङ्कारा सम्पुटा च
षडोङ्कारेति सा त्रिधा ।

आद्य्-अन्तोंकार-संयुक्ता
गायत्री संपुटा स्मृता ।

सहोङ्कारा व्याहृतयः
पुनरोङ्कारसंयुताः ।
मनोर् आदावथाऽन्ते च
षडोङ्कारेयम् उच्यते । … ओङ्कारं पूर्वमुच्चार्य
भूर्भुवः स्वस्ततः परम् ।
गायत्रीं च ततश् चोक्त्वा
जपकाले विशेषतः ॥

सहस्रकृत्वस् सावित्रीं
जपेद् अव्यग्र-मानसः ।
शतकृत्वोऽपि वा सम्यक्
प्राणायामपरो यदि ।
सप्त-व्याहृति-पूर्वां चेद्
आद्यन्तप्रणवान्विताम् ।
मनसा वा जपेच् चैव
दशकृत्वो वरः स्मृतः ॥

इति योगयाज्ञवल्क्य-वचन-ग्रहणम्॥

मानसतरङ्गिणीकृत्

May we focus on the excellent radiance of the deva Savitṛ who will inspire our insights.

Wilson

English translation:

“We meditate on that desirable light of the divine Savitā, who influences our pious rites.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Yajus. 3.35;

Pracodayāt = who may animate, or enlighten our intellect;

Savitā = the soul, as one with the soul of the world, Brahma; when we meditate on the light which is one with Brahma, his own light, which, from its consuming influences on ignorance and its consequences, is termed Bhargas, and is that which is desirable, from its being to be known or worshiped by all (vareṇyam) the property of the supreme being, (parameśvara), the creator of the world, and the animator, impeller or urger (savitā), through the internally abiding spirit (antaryām) of all creatures; yaḥ, although masculine, may be relative to the neuter noun bhargas, that light which animates all (dhiyaḥ) acts (karmāṇi), or illumes all understanding (buddhiḥ); again, devasya savituḥ may mean, of the bright or radiant sun, as the progenitor of all, sarvasya prasavitur, and bhargas may be understood as the sphere or orb of light, the consumer of sins, pāpānām tāpakam tejo maṇḍalam; bhargas may also mean food, and the prayer may only implore the sun to provide sustenance, tasya prasādād annādi lakṣaṇam phalam dhīmahi tasya ādhārabhūta bhavema, we anticipate from his favour the reward that is characterized by food and the like, that is, may we be supported by him

Jamison Brereton

Might we make our own that desirable effulgence of god Savitar, who will rouse forth our insights.

Jamison Brereton Notes

And here, buried in this not particularly noteworthy hymn, is the Gāyatrī mantra, which is itself not particularly noteworthy on its own terms.

Note the play on dhīmahi / dhíyaḥ juxtaposed across the hemistich boundary, belonging to different roots.

10-12 ...{Loading}...
Jamison Brereton Notes

All three vss. in this tṛca contain déva- (…) savitár- (or vice versa).

Griffith

May we attain that excellent glory of Savitar the God:
So May he stimulate our prayers.

Keith

That excellent glory of Savitr
The god we meditate,
That be may stimulate our prayers.

Geldner

Dieses vorzügliche Licht des Gottes Savitri empfingen wir, der unsere Gedanken anregen soll.

Grassmann

Dass wir des Gottes Savitar begehrtes Licht erlangten doch, Der unsre Bitten fördere.

Elizarenkova

Мы хотим встретить этот желанный
Блеск бога Савитара,
Который должен поощрять наши поэтические мысли!

मानसतरङ्गिणीकृत् - टिप्पनी

The mantra-s

The Sāvitrī is the core mantra used in Savitrupāsanā. It also has other notable deployments, which will be described later. Its ṛṣi is Viśvāmitra of the clan of Gāthin, the chandas is nicṛd gāyatrī and the devatā is Savitṛ. It is from the 3_r__d_ maṇḍala of the Ṛgveda (RV 3.62.10). The meter is termed nicṛd gāyatrī because the syllable count is 23, one short of the usual 24 for a gāyatrī. This arises due to the intrinsic saṃdhi, which creates वरेण्यम् from वरेणियम् . The Sāvitrī goes thus:

तत् स॑वि॒तुर् वरे॑ण्य॒म् भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

Given the popularity of the Sāvitrī it is common to see numerous translations of the same; however, these often do not get certain aspects of the Old Vedic register of Sanskrit. It is important that one does the japa of this mantra with a proper grasp of its sense in the original language. Hence, we provide a translation of the mantra in full here.

tat= that; Savituḥ= of Savitā; vareṇyam= excellent or desirable; bhargaḥ= radiance (neuter accusative); devasya= of the god; dhīmahi= may we fix [our mind]/ may we focus on; dhiyaḥ= insights (plural of dhī); yaḥ= who; nas= our; pracodayāt= may he inspire.

There are a few key points to make note of: first, the verb form dhīmahi; this is the āśīr-liṅ (benedictive) 1st person plural form of the root dhā, which belongs to class 3 (juhotyādi gaṇa). We are unaware of the occurrence of other āśīr-liṅ forms of the verb dhā in the RV. It is used symmetrically with the 3rd person singular āśīr-liṅ form of the verb pra-cud i.e. pracodayāt. These forms are not commonly used outside of such mantra-s suggesting that it was an ancient usage of a verb-pair presenting a relationship between the worshipers (dhīmahi) and the god (pracodayāt).

Second, the name of the god Savitṛ is commonly combined with the word deva (god). This combination probably again has an ancient connotation, which is reflected in theonyms of other Indo-European branches like proto-Germanic *Tiwaz → Tyr. It (theos) was probably also used in this sense for the Greek Hyperion1, the likely cognate of Savitṛ, in the Homeric language.

Third, the word dhiyaḥ, has been specifically chosen for alliteration with dhīmahi2. It means not just any thought but specifically inspired thought or insight that leads to the “seeing” of special knowledge, such as that embodied in a Vedic mantra.

Thus, we get,

May we focus on the excellent radiance of the deva Savitṛ who will inspire our insights.


Adjuncts
The Sāvitrī is prefixed with the three vyāhṛti-s for the actual japa.

भूर् भुवः सुवः ।

The three basic vyāhṛti-s are to understood as the three realms, the earth, the atmosphere and the heavens, which are pervaded by the light of the god Savitṛ. These are given above in the Yajurvedic form, which may also be followed in Atharvavedic tradition. In the Ṛgvedic tradition the internal saṃdhi is enacted and we have स्वः for सुवः. The mysteries of these vyāhṛti-s are explained, among other places, in the Taittirīya-śruti.

For the practice of prāṇāyāma, it is prefixed with the 7 vyāhṛti-s.

ॐ भूः । ॐ भुवः । ओग्ँ सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ँ सत्यम् ।

These may be understood as a larger set of 7 regions of space, which are pervaded by the light of Savitṛ. The nasals preceding sa are given as per the Yajurvedic tradition. They are rendered as the usual nasals in the RV and AV traditions.

It suffixed by the incantation known as the brahmaśiras.

ॐ आपो॒ ज्योती॒ रसो॒ ऽमृतं॒ ब्रह्म॒ भूर्-भुव॒-सुव॒रो३म् ॥

Here, āpaḥ= waters; jyotiḥ= light; rasaḥ= life fluids; amṛtaṃ= immortality; brahma= mantra-power. bhūḥ, bhuvaḥ and suvaḥ and the three main vyāhṛti-s

Then there is the four-footed form which is a mystery teaching in the śruti of the Śukla-yajurvedin-s. This is obtained by adding the below.

प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥

This technically converts it into an anuṣṭubh due the addition of 8 additional syllables. In the mystery teaching it is termed the beautiful or the vivid foot that is beyond the immediate space (rajas: see section below for details). In the same teaching it is revealed that the 4_t__h_ foot is a critical aspect of both abhicārika and vṛddhi deployments of the Sāvitrī. Indeed, combined with the teaching of Śaunaka it might be deployed along with the Sāvitrī with syllables inverted (viparīta-prayoga) for abhicārika purposes.

The Atharvan tradition gives a saṃpuṭikaraṇa of the Sāvitrī known as the Mahāsāvitrī. It goes thus:

ॐ भूः । ॐ भुवः । ॐ स्वः । ॐ महः । ॐ जनः । ॐ तपः । ॐ स॒त्यं ।
ॐ तत् स॑वि॒तुर् वरे॑ण्य॒म् भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
ॐ आपो॒ ज्योती॒ रसो॒ ऽमृतं॒ ब्रह्म॒ भूर्-भुव॒-सुव॒रो३म् ॥
ॐ भूर्-भुवः-सुवर्-महर्-जनस्-तपः सत्यं मधु॑ क्षरन्ति ।
ॐ आपो॒ ज्योती॒ रसो॒ ऽमृतं॒ ब्रह्म॒ भूर्-भुव॒-स्वरो३म् ।
ओम्॑ तद्-ब्र॒ह्म । ओम्॑ तद्-वा॒युः । ओम्॑ तद्-आ॒त्मा । ओम्॑ तत्-स॒त्यम् । ओम्॑ तत्-सर्वम्॑ । ओम्॑ तत्-पुरों॒ नमः ॥

Some hold that deploying this form of the mantra 10× can be considered an equivalent of deploying the regular version 108×. This mantra is also seen as a combination of that of the gods Savitṛ and Vayu. These two are an ancient pair as indicated by the Mṛgāra mantra-s. Savitṛ pervades space with light, while the Vayu pervades it as the rarefied substance and the force which holds the celestial bodies together. These two thus form the foundation of existence.

The Atharvan tradition also teaches the mystery deployment, which adds the Atharvaśiras comprised of the Atharvanic high vyāhṛti-s.

ॐ भुर्-भुवः-स्वः ।
ॐ तत् स॑वि॒तुर् वरे॑ण्य॒म् भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
ॐ भूर् भुवः स्वर् जनद् वृधत् करद् रुहन् महत् तच् छम् ओम् ॥

Here, the vyāhṛti-s janad, vṛdhat, karat, ruhat, mahat, tat, śam and oṃ are the special vyāhṛti-s of the Bhṛgvāṅgiras. These are part of the secret teaching of the Atharvan. The knower of the Bhṛgvāṅgirasa-śruti may use this deployment to protecting himself while attacking his enemies with the stoma-bhāga-prayoga.

The viparīta-prayoga (inverse deployment) is specified for abhicārika purposes.

त्यादचोप्र नो यो योधि ।
हिमधी यस् व दे गोर्भ ।
म्यणिरेव तुर्विस त्त ॥

A variant inverse deployment involves merely inverting the three feet.

