वार्तिकं सुरेश्वराचर्यकृतं सटीकम्

[[तैत्तिरियोपनिषतद्भाष्यवार्तिकं-सुरेश्वराचर्यकृतं-सटीकम् Source: EB]]

[

[TABLE]

तैत्तिरीयोपनिषद्भाष्यवार्तिकस्याऽऽदर्शपुस्तकानि येषां
मिलितानि तेषां नामानि पुस्तकानां
संज्ञाश्च प्रदर्श्यन्ते।

________

**(क.) इति संज्ञितम्—**तैत्तिरीयवार्तिकं सटीकं बडलीग्रामनिवासिनां श्रीयुतानां वे. शा. सं. रा. रा. चिदम्बरदीक्षितकुलोत्पन्नानां मार्तण्डदीक्षितानाम्। लेखनकालः शके १८०९

**(ख.) इति संज्ञितम्—**तैत्तिरीयवार्तिकं सटीकं वटोदरनिवासिनां श्रीयुतानां पटवर्धनोपाह्वानां रा. रा. कृष्णराव भीमाशंकर इत्येतेषाम्।

**(ग.) इति संज्ञितम्—**तैत्तिरीयवार्तिकं करवीरपुरनिवासिनां वे शा. सं. रा. रा. द्रविडोपाह्वानां नानाशास्त्रिणाम्।

**(घ.) इति संज्ञितम्—**तैत्तिरीयवार्तिकं सटीकं विंचूरपुरनिवासिनां श्रीयुतानां रा. रा. रावसाहेब अण्णासाहेब इत्येतेषाम्। लेखनकालःशके १६९०

**(ङ) इति संज्ञितम्—**तैत्तिरीयवार्तिकं सटीकं पुण्यपत्तननिवासिनां श्रीयुतानां खाजगीवाले इत्युपाह्वानां तात्यासाहेब इत्येतेषाम्।

**(च.) इति संज्ञिता—**तैत्तिरीयवार्तिकटीका विंचूरपुरनिवासिनां श्रीयुतानां रा. रा. रावसाहेब अण्णासाहेब इत्येतेषाम्। लेखनकालःशके १६३३

समाप्तेयमादर्शपुस्तकोल्लेखपत्रिका।

_________

अथ तैत्तिरीयोपनिषद्भाष्यवार्तिकस्य प्रस्तावः।

<MISSING_FIG href="../books_images/U-IMG-173483324744.png"/>

इह खलु भारते वर्षे सुरेश्वराचार्यप्रणीतं वार्तिकद्वयं तिष्ठतीति सुचिरं प्रवृत्तिरासीत्। एतद्वेदान्तसारभूतग्रन्थसमग्रसटीकादर्शपुस्तकालभ्यत्वादुताऽऽदर्शपुस्तकसंचययत्नशैथिल्यादुत वेदान्तामृतास्वादानभिज्ञत्वाद्वा न केनाप्येतावत्कालपर्यन्तमेकतरमपि वार्तिकं प्रकाशितम्। एतादृशैर्विद्वज्जनानन्दकारणभूतैर्ग्रन्थैरप्रसिद्ध्यन्धकारे नावस्थातव्यमिति मनसि कृत्वा दुर्लभाप्रसिद्धग्रन्थप्रकाशनैकहेतुरानन्दाश्रमाख्यमुद्रणयन्त्रालयाधिपतिरिदं तैत्तिरीयकसारभूतमद्वैतानन्दपरिप्लुतं श्रीमच्छंकरभाष्यविवेचनरूपं सुरेश्वराचार्यप्रणीतं वार्तिकं प्रकाशतामनैषीत्।

अथ कोऽयं सुरेश्वराचार्यः कथं स वेदान्तशास्त्राकृतादरः कर्मवाद्यपि तुरीयाश्रमदीक्षां गृहीत्वा श्रीमच्छंकराचार्याणां शिष्यत्वं स्वीकृतवानितिविचारः प्रस्तूयते। अथ कदाचिच्छंकराचार्याः श्रीमद्द्वैपायननियोगाद्विरोधवादिगर्वाङ्कुरोन्मूलनार्थं दक्षिणां दिशं प्रतस्थिरे। ततः साधितकर्मकाण्डो भट्टपाद इति प्रथितः कुमारिलभट्ट एव प्रथमं जेय इति मनसि कृत्वा ते तीर्थराजं प्रयागं जग्मुः। तत्र त्रिवेणीतीरे कृतविश्रामा आचार्या गुरून्मथनप्रसक्तमहादोषमपाकरिष्णुर्भट्टपादस्तुषानलं प्रविष्ट इति लोकवार्तां शुश्रुवुः। तां वार्तां श्रुत्वाऽऽचार्याः सत्वरं गच्छन्तस्तुषराशिसंस्थं कुमारमद्राक्षुः। अथ भट्टपादोऽपि दृष्टिपथावतीर्णान्परमगुरून्दृष्ट्वा परितुष्टचित्तो भूत्वा शिष्यगणैस्तान्पूजयामास। अथ गृहीतसपर्या भगवन्तः कुमारिलमिदमूचुः। भो भट्टशुद्धाद्वैतमार्गप्रदर्शकोऽहं प्रसङ्गार्थमागतोऽस्मीति। तन्निशम्य भट्टपादः प्राह। भो गुर्ववज्ञादोषनिरसनार्थं तुषाग्निदेहदहनेऽहं गृहीतदीक्षोऽस्मि। वेदोक्तसंकल्पितव्रतत्यागेन यद्यवकीर्णी भवेयं तर्हि सद्भिर्विनिन्द्यो भवितास्मि। यद्यद्वैत मार्गप्रकाशनैकहेतुर्भगवांस्तर्हि मण्डनमिश्रनामा विश्वरूप इत्याख्यया भुवि प्रसिद्धो ममाऽऽवृत्तो विजेयः। स च यायजूकपरिषत्प्रमुखो महागृही कर्मवादी काण्वशाखीय उदग्देशेषु माहिष्मत्याख्यायां नगर्यां प्रतिवसति। तस्मिञ्जिते सर्वं जगज्जितं भविष्यतीति। एवमुक्त्वा स भट्टपादः श्रीमच्छंकररूपमवेक्षमाणः प्राणानत्यजत्।

अथ त्यक्तमर्त्यलोके भट्टपादे मण्डनमिश्रं विजिगीषवः श्रीमद्गुरवो माहिष्मतीं नगरीं ययुः। तत्र गत्वा मण्डनमिश्रगृहं पिहितद्वारं दृष्ट्वा

व्योममार्गेणैव तत्प्राविशन्। अथ श्राद्धविधौप्रवृत्तो मण्डनमिश्रस्तं यतीन्द्रं दृष्ट्वा संवृतद्वारमपि महं प्राप्तोऽयं को भवेदिति मनसि कृत्वा तं यतिश्रेष्ठं साश्चर्यं पृष्टवान्को भवानिति। स मस्करीन्द्रो विवादभिक्षामिच्छन्मवत्संनिधिमागतोऽस्मीति तमुवाच। अथ मण्डनमिश्रोऽपि तं तथा कर्तुमनुमेने। ततः स यतीन्द्रो मण्डनमिश्रस्य वादोत्सुकतां विज्ञाय तमुवाच मो यद्यहं पराजितः स्यां तर्हि संन्यासं परित्यज्य गृहस्थाश्रमी भवेयमिति। अथ मण्डनमिश्रोऽपि तन्निशम्य भवनामभृद्यतिमुवाच। भो यद्यहं पराजयभाग्भवेयं तर्हि संन्यासमार्गं स्वीकुर्यामिति। एवं कृतप्रतिज्ञयोस्तयोर्विवदतोर्बहवो दिवसा व्यतीताः। अन्ते च शंकराचार्यैर्मण्डनमिश्रः पराजितः। अथ संप्राप्तपरिभवाय मण्डनमिश्राय तत्प्रतिज्ञानुसारेण मुमुक्षुसार्थवाहशंकराचार्याः संन्यासदीक्षां ददुः। तथा च माधवीये शंकरविजये–

संन्यासगृह्यविधिना सकलानि कर्माण्य-
ह्नाय शंकरगुरुर्विदुषोऽस्य कुर्वन्।
कर्णे जगौकिमपि तत्त्वमसीति वाक्यं
कर्णे जपन्निखिल संसृतिदुःखहानेः॥ १॥ इति।

तदाप्रभृत्येव मण्डनमिश्रः सुरेश्वराख्यां लब्ध्वा श्रीमच्छंकराचार्याणां शिष्यत्वं स्वीकृतवान्। अथ दिनेषु गच्छत्सु सुरेश्वराचार्येणाऽऽत्मगुरुं प्रणम्येदमवाचि। भगवन्यन्मम करणीयमस्ति तत्त्वं मामनुशाधीति। अथ तद्वचनं श्रुत्वा शंकराचार्यास्तं प्रत्यवोचन्मम भाष्यस्य वार्तिकाख्यो निबन्धस्त्वया विधेय इति। गुरुवचनं श्रुत्वा स सुरेश्वराचार्यो भवदीयं शारीरभाष्यं सतर्कं द्रष्टुं यदि मे शक्तिर्नास्ति तथाऽपि भवतामनुग्रहादेव यथाशक्ति निबन्धनायाहं यत इत्युक्त्वाऽस्त्वेवमित्याचार्यपादाभ्यनुज्ञां मूर्ध्नाऽऽदाय च निर्जगाम।

अथ गते सुरेश्वरे चित्सुखाद्यैः शिष्यैः सर्वैरपि मिलित्वाऽऽचार्यान्प्रतीदमूचे। भगवन्सुरेश्वराचार्य आजन्मनः कर्माणि योजितात्मा खलु। एतादृशो जनो यदि युष्मद्भाष्ये निबन्धं करिष्यति तर्ह्यसंशयं सर्वमेव भाष्यं कर्मपरं भविष्यतीति। एवं बहुविधानि निन्दावचनानि निगद्यानेन सुरेश्वरेण भगवतां भाष्ये निबन्धो नैव विधेय इति सर्वेऽपि भगवतो भाष्यकारान्निर्बन्धेन पृष्टवन्तः। अथ सर्वेषां वचनमाकर्ण्याद्वैतामृतास्वादपरा भगवन्त आचार्या यदेकस्मिन्कार्ये सर्वे प्रतिकूला भवन्त्यतो

ममापि संशय उत्पन्न इत्युक्त्वा सुरेश्वराख्यं स्वशिष्यं रहस्याहूयेदं बमाषिरे। भोभिक्षो मदीयभाष्ये वार्तिकं मा कार्षीः। इमे मे दुर्विदग्धाः शिष्यास्तन्न सहन्त इति। एतद्वचनमाकर्ण्य प्रमाणीकृतगुरुवचनः सुरेश्वरः सविनयं गुरूनवोचत्। भगवन्यदि पुरा मया गृहस्थाश्रमिणा न्यायादौ प्रबन्धा विहितास्तथाऽपीतः परं भवत्पादपङ्कजसेवां विलङ्घ्यन किंचिदपि चिकीर्षुरस्मीति। एतद्विनयोपेतं सुरेश्वरवचनं निशम्य ज्ञानप्रदीपध्वस्ताज्ञानान्धकारास्तुरीयाश्रमिश्रेष्ठा भगवन्त आचार्यास्तमिदमूचुः। भोभिक्षो यद्येवं तर्हि किंचित्कर्तुं त्वामाज्ञापयामि। मम तैत्तिरीयशाखा वर्तते। तस्या अन्तगतो भाष्यलक्षणो मम निबन्धोऽप्यस्ति। तस्मान्मत्कृते तस्य वार्तिकं त्वया क्रियताम्। त्वमपि काण्वशाखाध्याय्यसि। तच्छाखान्तगतमपि मे भाष्यं वर्तते। तस्यापि वार्तिकं त्वया विधेयमिति। तथा च माधवीये शंकरविजये–

सत्यं यदात्थ विनयन्ममे याजुषी या
शाखा तदन्तगतभाष्यनिबन्ध इष्टः।
तद्बार्तिकं मम कृते भवता प्रणेयं
सच्चेष्टितं परहितैकफलं प्रसिद्धम्॥ १॥

तद्वत्त्वदीया खलु काण्वशाखा ममापि तत्रास्ति तदन्त माष्यम्।
तद्वार्तिकं चापि विधेयमिष्टं परोपकाराय सतां प्रवृत्तिः॥ २॥

एवं गुरुभिराज्ञप्तः सुरेश्वराख्यो मस्करीन्द्रो वार्तिकद्वयं चकार। अनेनैव विद्वद्वर्येण न्यायसागरेण सुरेश्वराचार्येण गुर्वाज्ञानुरोधेन नैष्कर्म्यसिद्ध्याख्यो द्वैतमतनिबर्हणरूपो ग्रन्थः कृतः। अन्येऽपि केचिन्न्यायप्रतिपादका ग्रन्था अनेन कृता इति भगवद्भिर्भाष्यकारैः सह तस्य संवादादेव ज्ञायते। काण्वशाखीयबृहदारण्यकवार्तिकमचिरेणैव प्रकाशं गमिऽयति। इदं तैत्तिरीयवार्तिकम विद्यामूलनाशकं ब्रह्मज्ञानप्रकाशकं विद्वज्जनप्रेमास्पदं भूयादित्येव प्रार्थना

लेले इत्युपाह्वस्य–

वामनसूनोः काशीनाथस्य

सुरेश्वराचार्यकृतं तैत्तिरीयोपनिषद्भाष्यवार्तिकम्।

_______________

आनन्दगिरिकृतटीका संवलितम्।

<MISSING_FIG href="../books_images/U-IMG-173483544831.png"/>

सत्यं ज्ञानमनन्तमेकममलं1 ध्वस्तान्धकारं परंनिर्द्वैतं हृदि पद्ममध्यनिलयं निःशेषधीसाक्षिणम्। वेदान्तोपनिविष्टबोधविषयं प्रत्यक्तयायोगिनां भक्त्या तं प्रणिपत्य वेदशिरसो वक्ष्यामि2

सद्वार्तिकम्॥१॥

कृष्णाय सच्चिदानन्दतनवे परमात्मने।
नमो विधीयते त्रेधा गुरवे च तदात्मने॥१॥

श्रद्धाभक्ती पुरस्कृत्य संप्रदायानुसारतः।
व्याख्यास्येऽहं यथाशक्ति तैत्तिरीयकवार्तिकम्॥२॥

तैत्तिरीयकशाखोपनिषदस्तद्भाष्यस्य च वार्तिकमुक्तानुक्तदुरुक्तचिन्तात्मकं चिकीर्षुराचार्यश्चिकीर्षितस्य वार्तिकस्याविघ्नपरिसमाप्तिप्रचयगमनाभ्यां शिष्टाचारपरिपालनाय3च शास्त्रीयवस्तुतत्त्वानुस्मरणपूर्वकं तन्नमस्काररूपं मङ्गलाचरणं मुखतः4 संपादयन्नर्थादपेक्षितमनुबन्धजातं च सूचयन्नुद्देश्यस्यैकदेशं प्रतिजानीते—सत्यमित्यादिना। तं प्रकृतं परमात्मानं प्रत्यञ्चंभक्तिश्रद्धाभ्यां प्रकर्षेण त्रिधा नत्वा वेदशिरसस्तैत्तिरीयकोपनिषदः सदबाधितन्यायसंदृब्धं दुरुक्तादिचिन्तात्मकं वार्तिकं वक्ष्यामीति संबन्धः। उपनिषदः स्पष्टार्थतया वस्तुतो दुरुक्ताभावेऽपिदुरुक्तत्वभ्रान्त्या5 तच्चिन्तासिद्धि6रनुक्तं तु गुणोपसंहारन्यायेन तत्र चिन्तयितुं शक्यते। उक्तचिन्ता तु सुकरैव। प्रणतिविषयत्वेन प्रकृतस्य परमात्मनस्तत्पदार्थस्यामृतविरोधित्वेनावितथत्वं सन्मात्रत्वं सर्वकल्पनाधिष्ठानत्वमुपन्यस्यति—सत्यमिति। तस्यैव जाङ्यविरोधित्वेन चिन्मात्रत्वं स्वयंप्रकाशत्वं दर्शयति—ज्ञानमिति। तस्यैव कालतो देशतश्चापरिच्छिन्नत्वेन सर्वगतत्वं नित्यत्वं च कथयति—अनन्तमिति। वस्तुतश्च

परिच्छेदपरिहाराय सजातीयविजातीयभेदराहित्यमुदाहरति—एकमिति7। एतस्यैव कार्यकारणसंस्पर्शशून्यत्वेन परमोत्कृष्टत्वमाचष्टे—ध्वस्तेति। समारोपितसकलविशेषविकलत्वमाह—निर्द्वैतमिति। तत्पदलक्ष्यमर्थमित्थमुपक्षिप्य त्वंपदार्थं निर्दिशति—हृदीति। हृदि पद्मो हृत्पद्मः प्रथमार्थे सप्तमीप्रयोगादलुक्समासाद्वा तस्य मध्यमेव निलयो यस्य तं बुद्धिस्थमात्मानमित्यर्थः। समष्टिबुद्धिविशिष्टं त्वंपदवाच्यमर्थमुक्त्वा तस्यैव लक्ष्यमर्थमाह—निःशेषेति। उक्तपदार्थद्वयविषयाणां पदानां मिथः सामानाधिकरण्येन सिद्धं पदार्थैक्यं वाक्यार्थभूतं शास्त्रीयं विषयं8विवक्षन्नाह—वेदान्तेति। योगिनो ज्ञाननिष्ठाः संन्यासिनस्तेषां प्रत्यग्मावेन वेदान्तेषु तत्त्वमस्यादिवाक्येषु व्यवस्थितो9 यो बोधो ब्रह्माहमस्मीत्येवमात्मकस्तस्य विषयं परमात्मानं प्रत्यञ्चंप्रणिपत्य वार्तिकं वक्ष्यामीति योजना। अत्र चैक्ये विषये सूचिते विषयविषयिभावः संबन्धों ध्वनितः। ध्वस्तान्धकारमित्यादिना सर्वानर्थनिवृत्तिपरमानन्दप्राप्तिरूपे फले दर्शिते। तत्कामोऽधिकारी सिध्यतीति द्रष्टव्यम्॥१॥

यस्येदं सकलामलेन्दुकिरणप्रख्यैर्यशोरश्मिभिर्व्याप्तिं यश्च कृपालुतापरवशश्चक्रेहितं दुःखिनाम्। यद्वाणीकुलिशावरुग्णमतयः पेतुर्दिशस्तार्किका भक्त्या पूज्यतमं प्रणम्य तमहं तद्भाष्यनीतौ यते॥२॥

यस्य देवे परा भक्तिर्यथा देवे तथा गुरावितिश्रुतेर्देवताभक्तिरिव गुरुभक्तिरपि विद्यायामन्तरङ्गसाधनमित्यङ्गीकृत्य विशिष्टगुणसंकीर्तनपूर्वकं गुरुविषयं प्रणामं प्रकुर्वन्नवशिष्टमुद्देश्यमागमभिदधाति10