धियो॒ यो नः॑ प्रचो॒दया॑त् । भर्गो॑ दे॒वस्य॑ धीमहि । तत् स॑वि॒तुर् वरे॑णि॒यों ॥


The mysteries

The śruti of the the Vājasaneyin-s provides a mystery teaching regarding the Sāvitrī, which associates the 3 feet of the core mantra with a triad of triads, which is summarized below.

  • भूमिः अन्तरिक्षम् द्यौस्
  • ऋचः यजूंषि सामानि
  • प्राणः अपानः व्यानः

The one who meditates on the Sāvitrī with this knowledge is understood as penetrating

  • the realms of the universe with the first triad,
  • the realms of Veda-s with the second triad and
  • realms of life with the the third triad.

The fourth foot is said to blaze beyond the expanse of the visible space, the “rajas” and its knowledge confers splendor.

The Atharvan tradition holds (the teaching of Maudgalya to Glāva Maitreya) that the Sāvitrī is pervaded by the god Deva Savitṛ and his consort Sāvitrī in the form of 12 pairs of forms corresponding to each syllable (Figure). In these forms the two deities pervade the universe and the ritual. This presentation in the Atharvan tradition is consistent with the statement of Vāmadeva Gautama in the RV: आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ in RV 4.53.3, i.e. celestial and the earthly realms. The three feet of the Sāvitrī are described giving rise to three sequences of emanations that culminate in the ritual observance of the brāhmaṇa (Figure below; lower panel). The ritualist who performs the deployment of the Sāvitrī with the appropriate knowledge of the omniform manifestation of Savitṛ and his consort and the emanations of the three feet meets with success.

/devaH/AryaH/hindukaH/savitA/images/sAvitrI.jpg

The structure and the emanations of the Sāvitrī as per the Atharvan tradition

अधिमन्त्रम् (VC)
  • सविता
  • गोपवन आत्रेयः सप्तवध्रिर्वा
  • निचृद्गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! सब हम लोग (यः) जो (नः) हम लोगों की (धियः) बुद्धियों को (प्रचोदयात्) उत्तम गुण-कर्म और स्वभावों में प्रेरित करै उस (सवितुः) सम्पूर्ण संसार के उत्पन्न करनेवाले और सम्पूर्ण ऐश्वर्य्य से युक्त स्वामी और (देवस्य) सम्पूर्ण ऐश्वर्य के दाता प्रकाशमान सबके प्रकाश करनेवाले सर्वत्र व्यापक अन्तर्यामी के (तत्) उस (वरेण्यम्) सबसे उत्तम प्राप्त होने योग्य (भर्गः) पापरूप दुःखों के मूल को नष्ट करनेवाले प्रभाव को (धीमहि) धारण करैं ॥१०॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो मनुष्य सबके साक्षी, पिता के सदृश वर्त्तमान, न्यायेश, दयालु, शुद्ध, सनातन, सबके आत्माओं के साक्षी परमात्मा की ही स्तुति और प्रार्थना करके उपासना करते हैं, उनको कृपा का समुद्र सबसे श्रेष्ठ परमेश्वर, दुष्ट आचरण से पृथक् करके श्रेष्ठ आचरण में प्रवृत्त करा और पवित्र तथा पुरुषार्थयुक्त करके धर्म, अर्थ, काम और मोक्ष को प्राप्त कराता है ॥१०॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्याः सर्वे वयं यो नो धियः प्रचोदयात्तस्य सवितुर्देवस्य तद्वरेण्यं भर्गो धीमहि ॥१०॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (तत्) (सवितुः) सकलजगदुत्पादकस्य समग्रैश्वर्य्ययुक्तस्येश्वरस्य (वरेण्यम्) सर्वेभ्य उत्कृष्टं प्राप्तुं योग्यम् (भर्गः) भृज्जन्ति पापानि दुःखमूलानि येन तत् (देवस्य) सकलैश्वर्यप्रदातुः प्रकाशमानस्य सर्वप्रकाशकस्य सर्वत्र व्याप्तस्याऽन्तर्यामिणः (धीमहि) दधीमहि (धियः) प्रज्ञाः (यः) (नः) अस्माकम् (प्रचोदयात्) सद्गुणकर्मस्वभावेषु प्रेरयतु ॥१०॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ये मनुष्याः सर्वसाक्षिणं पितृवद्वर्त्तमानं न्यायेशं दयालुं शुद्धं सनातनं सर्वात्मसाक्षिकं परमात्मानमेव स्तुत्वा प्रार्थयित्वोपासते तान् कृपानिधिः परमगुरुर्दुष्टाचारान्निवर्त्य श्रेष्ठाचारे प्रवर्त्तयित्वा शुद्धान् सम्पाद्य पुरुषार्थयित्वा धर्मार्थकाममोक्षान् प्रापयति ॥१०॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जी माणसे सर्वांचा साक्षी, पित्याप्रमाणे असणारा, न्यायी, दयाळू, शुद्ध सनातन, सर्वांच्या आत्म्याचा साक्षी अशा परमेश्वराची स्तुती, प्रार्थना व उपासना करतात त्यांना कृपासागर, सर्वात श्रेष्ठ परमेश्वर, दुष्ट आचरणापासून पृथक करून श्रेष्ठ आचरणामध्ये प्रवृत्त करतो. पवित्र व पुरुषार्थयुक्त करून धर्म, अर्थ, काम, मोक्ष प्राप्त करवितो. ॥ १० ॥

पुच्छम्

विश्वास-प्रस्तुतिः

ओम् आपो॒ ज्योती॒ रसो॒
ऽमृतं॒ ब्रह्म॒ +++(=मन्त्राः)+++
भूर् भुव॒स् सुव॒र् ओम् । (42)

मूलम्

ओमापो॒ ज्योती॒रसो॒ ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् । (42)

विश्वास-टिप्पनी

प्राणायामे विनियोगः

  • प्राणायामे पूरणे व्याहृतयः।
  • कुम्भके गायत्रीमन्त्रः।
  • रेचके / ‌निःस्वासे पुच्छम्।

28

ओं भूर् भुव॒स् सुव॒र् मह॒र् जन॒स् तप॑स् स॒त्यन् - तद् ब्रह्म॒,
तद् आप॒ आपो॒ ज्योती॒रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् । (43)

29

ओ॑न्तद्ब्र॒ह्म । ओ॑न्तद्वा॒युः । ओ॑न्तदा॒त्मा । ओ॑न् तत् सर्व॑म् । ओ॑न् तत् पुरो॒र् नमः॑ । (44)

30

भास्करोक्त-विनियोगः

1उत्तम इत्याद्य् अनुष्टुप् सावित्र्या उत्सर्जने विनियुक्ता ।

३० उत्तमे शिखरे ...{Loading}...

+++(आरण्यक-स्वर-विकारम् उपेक्षते विश्वासः।)+++

उ॒त्तमे॑ शिख॑रे दे॒वी॒
भू॒म्यां प॑र्वत॒मूर्ध॑नि ।
ब्रा॒ह्म॒णे॑भ्यो ह्य॑नुज्ञा॒न॒ङ्
ग॒च्छ दे॑वि य॒थासु॑खम् । (45)

३० उत्तमे शिखरे ...{Loading}...

मूलम्

उ॒त्तमे॑ शिख॑रे दे॒वी॒
भू॒म्यां प॑र्वत॒मूर्ध॑नि ।
ब्रा॒ह्म॒णे॑भ्यो ह्य॑नुज्ञा॒न॒ङ्
ग॒च्छ दे॑वि य॒थासु॑खम् । (45)

31

ओम् अन्तश्चरति॑ भूते॒षु॒
गुहायां वि॑श्वमू॒र्तिषु ।
त्वय्ँ यज्ञस् त्वव्ँ विष्णुस् त्वव्ँ व॑षट्का॒र॒स्
त्वँ रुद्रस् त्वं ब्रह्मा त्वं॑ प्रजा॒पतिः॑ । (46)

32

३२-३६ प्राणे निविष्टः ...{Loading}...

01_amRtopastaraNam ...{Loading}...
विश्वास-प्रस्तुतिः

अ॒मृ॒तो॒प॒स्तर॑णमसि । (47)

मूलम्

अ॒मृ॒तो॒प॒स्तर॑णमसि । (47)

०२ प्राणाहुतिर् लघुः ...{Loading}...
विश्वास-प्रस्तुतिः

प्रा॒णे निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । प्रा॒णाय॒ स्वाहा॑ ।
अ॒पा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । अ॒पा॒नाय॒ स्वाहा॑ ।
व्या॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । व्यानाय॒ स्वाहा॑ ।
उ॒दा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । उ॒दा॒नाय॒ स्वाहा॑ ।
स॒मा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । स॒मा॒नाय॒ स्वाहा॑ ।

मूलम्

प्रा॒णे निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । प्रा॒णाय॒ स्वाहा॑ ।
अ॒पा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । अ॒पा॒नाय॒ स्वाहा॑ ।
व्या॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । व्यानाय॒ स्वाहा॑ ।
उ॒दा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । उ॒दा॒नाय॒ स्वाहा॑ ।
स॒मा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । स॒मा॒नाय॒ स्वाहा॑ ।

०४ ब्रह्मणि म ...{Loading}...
विश्वास-प्रस्तुतिः

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (48)

मूलम्

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (48)

०३ प्राणाहुतिर् दीर्घः ...{Loading}...
विश्वास-प्रस्तुतिः

प्रा॒णे निवि॑ष्टो॒ ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
प्रा॒णाय॒ स्वाहा॑ ।

अ॒पा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
अ॒पा॒नाय॒ स्वाहा॑ ।

व्या॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
व्या॒नाय॒ स्वाहा॑ ।

उ॒दा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
उ॒दा॒नाय॒ स्वाहा॑ ।

स॒मा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
समा॒नाय॒ स्वाहा॑ ।

मूलम्

प्रा॒णे निवि॑ष्टो॒ ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
प्रा॒णाय॒ स्वाहा॑ ।

अ॒पा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
अ॒पा॒नाय॒ स्वाहा॑ ।

व्या॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
व्या॒नाय॒ स्वाहा॑ ।

उ॒दा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
उ॒दा॒नाय॒ स्वाहा॑ ।

स॒मा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
समा॒नाय॒ स्वाहा॑ ।

०४ ब्रह्मणि म ...{Loading}...
विश्वास-प्रस्तुतिः

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (48)

मूलम्

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (48)

०५ अमृतापिधानम् ...{Loading}...
विश्वास-प्रस्तुतिः

अ॒मृ॒ता॒पि॒धा॒नम॑सि । (50)

मूलम्

अ॒मृ॒ता॒पि॒धा॒नम॑सि । (50)

०६ हुतम् ...{Loading}...
विश्वास-प्रस्तुतिः
  • श्र॒द्धायां॑ प्रा॒णे निवि॑श्या॒मृतँ॑ हु॒तम्, प्रा॒णम् अन्ने॑नाप्यायस्व ।
  • अ॒पा॒ने निवि॑श्या॒मृतँ॑ हु॒तम्, अ॑पा॒नम् अन्ने॑नाप्यायस्व ।
  • व्या॒ने निवि॑श्या॒मृतँ॑ हु॒तव्ँ, व्या॒नम् अन्ने॑नाप्यायस्व ।
  • उ॒दा॒ने निवि॑श्या॒मृतँ॑ हु॒तम्, उ॑दा॒नम् अन्ने॑नाप्यायस्व ।
  • स॒मा॒ने निवि॑श्या॒मृतँ॑ हु॒तँ, स॑मा॒नम् अन्ने॑नाप्यायस्व ।
  • ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (51)
मूलम् - आन्ध्रपाठः
  • श्र॒द्धायां॑ प्रा॒णे निवि॑श्या॒मृतँ॑ हु॒तम्, प्रा॒णम् अन्ने॑नाप्यायस्व ।
  • अ॒पा॒ने निवि॑श्या॒मृतँ॑ हु॒तम्, अ॑पा॒नम् अन्ने॑नाप्यायस्व ।
  • व्या॒ने निवि॑श्या॒मृतँ॑ हु॒तव्ँ, व्या॒नम् अन्ने॑नाप्यायस्व ।
  • उ॒दा॒ने निवि॑श्या॒मृतँ॑ हु॒तम्, उ॑दा॒नम् अन्ने॑नाप्यायस्व ।
  • स॒मा॒ने निवि॑श्या॒मृतँ॑ हु॒तँ, स॑मा॒नम् अन्ने॑नाप्यायस्व ।
  • ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (51)

37

प्राणानाङ् ग्रन्थिर् असि
रुद्रो मा॑ऽऽविशा॒न्तकस् तेनान्नेना॑प्याय॒स्व । (52)

38

38 ...{Loading}...

अङ्गुष्ठमात्रः पुरुषो
ऽङ्गुष्ठञ्च॑ समा॒श्रितः ।
ईशस्सर्वस्य जगतः
प्रभुः प्रीणाति॑ विश्व॒भुक् । (53)

38 ...{Loading}...
मूलम्

अङ्गुष्ठमात्रः पुरुषो
ऽङ्गुष्ठञ्च॑ समा॒श्रितः ।
ईशस्सर्वस्य जगतः
प्रभुः प्रीणाति॑ विश्व॒भुक् । (53)

39

43

४३ सद्योजातम् प्रपद्यामि ...{Loading}...

स॒द्योजा॒तं प्र॑पद्या॒मि॒
स॒द्योजा॒ताय॒ वै नमः॑ ।
भ॒वेभ॑वे॒ नाति॑भवे
भजस्व॒ मां भ॒वोद्भ॑वाय॒ नमः॑ । (58)

४३ सद्योजातम् प्रपद्यामि ...{Loading}...

मूलम्

स॒द्योजा॒तं प्र॑पद्या॒मि॒
स॒द्योजा॒ताय॒ वै नमः॑ ।
भ॒वेभ॑वे॒ नाति॑भवे
भजस्व॒ मां भ॒वोद्भ॑वाय॒ नमः॑ । (58)

विश्वास-टिप्पनी

भवोद्भवेत्य् अन्तिमपादस्य साध्वन्ते सति। “भवोद्भवाय नम” इति कर्षणं रुचिरम्। भवोद्भवसुब्रह्मण्यपरम् अपीयम् इति केचित्।

पाठान्तराणि

लिङ्गपुराणादाव् एवम् एव तैत्तिरीयारण्यकवद् दृश्यते। क्वचित्तु “भवस्व” इत्यपि दृश्यते - तदयुक्ततमम् भाति।

निःश्वासे

सद्योजातं प्रपद्यामि
सद्योजाताय वै नमः ।
भवेनाति भवे भजस्व
मां भवोद्भवाय नमः ।

सद्योजातं प्रपद्यामि
सद्योजाताय वै नमः ।
भवे ऽभवेनादिभवे
भजस्व मां भवोद्भवाय नमः ॥

ॐ सद्योजातं प्रपद्यामि नमः । ॐ सद्योजाताय वै नमः ।
ॐ भवे नमः । ॐ अभवे नमः । ॐ अनादि भवे नमः ।
ॐ भजस्व मान्नमः । ॐ भव नमः । ॐ उद्भवाय नमः ।

कौलावलीनिर्ण्यये

सद्योजातं प्रपद्यामि सद्योजाताय वै नमः ।
भवेऽभवेऽनादिभवे भजस्व मां भवोद्भवाय नमः ॥

44

४४ वामदेवाय नमः ...{Loading}...

विश्वास-प्रस्तुतिः

वा॒म॒दे॒वाय॒ नमो॑
ज्ये॒ष्ठाय॒ नमः॑
(श्रेष्ठा॑य॒ नमो॑)
रु॒द्राय॒ नमः॒
का॒लाय॒+++(काला॑य॒)+++ नमः॒
कल॑-विकरणाय॒ नमो॒
बल॑-विकरणाय॒ नमो॒
(बला॑य॒ नमो॑)
बल॑-प्रमथनाय॒ नम॒स्
सर्व॑-भूत-दमनाय॒ नमो॑
म॒नोन्म॑नाय॒ +++(←स्वरः?? व्युत्पत्तिः?)+++ नमः॑ । (59)

स्वरोहः

तत्पुरुषग्रहणे -

वा॒म॒दे॒वाय॒ नमो॑ ज्ये॒ष्ठाय॒ नमः॒ श्रेष्ठा॑य॒ नमो॑ रु॒द्राय॒ नमः॑ का॒लाय॒ नमः॑ कलवि॒कर॑णाय॒ नमो॑ बलवि॒कर॑णाय॒ नमो॒ बला॑य॒ नमो॑ बलप्र॒मथ॑नाय॒ नमः॑ सर्वभूत॒दम॑नाय॒ नमः॑।

मूलम्

वा॒म॒दे॒वाय॒ नमो॑
ज्ये॒ष्ठाय॒ नमो॑
रु॒द्राय॒ नमः॒
काला॑य॒ नमः॒
कल॑विकरणाय॒ नमो॒
बल॑विकरणाय॒ नमो॒
बल॑प्रमथनाय॒ नम॒स्
सर्व॑भूतदमनाय॒ नमो॑
म॒नोन्म॑नाय॒ नमः॑ । (59)

मूलम् - आन्ध्र-पाठः

वा॒म॒दे॒वाय॒ नमो॑
ज्ये॒ष्ठाय॒ नमः॑
श्रे॒ष्ठाय॒ नमो॑
रु॒द्राय॒ नमः॒
काला॑य॒ नमः॒
कल॑विकरणाय॒ नमो॒
बल॑विकरणाय॒ नमो॒
बला॑य॒ नमो॒
बल॑प्रमथनाय॒ नमः॒ सर्व॑भूतदमनाय॒ नमो॑
म॒नोन्म॑नाय॒ नमः॑

मानसतरङ्गिणीकृत् - टिप्पनी

The vAmadeva mantra of the pa~nchabrahma-s is the mantra of the 11 rudra-s. It names a total of 11 rudra-s, an ancient number associated with the rudra-s. The shatapatha brAhmaNa of the shuklayajurveda gives a different list of rudra-s, 9 in number. Notably, this number is important in the later tAntrika tradition (e.g., navAtman bhairava and the navAtman mantra of the early Urdhvasrotas; 9^2 also underlies the structure of the vyomavyApin mantra).

9 female forms of these rudra-s are the 9 shakti-s of the central maNDala of shiva in both the dakShiNasrotas and Urdhvasrotas. They are arranged as an ogdoad in an 8-petalled lotus around sadAshiva or svachChanda-bhairava, with manonmanI as the shakti in the center alongside shiva.+++(4)+++

However, some texts, like the saiddhAntika texts, kiraNa and parAkhya, list 9 rudra-s.
These are extracted from the original 11 of the vAmadeva mantra parallel to the 9 shakti-s of rudra:

  1. vAmadeva; 2. jyeShTha; 3. rudra; 4. kAla; 5. kalavikaraNa (kalAkShepa); 6. balavikaraNa (balakShepa); 7. balapramathana; 8. sarvabhutasdamana; 9. manonmana

The corresponding Śaktis extracted from this mantra include all but shreSTha and bala, suggesting that the drAviDapATha could be the older one. - GA

The parAkhya tantra, which lists slightly different variants (in brackets) of some of these rudra-s mentions explicitly that they reside with the respective shakti-s.

The sAdhaka of the nine-bIja navAtman invokes the 9 rudra-s on padmapITha-s blossoming in the chidabdhiH.

But analysis of the pa~nchabrahma-s from various sources shows that the vAmadeva yajuSh is polymorphic across different traditions:

The 9-name version:

We believe this variant goes back to the late kR^iShNa-yajurveda itself. Although the bodhAyana-s follow the taittirIya shruti, they have their own mantrapATha and prayoga with variants. They have a rite known as the pa~nchabrahma-nyAsa, which gives the vAmadeva mantra with 9 names:

vAmadevAya namo jyeShThAya namo rudrAya namaH kAlAya namaH kalavikaraNAya namo balavikaraNAya namo balapramathanAya namaH sarvabhUtadamanAya namo manonmanAya namaH ||

The 9 names are used for the rudra-sarvopachAra-pUjA in the bodhAyana payoga.

This 9-name version of the brahma-mantra was inherited by some siddhAnta-tantra-s, e.g., 1. kAlottara, which specifies it for several prayoga-s. 2. nishvAsa-kArika. The system of 9 rudra-s and 9 shakti-s is clearly derived from the bodhAyana variant. The invocation of the rudra-shakti-s specified by the female forms of the alternating names in the mantra is already seen in the bodhAyana prayoga.

The 8-name version:

OM vAmadevAya namo jyeShThAya namo rudrAya namaH kAlAya namaH kalavikaraNAya namo balapramathanAya namaH sarvabhUtadamanAya namo manonmanAya namaH ||

This is specified by the second adhyAya of the pAshupatasUtra-s. Some saiddhAntika-s prescribe this instead of the 9-name version. For example, it is explicitly provided by the deshika-s j~nAnashiva and vimalashiva, and mahArAja bhojadeva paramAra in their respective prayoga manuals.