यस्येत्यादिना। तं भगवन्तं भाष्यकारं विशिष्टगुणविशिष्टं पूज्यतममस्मदाराध्यतमं भक्त्या श्रद्धया च प्रकर्षेण नत्वा तेनैव गुरुणा कृतस्य तैत्तिरीयकमाष्यस्य नीतिर्नयनं विभजनं तत्राहं यते यत्नं करोमि। दुरुक्त्यादिनिरूपणरूपं वार्तिकं संपादयामीति संबन्धः। उक्तानुक्तचिन्ता तावदिह सुघटैव दुरुक्तचिन्ताऽप्यापाततो घटते तत्राऽऽचार्यस्य निरतिशय-

कीर्तिमत्त्वं गुणमनुकीर्तयति— यस्येति। अशेषमपि खल्विदं विश्वं यस्य भगवतो भाष्यकारस्य यशोरूपै रश्मिभिर्व्याप्तिमुपलभ्यते तानेव यशोरश्मीनशेषलोकानन्दयितृत्वेन विशिनष्टि—सकलेति। सकलस्य संपूर्णस्यामलस्य मेघनीहारादिमलसंस्पर्शविकलस्येन्दोश्चन्द्रमसो ये किरणा रश्मयस्तत्प्रख्यैस्तत्तुल्यैरिति यावत्। तस्यैव भाष्यकृतो दुःखितानां संसारिणां दुःखमुपलभ्य कृपालुतया परवशस्याऽऽत्मतत्त्वज्ञानादन्यत्र तदुद्धरणमपश्यतस्तेषां हितं दुःखनिवृत्तिसाधनं प्रति प्रणेतृत्वं माष्याद्यध्यात्मग्रन्थप्रणयनद्वारेण प्रसिद्धमित्याह—यश्चेति। सम्यग्दर्शनमार्गप्रतिरोधकत्वेन प्रवृत्तानां वैशेषिकवैनाशिकादीनां तार्किकाणां भाष्यकारवचनसामर्थ्यादेव निवृत्तिरिति गुणान्तरमाह—यद्वाणीति। यस्य वाणी यद्वाणी सैव कुलिशं वज्रं तेनावरुग्णा मग्ना मतिर्येषां ते तार्किका दिशः पेतुर्नष्टा इत्यर्थः। तमेवंविधं भाष्यकारं भक्त्या प्रणम्यतदीयभाष्यनीतौ यतेऽहमिति योजना॥ २॥

तैत्तिरीयकसारस्य मयाऽऽचार्य प्रसादतः।
विस्पष्टार्थरुचीनां हि व्याख्येयं संप्रणीयते॥ ३॥

एवं परापरगुरुनमस्कारव्याजेन तैत्तिरीयोपनिषदस्तद्भाष्यस्य च वार्तिकं करोमीति श्लोकाभ्यामुक्तं तदेव11च स्वकीयग्रन्थस्य संप्रदायपूर्वकत्वं दर्शयन्प्रकटयति—तैत्तिरीयकेति। तैत्तिरीयकशाखोपनिषदस्तद्भाष्यस्य च भाष्यकारप्रसादादेवेयं व्याख्या वार्तिकाख्या संशयविपर्यासव्यतिरेकेणाबाधितन्यायवती क्रियते। ननूपनिषदर्थस्य माष्येण भाष्यार्थस्य च तदक्षरैरेव प्रतिपत्तुं शक्यत्वात्किमनया व्याख्ययेत्याशङ्क्यविशेषेण ये स्पष्टमर्थं रोचयन्ते12 तेषामियं व्याख्योपयुक्तेत्याह—विस्पष्टेति। हिशब्देनास्या व्याख्याया न्यायसंदृब्धत्वेनोपनिषत्तद्भाष्यार्थप्रकटीकरणसामर्थ्यं द्योत्यते॥ ३॥

दुरितक्षयहेतूनि नित्यानि ब्राह्मणे ययुः।
काम्यानि चेह कर्माणि दृष्टादृष्टफलानि तु॥ ४॥

ननु विधिकाण्डेनैवोपनिषदो गतार्थत्वात्तत्प्रयोजनस्य कर्मवशादेव संभवादवशिष्टार्थाभावादुपनिषदस्तद्भाष्यस्य च पृथग्व्याख्यारम्भो वृथे-

त्याशङ्क्यनित्यानित्यादिभाष्यमाश्रित्य कर्मकाण्डार्थमनुवदति—दुरितेति। संचितस्य दुरितस्य क्षयः साध्यत्वेन हेतुरनुष्ठापको येषां नित्यनैमित्तिककर्मणां तानि ब्राह्मणशब्दिते विधायके काण्डे पूर्वस्मिन्ग्रन्थे सिद्धानि न हि तानि निःश्रेयःप्रयोजनानि धर्मेण पापमपनुदतीति श्रुतेरुपार्जितदुरितनिबर्हणार्थत्वावगमात्तथा च अथातो धर्मजिज्ञासेति सूत्रकृता धर्मग्रहणेन सिद्धवस्तुविचारस्य पर्युदस्तत्वान्नोपनिषदो विधिकाण्डेन गतार्थतेत्यर्थः। न केवलं जीवतोऽवश्यं कर्तव्यानि पूर्वकाण्डेऽपि गतार्थानि किंतु कामनानिबन्धनान्यपि चित्राकारीर्यादीनि दृष्टफलान्यष्टफलानि च दर्शपूर्णमासज्योतिष्टोमादीनि तत्रैव सिद्धानि न च तान्यपि मोक्षार्थानि स्वर्गकामःपशुकाम इतिवन्मोक्षकामः सन्निदं कर्म कुर्यादित्यश्रवणादतः संसारफलमेव कर्मेत्यभिप्रेत्याऽऽह—काम्यानि चेति॥ ४॥

विद्या प्रस्तूयतेऽथोर्ध्वं यथाभूतार्थबोधिनी।
कर्मोपादानहेतूंस्तान्सैवोच्छेत्तुमलं यतः॥ ५॥

कर्मकाण्डार्थमुक्त्वा तत्राविचारितमुपनिषदर्थं वदन्पूर्वोत्तरकाण्डयोः संगतिमिदानीमित्यादिभाष्येण दर्शयति— विद्येति। ऐहिकैर्जन्मान्तरीयैर्वा पुण्यकर्मभिरन्तःकरणशुद्ध्यनन्तरं तत्परिपाकतो विवेकवैराग्यसिद्धेरुर्ध्वंमुमुक्षुत्वे सत्यपेक्षितमोक्षसिद्ध्यर्थमुपनिषच्छब्दिता विद्या प्रारम्यते। सा च यथाभूतस्य ब्रह्मात्मैकत्वस्य प्रकटीभावहेतुरतो हेतुहेतुमलक्षणःसंबन्धो द्वयोरपि काण्डयोरित्यर्थः। ननु कर्मणां पुरुषार्थहेतुत्वप्रसिद्धेर्मुर्मुक्षं प्रत्यपि विशिष्टं कर्मैवोच्यतां किमिति विद्या प्रस्तूयते तत्राऽऽह— कर्मेति। अन्वयव्यतिरेकाभ्यां कर्मानुष्ठाने कामादयो हेतवस्तानुच्छेत्तुं विद्यैव शक्नोति। तत्कारणाविद्यानिराकरण13हेतुत्वादतो विद्यैव मुमुक्षं प्रत्यारब्धुं योग्येत्यर्थः॥ ५॥

स यथाकाम इत्येवं योऽकामश्चेति सादरम्।
कामाकामैकहेतू नो बन्धमोक्षौ श्रुतिर्जगौ॥ ६॥

कामादीनां बन्धकारणकर्मप्रवृत्तिहेतुत्वं विवक्षित्वा कामादिनिवृत्त्या मोक्षो भवतीत्यर्थादुक्तम्। तत्र कामादिना बन्धे तन्निवृत्त्या मोक्षे च प्रमाणमाह—स यथेति॥ ६॥

अपविद्धद्वषे तत्त्वे सर्वदेवात्मरूपके।
विपर्ययोऽनभिज्ञानात्ततः कामः14 क्रियास्ततः॥ ७॥

कामादेरपि कार्यत्वेन कारणापेक्षायां तत्कारणप्रदर्शनपूर्वकं तस्य प्रवर्तकत्वेन बन्धहेतुत्वं प्रकटयति— अपविद्धेति। प्रत्यगात्मनोऽपरिज्ञानंमिथ्याज्ञानकारणं15 तस्मात्कामादेस्ततश्च शुभाशुभव्यामिश्रप्रवृत्तिद्वारा सुखदुःखप्राप्तिरित्यर्थः॥ ७॥

यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा कुतो भवेत्।
तस्मात्सर्वप्रवृत्तीनामलं वियोपशान्तये॥ ८॥

प्रतीचः स्वात्मन्यज्ञानान्मिथ्याज्ञानं तद्धेतुकामादिवशात्प्रवृत्तिरित्युक्तमयुक्तम्। विदुषोऽपि प्रवृत्तिदर्शनादित्याशङ्क्याऽऽह—यदज्ञानादिति। ज्ञानादूर्ध्वं बाधितानुवृत्तिव्यतिरेकेण ज्ञानहेतुकप्रवृत्तेरसंभवे फलितमाह— तस्मादिति॥ ८॥

मोक्षार्थी न प्रवर्तेत तंत्र काम्यनिषिद्धयोः।
नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया16॥ ९॥

ज्ञानान्मुक्तिरित्युक्ते सत्यैकमविकन्यायेन मीमांसकस्य शङ्कां काम्यप्रतिषिद्धयोरित्यादिभाष्योक्तामुद्भावयति—मोक्षार्थीति॥ ९॥

इति मीमांसकंमन्यैः कर्मोक्तं मोक्षसाधनम्।
प्रत्याख्यायाऽऽत्मविज्ञानं तत्र न्यायेन निर्णयः॥ १०॥

प्रारब्धफलं तु कर्मभोगादव क्षयं गच्छतीत्यङ्गीकृत्य यथावर्णितचरितस्य ज्ञानव्यतिरेकेण मोक्षो भवतीति शरीरान्तरोत्पादे हेत्वभावादिति फलितमाह—इति मीमांसकं मन्यैरिति। युक्तिपर्यालोचनायां नायं पक्षः संभवतीति दूषयति—तत्रेति॥ १०॥

नैतदेवं भवेन्न्याय्यं विरुद्ध फलदायिनाम्।
संभवात्कर्मणां पुंसो भूयसां शास्त्रदर्शनात्॥ ११॥

तदेव न कर्मानेकत्वादित्यादिभाष्यावष्टम्भेन स्पष्टयति— नैतदिति। यद्यपि मुमुक्षुर्वर्तमाने देहे काम्यं निषिद्धं वा बुद्धिपूर्वं नाऽऽरभते तथाऽपि

संचितस्यानेकस्य17 कर्मणः संभवादागामिनि देहे18 हेत्वभावस्यासिद्धिरित्यर्थः। साधारणेन प्रायणेनाभिव्यक्तानि सर्वाण्येव कर्माणि संभूयैकं शरीरं कुर्वन्ति। तत्र सर्वकर्मणामुपभोगेन क्षीणत्वान्नास्ति संचितं कर्मेत्येतन्निराकर्तुं विरुद्धफलदायिनामित्युक्तम्। स्वर्गनरकफलानां ज्योतिष्टोमब्रह्महत्यादीनामेकस्मिन्देहे भोगासंभवात्प्रमाणा19संभवात्प्रायणस्य20 सर्वकर्माभिव्यञ्जकत्वे च मानाभावाद्बलवता प्रतिबद्धस्य21 दुर्बलस्यावस्थानं सिध्यतीत्यर्थः। प्रायणाभिव्यक्तेन बलवता कर्मणा प्रथममारम्भकेण22प्रतिबद्धं दुर्बलं कर्मानारम्भकत्वमवशिष्टमित्यत्र प्रमाणमाह—शास्त्रदर्शनादिति॥ ११॥

अनारब्धफलानीह सन्ति कर्माणि कोटिशः।
तद्य इहेतिवचसो गम्यतां कर्मणां स्थितिः॥ १२॥

कर्मानुवादपूर्वकं शास्त्रमेव प्रकटयति—अनारब्धेति। इहेति कर्तृरुक्तिः। तद्य इह रमणीयचरणा इत्यादिवाक्यं स्वर्गादवरोहतां सुकृतदुष्कृताभ्यां मनुष्यादिलोके देहग्रहणं दर्शयति। ततो न स्वर्गप्रददेहारम्भकत्वेन सर्वं कर्म क्षीणमित्यर्थः॥ १२॥

न चैकदेहे23 भोगोऽस्ति ब्रह्महत्याश्वमेधयोः।
विरुद्धफलहेतुत्वान्मूढसात्त्विकदेहयोः॥ १३॥

ननु ब्रह्महत्याश्वमेधयोः सुखदुःखफलत्वात्तयोश्चैकस्मिन्नेव देहे भोगसंभवाद्विरुद्धफलदायित्वं कथं कर्मणामुच्यते तत्राऽऽह— नचेति। विरुद्धे देहे सुखदुःखफलहेतुत्वमश्वमेधब्रह्महत्ययोरित्यभ्युपगमात्तयोः सुखदुःखमात्रफलत्वाभावाद्विरुद्धफलदायिनामित्यविरुद्धं विशेषणमित्यर्थः॥ १३॥

सप्तजन्मानुगं कार्यमेकस्यापीह कर्मणः।
श्रूयते धर्मशास्त्रेषु किमुतानेककर्मणाम्॥ १४॥

यत्तु कर्माशयस्यैकभविकत्वं तदूषयति—सप्तजन्मेति। अवयुत्यवादेन24सप्तेत्युक्तमधिकजन्मग्रहणश्रवणात्। श्वसूकरखरोष्ट्राणां गोजाविमृगपक्षिणाम्। चाण्डालपुल्कसानां च ब्रह्महा योनिमृच्छतीत्यादिस्मरणादे-

कमेव कर्मानेकं जन्माऽऽरभते। किमु नानाविधं कर्म नानाविधदेहारम्भकमिति वक्तव्यमित्यर्थः॥ १४॥

अनारब्धेष्टकार्याणां नित्यं चेद्ध्वस्तये मतम्।
नैवं स्वात्माक्रियाहेतुं यतोऽनर्थं निहन्ति तत्॥ १५॥

अनारब्धफलं शुभमशुभं वा सर्वमिह कृतं नित्यं कर्म निवर्तयति। अतो ज्ञानाभावेऽपि मुमुक्षोर्वर्तमानदेहपाते मोक्षो भवतीति शङ्कते— अनारब्धेति। इष्टानिष्टफलानामित्यादिभाष्यादिष्टग्रहणमुपलक्षणार्थं नित्याकरणहेतुकानर्थनिवृत्तिरेव नित्यानुष्ठानफलमिति मीमांसकैरिष्टत्वान्न नित्यानुष्ठानादनारब्धशुभाशुभनिवृत्तिरिति नाकरणे प्रत्यवायश्रवणादित्यादिभाष्येण परिहरति—नैवमिति॥ १५॥

पापस्य कर्मणः कार्यं प्रत्यवायगिरोच्यते।
नित्यैर्विरोधात्तद्धानिर्न त्विष्टफलदायिनः॥ १६॥

किंच पापस्य कर्मणाऽनारब्धफलस्य नित्यानुष्ठानान्निवृत्तावपि पुण्यस्य कर्मणो न ततो निवृत्तिरविरोधादिति वदन्यदि नामेत्यादिभाष्यं व्याचष्टे— पापस्येति॥ १६॥

कामश्च कर्मणो25 हेतुस्तस्योच्छित्तेर्न संभवः।
प्रत्यग्बोधमृते यस्मादसम्यगिदमुच्यते॥ १७॥

यत्तु काम्यानि कर्माणि वर्जयेन्मुमुक्षुरिति तदिदानीं न च कर्महेतूनामित्यादिभाष्येण दूषयति—कामश्चेति। यस्मात्कामस्य कर्महेतोरज्ञानकार्यत्वात्तत्त्वज्ञानमन्तरेण निवृत्तेरसंभवस्तस्माद्यथावर्णितचरितस्य ज्ञानमन्तरेण मुक्तिरित्ययुक्तमतो ज्ञानादेव मोक्षो न कर्मणेत्यर्थः॥ १७॥

यद्ध्यनात्मफलं तस्मै कर्म सर्वं विधीयते।
आप्तत्वादात्मनः कर्म नैव स्यादाप्तये26 ततः॥ १८॥

किंच मोक्षस्य कर्मासाव्यत्वे न तावदुत्पाद्यत्वं नित्यत्वान्नापि संस्कार्यत्वं निर्गुणत्वान्निर्दोषत्वाच्च न च विकार्यत्वं कूटस्थत्वादाप्यत्वमपि नोपपद्यते तस्मादात्मत्वेन नित्याप्तत्वादतो मोक्षे कर्म निरर्थकमित्याहयद्धीति। आत्मव्यतिरिक्तं फलं स्वर्गपशुपुत्रादि॥ १८॥

नित्यानां चाक्रियाऽभावः प्रत्यवायस्ततः कुतः।
न ह्यभावाद्भवेद्भावो मानं यस्मान्न विद्यते॥ १९॥

यदुक्तमकरणनिमित्तप्रत्यवायपरिहारार्थानि नित्यानि कर्माणीति तत्र नित्यानां चेत्यादिभाष्येणोत्तरमाह27—नित्यानां चेति। आगामिदुःखं प्रत्यवायस्तस्य भावरूपस्य नाभावो निमित्तं निषिद्धाचरणनिमित्तत्वाद्दुःखस्येत्यर्थः। अभावाद्भावोत्पत्त्यसंभवं मानाभावेन साधयति—नहीति॥ १९॥

पूर्वोपचितकर्मभ्यस्तस्मात्कर्तारमेति या।
प्रत्यवायक्रिया तस्या लक्षणार्थः शता भवेत्॥ २०॥

अकुर्वन्विहितं कर्म निन्दितं च समाचरन्। प्रसज्जश्चेन्द्रियार्थेषु नरः पतनमृच्छतीतिशतृप्रत्ययादकरणस्यापि प्रत्यवायनिमित्तत्वं प्रमितमित्याशङ्क्याऽऽह— पूर्वेति। तस्मादित्यसतः सदुत्पत्त्यसंभवादित्यर्थः॥२०॥

नित्यानामक्रिया28 यस्माल्लक्षयित्वैव29 सत्वरा।
प्रत्यवायक्रियां तस्माल्लक्षणार्थे शता भवेत्॥ २१॥

उक्तमेवार्थमतः पूर्वोपचितेत्यादिभाष्यावष्टम्भेन स्पष्टयति—नित्यानामिति30। यदि यथावन्नित्यनैमित्तिकानुष्ठानं स्यात्तदा संचितदुरितक्षयोऽपि भवेन्न चायं विहितमकार्षीत्ततः ग्रत्यवायी भविष्यतीति शिष्टैर्लक्ष्यते तेन शतृप्रत्ययस्यान्यथाऽपि सिद्धत्वान्न तद्बलादकरणस्य प्रत्यवायहेतुत्वसिद्धिरित्यर्थः॥ २१॥