A corrupt version of the 8-name version is also provided by the pa~ncharAtra vaiShNava sanatkumAra tantra.

The 7-name version:
OM vAmadevAya jyeShThAya namo rudrAya cha namaH | kalavikaraNAya namo balapramathanAya namaH | sarvabhUtadamanAya shrImanonmanAya namaH ||

This version is found in the sanatkumArIya pa~nchabrahma (siddha-shaMkara) tantra. Above is the version in the printed text. Its quasi-metrical variant is seen in a prayoga based on it:

vAmadevAya jyeShThAya namo rudrAya cha namaH |
namaH kalavikaraNAya balapramathanAya |
namaH sarvabhUtadamanAya manonmanAya cha ||

The more common 11, 9, and 8 name variants probably emerged early and existed side by side, depending on the theological principle onto which they were mapped.

45

४५ अघोरेभ्यो ऽथ ...{Loading}...

अ॒घोरे॑भ्योऽथ॒ घोरे॑भ्यो॒
घोर॒ घोर॑तरेभ्यः ।+++(एकाक्षरनैयून्यम्।)+++
स॒र्वतः॑ शर्व॒! सर्वे॑भ्यो॒
नम॑स् ते अस्तु रु॒द्ररू॑पेभ्यः +++(द्व्यक्षराधिक्यम्।)+++॥

४५ अघोरेभ्यो ऽथ ...{Loading}...

मूलम्

अ॒घोरे॑भ्योऽथ॒ घोरे॑भ्यो॒
घोर॒ घोर॑तरेभ्यः ।
स॒र्वतः॑ शर्व॒! सर्वे॑भ्यो॒
नम॑स् ते अस्तु रु॒द्ररू॑पेभ्यः ॥

विश्वास-टिप्पनी
  • बहुरूपीत्युच्यते।
  • नानासंहितासु नानारूपैर् दृश्यते।

रूपान्तराणि

याज्ञिय्-उपनिषदि द्राविडपाठवत्।

आन्ध्रपाठे तैत्तिरीयारण्यकस्य

अ॒घोरे॑भ्योऽथ॒ घोरे॑भ्यो॒
घोर॒ घोर॑तरेभ्यः ।
सर्वे॑भ्यस् सर्व॒ शर्वे॑भ्यो॒
नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥

अथर्ववेद-महानारायणोपनिषदि

अघोरेभ्योऽथ घोरेभ्यो
घोर घोरतरेभ्यः ।
सर्वतः शर्व सर्वशर्वेभ्यो
नमस्ते अस्तु रुद्ररूपेभ्यः ॥

+++(क्वचित् सर्वसर्वेभ्य इति पाठः।)+++

पाशुपतसूत्रेषु मेरुतन्त्रे कामरन्ततन्त्रे कालोत्तरे

अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।
सर्वतः सर्वशर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥

निःश्वासकारिकायाम् हहारवतन्त्रे

अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः।
सर्वतस् सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ।

एवं यामुनाचार्यकृत आगमप्रामाण्ये ऽपि!

लिङ्गपुराणे

अघोरेभ्योऽथ घोरेभ्यो
घोरघोरतरेभ्यः।
शर्वेभ्यः सर्वशर्वेभ्यो
नमस्ते अस्तु रुद्ररूपेभ्यः ॥ २,२६.६ ॥

मैत्रायणीय-संहितायाम्

अघोरेभ्यो अथ घोरेभ्यो
अघोर-घोरतरेभ्यश् च ।
सर्वतः शर्वशर्वेभ्यो
नमस् ते रुद्र रूपेभ्यो नमः ॥

पश्चिमाम्नायसम्प्रदाये

Used to invoke the bhairavI (as the shakti of navAtman bhairava), followed by the vyomavyApin & aghorAstra

ॐ अघोरे-ऐम् अथ घोरे-ह्रीं घोरघोरतरे-श्रीं सर्वतः सर्वशर्वे-फ्रें रुद्ररूपे-ह्स्फ्रें नमस् ते ॥

मानसतरङ्गिणीकृत्

“घोरेति पाशजालाख्यं
पाप-युक्तं भयानकम् ।
तद् येषां तु न विद्येत
ह्य् अघोराः परिकीतीताः

वामेश्वरादयो रुद्रा
जाल-मूलोपरि-स्थिताः ।
ते ह्य् अघोराः समाख्याताः
शृणु घोरान् समासतः ॥

प्रोक्ता गो-पति-पूर्वा ये
रुद्रास् तु गहनान्तगाः ।
ते तु घोराः समाख्याता
नाना-भुवन-वासिनः ॥

विद्येश्वराद्य्-अनन्तान्ता
महामाहेश्वराश् च ये ।
घोर-घोरतरास् त्व् अन्ये
विज्ञेयास् त्व् अध आश्रिताः

एते अघोरा घोराश्च
घोरघोरतरास् तथा ।
एतेष्व् अवस्थिता नित्यं
शक्तयः पारमेश्वराः ॥

स्थिति-प्रलय-सर्गेषु
बन्ध-मोक्ष-क्रियासु च ।
सर्वार्थ-प्रेरकत्वेन
रूपेष्व् एतेषु शक्तयः ॥

रूपेभ्य एभ्यः सर्वेभ्यो
नमस्कारं करोत्य् अणुः ।
नमस्कारः परित्यागः
कार्य-कारण-लक्षणः ॥”

While the scriptures of pAshupata-s who followed the lakulin are lost, a fragment of their text is preserved by kShemarAja, the cousin of abhinavagupta in his commentary on the svachChanda-tantra. It gives an important insight into how they viewed the rudra of the bahurUpI-R^ik.

The triad of rudra-s, i.e., the aghora-s, ghora-s and ghoraghoratara-s are seen as occupying a tripartite universe with the aghora-s in the upper “ideal” world (starting with vAmeshvara);
the ghora-s constituting a terrible web permeating the material worlds (starting with gopati and culminating in gahana). Finally, the ghoraghoratara rudra-s constitute the substratal world and include the vidyeshvara-s culminating in ananta. It is notable that the vidyeshvara-s form the inner circle in the siddhAnta.

This suggests that it inherited that configuration from a distinct pAshupata predecessor.

This lakulin formulation next mentions the key role of the shakti-s of these rudra-s, who are also understood as the shakti-s of the primary rudra parameshvara himself. The formulation resembles the early trika (pUrvAmnAya)-aligned tantra-s.Thus, the differentiation of the srotAMsi was already underway in the atimArga substratum.

bahurUpI was archaic but popular para-vedic mantra used outside of core saMhitA ritual, likely among the earliest shaiva-s. It was incorporated once, relatively late into the saMhitA of the maitrAyaNIya-s in the context of the raudra shrauta rituals and independently into mahAnArAyaNopaniShat traditions. In that later class of traditions, it was likely an independent transfer from the shaiva traditions (by now early pAshupata). The mantramArga inherited from pAshupata where it was already polymorphic with saiddhAntika-s and dakShiNa-s inheriting alternative variants.

46

07 तत्पुरुषाय विद्महे ...{Loading}...

तत्-पुरु॑षाय वि॒द्महे॑
महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया॑त्

07 तत्पुरुषाय विद्महे ...{Loading}...

मूलम्

तत्पुरु॑षाय वि॒द्महे॑
महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया॑त् ॥

47

४७ ईशानस् सर्वभूतानाम् ...{Loading}...

विश्वास-प्रस्तुतिः

ईशानस् सर्व॑विद्या॒ना॒म्
ईश्वरस् सर्व॑भूता॒नां॒
ब्रह्माधि॑पति॒र् ब्रह्म॒णो ऽधि॑पति॒र्
ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् । (62)

मूलम्

ईशानस् सर्व॑विद्या॒ना॒म्
ईश्वरस् सर्व॑भूता॒नां॒
ब्रह्माधि॑पति॒र् ब्रह्म॒णो ऽधि॑पति॒र्
ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् । (62)

48-50

४८-५० ब्रह्मम् एतु त्रिसुपर्णाः ...{Loading}...
48
विश्वास-प्रस्तुतिः - यजुः

ब्रह्म॑मेतु॒ माम् । मधु॑मेतु॒ माम् । ब्रह्म॑मे॒व मधु॑मेतु॒ माम् ।

मूलम्

ब्रह्म॑मेतु॒ माम् । मधु॑मेतु॒ माम् । ब्रह्म॑मे॒व मधु॑मेतु॒ माम् ।

विश्वास-प्रस्तुतिः - यजुः

यास्ते॑ सोम प्र॒जाव॒त्सोभि॒ सो अ॒हम् । दुस्व॑प्न॒हन्दु॑रुष्व॒हा ।
यास्ते॑ सोम प्रा॒णाँस्ताञ्जु॑होमि ।

मूलम्

यास्ते॑ सोम प्र॒जाव॒त्सोभि॒ सो अ॒हम् । दुस्व॑प्न॒हन्दु॑रुष्व॒हा ।
यास्ते॑ सोम प्रा॒णाँस्ताञ्जु॑होमि ।

विश्वास-प्रस्तुतिः - यजुः

त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
ब्र॒ह्म॒ह॒त्याव्ँ वा ए॒ते घ्न॑न्ति ।

मूलम्

त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
ब्र॒ह्म॒ह॒त्याव्ँ वा ए॒ते घ्न॑न्ति ।

विश्वास-प्रस्तुतिः ...{Loading}...

ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् । (63)

सर्वाष् टीकाः ...{Loading}...
मूलम्

ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् । (63)

49
विश्वास-प्रस्तुतिः - यजुः

ब्रह्म॑ मे॒धया॑ । मधु॑ मे॒धया॑ । ब्रह्म॑मे॒व मधु॑ मे॒धया॑ ।

मूलम्

ब्रह्म॑ मे॒धया॑ । मधु॑ मे॒धया॑ । ब्रह्म॑मे॒व मधु॑ मे॒धया॑ ।

०४ अद्या नो ...{Loading}...

अद्या᳓ नो देव सवितः
प्रजा᳓वत् सावीः सौ᳓भगम् ।
प᳓रा दुष्-ष्व᳓प्न्यं सुव

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - सविता
  • ऋषिः - श्यावाश्व आत्रेयः
  • छन्दः - गायत्री
Thomson & Solcum

अद्या᳓ नो देव सवितः
प्रजा᳓वत् सावीः सउ᳓भगम्
प᳓रा दुष्व᳓प्नियं सुव

मूलम् तैत्तिरीयम्

अ॒द्या नो॑ देव सवितः । प्र॒जाव॑त्सावी॒स्सौभ॑गम् । परा॑ दु॒ष्वप्नि॑यँ सुव ।

Vedaweb annotation

Strata
Archaic


Pāda-label
genre M
genre M
genre M


Morph
adyá ← adyá (invariable)

deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

savitar ← savitár- (nominal stem)
{case:VOC, gender:M, number:SG}

prajā́vat ← prajā́vant- (nominal stem)
{case:NOM, gender:N, number:SG}

saúbhagam ← saúbhaga- (nominal stem)
{case:NOM, gender:N, number:SG}

sāvīḥ ← √sū- 1 (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}

duṣvápnyam ← duṣvápnya- (nominal stem)
{case:NOM, gender:N, number:SG}

párā ← párā (invariable)

suva ← √sū- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

पद-पाठः

अ॒द्य । नः॒ । दे॒व॒ । स॒वि॒त॒रिति॑ । प्र॒जाऽव॑त् । सा॒वीः॒ । सौभ॑गम् ।
परा॑ । दुः॒ऽस्वप्न्य॑म् । सु॒व॒ ॥

Hellwig Grammar
  • adyāadya
  • [adverb]
  • “now; today; then; nowadays; adya [word].”

  • nonaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • deva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • savitaḥsavitarsavitṛ
  • [noun], vocative, singular, masculine
  • “Savitar; sun; Surya; Savitṛ.”

  • prajāvat
  • [noun], accusative, singular, neuter
  • “prolific.”

  • sāvīḥ
  • [verb], singular, Aorist inj. (proh.)
  • “give birth; urge; bestow; cause.”

  • saubhagamsaubhaga
  • [noun], accusative, singular, neuter
  • “well-being.”

  • parā
  • [adverb]
  • “away.”

  • duṣṣvapnyaṃduṣṣvapnyamduḥṣvapnya
  • [noun], accusative, singular, neuter
  • “nightmare.”

  • suva
  • [verb], singular, Present imperative
  • “give birth; urge; bestow; cause.”

सायण-भाष्यम्

हे सवितः देव नः अस्मभ्यम् अद्य अस्मिन् यागदिने प्रजावत् पुत्राद्युपेतं सौभगं धनं सावीः प्रेरय । दुःष्वप्न्यं दुःस्वप्नं दुःस्वप्नवद्दुःखकरं दारिद्र्यं परा सुव दूरे प्रेरय ॥


8अथाष्टमीमाह - हे सवितर्देव! अद्यास्मिन्कर्मणि नोऽस्माकं प्रजावत् पुत्रपौत्राद्युपेतं सौभगं सौभाग्यं सावीः अनुजानीहि । दुष्ष्वप्नियं दुस्स्वप्ननिमित्तं दोषं परासुव विनाश्य ॥

Wilson

English translation:

“Grant us today, divine Savitā affluence with progeny, and drive away evil dreams.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Para duhṣvapnyam suva: duhṣvapnyam = dāridryam, poverty

Jamison Brereton

Today, god Savitar, you have impelled to us a good portion consisting of offspring.
Impel away the bad dream.

Griffith

Send us this day, God Savitar, prosperity with progeny.
Drive thou the evil dream away.

Geldner

Mögest du, Gott Savitri, uns heute kinderreiches Glück zuweisen. Weise üblen Traum ab!

Grassmann

O schaffe heut, Gott Savitar, uns kinderreichen Segen her; Fort schaffe böses Traumgesicht.

Elizarenkova

Сегодня, о бог Савитар, вызови к жизни
Для нас удачу, заключающуюся в потомстве!
Прочь отзови дурной сон!

अधिमन्त्रम् (VC)
  • सविता
  • श्यावाश्व आत्रेयः
  • निचृद्गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (सवितः) सम्पूर्ण ऐश्वर्य्य के देनेवाले स्वामिन् (देव) शोभित ! आप कृपा से (नः) हम लोगों के लिये वा हम लोगों के (अद्या) आज (प्रजावत्) बहुत प्रजायें विद्यमान जिसके उस (सौभगम्) सुन्दर ऐश्वर्य के भाग को (सावीः) उत्पन्न कीजिये और (दुःष्वप्न्यम्) दुष्ट स्वप्नों में उत्पन्न दुःख को (परा, सुव) दूर कीजिये ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो परमेश्वर की प्रार्थना करके धर्म्मयुक्त पुरुषार्थ करते हैं, वे बहुत ऐश्वर्य्यवाले होकर दुःख और दारिद्र्य से रहित होते हैं ॥४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे सवितर्देव ! त्वं कृपया नोऽद्या प्रजावत्सौभगं सावीर्दुःष्वप्न्यं परा सुव दूरं गमय ॥४॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अद्या) अद्य। अत्र निपातस्य चेति दीर्घः। (नः) अस्मभ्यमस्माकं वा (देव) प्रकाशमान (सवितः) सर्वैश्वर्य्यप्रदेश्वर (प्रजावत्) बह्व्यः प्रजा विद्यन्ते यस्य तत् (सावीः) जनय (सौभगम्) शौभनैश्वर्य्यस्य भागम् (परा) (दुःष्वप्न्यम्) दुष्टेषु स्वप्नेषु भवं दुःखम् (सुव) प्रेरय ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ये परमेश्वरं प्रार्थयित्वा धर्म्यं पुरुषार्थं कुर्वन्ति ते महदैश्वर्या भूत्वा दुःखदारिद्र्यविरहा जायन्ते ॥४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जे परमेश्वराची प्रार्थना करून धर्मयुक्त पुरुषार्थ करतात. ते अत्यंत ऐश्वर्यवान होऊन दुःख व दारिद्र्यरहित होतात. ॥ ४ ॥

०५ विश्वानि देव ...{Loading}...

वि᳓श्वानि देव सवितर्
दुरिता᳓नि प᳓रा सुव
य᳓द् भद्रं᳓ त᳓न् न आ᳓ सुव

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - सविता
  • ऋषिः - श्यावाश्व आत्रेयः
  • छन्दः - गायत्री
Thomson & Solcum

वि᳓श्वानि देव सवितर्
दुरिता᳓नि प᳓रा सुव
य᳓द् भद्रं᳓ त᳓न् न आ᳓ सुव

मूलम् तैत्तिरीयम्

विश्वा॑नि देव सवितः । दु॒रि॒तानि॒ परा॑सुव । यद्भ॒द्रन्तन्म॒ आसु॑व ।

Vedaweb annotation

Strata
Archaic


Pāda-label
genre M
genre M
genre M


Morph
deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

savitar ← savitár- (nominal stem)
{case:VOC, gender:M, number:SG}

víśvāni ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}

duritā́ni ← duritá- (nominal stem)
{case:NOM, gender:N, number:PL}

párā ← párā (invariable)

suva ← √sū- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

ā́ ← ā́ (invariable)

bhadrám ← bhadrá- (nominal stem)
{case:NOM, gender:N, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

suva ← √sū- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

पद-पाठः

विश्वा॑नि । दे॒व॒ । स॒वि॒तः॒ । दुः॒ऽइ॒तानि॑ । परा॑ । सु॒व॒ ।
यत् । भ॒द्रम् । तत् । नः॒ । आ । सु॒व॒ ॥

Hellwig Grammar
  • viśvāniviśva
  • [noun], accusative, plural, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • deva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • savitarsavitṛ
  • [noun], vocative, singular, masculine
  • “Savitar; sun; Surya; Savitṛ.”

  • duritānidurita
  • [noun], accusative, plural, neuter
  • “danger; sin; difficulty; difficulty; evil.”

  • parā
  • [adverb]
  • “away.”

  • suva
  • [verb], singular, Present imperative
  • “give birth; urge; bestow; cause.”

  • yadyatyad
  • [noun], nominative, singular, neuter
  • “who; which; yat [pronoun].”

  • bhadraṃbhadrambhadra
  • [noun], nominative, singular, neuter
  • “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”

  • tantattad
  • [noun], nominative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nanaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • suva
  • [verb], singular, Present imperative
  • “give birth; urge; bestow; cause.”

सायण-भाष्यम्

हे सवितः देव त्वं विश्वानि दुरितानि परा सुव । यद्भदं प्रजापशुगृहादिकं तत् नः अस्मभ्यम् “ सुव अस्मदभिमुखं प्रेरय। ‘प्रजा वै भद्रं पशवो भद्रं गृहं भद्रम् ’ इति हि श्रुतिः ॥ ॥ २५ ॥


9अथ नवमीमाह - हे सवितर्देव विश्वानि दुरितानि परासुव विनाशय । यद्भद्रं कल्याणमस्ति तन्मे मम आसुव सर्वतोऽनुजानीहि ।

Wilson

English translation:

“Remove from us, divine Savitā, all misfortunes; bestow upon us that which is good,”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Bhadram = progeny, cattle, dwelling, prajā vai bhadram, pasa‘vo bhadram, gṛham bhadram iti

Jamison Brereton

All difficulties impel away, god Savitar.
What is beneficial, that impel here to us.

Griffith

Savitar, God, send far away all sorrows and calamities,
And send us only what is good.

Geldner

Weise alle Gefahren ab, Gott Savitri. Was Glück bringt, das weise uns zu!

Grassmann

O schaffe alles Ungemach von uns hinweg, Gott Savitar; Was heilsam ist, das schaff uns her.

Elizarenkova

Все, о бог Савитар,
Бедствия прочь отзови,
Что благого – то к жизни вызови для нас!

अधिमन्त्रम् (VC)
  • सविता
  • श्यावाश्व आत्रेयः
  • गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

मनुष्य किसलिये ईश्वर की प्रार्थना करें, इस विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (सवितः) संपूर्ण संसार के उत्पन्न करनेवाले (देव) और संपूर्ण संसार को प्रकाशित करनेवाले जगदीश्वर ! (विश्वानि) संपूर्ण (दुरितानि) दुष्ट आचरणों को आप (परा, सुव) दूर कीजिये और (यत्) जो (भद्रम्) कल्याणकारक है (तत्) उसको (नः) हम लोगों के लिये (आ, सुव) सब प्रकार से प्राप्त कीजिये ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे परमेश्वर ! आप कृपा से जितने हम लोगों में दुष्ट आचरण हैं, उनको अलग करके धर्म्मयुक्त गुण, कर्म्म और स्वभावों को स्थापित कीजिये ॥५॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे सवितर्देव जगदीश्वर ! विश्वानि दुरितानि त्वं परा सुव यद्भद्रं तन्न आ सुव ॥५॥

दयानन्द-सरस्वती (हि) - विषयः

मनुष्यैः किमर्थमीश्वरः प्रार्थनीय इत्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (विश्वानि) सर्वाणि (देव) सकलजगत्प्रकाशक (सवितः) सर्वविश्वोत्पादक (दुरितानि) दुष्टाचरणानि (परा) (सुव) दूरे प्रक्षिप (यत्) (भद्रम्) कल्याणकरम् (तत्) (नः) अस्मभ्यम् (आ) (सुव) समन्तात् प्रापय ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे परमेश्वर ! भवान् कृपया यावन्त्यस्मासु दुष्टाचरणानि सन्ति तावन्ति पृथक्कृत्य धर्म्यगुणकर्मस्वभावान् स्थापयतु ॥५॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे परमेश्वरा! आमचे जेवढे दुष्ट आचरण आहे ते तुझ्या कृपेने नाहीसे होऊन धर्मयुक्त गुण, कर्म, स्वभाव बनू दे. ॥ ५ ॥

03 मधु नक्तम् ...{Loading}...