सर्वप्रमाणकोपः स्यादभावाद्भावसंभवे।
तस्मादयत्नतः स्थानमात्मनीत्यतिपेलवम्॥ २२॥

ननु लक्षणहेत्वोः क्रियाया इति शतृप्रत्ययस्योभयत्र विधाने सति किमिति हेतुत्वमेव न गृह्यते तत्रान्यथेत्यादिभाष्यं व्याचष्टे—सर्वेति। सर्वस्य भावरूपस्य कार्यस्य भावरूपं कारणमिति प्रत्यक्षादिभिरवधारितं शतृप्रत्ययादभावस्य हेतुत्वाभिधाने सर्वप्रमाणविरोधः स्यादित्यर्थः।अस्मत्पक्षे31 त्वकरणज्ञानस्य प्रत्यवायज्ञापकत्वं32 न चते ज्ञातादकरणात्प्र-

त्यवायोत्पत्तिः। केवलात्प्रत्त्यवायाभावप्रसङ्गाद्योग्यानुपलब्धिरपि ज्ञातैवाभावप्रभितिहेतुः। प्रतिबन्धकाभावस्य तु कारणत्वमन्योन्याश्रयत्वादप्रामाणिकमित्यभिप्रेत्य यस्मादकरणनिमित्तप्रत्यवायपरिहारार्थं न नित्यं कर्म किंतु श्रुतिप्रामाण्यात्पितृलोकादिप्राप्तिफलं तस्मान्न यथोक्तचरितस्य मुक्तिरित्युपसंहरति—तस्मादिति॥ २२॥

निर्धूताऽतिशया प्रीतिः कर्महेतुरिति त्वया।
यदभाणि तदन्याय्यं यथा तदभिधीयते॥ २३॥

स्वर्गकामवाक्ये स्वर्गशब्देन निरतिशयप्रीतेर्मुक्तेरुक्तत्वात्तद्धेतुत्वेन कर्मविधानात्कर्मसाध्यैव मुक्तिरिति द्वितीयं पूर्वपक्षं भाष्योक्तमनुभाष्य दूषयति—निर्धूतेति॥ २३॥

मुक्तेः कौटस्थ्यरूपत्वान्न तस्याः कर्म साधनम्।
स्वर्गादिवदनित्या स्याद्यदि स्यात्कर्मणः फलम्॥ २४॥

मोक्षस्य कर्मकार्यस्वानुपपत्तिं नहीत्यादिभाष्येण साधयति—मुक्तेरिति। आत्मत्वेन मोक्षस्य कूटस्थनित्यत्वान्न कर्मसाध्यतेत्युक्त्वा विपक्षे दोषमाह—स्वर्गादिवदिति॥ २४॥

अनित्यफलदायित्वं ज्ञानहीनस्य कर्मणः।
कूटस्यफलदायित्वं33 विद्येतस्येतिचेन्मतम्॥ २५॥

विद्यासहितानामित्यादिभाष्येण कर्मसाध्यत्वेऽपि मोक्षस्य नानित्यत्वमिति समुच्चयवाद्याह—अनित्येति॥ २५॥

नैवमारभ्यमाणस्य ह्यनित्यत्वसमन्वयात्।
न च प्राप्तमनित्यत्वं विद्या वारयितुं क्षमा॥ २६॥

विद्यासहितेनापि कर्मणा मोक्षश्चेदारभ्यते तर्हि यत्कृतकं तदनित्यमितिन्यायान्मोक्षानित्यत्वं दुर्निवारमिति34न बिरोधादित्यादिना निरस्यति—नैवमिति। सहायीभूतविद्यासामर्थ्यादनित्यत्वं निवार्यतामित्याशङ्क्याऽऽहं— न चेति। न तावत्प्रमाणजन्या विद्या मोक्षस्यामित्यत्वं वारयति अकारकत्वात्। उपासना तु स्वफलानित्यत्वमपि वारयितुमशक्ता कथं कर्मफलानित्यत्वं वारयतीत्यर्थः॥ २६॥

प्रध्वंसाभाववच्चेत्स्यात्कर्मकार्यमपि ध्रुवम्।
भावात्मकत्वान्मोक्षस्य नैव मय्युप35पद्यते॥२७॥

कर्मकार्यत्वे मोक्षस्यानित्यत्वं यत्कृतकं तदनित्यमितिव्याप्तिदर्शनादित्यत्र व्याप्तिभङ्गं शङ्कते—प्रध्वंसेति। यद्भावरूपं कार्यं तदनित्यमिति,व्याप्तेस्तव मोक्षस्य निरतिशयप्रीतेर्भावरू36पत्वादारभ्यत्वेस्यादेवानित्यत्व37मिति दूषयति—भावेति॥२७॥

कार्यं प्रध्वंसतोऽन्यद्यत्तदनित्यं क्रियोत्थितेः।
घटादिवत्प्रतिज्ञायां विशिष्टत्वाददोषता॥२८॥

यद्भावत्वेसति कृतकं तदनित्यमित्येतदेव साधयति—कार्यमिति। अनित्यमिति प्रतिज्ञायां कार्यत्वहेतोर्भावत्वेन विशिष्टत्वात्प्रतिज्ञाहेत्वोर्व्याप्तिभङ्गदोषवत्ता ना38स्तीति फलितमाह—प्रतिज्ञायामिति॥२८॥

प्रध्वंसाच्छकलादि स्यात्तच्चानित्यं घटादिवत्।
कल्पनामात्रतोऽभावो नैवाऽऽरभ्यः स कर्मभिः॥२९॥

प्रध्वंसस्य कार्यत्वेऽपि नित्यत्वमभ्युपगम्योक्तं तदेवासिद्धमित्याह—प्रध्वंसादिति। नाशक्रियातः शकलादिकार्यं जायते तच्च घटादिवदनित्यमतो न भवदभिप्रेतो ध्वंसस्तत्कार्यत्वं वा39ऽस्तीत्यर्थः। कस्तर्हि भवन्मतेप्रध्वंसाभावस्तत्राऽऽह—कल्पनेति। प्रध्वंसस्यास्मन्मते शशविषाण40वद्विकल्पमात्रत्वान्नित्यत्वानित्यत्वयोरभावान्नासौ व्यभिचारभूरित्यर्थः41॥२९॥

आविर्भावतिरोभावैर्धर्मिण्यां मृदि सर्वदा।
धर्मा घटादयः सर्वे वर्तन्ते न त्वभावगाः॥३०॥

प्रध्वंसस्य शशविषाणकल्पत्वे घटादीनां सदा मृदादिषु विद्यमानत्वात्कषालाद्युत्पत्तावनुपलब्धिर्न सिध्येदित्याशङ्क्याऽऽह—आविर्भावेति।विद्यमानमपि घटादिकार्यं विरोधिकार्यनिरुद्धत्वान्नोपलभ्यते कदाचिदित्यर्थः॥३०॥

नास्त्यभावस्य संबन्धः क्रियया वा गुणेन वा।
निरात्मकत्वान्नैवालं संबद्धुं केनचित्क्वचित्॥३१॥

प्रध्वंसाभावस्य गुणो नित्यत्वं प्रागभावस्य चानित्यत्वं नाशक्रियावत्वमितरस्य चोत्पत्तिक्रियावत्त्वमिति परस्य मतं तदपि न युक्तमित्याहनास्तीति। तदेव स्फुटयति—निरात्मकत्वादिति॥३१॥

तस्मात्स्यात्कल्पनामात्रो व्यवहारप्रसिद्धये।
प्रध्वंसादिरभावोऽयं शिलापुत्रादिवन्मृषा॥३२॥

प्रध्वंसादावभावे निरात्मके धर्मधर्मिभावस्य दुर्भणत्वात्कल्पनामात्रत्वमेवेत्युपसंहरति—तस्मादिति। चतुर्विधाभावव्यवहारसिद्ध्यर्थमवि द्याकल्पितोऽभावो न वास्तवोऽस्तीत्यर्थः॥३२॥

तस्मादविद्याव्यु42च्छित्तौ स्यादवस्थानमात्मनि।
नचाविद्याप्रहाणं स्याद्ब्रह्मविद्यामृते क्वचित्॥३३॥

काम्यप्रतिषिद्धवर्जनाद्युपायादात्मन्य43वस्थानलक्षणस्य मोक्षस्य दुर्वचनत्वादविद्यातत्कार्यनिवृत्तौ तथाविधकैवल्यं ज्ञानादेवेत्युपसंहरति—तस्मादिति॥३३॥

तस्माद्विद्याप्तये ज्ञेया प्रारब्धोपनिषत्परा।
सैवाविद्यापनुत्त्यर्था विद्या44 चैवाऽऽत्मगामिनी॥३४॥

यतो ब्रह्मात्मैकत्वज्ञानादेव संसारकारणात्माविद्यानिवृत्तिस्तस्मादात्मज्ञानार्थत्वेनोपनिषदारम्भः संभवतीत्यारम्भमुपसंहरति तस्माद्विद्येति। तामेव विद्यां विशिनष्टि—सैवेति॥३४॥

विद्यासंशीलिनां यस्माद्गर्भजन्माद्यशेषतः।
उपमृद्नाति विद्येयं तस्मादुपनिषद्भवेत्॥३५॥

ब्रह्मविद्यायामुपनिषच्छब्दप्रसिद्धिरपि विद्याया एव निःश्रेयससाधनत्वे प्रमाणमित्य45भिप्रेत्योपनिष46दितिविद्येत्यादिभाष्यं व्याचष्टे—विद्येति। सकारणसंसारस्य शिथिलीकरणादत्यन्तविनाशहेतुत्वाद्वा ब्रह्मविद्योपनिषच्छब्दवाच्येत्यर्थः॥३५॥

उपेत्य वा निषण्णं तच्छ्रेय आत्यन्तिकं यतः।
तस्मादुपनिषज्ज्ञेया ग्रन्थस्तु स्यात्तदर्थतः॥३६॥

आत्यन्तिकं श्रेयो ब्रह्म तद्विद्यानिमित्तमात्मनि निषण्णमात्मानं गमयत्यनया वा विद्यया ब्रह्मविद्योपनिषच्छब्दवाच्येत्याह—उपेत्येति।ब्रह्मविद्या चेदित्थमुपनिषच्छब्देनोच्यते कथं तर्हि ग्रन्थे तच्छब्दं प्रयुञ्जते तत्राऽऽह—ग्रन्थस्त्विति॥३६॥

प्राणवृत्तेस्तथा चाह्नोदेवता याऽभिमानिनी।
मित्रः शं नः सुखं भूयादिति ब्रह्मेह याच्यते॥३७॥

एवमुपनिषदस्तद्भाष्यस्य च व्याख्येयत्वं प्रतिपाद्य प्रतिपदं व्याख्यामारभते—प्राणवृत्तेरिति। शं नो मित्र इत्यत्र मित्रशब्देन प्राणवृत्तेरह्नश्वाभिमानी देवतात्मोच्यते स च नोऽस्माकं सुखकृद्भवत्विति सूत्रात्मकं ब्र47ह्म मुमुक्षुणा प्रार्थ्यते48 सप्तम्या वाक्यं गृह्यते॥३७॥

रात्रेरपानवृत्तेश्च वरुणश्चाभिमानभाक्।
शं नो भवतु सर्वत्र चक्षुस्थश्चार्यमा रविः॥३८॥

शं वरुण इत्यत्रापि वरुणशब्देनापानवृत्ते रात्रेश्चाभिमानमागी देवतात्मा कथ्यते। स चास्माकं सुखकृद्भवत्विति पूर्ववदेव सूत्रात्मकब्रह्मप्रार्थनामभिप्रेत्याऽऽह—रात्रेरिति। एवमुत्तरत्रापि ब्रह्मैव प्रार्थनाविषय49भूतमित्याह—सर्वत्रेति। शं नो भवत्वर्यमेत्यत्रार्यमा चक्षुरभिमानी रविरादित्य इत्याह—चक्षुस्थश्वेति॥३८॥

बले तु भगवानिन्द्रो वाचि बुद्धौ बृहस्पतिः।
विष्णुश्चोरुक्रमः शं नो विस्तीर्ण50क्रमणो ह्यसौ॥३९॥

शं न इन्द्रो बृहस्पतिरित्यत्र बलाभिमानी देवतात्मेन्द्रो बृहस्पतिर्वागभिमानी बुद्ध्यभिमानी चेत्याह—बल इति। शं नो विष्णुरित्यत्र विष्णुर्नाम पादाभिमानी देवतात्मा स चास्माकं सुखकृदस्तु तदाह—विष्णुश्चेति। तस्योरुक्रमत्वं स्फोरयति—विस्तीर्णेति॥३९॥

अध्यात्मदेवताः सर्वा मित्राद्याः शं भवन्तु नः।
सुखकृत्सु हि तासु स्याद्विघ्नोपशमनं ध्रुवम्॥४०॥

व्याख्यातानां वाक्यानां संपिण्डितमथमाह—अध्यात्मेति। किमिति यथोक्ता देवताः प्रार्थ्यन्ते ब्रह्म जिज्ञासुभिरित्याशङ्क्य तासु हीत्यादिभाष्यार्थमाह—सुखकृत्स्विति॥४०॥

श्रवणं धारणं चैवमुपयोगश्च सिध्यति।
ज्ञानस्याप्रतिबन्धेन प्रार्थनीयमतो भवेत्॥४१॥

तासु देवतासु सुखकृत्सु सतीषु वेदान्तश्रवणार्थं मुमुक्षूणामविघ्नेन गुरुपादोपसर्पणं सिध्यति ततश्च वेदान्तानां तात्पर्यावधारणं श्रवणं श्रुतस्याविस्मरणं धारणमुपयोगः शिष्येभ्यो निवेदनम्॥४१॥

ब्रह्मविद्योपसर्गाणां शान्त्यर्थं वायुरूपिणे।
ब्रह्मजिज्ञासुना कार्ये नमस्कारोक्तिकर्मणी॥४२॥

नमो ब्रह्मण इत्यादिवाक्यस्य तात्पर्यमाह—ब्रह्मविद्येति॥४२॥

सर्वक्रियाफलानां हि ब्रह्माधीनत्वहेतुतः।
वायवे ब्रह्मणे तस्मै प्रह्वीभावोऽस्तु सर्वदा॥४३॥

किमिति वायुरूपिणे ब्रह्मणे नमस्कारवन्दन51क्रिये क्रियेते अन्यस्मै कस्मैचिद्देवतात्मने विघ्नोपशमनार्थं ते किं न स्यातामित्याशङ्क्यसर्वक्रियाफलानामित्यादिभाष्यार्थमाह—सर्वेति। कर्मफलस्य सर्वस्य सूत्रब्रह्माधीनत्वात्तस्यैव नमस्कारवन्दनक्रिये नान्यस्येत्यर्थः॥४३॥

पारोक्ष्येण नमस्कृत्य52प्रत्यक्षेण नमस्क्रिया।
परोक्षसाक्षाद्रूपाभ्यां वायुरेवाभिधीयते॥४४॥

नमो ब्रह्मण इत्येतावतैव वायुरूपिणे ब्रह्मणे नमस्कारस्य सिद्धत्वादुत्तरवाक्यमकिंचित्करमित्याशङ्क्याऽऽह—पारोक्ष्येणेति। स ब्रह्मेत्याचक्षत इतिश्रुतेः। ब्रह्मणः सूत्रस्याऽऽदौ पारोक्ष्येण नमस्कारः कृतस्तस्यैव वायुशब्देन प्रत्यक्षतया निर्देशः। प्राणस्य प्रत्यक्षत्वादतो न पौनरुक्त्यमित्यर्थः।साक्षात्त्वासाक्षात्त्वाभ्यां वायुब्रह्मणोर्भेदमाशङ्क्याऽऽह—परोक्षेति॥४४॥

प्रत्यक्षं ब्रह्म हे वायो त्वमेवासीति संस्तुतिः।
त्वामेवातो वदिष्यामि साक्षात्त्वमुपलभ्यसे॥४५॥

त्वमेव प्रत्यक्षं ब्रह्मासीत्यस्य तात्पर्यमाह—प्रत्यक्षमिति। हे वायो तव सूत्ररूपेण पारोक्ष्येऽपि प्राणरूपेणापरोक्षमस्ति चक्षुरादि हि रूपदर्शनाद्यनुमेयत्वाद्यवहितं साक्षिवेद्यं प्राणस्त्वव्यवधानेन साक्षिवेद्यः संनिहितश्च मोक्तुरिति प्रत्यक्षो विवक्ष्यते प्राण53कृतेनाशनादिना शरीरादेर्बृंहणप्रसिद्धेर्ब्रह्मत्वं च तवातिव्यक्तमतस्त्वमेव प्रत्यक्षं ब्रह्मासीति वायुदेवतास्तुतिरत्र विवक्षितेत्यर्थः। त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामीत्यस्य तात्पर्यमाह—त्वामेवेति। यथा कश्चन राजदर्शनार्थी राज्ञो दौवारिकं कंचिदुपलभ्य त्वमेव54 राजेति ब्रूते तथा हार्दस्य ब्रह्मणो द्वारपालं प्राणं प्रतीत्य हार्दं ब्रह्म दिद्रक्षुर्मुमुक्षुरभिवदति त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामीति यतस्त्वं साक्षिणा साक्षादुपलभ्यते तस्मात्त्वामेवाहं ब्रह्म वदिष्यामीति ब्रह्मवदनक्रिया55 प्राणदेवतायाः स्तुतिरेवेत्यर्थः॥४५॥

यथाशास्त्रं यथाकार्यं बुद्धौ सुपरिनिश्चितम्।
ऋतं तत्त्वदधीनत्वाद्वदिष्यामीति संगतिः॥४६॥

ऋतं वदिष्यामीत्यस्य56 तात्पर्यार्थमाह—यथाशास्त्रमिति। अग्निहोत्रादिलक्षणं कार्यं कर्तव्यं कर्मानतिक्रम्य तदेव शास्त्रानुरोधेन बुद्धो सुपरिनिश्चितमनुष्ठेयत्वेन निर्धारितमृतमित्युच्यते तच्च तदधीनत्वात्तदात्मकत्वाच्च57त्वामेव वदिष्यामीति देवतास्तुतिरेवेत्यर्थः॥४६॥

प्रयोगर्स्थ58तदेवर्तं सत्यमित्यभिधीयते।
तदपि त्वदधीनत्वाद्वदिष्याम्येव सांप्रतम्॥४७॥

स्तुत्यन्तरमाह—प्रयोगस्थमिति। ऋतमेवानुष्ठीयमानं सत्यमुच्यते तदपि त्वदात्मकत्वात्त्वामेव वदिष्यामीति वाक्ययो स्तुत्यर्थयोरपुनरुक्ततेत्यर्थः॥४७॥

विद्यार्थिना स्तुतं सन्मां ब्रह्मावतु गुरुं च मे।
विद्याग्रहणवक्तृत्वशक्तिभ्यां नौ सदाऽवतु॥४८॥