मधु॒ नक्त॑म् उ॒तोषसि॒
मधु॑म॒त् पार्थि॑वँ॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥

03 मधु नक्तम् ...{Loading}...
मूलम्

मधु॒ नक्त॑म् उ॒तोषसि॒
मधु॑म॒त् पार्थि॑वँ॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥

05 मधुमान् नो ...{Loading}...

मधु॑मान् नो॒ वन॒स्पति॒र्
मधु॑माँ अस्तु॒ सूर्यः॑ ।
माद्ध्वी॒र् गावो॑ भवन्तु नः ॥

05 मधुमान् नो ...{Loading}...
मूलम्

मधु॑मान् नो॒ वन॒स्पति॒र्
मधु॑माँ अस्तु॒ सूर्यः॑ ।
माद्ध्वी॒र् गावो॑ भवन्तु नः ॥

विश्वास-प्रस्तुतिः - यजुः

य इ॒मन्त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
भ्रू॒ण॒ह॒त्याव्ँ वा ए॒ते घ्न॑न्ति ।

मूलम्

य इ॒मन्त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
भ्रू॒ण॒ह॒त्याव्ँ वा ए॒ते घ्न॑न्ति ।

विश्वास-प्रस्तुतिः ...{Loading}...

ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् । (63)

सर्वाष् टीकाः ...{Loading}...
मूलम्

ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् । (63)

50
विश्वास-प्रस्तुतिः - यजुः

ब्रह्म॑ मे॒धवा॑ । मधु॑ मे॒धवा॑ । ब्रह्म॑मे॒व मधु॑ मे॒धवा॑ ।

मूलम्

ब्रह्म॑ मे॒धवा॑ । मधु॑ मे॒धवा॑ । ब्रह्म॑मे॒व मधु॑ मे॒धवा॑ ।

०६ ब्रह्मा देवानां ...{Loading}...

ब्रह्मा᳓ देवा᳓नां, पदवीः᳓+++(=पद्धति-कृत्)+++ कवीना᳓म्
ऋ᳓षिर्वि᳓प्राणां महिषो᳓ मृगा᳓णाम् ।
श्येनो᳓ गृ᳓ध्राणां स्व᳓धितिर् +++(=परशुः/ वज्रः)+++ व᳓नानां +++(=हिंसकानां)+++
+++(ब्रह्मा, कवयः, ऋषयः इति चारु क्रमः। महिषः, श्योनः, वना इत्यपि। वज्रो वै स्वधितिः इति श्रुतौ दृश्यते।)+++
सो᳓मः पवि᳓त्रम᳓त्येति रे᳓भन् +++(=शब्दायमानः)+++ ६

006 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - पवमानः सोमः
  • ऋषिः - दैवोदासिः प्रतर्दनः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

ब्रह्मा᳓ देवा᳓नाम् पदवीः᳓ कवीना᳓म्
ऋ᳓षिर् वि᳓प्राणाम् महिषो᳓ मृगा᳓णाम्
श्येनो᳓ गृ᳓ध्राणां स्व᳓धितिर् व᳓नानां
सो᳓मः पवि᳓त्रम् अ᳓ति एति रे᳓भन्

Vedaweb annotation

Strata
Normal


Pāda-label
genre M
genre M
genre M
genre M


Morph
brahmā́ ← brahmán- (nominal stem)
{case:NOM, gender:M, number:SG}

devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}

kavīnā́m ← kaví- (nominal stem)
{case:GEN, gender:M, number:PL}

padavī́ḥ ← padavī́- (nominal stem)
{case:NOM, gender:M, number:SG}

mahiṣáḥ ← mahiṣá- (nominal stem)
{case:NOM, gender:M, number:SG}

mr̥gā́ṇām ← mr̥gá- (nominal stem)
{case:GEN, gender:M, number:PL}

ŕ̥ṣiḥ ← ŕ̥ṣi- (nominal stem)
{case:NOM, gender:M, number:SG}

víprāṇām ← vípra- (nominal stem)
{case:GEN, gender:M, number:PL}

gŕ̥dhrāṇām ← gŕ̥dhra- (nominal stem)
{case:GEN, gender:M, number:PL}

svádhitiḥ ← svádhiti- (nominal stem)
{case:NOM, gender:F, number:SG}

śyenáḥ ← śyená- (nominal stem)
{case:NOM, gender:M, number:SG}

vánānām ← vána- (nominal stem)
{case:GEN, gender:N, number:PL}

áti ← áti (invariable)

eti ← √i- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

pavítram ← pavítra- (nominal stem)
{case:NOM, gender:N, number:SG}

rébhan ← √ribh- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

sómaḥ ← sóma- (nominal stem)
{case:NOM, gender:M, number:SG}

पद-पाठः

ब्र॒ह्मा । दे॒वाना॑म् । प॒द॒ऽवीः । क॒वी॒नाम् । ऋषिः॑ । विप्रा॑णाम् । म॒हि॒षः । मृ॒गाणा॑म् ।
श्ये॒नः । गृध्रा॑णाम् । स्वऽधि॑तिः । वना॑नाम् । सोमः॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रेभ॑न् ॥

Hellwig Grammar
  • brahmābrahman
  • [noun], nominative, singular, masculine
  • “Brahma; Brahmin; dhak; Brahman; brahman [word]; Brahman; Brahmin; Brahmapurāṇa; Vishnu; Brihaspati.”

  • devānāmdeva
  • [noun], genitive, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • padavīḥpadavī
  • [noun], nominative, singular, feminine
  • “path; padavī [word].”

  • kavīnāmkavi
  • [noun], genitive, plural, masculine
  • “poet; wise man; bard; Venus; Uśanas; kavi [word]; Kavi; prophet; guru; Brahma.”

  • ṛṣirṛṣiḥṛṣi
  • [noun], nominative, singular, masculine
  • “Ṛṣi; spiritual teacher; ascetic; Mantra.”

  • viprāṇāmvipra
  • [noun], genitive, plural, masculine
  • “Brahmin; poet; singer; priest; guru; Vipra.”

  • mahiṣomahiṣaḥmahiṣa
  • [noun], nominative, singular, masculine
  • “Old World buffalo; Mahiṣa; Mahiṣa.”

  • mṛgāṇāmmṛga
  • [noun], genitive, plural, masculine
  • “game; deer; animal; antelope; mṛga [word]; Mṛgaśiras.”

  • śyenośyenaḥśyena
  • [noun], nominative, singular, masculine
  • “hawk; bird of prey; falcon; Śyena; eagle; śyena [word]; Śyena.”

  • gṛdhrāṇāṃgṛdhrāṇāmgṛdhra
  • [noun], genitive, plural, masculine
  • “vulture.”

  • svadhitirsvadhitiḥsvadhiti
  • [noun], nominative, singular, masculine
  • “ax; knife.”

  • vanānāṃvanānāmvana
  • [noun], genitive, plural, neuter
  • “forest; wood; tree; grove; vana [word]; forest; brush.”

  • somaḥsoma
  • [noun], nominative, singular, masculine
  • “Soma; moon; soma [word]; Candra.”

  • pavitrampavitra
  • [noun], accusative, singular, neuter
  • “strainer.”

  • atyati
  • [adverb]
  • “very; excessively; beyond; excessively.”

  • etii
  • [verb], singular, Present indikative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”

  • rebhanribh
  • [verb noun], nominative, singular
  • “moo; murmur; praise.”

सायण-भाष्यम्

सोम एवं-रूपो भवति।

देवानां स्तोत्रकारिणाम् ऋत्विजां ब्रह्मा ब्रह्माख्यर्त्विक् स्थानी यो भवति,
यद् वा देवानां द्योतमानानाम् इन्द्रादीनां ब्रह्मा राजाभवति ।

तथा कवीनां क्रान्तप्रज्ञानां पदवीः स्खलन्ति पदानि साधुत्वेन यो योजयति सपदवीः । वीगत्यादिष्व् इत्येतस्मात् क्विपि रूपम् ।

तथा विप्राणां मेधाविनाम्मध्ये ऋषिर्भवति । यः परोक्षम्पश्यति सऋषिः । ऋषिर्दर्श- नादिति । मृगाणां महिषोभवति महिषाख्योबलवान् राजाभवति । तथा गृध्राणां पक्षि- विशेषाणां श्येनः शंसनीयः पक्षिराजोभवति । वनानां वनतिर्हिसाकर्मा । हिंसकानां छेदका- नाम्मध्ये स्वधितिः एतन्नामकः छेदकोसि । एवम्प्रभावः सोमः रेभन् शब्दायमानःसन् पवि त्रमूर्णास्तुकेन कृतमत्येति अतिगच्छति ॥ ६ ॥

Wilson

English translation:

“The Brahmā of the gods, the guide of the sages, the ṛṣi of the pious, the buffalo of wild animals, the falcon of the vultures, the hatchet of deadly weapons, the Soma passes through the filter with a roar.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

The Brahmā of the gods: i.e., the king of the gods; or, it may mean the brāhmaṇa of the priests; the ṛṣi: yaḥ parokṣam paśyati sa ṛṣiḥ, ṛsirdarśanāt (Nirukta 2.11)

Jamison Brereton

Formulator for the gods, trail-blazer for the sage poets, seer for the inspired poets, buffalo of the wild beasts,
falcon of the birds of prey, axe of the trees—Soma goes rasping
through the filter.

Jamison Brereton Notes

Though the syntax is kept absolutely constant - nom. sg. + gen. pl. - there is a shifting functional relationship between the head noun and its genitive in the seven phrases here: the first two are roles Soma performs for the group identified by the gen., the next three a particular, and superior, individual token from the group (though the third pairing, “seer for/of the inspired poets,” is ambiguous between the first type and the second), and the last is sort of a negative version of the role he plays for the group.

Griffith

Brahman of Gods, the Leader of the poets, Rsi of sages, Bull of savage creatures,
Falcon amid the vultures, Axe of forests, over the cleansing sieve goes Soma singing.