तन्मामवत्वित्यादिवाक्यस्यार्थमाह्—विद्यार्थिनेति। उक्तप्रकारेण मया

स्तुतं सद्ब्ह्म मामाचार्यं चावतुरक्ष59त्वितिप्रार्थनायां केन रूपेणरक्षत्वितिविवक्षायामाह—विद्याग्रहणेति। श्रुत्यादिद्वारेणाऽऽचार्योपदिष्टस्य तत्त्वस्य ग्रहणे सामर्थ्यं यथा मम श्रोतुर्न विहन्यते यथाऽऽचार्यस्य वक्तृत्वसामर्थ्यमप्रतिहतं भवति तथा शिष्याचार्ययोः शरीरद्वयं तथा रक्षणीयमित्यर्थः॥४८॥

विद्याप्राप्त्युपसर्गाणां त्रिः शान्तिरभिधीयते।
आचार्यशिष्ययोस्तस्यां ब्रह्म ज्ञातुं हि शक्यते॥४९॥

आचार्यस्य विद्योपदेशार्थं विद्याग्रहणार्थं च शिष्यस्य प्रवृत्तस्याऽऽध्यात्मिको ज्वरादिनिमित्तः सह चक्षुः श्रोत्रादिनिमित्तश्चाऽऽधिभौतिको60व्याघ्रचोरादिभयनिमित्तो वर्षगर्जनादिप्रयुक्तश्चाऽऽधिदैविको विघ्नः संभाव्यते तस्य त्रिविधस्योपसर्गस्य विघ्नस्य परिहारार्थं त्रिः शान्तिरुच्यते तस्यां विघ्नोपशान्तौ सत्यामेव ज्ञानोपदेशतद्ग्रहणसंभवादितिपुनरुक्तिशङ्कां61वारयति—विद्येति॥४९॥

अर्थज्ञानप्रधानत्वाद्वेदान्तानां विपश्चिताम्।
पाठे त्वयत्नो मा प्रापदिति शिक्षाऽभिधीयते॥५०॥

प्रथमं शिक्षाध्यायारम्भे हेतुमाह—अर्थज्ञानेति। वेदान्तानां ब्रह्मात्मपरत्वात्कर्मकाण्डस्य62च कर्मपरत्वाद्बुद्धिपूर्वकारिणामध्ययने स्वरोष्मब्यञ्जनेष्वनास्थासंभवाद्विवक्षितार्थासिद्धिः स्यादित्याशङ्क्य तन्निवृत्त्यर्थमेतदध्यायप्रवृत्तिरित्यर्थः॥५०॥

शिक्ष्यते ज्ञायते साक्षाद्वर्णाद्युच्चारणं यया। स्याद्वा
कर्मणि शिक्षेति व्याख्यास्यामोऽधुना तु ताम्॥५१॥

शिक्षाशब्दस्य द्विधा व्युत्पत्तिं संभावनया दर्शयति—शिक्ष्यत इति। लक्षणशास्त्रस्यान्यत्रैव सिद्धत्वादिह कर्मव्युत्पत्तिरेव ग्राह्येत्यङ्गीकृत्य ‘वाक्यार्थमाह—स्याद्वेति॥५१॥

अकारादिर्भवेद्वर्ण उदात्तादिः स्वरस्तथा।
ह्रस्वदीर्घप्लुता मात्रा63 प्रयत्नश्च बलं स्मृतम्॥५२॥

समता सामवर्णानां वैषम्यस्य विवर्ज64नम्।
संतानः संहिता तु स्यादिति शिक्षोपदिश्यते॥५३॥

शिक्षितव्यानेव विभज्य दर्शयन्वर्णः स्वर इत्यादि व्याकरोति—अकारादिरितिद्वाभ्याम्। वर्णादीनामेकस्यापि वैगुण्ये फलपर्यन्तं ज्ञानं न सिध्यति मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाहे तिदर्शनादतो वर्णादयः सर्वे शिक्षितव्या भवन्तीत्यर्थः॥५२॥५३॥

इति प्रथमोऽनुवाकः॥१॥

सूक्ष्मार्थानुप्रवेशाय बहिष्प्रवणचेतसाम्।
संहिताविषयं तावत्स्थूलोपासनमुच्यते॥५४॥

अधुनेत्यादिभाष्यार्थमाह—सूक्ष्मार्थेति। अध्येतारो हि बहिरेव ग्रन्थप्रवृत्तचित्तास्तेषामर्थज्ञाने सूक्ष्मे बुद्धिप्रवेशसिद्ध्यर्थं संहिता वर्णानांसंनिकर्षस्तद्विषयमुपासनं स्थूलशब्दसंसृष्टमादावुच्यते संनिधानाञ्चात्र स्वशाखासंहितैव ग्राह्येत्यर्थः॥५४॥

संहितादिनिमित्तं यद्यशस्तन्नौ सहास्त्विति।
आचार्यशिष्ययोस्तद्वद्ब्रह्मवर्चसमावयोः॥५५॥

समस्तोपनिषच्छेषः शं नो मित्र इत्यादिराशीर्वादः संवृत्तः। संप्रति संहितोपनिषच्छेषमाशीर्वादान्तरं सह नौ यशः सह नौ ब्रह्मवर्चसमिति वाक्याभ्यामुच्यते तद्याचष्टे—संहितादीति॥५५॥

यशः ख्यातिः प्रकाशः स्याद्वृत्तस्वाध्यायहेतुजम्।
ब्रह्मवर्चसमित्याहुस्तेजो यत्तन्निबन्धनम्॥५६॥

यशोब्रह्मवर्चसशब्दयोरर्थभेदं कथयति—यश इति। श्रुतिस्मृत्युक्तकारित्वं वृत्तं स्वाध्यायश्च नियमाध्ययनं ताभ्यां जातं यशस्तच्च ख्यातिः प्रकाशश्चेति व्यवह्रियते। ताभ्यामेव हेतुभ्यां जातं त्वग्व्याप्तं तेजो ब्रह्मवर्चसमिति व्यवहरन्तीत्यर्थः॥५६॥

शिष्यस्याऽऽशीरियं ज्ञेया नाऽऽचार्यस्य कृतार्थतः।
अनाप्तपुरुषार्थानामाशीर्वादो हि युज्यते॥५७॥

सेयं प्रार्थना शिष्यस्याऽऽचार्यस्य वेत्याकाङ्क्षायां शिष्यस्य हीत्यादि-

भाष्यार्थमाह—शिष्यस्येति। कृतार्थोऽपि कस्मादाचार्यो न प्रार्थयते तत्राऽऽह—अनाप्तेति॥५७॥

वेदाध्ययनविज्ञानादनन्तरमिदं यतः।
नेदीयः संहिताज्ञानमतस्तदभिधीयते॥५८॥

अथातःशब्दयोरर्थमाह—वेदेति॥५८॥

संहिताविषयं ज्ञानमिहोपनिषदुच्यते। पञ्चाधि-
करणां तां तु व्याख्यास्यामोऽधुना स्फुटम्॥५९॥

आनन्तर्यमथशब्दार्थो हेत्वर्थश्चातः शब्द इत्युक्त्वा संहिताया इत्यादिव्याचष्टे—संहितेति। पञ्चस्वधिकरणेष्वित्यस्यार्थमाह—पञ्चेति। पञ्चस्वितिसप्तमी तृतीयार्थे परिणम्यते। अधिकरणशब्दश्च विषयपर्यायः।पञ्चभिः पदार्थैर्विशेषितं ज्ञानं वर्णेषु प्रतिमायां विष्णुदृष्टिरिव कर्तव्यमित्यर्थः॥५९॥

अधिलोकमधिज्योतिरधिविद्यमधिप्रजम्।
अध्यात्मं चेति लोकादेर्महत्त्वात्तद्विदो जगुः॥
ता महासंहिताः सर्वा इति ता य उपासते॥६०॥

विषयानेव विविच्य दर्शयति—अधिलोकमिति। लोकानधिकृत्य ध्येयत्वेनोपादायेत्येतज्ज्योतिःशब्देनाग्न्यादिर्गृह्यते65 विद्याशब्देन विद्याहतुराचार्यादिर्विवक्षितः। प्रजाशब्देन प्रजाहेतुः पित्रादिरुक्तः। अध्यास्ममित्यात्मानं भोक्तारमधिकृत्य []66 यज्जिह्यादि प्रव67र्तते तदुच्यते सर्वत्र चात्र तदभिमानिनी देवतैव ग्राह्या ततोऽन्यस्योपास्यत्वासंभवादित्यर्थः। संहितोपनिषदां महत्त्वं संहितात्वं चार्थवादोक्तमुपपाद्य तासां कर्तव्यत्वमुत्पत्तिविधिना दर्शयति—लोकादेरिति। लोकादिमहावस्तुविषयत्वाद्वेदाक्षरसंहिताविषयत्वाच्च महत्त्वं संहितात्वं चोपनिषदां विज्ञेयं ताश्च कर्तव्या इत्यर्थः। ये चोपनिषदस्तात्पर्येणानुवर्तन्ते तेषां वक्ष्यमाणं भवतीति द्रष्टव्यम्॥६०॥

दृष्टिक्रमविधानार्थास्त्वथशब्दा अमी स्मृताः।
लोकादीनधिकृत्योक्तेरधिलोकाद्यतो भवेत्॥६१॥

अथाधिलोकमित्यादौ सर्वत्राथशब्दाः सन्ति तेषामर्थमाह—दृष्टीति। कर्तुरेकत्वादनुष्ठेयानां बहुत्वादवश्यं68भाविनि क्रमे हृ69दयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षस इतिवत्तद्विशेषनियमार्था वाक्येष्वथशब्दा इत्यर्थः। अधिलोकादिशब्दवाच्यत्वं कथमुपासनानामित्याशङ्क्याऽऽह—लोकादीनिति॥६१॥

पृथिव्यग्निरथाचार्यो माता या चाधरा हनुः।
पूर्वं स्यात्संहितारूपं दिवादित्याद्यथोत्तरम्॥६२॥

संहिताया यत्पूर्वमक्षरं तत्र पृथिवीदृष्टिरग्निदृष्टिराचार्यदृष्टिर्मातृदृष्टिरधराहनुदृष्टिश्च कर्तव्येतिविनियोगविधिं दर्शयति—पृथिवीति। यच्चोत्तरं संहिताक्षरं तत्र द्युलोकदृष्टिरादित्यदृष्टिरन्तेवासिदृष्टिः पितृदृष्टिरुतराहनुहृष्टिश्च कर्तव्येत्याह—दिवेति॥६२॥

पूर्वो वर्णः पूर्वरूपमुत्तरश्चोत्तरं स्मृतम्॥६३॥

संहिताया इति ज्ञेयं ततोऽन्या काऽत्र संहिता।
संधिः स्यान्मध्यमं छिद्रमाकाशादिस्तथैव च॥६४॥

के ते पूर्वोत्तरे संहिताया रूपे यत्र पृथिव्यादिदृष्टिरित्याशङ्क्याऽऽहपूर्व इति। उक्ताक्षरातिरेकेण संहितारूपस्य दुर्निरूपत्व70माह—तत इति।अक्षरयोर्मध्यमं छिद्रं संधिस्तत्र च पूर्ववदाकाशदृष्टिर्जलदृष्टिर्विद्यादृष्टिः प्रजादृष्टिर्वाग्दृष्टिश्व कर्तव्येत्याह —संधिरिति॥६३॥६४॥

संधत्ते येन संधानं वाय्वादिरिह कीर्त्यते।
इतीमा इति वाक्येन प्रदर्श्यन्ते यथोदिताः॥६५॥

पूर्वोत्तराक्षरयोः संबन्धहेतुर्यत्नविशेषः संधानं तत्र वायुदृष्टिर्विद्युद्दृष्टिः प्रवचनदृष्टिः प्रजननेन्द्रियदृष्टिर्जिह्वादृष्टिश्व कार्येत्याह—संघत्त इति। इत्थं संहितोपासनप्रकारा उक्ता इति विनियोगविधिमितीमा इतिवाक्यार्थकथनेनोपसंहरति—इतीमा इति॥६५॥

वेदोपास्ते तु यस्त्वेताः फलं तस्येदमुच्यते।
शास्त्रार्पितधियोपेत्य ह्यातादात्म्याभिमानतः॥
चिरासनं भवेदर्थे तदुपासनमुच्यते॥६६॥

यथा दर्शादयः षड्यागाः समुच्चित्य फलसाधनमधिकारांशेनाभेदातथा पञ्चोपनिषदः समुच्चिताः प्रजादिफलकामस्यानुष्ठेया इत्यधिकारविधिं य एवमेता इत्यादिवाक्यस्यार्थकथनेन कथयति—वेदेति।प्रजादि स्वर्गान्तमिदमापरामृश्यते। उपासनशब्दार्थमाह—शास्त्रेति।श्रुतिस्मृतिसिद्धेऽर्थे तदीयं साक्षात्करणं यावदुत्पद्यते तावद्विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययसंततिकरणमुपासनमित्यर्थः॥६६॥

संधीयते71ऽसौ स्वर्गान्तैः प्रजादिभिरसंशयम्।
महतीः संहिता वेद यो यथोक्ताः समाहितः॥६७॥

फलकामिनाऽनुष्ठीयमानं संहितोपासनं कामितफलाय संपद्यते फलानभिसंधिनां त्वानु72ष्ठीयमानं तदेव ब्रह्मविद्यार्थं भवतीत्यभिप्रेत्य वेदोपास्ते यस्त्वित्यादिनोक्तं प्रपञ्चयति—संधीयत इति॥६७॥

इति द्वितीयोऽनुवाकः॥२॥

यश्छन्दसामितिज्ञानं मेधाकामस्य भण्यते।
आवहन्तीति तद्वत्स्याच्छ्रीकामस्येह लि73ङ्गतः॥६८॥

यश्छन्दसामित्यारभ्य श्रुतं मे गोपायेत्यन्तस्य ग्रन्थस्य तात्पर्थमाहयश्छन्दसामिति।तेन हि ज्ञानमोंकारोपासनमधिकृत्य जपो मेधाकामस्योच्यते—समेन्द्रो मेधया स्पृणोत्विति लिङ्गान्मेघाहीनेन ब्रह्मणोऽवगन्तुमशक्यत्वात्तत्कामस्य जपोऽपि ब्रह्मविद्यार्थो भवतीत्यर्थः—आवहन्तीत्यारभ्यानुवाकसमाप्त्यन्तस्य ग्रन्थस्य तात्पर्यमाह—आवहन्तीति।यथा जपो मेधाकामस्याभिधीयते तथैवाऽऽवहन्तीत्यादिना सर्वेणानुवाकेन श्रीकामस्य होमो विवक्षितः स्यात्ततो मे श्रियमावहेति लिङ्गात्।न हि श्रीविहीनेन चित्तशुद्ध्यर्थं यागाद्यनुष्ठातुं शक्यते ततः श्रीकामस्य होमोऽपि परम्परया ब्रह्मविद्योपयोगीत्यर्थः॥६८॥

छन्दःशब्दा74स्त्रयो वेदास्तत्प्रधानत्वकारणात्।
ऋषभो विश्वरूपश्च सर्ववाग्व्याप्तिकारणात्॥६९॥

वेदत्रयं छन्दःशब्दवाच्यं तस्मिन्वेदत्रये प्रधानत्वमोंकारस्यास्ति तस्मादेव कारणादृषमशब्दादोंकारो गृह्यते। तद्यथा शङ्कुनेत्यादिश्रुतेरोंकारस्य सर्वात्मकत्व— श्रवणाद्विश्वरूपश्वासावितिपदत्रयस्यार्थमाह—छन्दः शब्दा75 इति॥६९॥

अमृतेभ्योऽसौ वेदेभ्यः प्रतिभातः प्रजापतेः।
ओंकारस्य हि नित्यत्वान्नाञ्जसोत्पत्तिरुच्यते॥७०॥

छन्दोभ्योऽधीत्यादेरर्थमाह—अमृतेभ्य इति अमृतादिति पदमपि बहुवचनसामानाधिकरण्याद्बहुवचनत्वेन योज्यते संबभूवेति जन्मवाचके पदे श्रूयमाणे किमिति प्रजापतिर्लोकानभ्यतपदित्यादिश्रुत्यन्तरमनुसृत्य श्रेष्ठत्वेन प्रतिभानं व्याख्यायते तत्राऽऽह—ओंकारस्येति॥७०॥

ओंकारः सर्वकामेशः स इन्द्रः परमेश्वरः।
मेधया प्रज्ञया मां स स्पृणोतु प्रीणयत्विति॥७१॥

समेन्द्रो मेधयेत्यादेरर्थमाह—ओंकार इति॥७१॥

अमृतत्वैकहेतोः स्यामात्मज्ञानस्य धारणः॥७२॥

अमृतस्येत्यादावमृतशब्देनामृतहेतुत्वादात्मज्ञानमुच्यते तस्याहं त्वत्प्रसादाद्धारयिता स्यामिति प्रार्थनान्तरमाह—अमृतत्वेति॥७२॥

विचक्षणं च मे भूयाच्छरीरं देव सर्वदा।
मनः प्रल्हादिनी मे स्याज्जिह्वा मधुरभाषिणी॥७३॥

शरीरं मे विचर्षणमित्यस्यार्थमाह—विचक्षणं चेति। जिह्वा मे मधुमत्तमेत्यस्यार्थमाह—मन इति। यदि हि शरीरपाटवं न स्यात्तदा मेधाफलस्याऽऽत्मज्ञानस्य76 सिद्ध्यर्थं श्रवणाद्यनुष्ठानयोग्यता न मे सिध्येत्। यदि च मदीयं वागिन्द्रियं पुरुषभाषणे व्याप्रियेत तदा ज्ञानोपदेष्टर्यपितत्संभवान्न मे ज्ञानं संभवेदतस्तदुभयं प्रार्थ्यते मुमुक्षुणेत्यर्थः॥७३॥

कर्णाभ्यां चैव वेदार्थ भूरि विश्रृणुयामहम्।
ब्रह्मणश्वासि कोशस्त्वमसेरिव परात्मनः॥७४॥

कर्णाभ्यामित्यादेरर्थमाह—कर्णाभ्यामिति। ओंकारस्य शब्दमात्रत्वेनाचेतनत्वात्कथं मेधादिप्रदाने सामर्थ्यं कथं चेन्द्रशब्दवाच्यत्वमित्याशङ्क्याऽऽह—ब्रह्मणश्चेति।ओंकारस्य ब्रह्मोपलब्धिस्थानत्वेन ब्रह्मसंनिकर्षात्तत्र सर्वमुपपन्नमित्यर्थः॥७४॥

अपविद्धैषणा यस्मात्त्वयि पश्यन्ति तत्परम्।
अभिधानप्रतीकत्वद्वारेणास्यो पलब्धये॥
त्वमेव हेतुतां यासि तस्मात्कोशस्त्वमुच्यसे॥७५॥

ब्रह्मकोशत्वमोंकारस्य साधयति। अपविद्धेति। त्वयीति सप्तमी निमित्तार्था। कथमोंकारं निमित्तीकृत्य विरक्ता मुमुक्षवो ब्रह्म पश्यन्तीत्यपेक्षायामाह—अभिधानेति॥७५॥

लौकिक77प्रज्ञया यस्मान्मेधया पिहितस्ततः।
नोपासते पराक्चित्तास्त्वां देवममृतप्रदम्॥७६॥

ब्रह्माभेदेन मुमुक्षूणामपेक्षितमेधादि78दाने चेदोंकारः सामर्थ्यमश्नुते तर्हि किमिति सर्वैरेव मेधाद्यर्थिभिरसौ नोपास्यते तत्राऽऽह—लौकिके79ति। विषयाभिनिवेशो लौकिकप्रज्ञा॥७६॥

रागद्वेषादिहेतुभ्यः श्रुतं गोपाय मे प्रभो॥७७॥

येन श्रुतेन संपन्नस्त्वामेव प्रविशाम्यहम्।
प्रापयन्त्यावहन्तीति विस्तारार्थोत्तरा क्रिया॥७८॥

श्रुतमित्यादरेरर्थमाह—रागद्वेषादीति। ज्ञानसाधनं श्रवणादिकमनुतिष्ठतो मे यथा रागादिज्ञानप्रतिबन्धकं80 न भवति तथा त्वया कर्तव्यमित्यर्थः। मेधाकामस्य जपार्थान्मन्त्रान्व्याख्याय श्रीकामस्य होमार्थान्मन्त्रान्व्याचिख्यासुरावहन्ती वितन्वानेतिपदद्वयस्य क्रमेणार्थमाह—प्रापयन्तीति॥७७॥७८॥

कुर्वाणामुभयं देव चिरमावह मे श्रियम्।
ततो वेदार्थविज्ञानादन्नापानान्तदायिनीम्॥७९॥

कुर्वाणेत्यादेरर्थमाह—कुर्वाणामिति। उभयं वस्त्राद्यानयनं तद्विस्तारं चेत्यर्थः। देवेत्योंकारो ब्रह्माभेदेन संबोध्यते। वेदार्थविज्ञानादनन्तरमितिशेषः। तदभावे श्रीरनर्थाय संभाव्यते॥७९॥

लोमशां पशुभिर्युक्तां प्रत्येकं सर्वदेति च।
मन्त्रान्तज्ञापनार्थाय स्वाहाकारोऽयमुच्यते॥८०॥

लोमशामित्यादेरर्थमाह—लोमशामिति। अजाव्यादियुक्तत्वं श्रियो लोमशत्वं स्वतस्तद्योगात्सर्वदा वासांसि सर्वदा गाः सर्वदाऽन्नपाने च मामावहन्तीं विस्तारयन्तीं कुर्वाणां श्रियमावहेत्यन्वयं सूचयति। प्रत्येकमिति। स्वाहाकारप्रयोगस्याभिप्रायमाह—मन्त्रान्तेति॥८०॥

तथैव चोत्तरत्रापि स्वाहा तत्संभवाद्भवेत्।
दैवेन मानुषेणैव वित्तेनाऽऽमुत्रिकैहिकम्॥
कर्म कर्तुमलं यस्मात्प्रार्थ्यते तेन तद्द्वयम्॥८१॥

उत्तरेष्वपि मन्त्रेषु81 स्वाहाकारों मन्त्रान्तज्ञापनायैव भवेत्तत्र तत्र स्वाहाकारेण मन्त्रान्तज्ञापनसंभवादित्याह—तथैवेति। ननु किमर्थ मुमुक्षुणा ज्ञानं धनं च प्रार्थ्यते तत्राऽऽह—दैवेनेति। दैवं वित्तं ज्ञानम्। मानुषं सुवर्णादि॥८१॥

आयन्तूद्दिश्य मां सर्व अधीतिश्रवणार्थिनः॥८२॥
प्रकृष्ट्या82र्थं प्रमायन्तु यत्नतो ब्रह्मचारिणः।
संभूय कोटिशश्चैव मामेवाऽऽयन्तु सत्वराः॥८३॥

आमायन्त्वित्यादेरर्थमाह—आयन्त्विति॥८२॥

प्रमायन्तु ब्रह्मचारिणः स्वाहा शमायन्तु ब्रह्मचारिणः स्वाहेतिवाक्यद्वयं केचित्पठन्ति तस्यार्थमाह—प्रकृष्ट्य83र्थमिति॥८३॥

जनेऽसानि यशश्वेति पूर्वस्यैतत्प्रयोजनम्।
वस्यसोऽहं सकाशाञ्च श्रेयान्स्यां गुणतोऽधिकः॥
वसीयसो वस्यस इतीलोपश्छान्दसो भवेत्॥८४॥

किमर्थमनेकब्रह्मचार्यागमं प्रार्थ्यते तत्राऽऽह—जनेऽसानीति। बहवो ब्रह्मचारिणो यदि मत्तो विद्यामाददीरन्विद्वत्सभायां तदा मम ख्यातिर्भवतीत्यर्थः। श्रेयानित्यादेरर्थमाह—वस्यसोऽहमिति। वस्यस इति वसीयस इत्यस्मिन्नर्थ ईकारलोपश्छान्दसः। वसीयसः सकाशादहं श्रेष्ठः स्यामित्यर्थः॥८४॥

ईयसुन्वसितुर्वा स्यात्स्याद्वा वसुमतः परः।
अभीष्टोऽतिशयो यस्मात्सजातीयाद्गुणोन्नतेः॥८५॥

वसितुः पुरुषाद्धनवतो वा पुरुषादुत्तरत्रायमीयसुन्प्रत्ययो न धातोरुपरिष्टादितिविवक्षित84त्वादित्याह—ईयसुन्निति। तत्र हेतुमाह—अमीष्ट इति। गुणश्रेष्ठतया सजातीयेभ्यः श्रेष्ठत्वस्य विवक्षितत्वादित्यर्थः। अथवा वस निवासे वस आच्छादन इति धातुद्वयादुप्रत्ययः।85 ताच्छील्यार्थे86 वसुर्वसनशीलः पराच्छादनशीलो वा वसुरित्यतिशयेन वसुर्वसीयानुक्तस्तस्माद्वसीयसोऽहं श्रेष्ठः स्याम्। वसुमान्वा वसुशब्देन लक्ष्यते।ततो वसुमत्तरादहं श्रेष्ठो भूयासमित्यर्थः॥८५॥

ब्रह्मणः कोशभूतं त्वां भगवन्प्रविशाम्यहम्।
मां च सर्वात्मभावेन प्रविशेश प्रसीद मे॥८६॥

ऐकात्म्यमाबयोरस्तु भेदहेतुं विनाशय।
अनन्तभेदे त्वय्येव निमृजे दुष्कृतं ततः॥८७॥

पूर्वोक्तस्य प्रार्थनस्य प्रयोजनमाह—ब्रह्मण इति। मुमुक्षोः श्रेष्ठत्वे सत्योंकारवाच्येन ब्रह्मणा सहैकत्वमपेक्षितं सेत्स्यतीत्यर्थः। तस्मिन्नित्यादेरर्थमाह—अनन्तेति। यस्मादहं त्वदात्मभूतोऽस्मि तस्मात्त्वन्निमित्तमेव मम पापक्षयः स्यादित्यर्थः॥८६॥८७॥

द्रुतमापो यथा यन्ति निम्नेन मकरालयम्।
तथैवाऽ87ऽयन्तु मां सर्वे समन्ताद्ब्रह्मचारिणः॥८८॥

यस्मिन्नहानि जीर्यन्ते सोऽब्दोऽहर्जर उच्यते।
अहर्जरे यथा मासा यन्ति संवत्सरात्मनि॥८९॥

यदुक्तं ब्रह्मचारिणो मामायन्त्विति तत्र दृष्टान्तद्वयं श्रुत्युक्तं व्याचष्टे—द्रुतमित्यादिना॥८८॥८९॥

आसन्नगृहपर्यायः प्रतिवेश इहोच्यते।
प्रतिवेश इवासि त्वं सर्वदुःखापनोदकृत्॥९०॥

प्रतिवेशोऽसीत्यत्र प्रतिवेशशब्दार्थमाह—आसन्नेति। संनिहितगृहवदशेषदुःखनिवृत्तिहेतुस्त्वमितिवाक्यार्थं कथयति—प्रतिवेश इति॥९०॥

प्रतिप्राणिप्रवेशाद्वा प्रतिवेशोऽसि कीर्त्यसे।
मां प्रत्यतः प्रभाहि त्वं प्रमापद्यस्व चाञ्चसा॥९१॥

आकाशवत्सर्वप्राण्यनुप्रवेशाद्वा प्रतिवेशस्त्वमित्यर्थान्तरमाह—प्रतिप्राणीति। प्रमा माहीत्यादेरर्थमाह—मां प्रतीति। यतस्त्वं सर्वगतोऽतो मां प्रति प्रमाहि त्वत्स्वरूपं प्रकटय मां च प्रपद्यस्वेत्यर्थः। प्रकृतेषु मन्त्रेषु ब्राह्मणोत्पन्नत्वात्तद्वद्भावादार्षेयादि नानुसंधेयम्॥९१॥

इति तृतीयोऽनुवाकः॥३॥

उपासनमथेदानीं व्याहृत्यात्मन उच्यते।
स्वाराज्यफलसिद्ध्यर्थं महिमाऽतोऽस्य कीर्त्यते॥९२॥

ओंकारवाच्यत्वेन तत्प्रतीकत्वेन वा ब्रह्मणो ध्येयत्वमुक्तम् \। जपार्था होमार्थाश्च मन्त्रा व्याख्याताः। संप्रति व्याहृत्यात्मनो ब्रह्मणोऽपरस्योपासनं विशिष्फलं वक्तव्यमित्युत्तरानुवाकस्य तात्पर्य88माह—उपासनमिति। यतो व्याहृत्यात्मनो ब्रह्मणोऽत्रोपासनं विवक्षितमतः समनन्तर वाक्येन तथाविधब्रह्मणः स्तुतिर्विवक्षितेत्याह—महिमेति॥९२॥

भूर्भुवः स्वरितिज्ञेयः प्रसिद्धा व्याहृतीर्नरैः।
तिस्रस्तासां चतुर्थी89 तु मह इत्यृषिरभ्यधात्॥९३॥

एवं तात्पर्यमुक्त्वाऽक्षरार्थं कथयति—भूरिति। व्याहृतीरितिद्वितीया प्रथमार्थे तासामित्यादिवाक्यत्रयस्यार्थमाह—तासामित॥१३॥

महाचमसगोत्रत्वाद्गोत्रार्थस्तद्धितो भवेत्।
माहाचमस्योतः साक्षान्महो वेदयते पराम्॥९४॥

तद्धितार्थमाह—महाचमसेति॥९४॥

उपासनाङ्गतार्थोऽयमृषिनामग्रहो भवेत्।
आर्षेयस्मृतिसंमिश्रमुपासनमिहोच्यते॥९५॥

ऋषिनामग्रहणस्य प्रयोजनमाह—उपासनेति॥९५॥

चतुर्थी व्याहृतिर्येयं ब्रह्मेत्येवमुपास्यताम्।
महत्वाद्वह्म सा ज्ञेया आत्मा चाऽऽप्रोति येन सा॥९६॥

तद्ब्रह्मेत्यस्यार्थमाह—चतुर्थीति। तस्या महत्वाद्ब्रह्मत्वं सर्वव्यापकत्वाच्चाऽऽत्मत्वमित्येतदाह—महत्त्वादिति॥९६॥

आदित्यचन्द्रब्रह्मान्नभूतेन व्यापिना यतः॥९७॥

लोकदे90वादयो व्याप्ता आत्मा तेन महो भवेत्।
देवताग्रहणं चात्र परिशिष्टोपलक्षणम्॥९८॥

सर्वव्यापकत्वं साधयति—आदित्येति॥९७॥

व्याहृतीनां श्रद्धागृहीतत्वात्तत्त्यागेनोक्तं ब्रह्म बुद्धिं नाऽऽरोहति। अतो व्याहृतिशरीरं हिरण्यगर्भाख्यं ब्रह्म हृदयान्तर्ध्येयत्वेनोक्त्वा91 महोव्याहृतावङ्गिब्रह्मदृष्टिर्महत्वव्यापकत्वसामान्यादितराश्च व्याहृतयस्तस्य पादाद्यवयवत्वेन कल्प्यन्ते92। प्रथमा व्याहृतिः पादौ द्वितीया बाहू तृतीया शिर इति व्याहृत्यवयवं ब्रह्मोपासीतेत्युत्पत्तिविधिरित्युक्तम्। इदानीमङ्गान्यन्या देवता इत्यत्र देवताग्रहणस्य तात्पर्यमाह—देवतेति॥९८॥

लोका देवास्तथा वेदाः प्राणाश्वाङ्गानि सर्वशः।
मह इत्यस्य ज्ञेयानि व्याहृत्यात्मन एव हि॥९९॥

परिशिष्टोपलक्षणे93 सिद्धमर्थमाह—लोका इति॥९९॥

महीयन्ते यतः सर्व आदित्याद्या94

त्मना94 परे।
मह इत्येवमुक्तेन तस्मादात्मा भवेन्महः॥१००॥

चतुर्थव्याहृतेर्व्यापकत्वेनाऽऽत्मत्वं पूर्वत्रोक्तम्। अधुना लोकादिवृद्धिहेतुत्वादात्मत्वमित्येतदाह—महीयन्त इति॥१००॥

आत्मना हि महीयन्ते हस्ताद्यङ्गानि सर्वशः।
यथा लोकादयस्तद्वदादित्याद्यात्मनैधिताः॥१॥

उक्तमर्थं दृष्टान्तेन साधयति। आत्मनेति। यथा देवदत्तस्य पादादीन्यङ्गानि मध्यभागश्चाङ्गी तेषामङ्गानां वृद्धिहेतुत्वादुच्यते तथा महोव्याहृतिर्ब्रह्मणो हिरण्यगर्भस्य लोकाद्यात्मकस्य मध्यभागो लोकादेरादित्याद्यात्मना वृद्धिहेतुत्वादात्मेति95चोच्यत इत्यर्थः॥१॥

अयं लोकोऽग्निर्ऋग्वेदः प्राणश्चेति चतुर्विधा।
भूरिति व्याहृतिर्ज्ञेया तथैवान्या यथाक्रमम्॥२॥

उत्पत्तिविधेरुक्तत्वादङ्गविशेषविधिमधुना कथयति—अयमित्यादिना॥२॥

अन्तरिक्षं च वायुश्च साम चापान एव च।
चतुर्धा भुव इत्येषा द्वितीया व्याहृतिर्मता॥३॥

द्यौरादित्यो यजुश्चेति व्यानश्रेति चतुर्थ्यपि।
महश्चेति96पुरा प्रोक्ता चतस्रः स्युश्चतुर्विधाः॥४॥

तथैवान्या97 इत्यादि विवृणोति—अन्तरिक्षमिति॥३॥

व्यानश्चेत्यत्र तृतीया व्याहृतिर्मतेत्यनुषज्यते। महश्चेति चतुर्थ्यपि व्याहृतिः। एवं पूर्वव्याहृतिवदादित्यचन्द्रब्रह्मान्नभूतेनेत्यत्र चर्तुर्विधा98 प्रोक्तेत्याह—चतुर्थ्यपीति। प्रदर्शितप्रकारेण चतस्रो व्याहृतयश्चतुर्विधा भवन्तीति निगमयति। चतन्त्रः स्युरिति॥४॥

उक्तानां पुनरुक्तिः स्यादुपासानियियंसया।

यथोक्ता व्याहृतीरेता वेदोपास्ते तु यो नरः॥
स वेद सकलं ब्रह्म वक्ष्यमाणविशेषणम्॥५॥

अयं लोक इत्यादिना व्याहृतीनां प्रत्येकं चतुर्विधत्वमुक्तमेव किमितिपुनरुच्यते तत्राऽऽह—उक्तानामिति। व्याहृतीनां स्तुत्यर्थं चतुर्विधत्वं नोच्यते किंतु प्रत्येकं तासां चतुर्विधत्वेनोपासनं नियतमिष्यते। तथा

षोडशकलस्य पुरुषस्योपास्यत्वमन्त्र सेत्स्यति। अधिकवचनस्यार्थविशेषसूचकत्वादित्यर्थः। अधिका

रविधिविवक्षया ता यो वेदेत्यादेरर्थमाह—यथोक्ता इति। व्याहृत्यनुवाके

नोक्ते ब्रह्मोपासने गुणविधानमनन्तरानुवाके भविष्यतीत्यभिप्रेत्य विशिनष्टि—वक्ष्यमाणेति॥५॥

ब्रह्म वेद स इत्येवं पुनरुक्तं किमुच्यते।
वक्ष्यमाणानुवाकार्थविवक्षुत्वाददोषता॥६॥

तद्बह्मति बह्मणश्चतुर्थव्याहृत्यात्मन उक्तत्वात्पुनरुक्तिरनर्थिकेतिश ङ्कते—ब्रह्मेति। अनुवाकद्वये नैकमुपासनं विवक्षितमिति वक्तुमुक्ता नुवादान्नास्ति पुनरुक्तिरित्याह—वक्ष्यमाणेति॥६॥

स य एषोऽन्तरित्यादि वक्ष्यमाणानुवाकगम्।
वस्तूपास्यमिहैवेति स वेदेति पुनर्वचः॥७॥

सत्यमित्यादिमाष्यमाश्रित्योक्तमेव प्रपञ्चयति— स य इति॥७॥

एकवाक्यत्वमेतस्माद्दयोरप्यनुवाकयोः॥८॥

लोका देवादयश्चास्मा उपासित्रे यथाबलम्।

बलिं भोगं प्रयच्छन्ति फलमेतदुपासितुः॥९॥

अतो वक्ष्यमाणानुवाकेनेत्यादिमाष्यार्थमाह—एकवाक्यत्वमिति। एतस्मादुपासनैक्यादित्यर्थः॥८॥

सर्वेऽस्मै देवा बलिमावहन्तीत्यस्यार्थमाह—लोका इति। उपासित्रे स्वाराज्य99प्राप्तायेत्यर्थः॥९॥

इति चतुर्थोऽनुवाकः॥४॥

तिस्रो व्याहृतयो यस्य ब्रह्मणोऽङ्गान्यवादिषम्।
स्थानादिसिद्धये तस्य परः संदर्भ उच्यते॥१०॥

उत्तरानुवाक्यस्य तात्पर्यमाह— तिस्र इति।

ताश्चेत्याध्यात्मिका दर्शिताः।

ब्रह्म

णो महाव्याहृत्यात्मकस्य स्थानादीत्यादिशब्देन गुणमार्गों गृह्यते॥१०॥

स यः परोक्षनिर्दिष्टः प्रत्यक्षेण स दर्श्यते।
अन्तर्हृदय आकाशे पश्याऽऽत्मानं त्वमात्मना॥११॥