Geldner

Der Hohepriester der Götter, der Pfadfinder der Seher, der Rishi unter den Beredten, der Büffel unter den wilden Tieren, der Adler unter den Geiern, die Axt für die Bäume, geht Soma laut redend durch die Seihe.

Grassmann

Der Götter Beter und der Priester Führer, der Sänger Dichter und der Stier der Thiere, Der Geier Adler und die Axt der Wälder, der Soma wandert singend durch die Seihe.

Elizarenkova

Брахман богов, пролагатель пути поэтов,
Риши среди вдохновенных, буйвол среди диких животных,
Орел среди хищных птиц, топор для деревьев,
Сома проходит сквозь цедилку, распевая.

अधिमन्त्रम् (VC)
  • पवमानः सोमः
  • प्रतर्दनो दैवोदासिः
  • निचृत्त्रिष्टुप्
  • धैवतः
01 हंसश् शुचिषद् ...{Loading}...

+++(अहं)+++ हँ॒सश् शु॑चि॒-षद्, वसु॑र् अन्तरिक्ष॒-सद्,
+होता॑ वेदि॒-षद्, अति॑थिर् दुरोण॒-सत् ।
नृ॒-षद्, व॑र॒-सद्, ऋ॑त॒-सद् व्यो॑म॒-सद्,
अ॒ब्-जा, गो॒-जा, ऋ॑त॒-जा, अ॑द्रि॒-जा, ऋ॒तं बृ॒हत् ॥

01 हंसश् शुचिषद् ...{Loading}...
मूलम्

हँ॒सश्शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम्बृ॒हत् ॥ [30]

Keith

I The gander seated in purity, the bright one seated in the atmosphere,
The Hotr seated at the altar, the guest seated in the house,
Seated among men, seated in the highest, seated in holy order, seated in the firmament, Born of the waters, born of the cows, born of holy order, born of the mountain, the great holy order.

भट्टभास्कर-टीका

अध्यात्ममधिदैवमधियज्ञं चाधिकृत्य त्रेधेमं मन्त्रं व्याचक्षते । तत्र प्रकरणानुरूपोर्थविशेषो गृहीतव्यः । अध्यात्मे तावत् - हंसः आत्मा । शुचिषु स्थानेषु सीदतीति शुचिषत् । वासयिता वसुः वरिष्ठो वा । अन्तरिक्षे हृदयाकाशादिषु सीदतीति अन्तरिक्षसत् । होता आह्वाता देवानामादाता वा । वेद्यां यागार्थं सीदतीति वेदिषत् । अतिथिस्सततगतिः, तिथिकृतविशेषरहितो वा । दुःखरक्षणेषु गृहादिषु सीदतीति दुरोणसत् । नृषु प्राणिशरीरेषु तद्भावेन सीदतीति नृषत् । वरेषु फलेषु भोक्तृत्वेन सीदतीति वरसत् । ऋते यज्ञे सत्ये वा सीदतीति ऋतसत् । विविधे रक्षणे तृप्तौ वा सीदतीति व्योमसत् । अद्भ्यो जातः अब्जाः शरीराभिप्रायं, शुक्क्लाज्जातत्वात् । यथा ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति । अपां वा यागद्वारेण जनयिता । अन्तर्भावितण्यर्थात् ‘जनसनखन’ इति विट्, ‘विड्वनोः’ इत्यात्वम् । गोषु पशुषु अनुग्राहकतया जातः गोजाः । ऋते यज्ञे ऋतार्थं वा जातः प्रादुर्भूतः ऋतजाः । अद्रिजाः पर्वतादिष्वपि प्रादुर्भूतः । ऋतं सत्यरूपं बृहद्ब्रह्म । अथाधिदैवे - हंस आदित्यः । शुचिनि मण्डले सीदतीति शुचिषत् । होता अपामादाता । वेद्यामाराध्यतया सीदतीति वेदिषत् । अतिथिस्सततगतिः । दुरोणेषु गृहेषु मेषादिषु सीदतीति दुरोणसत् । वराणां दातृत्वेन तेषु सीदतीति वरसत् । अपो जनयतीत्यब्जाः । गोजाः रश्मिसमूहवर्ती । ऋते सत्ये जात ऋतजाः । अद्रिजाः उदयाचलात्प्रादुर्भूतः । समानमन्यत् ।

अथाधियज्ञे - हंसो रथः हन्ति पृथिवीमिति । शुचौ देवयजने रथवाहने च सीदतीति शुचिषत् । शुचिर्यजमानः सीदत्यस्मिम्निति वा शुचिषत् । होतेव वेद्यां सीदतीति वेदिषत् । अतिथिस्सर्वत्राप्रतिहतगतिः । नृषत् मनुष्यार्थं शूरार्थं वा सीदतीति नृषु वा उपकारार्थं सीदतीति नृषत् । ऋतार्थं सत्यार्थं यज्ञार्थं वा सीदतीति ऋतसत् । अब्जाः उदकाज्जातः । गोजाः गोविकारचर्मादिग्रथितत्वात् ततो जात इत्युच्यते । अद्रिभिर्दारुभिरुत्पादितत्वात्ततो जात इत्युच्यते अद्रिजाः । गतमन्यत् ॥

इत्यष्टमे पञ्चदशोनुवाकः ॥

विश्वास-प्रस्तुतिः - यजुः

य इ॒मन्त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
वी॒र॒ह॒त्याव्ँ वा ए॒ते घ्न॑न्ति ।

मूलम्

य इ॒मन्त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
वी॒र॒ह॒त्याव्ँ वा ए॒ते घ्न॑न्ति ।

विश्वास-प्रस्तुतिः ...{Loading}...

ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् । (63)

सर्वाष् टीकाः ...{Loading}...
मूलम्

ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् । (63)

51-57

58

विवि॑ट्टि॒ स्वाहा॑ । (73)

59

घ॒षो॑त्काय॒ स्वाहा॑ । (74)

60

उत्तिष्ठ पुरुषा हरी लोहित-पिङ्गलाक्षि देहि देहि ददापयिता मे॑ शुद्ध्य॒न् ता॒ञ् ज्योति॑र् अ॒हव्ँ वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ । (75)

61

ओँ स्वाहा॑ । (76)

62

स॒त्यं परं॒ परँ॑ स॒त्यँ स॒त्येन॒ न सु॑व॒र्गाल्लो॒काच्च्य॑वन्ते क॒दाच॒न स॒ताँ हि स॒त्यन्तस्मा॑त्स॒त्ये र॑मन्ते॒ तप॒ इति॒ तपो॒ नानश॑ना॒त्परय्ँ॒यद्धि पर॒न्तप॒स्तद्दुर्द्ध॑र्ष॒न्तद्दुरा॑धर्ष॒न्तस्मा॒त्तप॑सि रमन्ते॒ दम॒ इति॒ निय॑तं ब्रह्मचा॒रिण॒स्तस्मा॒द्दमे॑ रमन्ते॒ शम॒ इत्यर॑ण्ये मु॒नय॒स्तस्मा॒च्छमे॑ रमन्ते दा॒नमिति॒ सर्वा॑णि भू॒तानि॑ प्र॒शँस॑न्ति दा॒नान्नाति॑ दु॒ष्कर॒न्तस्मा॑द्दा॒ने र॑मन्ते ध॒र्म इति॒ धर्मे॑ण॒ सर्व॑मि॒दं परि॑गृहीतन्ध॒र्मान्नाति॑ दु॒श्चर॒न्तस्मा॑द्ध॒र्मे र॑मन्ते प्र॒जन॒ इति॒ भूयाँ॑स॒स्तस्मा॒द्भूयि॑ष्ठाः॒ प्रजा॑यन्ते॒ तस्मा॒द्भूयि॑ष्ठाः प्र॒जन॑ने रमन्ते॒ऽग्नय॒ इत्या॑ह॒ तस्मा॑द॒ग्नय॒ आधा॑तव्या अग्निहो॒त्रमित्या॑ह॒ तस्मा॑दग्निहो॒त्रे र॑मन्ते य॒ज्ञ इति॑ य॒ज्ञो हि दे॒वानाय्ँ॑ य॒ज्ञेन॒ हि दे॒वा दिव॑ङ्ग॒तास्तस्मा॑द्य॒ज्ञे र॑मन्ते मान॒समिति॑ वि॒द्वाँस॒स्तस्मा॑द्वि॒द्वाँस॑ ए॒व मा॑न॒से र॑मन्ते न्या॒स इति॑ ब्र॒ह्मा ब्र॒ह्मा हि परः॒ परो॑ हि ब्र॒ह्मा तानि॒ वा ए॒तान्यव॑राणि॒ तपाँ॑सि न्या॒स ए॒वात्य॑रेचय॒द्य ए॒वव्ँ वेदे॑त्युप॒निषत् । (77)