स वेद ब्रह्मेति पूर्वस्मिन्ननुवाके परोक्षरूपेण निर्दिष्टं ब्रह्म प्रत्यक्षे हृद‌याकाशे प्रदर्श्यत इति पदार्थव्याख्यानं करोति—स य इति। तस्मिन्नयं पुरुष इत्यस्य तात्पर्यमाह— अन्तरिति॥११॥

पद्माकारो हि मांसस्य खण्डो हृदयमुच्यते।
आकाशस्तस्य मध्ये यो बुद्धेरायतनं सदा॥
तस्मिन्स पुरुषो ज्ञेयो मनोमय इहाञ्जसा॥१२॥

हृदयशब्दार्थमाह—पद्मेति। अन्तरित्यादेर्वाक्यार्थं कथयति—आकाश इति॥१२॥

शशिस्थराहुवत्साक्षान्मनस्येवोपलभ्यते॥१३॥

मनुते मनसा यस्मात्तेनायं स्यान्मनोमयः।
स्याद्वा तदभिमानित्वात्चल्लिङ्गात्तन्मयः स्मृतः॥१४॥

मनोमयत्वं तस्य श्रुत्योक्तमनेकधा साधयति— शशिस्थेति॥१३॥ मनुते विषयजातमितिशेषः— तल्लिङ्गात्तेन मनसा लिङ्गेन गम्यमानत्वादित्यर्थः॥१४॥

अमृतोऽमरणधर्मा स्याद्धिरण्यं ज्योतिरुच्यते।
तन्मयोऽयं पुमान्ध्येयस्तत्प्राप्तौ द्वारथोच्यते॥१५॥

शब्दद्वयस्यार्थमनूद्य गुणद्वयात्मकत्वेन100 ब्रह्मणो ध्येयत्वमाह— अमृत इति। अन्तरेणेत्यादिवाक्यस्य तात्पर्यमाह— तत्प्राप्ताविति। शरीरस्थित्यर्थकर्मसमाप्त्यानन्तर्यमथशब्दार्थः॥१५॥

ऊर्ध्वं प्रवृत्ता नाड्येका सुषुम्ना हृदयाद्धि।
गत्वा तालुकयोर्विद्वान्मध्ये नोदानगर्भया॥१६॥

स्तनवलम्बते कण्ठे मांसखण्डस्त्वधोमुखः।
इन्द्रस्यासौ सृतिर्ज्ञेया रेचकेन तया व्रजेत्॥१७॥

तमेव द्वा

रशब्दितं मार्ग तेनोपासकस्य गमनं च वाक्यं योजयर्श

यति—ऊर्ध्वमित्यादिना। या हृद्द्यादारभ्य सुषुम्ना नाडी ध्येयस्येन्द्रस्या101परस्य ब्रह्मणः प्राप्तये प्रवृत्ता सा च सृतिर्योगशास्त्रानुसारेण ज्ञातव्या॥१६॥

यया चोपासको विद्वान्कण्ठे स्थितं स्तनसदृशमधोमुखं संलम्बमानं मांसखण्डं भित्त्वा तालुकयोर्मध्ये न गत्वा प्रकृतया सृत्योदानवायुपूरितया रेचकप्राणायामबलाद्वजेदिति योजना॥१७॥

तया

त्वाऽथ यायात्स

यत्केशान्तो विवर्तते।

भित्त्वा शिरःकपाले द्वे भूरित्यग्निं प्रपद्यते॥१८॥

द्वितीययाऽथ व्याहृत्या

वायौ संप्रतितिष्ठति।

आदित्ये सुवरित्येवं लोकेशे प्रतितिष्ठति॥१९॥

स्थित्वैवमङ्गभूतेषु प्रतितिष्ठत्यथाङ्गिनि।

मह इत्यात्मनि स्थित्वा स्वाराज्यं प्रतिपद्यते॥२०॥

किं व्रजेदित्यपेक्षायां यत्रेत्यादि व्याचष्टे— तयेति। फलप्राप्त्याभिमुख्यानन्तर्यमथशब्दार्थः। शिरःकपाले भित्त्वा मूर्धानं गत्वा तदनन्तरमङ्गाङ्गिभावेन स्थितं ब्रह्म प्राप्नोतीत्याह—भूरित्यादिना॥१८॥१९॥२०॥

नान्यो राजाऽस्ति यस्येह राजा यः स्वयमेव तु।

स स्वराट् तस्य भावश्च स्वाराज्यमिह कीर्त्यते॥२१॥

आप्नोति स्वाराज्यमित्यत्र स्वाराज्यशब्दार्थमाह—नान्य इति। व्यवहारभूमिर्वाक्यं चेहशब्दाभ्यां परामृश्यते॥२१॥.

मनो गीश्चक्षुषां चैव श्रोत्रविज्ञानयोरपि।
आप्नोति पर्युपासीनः स्वाराज्यं नात्र संशयः।
तत एतत्फलं दिव्यं यथोक्तोपासनाद्भवेत्॥२२॥

आप्नोति मनसस्पतिमित्यादि व्याकरोति— मनो गीरिति। एतत्ततो भवतीति व्याकुर्वन्फलमुपसंहरति— ततइति॥२२॥

व्याहृत्यात्मन एतस्य रूपसंक्लृप्तयेऽधुना।
उपासनविधित्सायै परो ग्रन्थोऽवतार्यते॥२३॥

आकाशशरीरं बह्मेत्यादेर्वाक्यस्य तात्पर्यमाह— व्याहृत्यात्मन इति। कुत्र हिरण्यग

र्भरूपसंकॢप्तिरुपयुज्यते तत्राऽऽह— उपासनेति॥२३॥

वियद्देहमिदं ब्रह्म वियत्सदृशमेव वा।
मूर्तामूर्तस्वभावं च त्रैलोक्याद्यात्मतो102 भवेत्॥२४॥

तात्पर्यमुक्त्वा पदार्थमाह— वियदिति इदं ब्रह्मेत्याकाशोपाधिकमुच्यते तस्य103च वियता सूक्ष्मत्वव्यापित्वादिभिः सादृश्यं सत्यात्मेत्यस्यार्थमाह—मूर्तामूर्तेति। सञ्चत्य

ञ्चे

ति भूतपञ्चकं मूर्तामूर्तात्मकं सत्यं तदात्मा स्वभावो यस्य तद्ब्रह्म सत्यात्मेत्यर्थः॥२४॥

इन्द्रियारमणं चैव मनआनन्दमेव च।
शान्त्या समृद्धमत्यर्थं ब्रह्मैतदमृतं परम्॥२५॥

प्राणाराममित्यादेरर्थमाह— इन्द्रियेति। प्राणेष्विन्द्रियेष्वार

मणमाक्रीडा यस्य यत्र वा तेषामारमणं तद्ब्रह्म प्राणारामं मनआनन्दमान

न्दकरमेव यस्य तद्ब्रह्म तथेत्यर्थः। शान्तिसमृद्धममृतमिति पदद्वयस्यार्थमाह—शान्त्येति॥२५॥

प्राचीनयोग्योपास्स्वेतद्यथाव्याख्यातलक्षणम्।
माहाचमस्य आचार्य अन्तेवासिनमुक्तवान्॥२६॥

उक्तविशेषणमपरं ब्रह्मात्मत्वेनोपास्यमित्याचार्यनियोगं शिष्यं प्रति दर्शयति—प्राचीनेति॥२६॥

इति पञ्चमोऽनुवाकः॥५॥

पाङ्क्तस्वरूपेणैतस्य भूयोऽप्यन्यदुपासनम्।
उदारफलसिद्धयर्थ पृथिवीत्युच्यतेऽधुना॥२७॥

प्रकृतस्यैव ब्रह्मणो हिरण्यगर्भस्य पाङ्कस्वरूपेणोपास

नं वक्तव्यमित्युत्तरानुवाकप्रवृत्तिरित्याह—पाङ्केति॥२७॥

पञ्चभिर्यत आरब्धं जगत्त्पाङ्क्तमतो भवेत्।
यज्ञः क्लृप्तो भवेदेवं पाङ्क्तो यज्ञ इति श्रुतिः॥२८॥

कथं हिरण्यगर्भस्य पङ्कित्वमित्याशङ्कय पञ्चभूतारब्धत्वाज्जगारिमा हिरण्यगर्भः पाङ्को भवतीत्याह—पञ्चभिरिति। एवं सति जगदात्मनो हिरण्यगर्भस्य यज्ञत्वमपि क्लुप्तं भवतीत्याह—यज्ञ इति॥२८॥

यज्ञेन परि104क्लृप्तेन त्रैलोक्यात्मानमश्नुते।
पाङ्क्तत्वसिद्धये तस्मादारब्धैषा परा श्रुतिः॥२९॥

पत्नीयजमानपुत्रदैवमानुषवित्तैः पञ्चभिः संपाद्यतया यज्ञस्य पाङ्कवं वक्तव्यं जगतो यज्ञत्वं किम

र्थ कल्प्यते तत्राऽऽह—यज्ञेनेति। पाङ्कात्मकयज्ञरूपप्रजापत्युपासनात्प्रजापतिरेव भवतीत्यर्थः। पाङ्कात्मकजगदुपासनस्य विशिष्टफलवत्त्वाज्जगतो वक्तव्यं पाङ्कत्वमित्युत्तरग्रन्थप्रवृत्तिरित्युपसंहरति—पाङ्कत्वेति॥२९॥

दिगन्तं लोकपाङ्क्तं स्यान्नक्षत्रान्तं च दैवतम्।
आत्मान्तं भूतपाङ्क्तं च विराडात्माधिकारतः॥३०॥

बाक्यत्रयमाश्रित्य पङ्किविभागं दर्शयति—दिगन्तमिति। कोऽसावात्मेति भूतप्रकरणादात्मशब्देन विराडुच्यत इत्याह—विराडिति॥३०॥

उपलक्षणमेतत्स्याद्देवतालोकपाङ्क्तयोः।
अधिभूतमिति वक्ष्यामोऽथाध्यात्ममतः परम्॥३१॥

इत्यधिभूतमित्यन्त्र भूतग्रहणस्य विवक्षि

तमाह—उपलक्षणमिति। अध्यात्ममित्यत्र तात्पर्यमाह—वक्ष्याम इति॥३१॥

वायुपाङ्क्तं समानान्तं

त्वग

न्तं चैन्द्रियं तथा।
चर्मादि धातुपाङ्क्तं च विश्वमेतावदुच्यते॥३२॥

वाक्यत्रयमाश्रित्याध्यात्मिकं पाङ्कत्रयं विभजते— वायुपाङ्क्तप्रिति॥३२॥

पाङ्क्तमेव जगत्सर्वमिति दृष्ट्वाऽभ्यधादृषिः।

पाङ्क्तं वा इदमाब्रह्मस्तम्बं

नान्य

दिति स्म ह॥३३॥

एतदधिविधायेत्यादेरर्थमाह— पाङ्कमेवेति। ऋषिर्वेदो वा यथोक्तदर्शनसंपन्नो वा कश्चित्। निपातद्वयं वस्त्वन्तरासत्त्वप्रसिद्धयर्थम्॥३३॥

आध्यात्मिकेन पाङ्क्तेन संख्यासामान्य

कारणा

त्।
बलयस्थात्मभावेन पाङक्तं बाह्यमशेषतः॥३४॥

उत्कृष्टदृष्टिर्निष्कृष्टे कर्तव्येतिन्यायादाध्यात्मिकं पाङ्कत्रयमितरपाङ्क्तत्रयात्मना विद्यादित्यभिप्रेत्य पाङ्क्तषट्कस्योपासनाप्रकारं दर्शयन्पाङ्क्तेनैव पाङ्कं स्पृणोतीत्यस्यार्थमाह—आध्यात्मिकेनेति। संख्यासामान्यं पञ्चसंख्यावत्त्वम्॥३४॥

इति षष्ठोऽनुवाकः॥६॥

सर्वोपासनशेषस्य प्रणवस्याधुनोच्यते।
उपासनमलं यस्माद्बह्मणोः प्राप्तये द्वयोः॥३५॥

ओमिति ब्रह्मेत्याद्यनुवाकस्य तात्पर्यमाह—सर्वेति। उपासनाशब्देन शास्त्रीयं सर्वं कर्म लक्ष्यते। उपासनं परापरब्रह्मदृष्ट्चेतिशेषः। तथोपा—सि

तस्य प्रणवस्य तत्प्राप्तिसाधनत्वादितिहेतुमाह— अलमिति। वेदविहिताः सर्वाः क्रियाः प्रणवमुञ्चार्य प्रवर्त्यन्ते तेन तस्य श्रद्धागृहीतत्वात्तत्परिहारेणोपदिष्टं ब्रह्म न

बुद्धिमा

रोहेदत

स्तमादायैतस्मिन्नुभयविधब्रह्म दृष्टिर्विधीयत इत्यर्थः॥३५॥

परस्य ब्रह्मणो यस्मादपरस्य च चोद्यते।

आलतया तस्मात्स एवात्राभिधीयते॥३६॥

परापरब्रह्मदृष्टयालम्बनत्वेनोंकारस्य परं चापरं चेत्यादौ विधानाश्च तदनुषादेन ब्रह्मदृष्टिरत्र विधित्सितेत्याह—परस्येति॥३६॥

ॐ मित्येतच्छब्दरूपं ब्रह्मेति मनसा सदा।
धारयेत्स्तुतये तस्य परो ग्रन्थोऽवतार्यते॥३७॥

ओंकारो ध्येयत्वेनात्रोच्यते न तु सर्वशेषत्वेनेत्येवं तात्पर्यमुक्त्योमिति

ब्रह्मेत्यस्यार्थमाह—ओमित्येतदिति। उपास्यत्वादोंकारस्य स्तुत्यर्हत्वं गृहीत्वा

समन

न्तरसंदर्भस्य स्तुतिपरत्वमाह—स्तुतय इति॥३७॥

तद्यथा शङ्कुनेत्येवं सर्वमोमिति युज्यते।
अभिधानादृते यस्मादभिधेयं न विद्यते॥३८॥

ओमितीदं सर्वमित्योंकारस्य कथं सर्वत्वमुच्यते

सर्व

स्यातत्कार्यत्वादित्याशङ्क्य तस्य सर्वत्वे

श्रुति

युक्ती क्रमेण दर्शयति—तद्यथेति॥३८॥

अनुज्ञानुकृतिस्तद्वत्सर्वत्रोमिति कीर्त्यते।

ओश्रावयेत्यनुज्ञाता यत आश्रावयन्ति च॥३९॥

ओमित्येतद्नुकृतीत्यत्रानुकृतिशब्देनानुज्ञा लोकवेद्‌द्योरुच्यते। तथा च तस्य सर्वात्मत्वेनोत्कर्षवदनुज्ञारूपत्वाञ्चोत्कर्षः सिध्यतीत्याह—अनुज्ञेति। अप्योश्रावयेत्यादेरर्थमाह—ओश्रावयेतीति। अतोऽनुज्ञारूपत्वर्मोकारस्य प्रकटमितिशेषः॥३९॥

प्रसौति ह्यनुजानाति ब्रह्मोमित्येव

र्त्विजम्।
प्रवक्ष्यन्ब्राह्मणो वेदमोमित्येवं प्रयुज्यते॥४०॥

ओमिति ब्रह्मा प्रसौतीत्यस्यार्थमाह—प्रसौतीति। ओमिति ब्राह्मण इत्यादेरर्थमाह— प्रवक्ष्यन्निति॥४०॥

उपान्पवानि

ब्रह्मेति स च वेदमवाप्नुयात्॥४१॥

परात्मा वा भवेद्बह्म स तदोंकारपूर्वकम्।

प्राप्नोत्येव न संदेह उपासीतात ओमिति॥४२॥

किमभिसंधायोंकारपूर्वकं वेदाध्ययनं

रोति तत्राऽऽह—उपाप्नवानीति। बह्मशब्देन वेदो गृह्यते॥४१॥

ब्रह्मशब्दस्यार्थान्तरमुक्त्वा

तत्रापि वाक्यं योजयति—परात्मेति। उपासकः सर्वनाम्ना परामृश्यते॥४२॥

इति सप्तमोऽनुवाकः॥७॥

यथोक्तोपासनादेव स्वाराज्यफलसंश्रयात्।
नैष्फल्ये कर्मणां प्राप्ते तत्साफल्यार्थ उत्तरः॥४३॥

आप्नोति स्वाराज्यमित्युपासनादेव स्वााराज्यश्रवणात्कर्मणामानर्थक्यमाशङ्क्य तदर्थवत्त्वं वक्तुमृतं चेत्याद्युत्तरानुवाकप्रवृत्तिरित्याह—यथोक्तेति॥४३॥

स्वाध्यायोऽध्ययनं ज्ञेयं तथाचाध्यापनं परम्।
आधातव्या यथाशास्त्रमग्नयः श्रेयसे तथा।
होतव्यमग्निहोत्रं च कुर्याञ्चातिथिपूजनम्॥४४॥

ऋतसत्यशब्द‌योरर्थस्य प्रथमानुवाके गतत्वादिदानीं स्वाध्यायप्रवचनशब्दयोरर्थमाह—स्वाध्याय इति। अग्नयश्चेत्यादेरर्थ कथयति—आधातव्या इति॥४४॥

तथा संव्यवहारश्च मानुषं स्यादसंशयम्॥४५॥

मानुषं चेत्यादी मानुषशब्दार्थप्राह— तथेति।

लो

किकः संव्यवहारो विवाहादिः॥४५॥

उत्पाद्या च प्रजा योग्या प्रजनं चर्तुसेवनम्।
निवेशनं सुतस्येह प्रजातिरितिगम्यताम्॥४६॥

प्रजाप्रजननशब्दयोरर्थमाह— उत्पाद्याचेति। प्रजातिशब्दार्थं विवक्षितं दर्शयति—निबेशनमिति॥४६॥

उक्तेषु व्यापृतेनापि कार्ये एव प्रयत्नतः।
स्वाध्यायप्र105वचने तेन प्रत्येकं च ग्रहस्तयोः॥४७॥

पुनः पुनः स्वाध्यायप्र

चनग्रहणस्य तात्पर्यमाह—उक्तेष्विति॥४७॥

वेदार्थबोधनं नास्ति स्वाध्यायेन विना यतः।
तथा प्रवचनेनातो धर्मार्थं च ग्रहस्तयोः॥४८॥

कर्तव्यान्तरे106 व्याप्तेनापि स्वाध्यायप्रवचने कर्तव्ये इत्यत्र हेतुमाह— वेदार्थेति। अतस्तयोः प्रत्येकं ग्रहणमितिशेषः। प्रवचनेन विनेति

संबन्धः। पुण्योपचयहेतुत्वाञ्च प्रत्येकं ग्रहणं तयोरित्याह—धर्मार्थ चेति॥४८॥

सत्यमेव तु वक्तव्यमिति सत्यवचा जगौः।
राथीतरो मुनिस्तद्वत्तप एवेत्युवाच ह॥४९॥

पुरुशिष्टस्य तनयः कर्तव्यं तु महातपाः।
मुद्गलस्याऽऽत्मजश्वाऽऽह कर्तव्ये यत्नमास्थितैः॥