63

प्रा॒जा॒प॒त्यो हारु॑णिस्सुप॒र्णेयः॑ प्र॒जाप॑तिं पि॒तर॒मुप॑ससार॒ किं भ॑गव॒न्तः प॑र॒मव्ँव॑द॒न्तीति॒ तस्मै॒ प्रो॑वाच स॒त्येन॑ वा॒युरावा॑ति स॒त्येना॑दि॒त्यो रो॑चते दि॒वि स॒त्यव्ँ वा॒चः प्र॑ति॒ष्ठा स॒त्ये स॒र्वं प्रति॑ष्ठित॒न्तस्मा॑त्स॒त्यं प॑र॒मव्ँवद॑न्ति॒ तप॑सा दे॒वा दे॒वता॒मग्र॑ आय॒न्तप॒सर्ष॑य॒स्सुव॒रन्व॑विन्द॒न्तप॑सा स॒पत्ना॒प्रणु॑दा॒मारा॑ती॒स्तप॑सि स॒र्वं प्रति॑ष्ठित॒न्तस्मा॒त्तपः॑ पर॒मव्ँवद॑न्ति॒ दमे॑न दा॒न्ताः कि॒ल्बिष॑मवधू॒न्वन्ति॒ दमे॑न ब्रह्मचा॒रिण॒स्सुव॑रगच्छ॒न्दमो॑ भू॒ताना॑न्दुरा॒धर्ष॒न्दमे॑ स॒र्वं प्रति॑ष्ठित॒न्तस्मा॒द्दमः॑ पर॒मव्ँवद॑न्ति॒ शमे॑न शा॒न्ताश्शि॒वमा॒चर॑न्ति॒ शमे॑न ना॒कं मु॒नयो॒ऽन्ववि॑न्द॒ञ्छमो॑ भू॒ताना॑न्दुरा॒धर्ष॒ञ्छमे॑ स॒र्वं प्रति॑ष्ठित॒न्तस्मा॒च्छमः॑ पर॒मव्ँवद॑न्ति दा॒नय्ँ य॒ज्ञानाव्ँ॒वरू॑थ॒न्दक्षि॑णा लो॒के दा॒तारँ॑ सर्वभू॒तान्यु॑पजी॒वन्ति॑ दा॒नेनारा॑ती॒रपा॑नुदन्त दा॒नेन॑ द्विष॒न्तो मि॒त्रा भ॑वन्ति दा॒ने स॒र्वं प्रति॑ष्ठित॒न्तस्मा॑द्दा॒नं प॑र॒मव्ँवद॑न्ति ध॒र्मो विश्व॑स्य॒ जग॑तः प्रति॒ष्ठा लो॒के ध॒र्मिष्ठं॑ प्र॒जा उ॑पस॒र्पन्ति॑ ध॒र्मेण॑ पा॒पम॑प॒नुद॑ति ध॒र्मे स॒र्वं प्रति॑ष्ठित॒न्तस्मा॑द्ध॒र्मं प॑र॒मव्ँवद॑न्ति प्र॒जन॑नव्ँ॒ वै प्र॑ति॒ष्ठा लो॒के सा॒धु प्र॒जाया॑स्त॒न्तुन्त॑न्वा॒नः पि॑तृ॒णाम॑नृ॒णो भव॑ति॒ तदे॑व त॒स्यानृ॑ण॒न्तस्मा॑त् प्र॒जन॑नं पर॒मव्ँवद॑न्त्य॒ग्नयो॒ वै त्रयी॑ वि॒द्या दे॑व॒यानः॒ पन्था॑ गार्हप॒त्य ऋक्पृ॑थि॒वी र॑थन्त॒रम॑न्वाहार्य॒पच॑नो॒ यजु॑र॒न्तरि॑क्षव्ँ वामदे॒व्यमा॑हव॒नीय॒स्साम॑ सुव॒र्गो लो॒को बृ॒हत्तस्मा॑द॒ग्नीन्प॑र॒मव्ँवद॑न्त्यग्निहो॒त्रँ सा॑यंप्रा॒तर्गृ॒हाणा॒न्निष्कृ॑ति॒स्स्वि॑ष्टँ सुहु॒तय्ँय॑ज्ञक्रतू॒नां प्राय॑णँ सुव॒र्गस्य॑ लो॒कस्य॒ ज्योति॒स्तस्मा॑दग्निहो॒त्रं प॑र॒मव्ँवद॑न्ति य॒ज्ञ इति॑ य॒ज्ञो हि दे॒वानाय्ँ॑ य॒ज्ञेन॒ हि दे॒वा दिव॑ङ्ग॒ता य॒ज्ञेनासु॑रा॒नपा॑नुदन्त य॒ज्ञेन॑ द्विष॒न्तो मि॒त्रा भ॑वन्ति य॒ज्ञे स॒र्वं प्रति॑ष्ठित॒न्तस्मा॑द्य॒ज्ञं प॑र॒मव्ँवद॑न्ति मान॒सव्ँ वै प्रा॑जाप॒त्यं प॒वित्रं॑ मान॒सेन॒ मन॑सा सा॒धु प॑श्यति मान॒सा ऋष॑यः प्र॒जा अ॑सृजन्त मान॒से स॒र्वं प्रति॑ष्ठित॒न्तस्मा॑न्मान॒सं प॑र॒मव्ँवद॑न्ति न्या॒स इ॒त्याहु॑र्मनी॒षिणो॑ ब्र॒ह्माणं॑ ब्र॒ह्मा विश्वः॑ कत॒मस्स्व॑यं॒भुः प्र॒जाप॑तिस्सव्ँवत्स॒र इति॑ सव्ँवत्स॒रो॑ऽसावा॑दि॒त्यो य ए॒ष आ॑दि॒त्ये पुरु॑ष॒स्स प॑रमे॒ष्ठी ब्रह्मा॒त्मा याभि॑रादि॒त्यस्तप॑ति र॒श्मिभि॒स्ताभिः॑ प॒र्जन्यो॑ वर्षति प॒र्जन्ये॑नौषधिवनस्प॒तयः॒ प्रजा॑यन्त ओषधिवनस्प॒तिभि॒रन्नं॑ भव॒त्यन्ने॑न प्रा॒णाः प्रा॒णैर्बलं॒ बले॑न॒ तप॒स्तप॑सा श्र॒द्धा श्र॒द्धया॑ मे॒धा मे॒धया॑ मनी॒षा म॑नी॒षया॒ मनो॒ मन॑सा॒ शान्ति॒श्शान्त्या॑ चि॒त्तञ्चि॒त्तेन॒ स्मृतिँ॒ स्मृत्या॒ स्मारँ॒ स्मारे॑ण वि॒ज्ञानव्ँ॑ वि॒ज्ञाने॑ना॒त्मानव्ँ॑ वेदयति॒ तस्मा॑द॒न्नन्दद॒न्त्सर्वा॑ण्ये॒तानि॑ ददा॒त्यन्ना॑त् प्रा॒णा भ॑वन्ति भू॒तानां॑ प्रा॒णैर्मनो॒ मन॑सश्च वि॒ज्ञानव्ँ॑ वि॒ज्ञाना॑दान॒न्दो ब्र॑ह्मयो॒निस्स वा ए॒ष पुरु॑षः पञ्च॒धा प॑ञ्चा॒त्मा येन॒ सर्व॑मि॒दं प्रोतं॑ पृथि॒वी चा॒न्तरि॑क्षञ्च॒ द्यौश्च॒ दिश॑श्चावान्तरदि॒शाश्च॒ स वै सर्व॑मि॒दञ्जग॒त्स च॒ भूतँ॑ स भ॒व्यञ्जि॑ज्ञासकॢ॒प्त ऋ॑त॒जा रयि॑ष्ठाश्श्र॒द्धा स॒त्यो मह॑स्वान्त॒मसो॒परि॑ष्टा॒द्ज्ञात्वा॑ तमे॒वं मन॑सा हृ॒दा च॒ भूयो॑ न मृ॒त्युमुप॑याहि वि॒द्वान्तस्मा॑न्न्या॒समे॒षान्तप॑सामतिरिक्त॒माहु॑र्वसुर॒ण्यो॑ वि॒भूर॑सि प्रा॒णे त्वमसि॑ सन्धा॒ता ब्रह्म॑न्त्वम॑सि विश्व॒सृक्ते॑जो॒दास्त्वम॑स्य॒ग्नेर्व॑र्चो॒दास्त्वम॑सि॒ सूर्य॑स्य द्युम्नो॒दास्त्वम॑सि च॒न्द्रम॑स उपया॒मगृ॑हीतोऽसि ब्र॒ह्मणे॑ त्वा॒ महस॒ ओमित्या॒त्मानय्ँ॑ युञ्जीतै॒तद्वै म॑होप॒निष॑दन्दे॒वाना॒ङ्गुह्यय्ँ॒य ए॒वव्ँ वेद॑ ब्र॒ह्मणो॑ महि॒मान॑माप्नोति॒ तस्मा॑द्ब्र॒ह्मणो॑ महि॒मान॑मित्युप॒निष॑त् । (78)

64

तस्यै॒वव्ँ वि॒दुषो॑ य॒ज्ञस्या॒त्मा यज॑मानः श्र॒द्धा पत्नी॒ शरी॑रमि॒द्ध्ममुरो॒ वेदि॒र्लोमा॑नि ब॒र्हिर्वे॒दश्शिखा॒ हृद॑यय्ँ॒ यूपः॒ काम॒ आज्यं॑ म॒न्युः प॒शुस्तपो॒ऽग्निश्श॑मयि॒ता दक्षि॑णा॒ वाग्घोता॑ प्रा॒ण उ॑द्गा॒ता चक्षु॑रद्ध्व॒र्युर्मनो॒ ब्रह्मा॒ श्रोत्र॑म॒ग्नीद्याव॒द्ध्रिय॑ते॒ सा दी॒क्षा यदश्ञा॑ति॒ यत्पिब॑ति॒ तद॑स्य सोमपा॒नय्ँयद्रम॑ते॒ तदु॑प॒सदो॒ यत्स॒ञ्चर॑त्युप॒विश॑त्यु॒त्तिष्ठ॑ते च॒ स प्र॑व॒र्ग्यो॑ यन्मुख॒न्तदा॑हव॒नीयो॒ यद॑स्य वि॒ज्ञान॒न्तज्जु॒होति॒ यत्सा॒यं प्रा॒तर॑त्ति॒ तत्स॒मिधो॒ यत्सा॒यंप्रा॒तर्म॒द्ध्यन्दि॑नञ्च॒ तानि॒ सव॑नानि॒ ये अ॑होरा॒त्रे ते द॑र्शपूर्णमा॒सौ ये॑ऽर्द्धमा॒साश्च॒ मासा॑श्च॒ ते चा॑तुर्मा॒स्यानि॒ य ऋ॒तव॒स्ते प॑शुब॒न्धा ये सव्ँ॑वत्स॒राश्च॑ परिवत्स॒राश्च॒ तेऽह॑र्ग॒णास्स॑र्ववेद॒सव्ँ वा ए॒तत्स॒त्रय्ँयन्मर॑ण॒न्तद॑व॒भृथ॑ ए॒तद्वै ज॑रामर्यमग्निहो॒त्रँ स॒त्रय्ँय ए॒वव्ँ वि॒द्वानु॑द॒गय॑ने प्र॒मीय॑ते दे॒वाना॑मे॒व म॑हि॒मान॑ङ्ग॒त्वाऽऽदि॒त्यस्य॒ सायु॑ज्यङ्गच्छ॒त्यथ॒ यो द॑क्षि॒णे प्र॒मीय॑ते पितृ॒णामे॒व म॑हि॒मान॑ङ्ग॒त्वा च॒न्द्रम॑स॒स्सायु॑ज्यङ्गच्छत्ये॒तौ वै सू॑र्याचन्द्र॒मसो॑र्महि॒मानौ॑ ब्राह्म॒णो वि॒द्वान॒भिज॑यति॒ तस्मा॑द्ब्र॒ह्मणो॑ महि॒मान॑माप्नोति॒ तस्मा॑द्ब्र॒ह्मणो॑ महि॒मान॑मित्युप॒निष॑त् । (79) - । 64 ।


  1. A Titan, even as Savitṛ is also called Asura in the RV ↩︎

  2. Word analysis suggests that Viśvāmitra had a particular propensity for alliterative or polyptotonic usages such as the āmreḍita. See: A note on āmreḍita-s in the Ṛgveda and issues of word distribution ↩︎