स्वाध्यायप्रवचने एव ते एव तु तपो यतः॥५०॥

ऋषीणां मतभेदोपन्यासेन स्वाध्यायप्रवचनयोरादरं सूचयति— सत्यमेवेत्यादिना॥४९॥५०॥

इत्यष्टमोऽनुवाकः॥८॥

स्वाध्यायार्थश्च विज्ञेयः अहं वृक्षस्य रेरिवा।
इत्यादिरुत्तरो ग्रन्थो विशुद्धिर्हि ततो धियः॥५१॥

अहं वृक्षस्येत्यादिमन्त्राम्नायस्य तात्पर्थमाह—स्वाध्यायार्थश्चेति। अत्र हि प्रकरणे मन्त्रपाठो जपार्थो गृह्यते। इषेत्वेति शाखामाच्छिनत्तीतिवदन्यत्र विनियोजकश्रुत्याद्यनुप

लम्भा

न्न चाक्षितमसीत्यादिवदुपासनादि शेषत्वमस्य वक्तुं शक्यं ज्ञानसाधनक्रियाविधेः प्रक्रान्तत्वादित्यर्थः। मन्त्रजपस्य फलमाह— विशुद्धिरिति॥५१॥

विशुद्धमनसो यस्मात्सम्यग्ज्ञानोदयो भवेत्।
मन्त्रान्नायोऽयमारब्ध एतस्मात्कारणात्परः॥५२॥

विशुद्धिप्रयोजनमाह—विशुद्धेति॥५२॥

उच्छित्तिलक्षणस्याहं विश्वस्य जगतः सदा।
अस्य संसारवृक्षस्य रेरिवा जनकोऽस्म्यहम्॥५३॥

अहं वृक्षस्य रेरिवेत्यस्यार्थं कथयति— उच्छितीति। अहमिति मन्त्रदृग्ब्रह्मभूतो गृह्यते॥५३॥

कीर्तिः ख्यातिर्मम ज्ञेया गिरेः पृष्ठमिवोच्छ्रिता।
ऊर्ध्व तत्कारणं ब्रह्म पवित्रं भवहानतः॥५४॥

कीर्तिः पृष्ठे गिरेरिवेत्यस्यार्थमाह— कीर्तिरिति। ऊर्ध्वपवित्र इत्यस्या-

र्थमाह ऊर्ध्वमिति। तञ्च पवित्रं भवेदितिसंबन्धः। पवित्रत्वं साधयतिमवेति। वाक्योत्थबुद्धिवृत्तिद्वारेणेतिशेषः॥५४॥

यस्य सोऽयं भवेदूर्ध्वं पवित्रं पावनं परम्॥५५॥

वाजमन्नमिति ज्ञेयं तद्वतीव दिवाकरे।
स्वमृतं परमं ब्रह्म बुद्धावस्यामहं सदा॥५६॥

पवित्रत्वं स्पष्टयति— पावनं परमिति। यस्य ममेदं स्वरूपमुक्तलक्षणं ब्रह्म सोऽहमूर्ध्वपवित्रोऽस्मीति योजना॥५५॥

वाजिनी

वेत्यादेरर्थमाह—वाजमिति। यथाऽन्नवत्यादित्ये प्रकटं ब्रह्माहमस्मीत्यादित्यो मन्यते तथाऽस्यां बुद्धौ स्वमृतं शोभनममृतमहमस्मीत्यर्थः॥५६॥

द्रविणं धनमित्याहुरिह त्वात्मावबोधनम्।
सवर्चसं सुदीप्तं स्यान्मोक्षामृतफलप्रदम्॥५७॥

द्रविणमित्यस्यार्थमाह—द्रविणमिति। तत्र हेतुत्वेनोत्तरपद्म

तार्थ व्याचष्टे—सवर्चसमिति॥५७॥

अक्षितोऽक्षीणरूपत्वाद्वेदानुवचनं त्विदम्।
त्रिशङ्कोर्बह्मभूतस्य ह्यार्ष संदर्शनं परम्॥५८॥

सुमेधा अमृतोक्षित इत्यत्र पदद्वयस्य प्रसिद्धार्थत्वाद‌विवक्षित इति—पदस्यार्थमाह—अक्षित इति। अक्षीणरूपत्वं षड्‌भावविका

रहितत्वमिति त्रिशङ्कोरित्यादेरर्थमाह—वेदेति। ऋषेस्त्रिशङ्कोर्ब्रह्मभावं प्राप्तस्य ब्रह्मवेदनमनु यदेतदार्षमात्मीयं परं दर्शनं तस्य स्वानुभावस्य प्रकटीकरणमेव107 तद्वचनमित्यर्थः॥५८॥

पावनोऽस्य जपः श्रेयान्ब्रह्मज्ञानस्य जन्मने।

मुमुक्षुः प्रयतस्तस्माज्जपेदेतत्समाहितः॥
कर्मप्रसङ्ग उक्तत्वादयमर्थोऽवसीयते॥५९॥

मन्त्राम्नायोऽस्मिन्प्रकरणे जपार्थः स्यादित्युक्तमधिकविवक्षया पुनरनुवदति—पावनोऽस्येति। तदेवाधिकं दर्शयति—कर्मेति। ऋतं चेत्यादौ

पूर्वत्र वेदमनूच्येत्यादावुत्त

रत्र कर्माभिधानान्मध्ये मन्त्रान्नायो जपार्थ एवेति गम्यते। जपस्य कर्मत्वादित्यर्थः॥५९॥

मुमुक्षोस्तत्परस्यैवं108 श्रौतस्मार्तेषु कर्मसु।

आर्षं च प्रातिभं ज्ञानमाविर्भवति मोक्षदम्॥६०॥

न केवलं जपस्यैव ब्रह्मज्ञानं फलं किंतु सर्वकर्मणामित्याह— मुमुक्षोरिति। ईश्वरार्थेषु श्रौतेषु स्मार्तेषु च कर्मसु फलाभिसंधिवर्जितस्येश्वरायेत्येवं तात्पर्येण प्रवृत्तस्य परिशुद्धबुद्धेेर्मोक्षमेवापेक्षमाणस्याऽऽर्ष यथार्थ प्रातिभमुपदेशानपेक्षं मोक्षफलज्ञानमुद्भावयतीत्यर्थः॥६०॥

इति नवमोऽनुवाकः॥९॥

आरम्भो नियमार्थः स्यादात्मज्ञानोदयात्पुरा।
श्रुतेर्वेदमनूच्येति श्रुतिश्वैवानुशास्ति हि॥६१॥

वेदमनूच्यादेरनुवाकस्य तात्पर्यमाह— आरम्भ इति। ज्ञानस्याऽऽत्मविषयस्य मोक्षसाधनस्योदयात्पूर्वं नियमेनावश्यंभावेन कर्तव्यानि नित्यनैमित्तिकानि कर्माणीत्येको नियमः। तानि पूर्वमेव कर्तव्यानीत्यपरो नियमः। तस्योभयविधस्य नियमस्य सिद्धयर्थो वेदमनूच्येति श्रुतेरारम्भः स्यादित्यर्थः। ज्ञानात्पूर्वमवश्यमनुष्ठेयानि कर्माणीत्यस्मिन्नियमे प्रमाणमाह—श्रुतिश्चेति। विविदिषन्तीत्यादिका श्रुतिः। चशब्दात्कषायपङ्किः कर्माणीत्यादिका स्मृतिश्च यथोक्तमर्थमभिवदतीत्यर्थः॥६१॥

विद्योत्पत्त्यर्थमेतानि कर्तव्यानि मुमुक्षुणा।
वक्ष्यमाणानि कर्माणि यावदात्मावबोधनम्॥६२॥

आत्मज्ञानोदयादूर्ध्व पुरुषार्थावसानतः।
स्वतः सिद्धेश्च मोक्षस्य कर्मकाण्डमनर्थकम्॥६३॥

तथाऽपि प्रागेव कर्माणि कर्तव्यानीति नियमो न युज्यते। ज्ञानादूर्ध्वमपि यावज्जीवश्रुत्या तेषां कर्तव्यत्वादित्याशङ्कयाऽऽह—

विद्येत्यादिना॥६२॥६३॥

तस्मात्सर्वविशुद्धयर्थं कार्य कर्म मुमुक्षुभिः।

प्रागेव ब्रह्मविज्ञानान्नियमेनेति ह श्रुतिः॥६४॥

उत्पन्ने ज्ञाने विवक्षितस्य मोक्षस्य सिद्धत्वादुत्त

कालं कर्तव्यामावात्यागेवं कर्तव्यानि कर्माणीत्युपसंहरति— तस्मादिति॥६४॥

आनर्थक्यापनुत्त्यर्थमृतादीनां पुरा श्रुतिः।

नियमार्थमिहोक्तिः स्यादात्मज्ञानोदयार्थिनः॥६५॥

ऋतं चेत्यादौ कर्माण्येव कर्तव्यत्वेनोक्तानि वेदमनूच्येत्यादिप्रकृतश्रुतावपि तान्यपि कर्तव्यत्वेनोच्यन्ते तेन पुनरुक्तिरित्याशङ्कयाऽऽह—आनर्थक्येति। उपासनादेव स्वाराज्यश्रवणादानर्थक्यं कर्मणामाशङ्क्य तत्परिहारार्थमृतं चेत्यादिरनुवाको वेदमनूच्येत्या

दिस्तु नियमद्वयसिद्ध्यर्थइति109 न पुनरुक्तिरित्यर्थः॥६५॥

अध्याप्य निखिलं वेदमन्तेवासिनमादरात्।

सत्यं वदेत्येवमादि गरीयाननुशास्ति हि॥६६॥

संगतिं दर्शयित्वा बाक्यमवतारयति—अध्याप्येति। सत्यं वद धर्म चरेत्याद्यनुशासनम्॥६६॥

यथोपलब्धं यद्वाक्यं हिंसाकल्कविवर्जितम्।

सर्वधर्मविदः प्राज्ञास्तत्सत्यं प्रतिजानते॥६७॥

तत्र, सत्यशब्दार्थमाह—यथोपलब्धमिति। हिंसाकल्काभ्यां विवाजतम्। कल्को भावदोषः॥६७॥

अग्निहोत्राद्यनुष्ठानं धर्ममाहुर्विपश्चितः।

प्रमादं मा कृथास्तद्वत्स्वाध्यायं प्रति सर्वदा॥६८॥

धर्मशब्दार्थमाह—अग्निहोत्रादीति। स्वाध्यायादित्यादेरर्थमाह—प्रमादमिति। विहिताकरणं प्रमादः। तद्वत्सत्यवदनाद्यनुष्ठानवदित्यर्थः॥६८॥

तथाभिलषितां न्याय्यामाचार्यायाथ दक्षिणाम्।

दत्त्वा दारांस्त्वमाहृत्य मा च्छेत्सीः सुतसंततिम्॥६९॥

आचार्यायेत्यादेरर्थमाह—तथेति। अध्ययननिर्वृत्याऽऽनन्तर्यमथशब्दार्थः॥६९॥

विस्मृत्या

प्यनृ

तं नित्यं110 न च वक्तव्यमण्वपि।

इत्यस्य प्रतित्त्यर्थ सत्यादीति पुनर्वचः॥७०॥

सत्त्यान्न प्रमदितव्यमित्यस्यार्थमाह— विस्मृत्यापीति॥७०॥

एवं शिष्टेष्वपि ज्ञेयं प्रसिद्धार्थत्वकारणात्।

स्पष्टार्थ उत्तरो ग्रन्थः स्वयमेवावगम्यताम्॥७१॥

उक्तं न्यायं धर्मान्न प्रमदितव्यमित्यादिवाक्येष्वतिदिशति। एवमिति। तेष्वक्षरार्थो न वक्तव्यो ग्रन्थस्य स्पष्टार्थत्वेन व्याख्यानानपेक्षत्वादित्याह—प्रसिद्धार्थत्वेति॥७१॥

उक्तेभ्योऽन्यानि कर्माणि शिष्टाचारोपगानि तु।
अनाशङ्कितदोषाणि त्वया कार्याणि यत्नतः॥७२॥

यान्यनवद्यानीत्यादेरर्थमाह— उक्तेभ्य इति। सत्यादिभ्य इति यावत्॥७२॥

समाशङ्कितदोषाणि शिष्टैराचरितान्यपि।
सावद्यानि न कार्याणि कर्माणीह कदाचन॥७३॥

नो इतराणीत्यस्यार्थमाह— समाशङ्कितेति॥७३॥

श्रुतिस्मृत्यविरुद्धानि शिष्टाचारोपगानि च।
अस्मत्कर्माणि कार्याणि न विरोधीनि कर्हिचित्॥७४॥

यान्यस्माकमित्यादेरर्थमाह— श्रुतीति॥७४॥

अस्मत्तो ब्राह्मणा ये स्युः श्रेयांसः शास्त्रवेदिनः।
तेषामासनदानेन श्रमापनयनं कुरु॥७५॥

ये के चास्मदित्यादेरर्थ कथयति— अस्मत्त इति। श्रेयांसः समाही111नाश्चेति द्रष्टव्यम्॥७५॥

तेषामाख्यायिकायां वा न वाच्यं संभ्रमात्त्वत्या।
तदुक्तसारं त्वादाय नापकार्य यथाबलम्॥७६॥

तस्यैवार्थान्तरमाह—तेषामिति। एतेषां कार्यविघाताय मम सामर्थ्यमस्तीति कृत्वा तेषामपकाराय न प्रयतितव्यमित्याह—नापकार्यमिति॥७६॥

श्रद्धयैव हि दातव्यमश्रद्धाभाजनेष्वपि॥७७॥

श्रीर्विभूतिस्तया देयं देयं चापि सदा ह्रिया।

श्रिया भयेन दातव्यं संविन्मैत्री तयाऽपि च॥७८॥

श्रद्धया देयमित्यस्यार्थमाह— श्रद्धयैवेति। एवकारेण श्रद्धापूर्वकं दानं प्रशस्तं न त्वश्रद्धया दातव्यं तस्य फलविकलत्वादित्येत112दुच्यते॥७७॥

श्रिया देयमित्यादेरर्थमाह— श्रीरिति। ह्रिया स्वापेक्षया हीनधनेषु दानं दृष्ट्वा लज्जयेतियावत्। भिया राजादिभयेन विवाहादौ प्रसिद्धो लौकिकसंव्यवहारः संविन्मैत्रीतिचोच्यते॥७८॥

एवं चेद्वर्तमानस्य श्रौतस्मार्तेषु कर्मसु।
वृत्ते वा विचिकित्सा स्यात्संशयो मतिविभ्रमात्॥

तस्मिन्कर्मणि वृत्ते वा विप्रा ये सूक्ष्मदर्शिनः॥७९॥

अथ यदीत्यादेरर्थमाह—एवं चेदिति। श्रुतिस्मृत्यनुसारेण तत्र तत्र वर्तमानस्य कुतः संशयस्तत्राऽऽह—मतीति। संमर्शिन इत्यस्यार्थमाह—सूक्ष्मेति॥७९॥

स्वतन्त्रा अभियुक्ताश्व ऋजवः कामवर्जिताः।

यथा ते तत्र वर्तन्ते वर्तेथास्त्वं तथैव च॥८०॥

युक्तत्वं स्वातत्र्यम113परप्रयुक्तत्वमायुक्तत्वमभियुक्त114त्वमरूक्षत्वमृजुत्वमक्रूरत्वं धर्मकामत्वमदृष्टार्थित्वम्॥८०॥

तथा शङ्गकितदोषेषु यथोक्तमुपपादयेत्।
आदेशोऽत्र विधिज्ञेय उपदेशः सुताय च॥८१॥

अथाभ्याख्यातेष्वित्यादेरर्थमाह—तथेति। अभिशस्तेष्वपि यथैवंविधाः पुरुषा वर्तन्ते तथा त्वयाऽपि वर्तितव्यमित्यर्थः। एष आदेश इत्यस्यार्थमाह—आदेशोऽत्रेति। सत्यं वदेत्यादिनोक्तोऽर्थो विधिरादेशोऽनुष्ठेय इत्यर्थः। एष उपदेश इत्यस्यार्थमाह—उपदेश इति॥८१॥

रहस्यं सर्ववेदां वेदोपनिषदुच्यते।
अनुशासनमीशस्य ज्ञेयमेतत्परात्मनः॥८२॥

एषा वेदोपनिषदिति व्याचष्टे— रहस्यमिति। एतदनुशासनमिति व्याकरोति—अनुशासनमिति॥८२॥

यस्मादेवमतः सद्भिर्यथोक्तं यत्नमास्थितैः।

उपासितव्यं कर्तव्यमेवं चैतत्समाचरेत्॥ ८३॥

उपास्यमुपासितव्यमिति पदद्वयस्यार्थं कथयति— यस्मादिति। यथोक्तमादेशोपदेशाद्येवं यस्माद्वेदोक्तं तस्माद्यत्नमास्थितैः सद्भिरेतत्याग्गतं सत्याद्युपासितव्यं कर्तव्यतया बुद्धौ ध्यातव्यम्। ततश्चं यथाव्याख्यातं तथा कुर्यादित्येतदुपास्यमित्यनेन विवक्षितमित्यर्थः॥८३॥

इति दशमोऽनुवाकः॥ १०॥

प्रमादोत्थादपन्यायाद्गुरुशिष्याभिसंगतेः।
प्रसक्तो यस्तयोद्वेषस्तच्छान्त्यै शान्तिरुच्यते॥ ८४॥

संहितोपनिषदारम्भे साधारणी शान्तिरुदाहृता संप्रति तदवसाने सगुणविद्यानामुक्तत्वात्तदसाधारणीं शान्तिमुदाहरति—प्रमादेति। अपरविद्यार्थिनः शिष्यस्य तदुपदेष्टुराचार्यस्य च परस्परसंगतिं निमित्ती कृत्य प्रमाद‌कृतादपराधान्यायातिक्रमसंभवाद्यस्तयोर्मिथो

द्वेषः शङ्क्यते

तदुपशान्त्यर्थं शं नो मित्र इत्याद्या शान्तिरिहोक्तेत्यर्थः॥ ८४॥

स्याज्ज्ञानं फलवयस्माच्छान्तान्तःकरणे गुरौ।
तस्येश्वरेणानन्यत्वाद्भूयः शान्तिरियं ततः॥ ८५॥

भाव्यं तु परिहाराय तन्मा मावीदितीरणम्।
आत्मनो बह्मतां यस्मात्स्वतः सिद्धां प्रवक्ष्यति॥ ८६॥

इति शिक्षाया वार्तिकानि समाप्तानि॥

गुरुशिष्ययोर्मिथो द्वेषे स्थितेऽपि को दोषः स्यात्तत्राऽऽह—स्यादिति। गुरौ प्रसन्नचित्ते सत्येव तदुपदिष्टं ज्ञानं तत्प्रसादादासादितं रागद्वेषादि—रहितस्य शिष्यस्य सफलं संपद्यते तस्मात्तयोर्द्वेषस्थितिरयुक्तेत्यर्थः। आचार्यस्य बुद्धिप्रसादार्थं शिष्येण प्रयत्नवता मवितव्यमित्यत्र हेतुमाह—तस्येति। सह नाववत्वित्यादिशान्तिपाठस्य तात्पर्यमाह—भूय इति। यतस्तदपरं बह्म मामाचार्यं चावीदरक्षदित्येवमीरणमिह मध्यमायां शान्तौ दृश्यते। ततः सगुणविद्याविषयशान्तेरतिप्र

वृत्तत्वादियं शान्तिर्भूयो निर्दिश्यमाना निर्गुणविद्याविषया भविष्यति। तत्रापि माव्यं संभाविः

नमेवोपसर्गजातमत

स्तत्परिहारार्थं पुनः शान्तिरर्थवतीत्यर्थः। कुत्र तर्हि निर्गुणविद्या निगद्यते तत्राऽऽह—आत्मन इति। आत्मनस्त्वंपद्लक्ष्यस्य तत्पदलक्ष्यब्रह्मतां नित्यसिद्धामविद्यातिरोधानव्यावृत्त्यर्थं यतो बह्मविदित्याद्या श्रुतिर्वक्ष्यति। अतो निर्गुणविद्या वल्लीद्वये मविष्यतीत्यर्थः॥१८६॥

इति प्रथमवल्लीशिक्षावार्तिकटीका समाप्ता॥

_______

ब्रह्मवल्ली।

________

कामादयो यदज्ञानात्तज्ज्ञानात्स्यादकामता।
अतःपरं तदैकात्म्यं वक्ष्यतेऽज्ञानघस्मरम्॥१॥

सगुणविद्यामुक्त्वा निर्गुणविद्यां वक्तुमारभमाणो नमस्कारव्याजेन वल्लीद्वयार्थं संक्षिप्य कथयति॥१॥

नानागतमनैतिह्यं प्रत्यगेकमविक्रियम्।
अनादेयमहेयं यन्नमस्तस्मै सदादृशे॥२॥

नानागतमिति। कालत्रयानवच्छिन्नं कूटस्थमहेयमनुपादेयं चिदेकतानमात्मतत्त्वं द्वाभ्यां वल्लीभ्यां प्रतिपाद्यं तस्मै त्रिविधोऽपि प्रह्वीमावो मक्तिश्रद्धाभ्यां भवत्वित्यर्थः॥२॥

यावन्त्युपासनान्यादावविरुद्धानि कर्मभिः।
संहिताविषयादीनि स्युस्तान्यभ्युदयाय तु॥३॥

नमस्कारव्याजेन वल्लीद्वयस्य तात्पर्यमुक्त्वा प्रागुक्तोपासनावशादेवाापेक्षितमोक्षसिद्धेरलमात्मज्ञानार्थेनोपनिषदारम्भेणेत्याशङ्कय पूर्वोक्तान्युपासनान्यनूद्य तेषामभ्युदयफलत्वमेव न मुक्तिफलत्वमित्येतदाह— यावन्तीति॥३॥

न चैतावदवष्टम्भात्कामकर्मोद्भवत्वतः।
सर्वानर्थैकबीजस्य मोहस्यास्ति निराक्रिया॥४॥

उक्तानां केवलोपासनानां मुक्तिफलत्वाभावेऽपि कर्मसहितानां तासां मुक्तिफलत्वमित्याशङ्कयाऽऽह—न चेति। एतावच्छब्दे कर्मोपासन

समुञ्चयो गृह्यते तद्वलेन सर्वस्मिन्नर्थे निरपेक्षकारणस्याज्ञानस्य नैव निवृत्तिस्तस्य संसारकारणकामकर्मप्रसवहेतुत्वात्तस्य सकार्यस्य विरोधिनो ज्ञानादेव निवृत्तिर्युक्तेत्यर्थः॥४॥

तस्मात्संसारमूलस्य भृशमुच्छित्तयेऽधुना।

यथाभूतार्थबोध्यात्मज्ञानं सम्यक्प्रवक्ष्यते॥५॥

यतो ज्ञानादेवाज्ञानं निवर्तते ततस्तन्निवर्तकज्ञानार्थत्वेनोपनिषदारम्भः स्यादित्याह— तस्मादिति॥५॥

नित्यकर्माद्यनुष्ठानाच्छुद्धान्तःकरणः पुमान्।
विरक्तश्चाग्रजाल्लाभात्स्वप्न

पुत्रादिलाभवत्॥६॥

ज्ञानार्थत्वेनोपनिषदारम्भेऽपि ज्ञानाधिकारी कः स्यादित्याशङ्क्य सर्वकर्मत्यजः संन्यासिनस्तदधिकारं वक्तुमन्तःकरणशुद्धिवैराग्ययोरधिकारिविशेषणत्वमाह— नित्येति॥६॥

प्रत्यक्षागमलिङ्गैर्हि यद्यत्कर्मोद्भवं फलम्।

तत्क्षयिष्णिवति विज्ञाय विरक्तो नरकाद्यथा॥७॥

शुद्धबुद्धेर्वैराग्यं कथं सिध्यतीत्याशङ्क्य कर्मफलस्यानित्यत्वदर्शनादित्याह— प्रत्यक्षेति। कस्यचित्प्रत्यक्षेण कस्यचिद्यत्कृतकं तदनित्यमित्यनुमानेन कस्यचित्तद्यथेहेत्यादिनाऽऽ

गमे

न कर्मफलस्य115 क्षयदर्शनात्ततो नरकादिव विरक्तो भवतीत्यर्थः॥७॥

अपास्ताशेषदोषं यत्सर्वकामनिरासकृत्।
तदनाप्तं तमोमा

त्राप्रसिद्धचैव हि तद्यतः॥८॥

साधनचतुष्टयसंपन्नस्य संन्यासिनो जिज्ञासोरेव मोक्षसाधनज्ञानेऽधिकारितेत्यत्र हेत्वन्तरमाह— अपास्तेति। मोक्षस्य ज्ञानव्यवहितत्वेन नित्यसिद्धत्वाज्ज्ञानार्थिनः संन्यासिनस्तत्राधिकारो भवतीत्यर्थः। तञ्च तमः शब्दितमज्ञानं मानायोग्यत्वादनुभवादेव सिध्यतीत्यभिप्रेत्याऽऽह— प्रसिद्धचैवेति॥८॥

तदनाप्तिकृदज्ञानध्वस्तयेऽलं न कारकम्।
प्रत्यग्ज्ञानेऽधिकार्यस्मात्त्यक्तपूर्वोक्तसाधनः॥९॥

मोक्षव्यवधिभूतस्याज्ञानस्य कर्मैव निवर्तकं न ज्ञानमित्याशङ्क्य

ज्ञानस्य तद्विरोधित्वात्कर्मणस्तदविरोधित्वान्नैवमित्याह—तदनाप्तीति। ज्ञानस्यायाज्ञाननिवर्तकत्वात्कर्मणस्तदनिवर्तकत्वादस्मादेवहेतोस्त्यक्तकर्मा पूर्वोक्तविशेषणः संन्यासी ज्ञानाधिकारीत्युपसंहरति—प्रत्यगिति॥९॥

त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम्।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्॥१०॥

त्यज धर्ममधर्मं च तथा सत्यानृते अपि।
न्यासो ब्रह्मेति च प्राह तैत्तिरीयश्रुतिस्तथा॥११॥

संन्यासिनो ज्ञानाधिकारित्वे श्रुतिस्मृत्यानुकल्यं दर्शयति—त्याग इति॥१०॥११॥

क्षयिष्णु साध्यं विज्ञाय निःशेषं कर्म साधनम्।
तत्त्यागसाधनस्तस्मात्प्रत्यग्ज्ञाने प्रवर्तते॥१२॥

श्रुतिस्मृतिभ्यां फलितमर्थं कथयति — क्षयिष्ण्विति॥१२॥

उत्पत्त्यादि स्वतश्वेत्स्यात्कर्मणा किं प्रयोजनम्।
स्वत एव न चेत्तत्स्याद्वद स्यात्कर्मणाऽत्र किम्॥१३॥

किंचोत्पत्त्याप्तिविकृतिसंस्कृतीनामन्यतमस्य मोक्षे स्वतः सत्त्वे स्वतोऽसत्त्वे च कर्मवैयर्थ्यात्कर्मत्यजो मुमुक्षुता विवक्षितेत्याह—उत्पत्त्यादीति॥१३॥

उत्पत्त्यादौ तु यच्छक्तं हेतुमात्रमपेक्षते।
कर्मव्यपेक्षा तस्यैव घटोत्पत्तौ मृदो यथा॥१४॥

मुक्तौ कर्मानर्थक्ये कुत्र तदर्थवत्त्वं तत्राऽऽह—उत्पत्त्यादौ त्विति॥१४॥

नित्यं न भवने यस्य यस्य वा नित्यभूतता।
न तस्य क्रियमाणत्वं स्वपुष्पाकाशयोरिव॥१५॥

उत्पत्त्यादि स्वतश्चेत्स्यादित्यादिनोक्तं प्रपञ्चयति—नित्यमिति॥१५॥

कर्तव्यता न साध्यस्य विदितत्वाद्विधीयते।
दुःखत्वाञ्च न यागस्य ह्युपायस्त्ववबोध्यते॥१६॥

ननु कर्मकाण्डस्य कर्मनियोगनिष्ठत्वेन तत्र प्रामाण्यवज्ज्ञानकाण्डस्यापि ज्ञाननियोगनिष्ठतया तत्र प्रामाण्यं नैयोगिकज्ञानसाध्यत्वान्मु

क्तेर्न तत्र कर्मत्योऽधिकारः सिध्येदित्याशङ्कय दृष्टान्तं दूषयति— कर्तव्यतेति। स्वर्गादिफलस्य पुरुषार्थत्वेन स्वानुभवसिद्धत्वान्न तत्र कर्तव्यता वैधी यागादेरपि धात्वर्थस्य क्लेशात्मकत्वात्कर्तव्यत्वायोगान्न तत्र कर्तव्यतां वक्तुं शक्यते। अतो यागादेरिष्टसाधनत्वमात्रमज्ञातं कर्मकाण्डेन बोध्यते। तथा ज्ञानकाण्डेनापि ब्रह्मात्मत्वमज्ञातमेव बोध्यमितिकर्तव्यतापरपर्यायस्य नियोगस्यानवकाशत्वाज्ज्ञानादेव केवलात्कैवल्यमितिकर्मत्यजस्तत्राधिकारसिद्धिरित्यर्थः॥१६॥

विजिज्ञासस्व तदिति ब्रह्मज्ञाने प्रवर्तकम्।
जिज्ञास्यलक्षणोक्तिः स्याद्यतो वा इति च श्रुतिः॥१७॥

काण्डद्वये नियोगानङ्गीकारे कर्मणि ज्ञाने वा किं प्रवर्तकमित्याशङ्कय रागस्य प्रवर्तकत्वमभिप्रेत्याऽऽह—विजिज्ञासस्वेति। यस्मिन्ब्रह्मविशेषिते ज्ञाने रागस्य प्रवर्तकत्वमिष्टं तत्र बह्मणो विशेषणस्य किं लक्षणमित्याशङ्कयाऽऽह—जिज्ञास्येति। जगदुत्पत्तिस्थितिलयकारणत्वं तस्य तष्टस्थलक्षणं सच्चिदानन्दात्मकं स्वरूपलक्षणं श्रुत्युक्तमित्यर्थः॥१७॥

कोशप्रत्यक्प्रवेशेन पूर्वपूर्वप्रहाणतः।
कारकादिनिषेधेन ह्युपायो ब्रह्मवेदने॥१८॥

यथोक्तस्य बह्मणो ज्ञाने साधनं दर्शयति—कोशेति। पूर्वपूर्वस्यान्नमयादिकोशस्य दृश्यत्वपरिच्छिन्नत्वादिना त्यागेन क्रियाकारकफलात्मकद्वैतनिरासेन कार्यकारणात्मककोशेषु प्रत्यक्त्वेनैवाऽऽत्मनो निश्चयेन पदार्थज्ञानं ब्रह्मज्ञाने साधनमतस्तदुपायचिन्तया न मनः स्वेदनीयमित्यर्थः॥१८॥

अविद्योद्भूततृष्णेन पुंसा यत्कल्पितं फलम्।
अनन्तफलसिद्ध्यर्थं तदनूक्तिः प्रवृत्तये॥१९॥

बल्लीद्वयता

त्पर्यादि च दर्शयित्वा प्रतिपदं व्याख्यामारभमाणो बह्मविदाप्नोति परमितिप्रथमं प्रयोजनोपादानस्य तात्पर्थमाह—अविद्येति। स्वात्मभूतमेव नित्यप्राप्तं फलमविद्यातिरोधानादिदं मे स्यादित्युद्भूततृष्णावता मुमुक्षुणा परिच्छिन्नत्वेन प्राप्यत्वेन कल्पितं ब्रह्मज्ञानप्रयोजनं ब्रह्मविदाप्नोति परमित्यनूद्यते। तद्नुवादश्च तदुपाये ज्ञाने मुमुक्षुम-

वृत्तिद्वारा परिपूर्णस्य फलस्य स्वरूपभूतस्याऽऽविर्भावाय भविष्यतीत्यर्थः॥१९॥

कर्तुः कर्माणि कार्यार्थमनात्मफलदानि हि।
पुरोक्तानि यतो नासावन्यथाऽतः प्रवर्तते116॥२०॥

मोक्षसाधने मुमुक्षुप्रवृत्त्यर्थं मोक्षफलानुवादेऽपि पुरुषार्थसाधनत्वेन कर्मणां प्रसिद्धत्वात्तेष्वेव मुमुक्षुप्रवृत्तिरित्याशङ्क्याऽऽह—कर्तुरिति। कार्यं साध्यं फलं तत्सिद्ध्यर्थं यानि कर्माणि क्रियन्ते तानि कर्तुर्निर्वर्तकस्य यदनात्मभूतं फलं स्वर्गपशुपुत्रादि तत्प्राप्तिसाधनान्येव पुरा कर्मकाण्डे प्रोक्तानि कर्मफलस्य117 चतुर्विधत्वादात्मस्वभावभूतायामुक्तेस्तद्विलक्षणत्वाद्यस्मादेवं तस्मादसौ मुमुक्षुर्न कर्मसु रागेण प्रवर्तते118। किंत्वन्यथा कर्मपरिहारद्वारेण मोक्षेच्छया ज्ञाने प्रवृत्तो भवतीत्यर्थः॥२०॥

क्षयिष्णु साधनाधीनं फलं बुद्ध्वा वितृष्णतः।
कामहेतोरनुच्छित्तेरपरात्परमीप्सति॥२१॥

मुमुक्षुर्मोक्षेच्छया कर्माणि परित्यज्य ज्ञाने प्रवृत्तो भवतीत्युक्तं प्रपञ्चयति—क्षयिष्ण्विति। साधनसाध्यं फलमैहिकमामुष्मिकं च क्षयशीलं विनाशीति ज्ञात्वा ततः साधनाद्वैराग्यस्य सिद्धत्वात्कर्मभिरेव रागद्वेषादिहेतोरज्ञानस्यानाच्छन्नत्वादपरात्कर्मफलात्कार्यकारण- प्रपञ्चाञ्चपरं मोक्षं कार्यकारणविलक्षणमाप्तु119मिच्छति तया120 चेच्छया मोक्षौपयिकज्ञानसाधनश्रवणादौ मुमुक्षुर्व्यापृतो भवतीत्यर्थः॥२१॥

साध्यसाधनवद्वाक्यं तद्विरुद्धार्थसिद्धये।
प्राह ब्रह्मविदान्पोति श्रुतिः प्रत्यक्प्रवेशिनी॥२२॥

शास्त्रादौ फलसूत्रणमु121पपन्नमित्युपसंहरति—साध्येति। कैवल्यं साध्यं निरतिशयफ122लं साधनं ज्ञानं तदुभयमत्र प्रतिभातीति तद्विशिष्टमिदं ब्रह्मविदाप्नोति परमितिवाक्यं तच्च सूत्रभूतं साध्यसाधनाभ्यां विरुद्धार्थस्य कैवल्यस्य123 सिद्ध्यर्थं प्रकृता श्रुतिर्मुक्तिफलोक्तिद्वारेण प्रतीचीच्छां जनयन्ती तंत्र प्रविष्टेवं124 हृष्टायथोक्तं वाक्यं प्राहेतियोजना॥२२॥

शिखा ते वर्धते वत्स गुडूचीं श्रद्धया पिब।
मातेव प्रेरयेद्वालं सदसंभाव्यसिद्धये॥२३॥

सूत्रे फलकथनं प्रवृत्त्यर्थमित्येतद्दृष्टान्तेन स्पष्टयति—शिखेति। यथा बालमौषधपाने बालाभिप्रेतफलोक्तिद्वारेण माता प्रेरयति तथा ज्ञानातिरिक्तसमस्तसाधनासंभाव्य मोक्षसिद्ध्यर्थं श्रुतिमुमुक्षं प्रेरयतीत्यर्थः॥२३॥

साध्यसाधनसंबन्धात्प्रसक्ता येह दोषधीः।
सा चैकरू125पविज्ञानशिखिप्लुष्टा विनङ्क्ष्यति॥२४

साधनान्तरसाध्यत्वाभावेऽपि ज्ञानसाध्यत्वाभ्युपगमान्मुक्तेरनित्यत्वं प्राप्तमित्याशङ्क्याऽऽह—साध्येति। इहेतिमोक्षोक्तिः। साध्यसाधनादिव्यवहारस्याविद्याकृतत्वादसाध्यसाधनमेकरूपं ब्रह्मेतिज्ञाने सत्युक्ताशङ्कानिवृत्तिरित्यर्थः॥२४॥

मा भुदण्वपि मे दुःखं सुख्येव स्यामहं सदा।

इति स्वतोऽभिलाषोऽयं सत्येव विषये भवेत्॥२५

केचित्तु मोक्षमेव नानुमन्यन्ते तदिच्छा तु दूरापास्तेति तत्राऽऽह—मा भूदिति॥२५॥

अज्ञातमोक्षरूपोऽपि कैवल्याय प्रवर्तते126
अलं127 यथोक्तकामेद्धधिषणो भवभीषितः॥२६

यथोक्तेच्छाविषयस्य मोक्षत्वेन ज्ञातत्वं नास्तीत्याशङ्कयाऽऽह—अज्ञातेति। स विषयो यद्यपि मोक्षत्वेन न ज्ञातस्तथाऽपि यथोक्तेच्छासंसाराद्विरक्तस्य मोक्षफलकात्मज्ञानप्रवृत्तिहेतु128र्भवतीत्यर्थः॥२६॥

प्रवृत्तिजनकं यस्मात्सर्वत्रैव प्रयोजनम्।
श्रुतिर्ब्रह्मविदाप्रोतीत्याह पुंसः प्रलुब्धये॥२७

प्रथममेव प्रयोजनप्रदर्शनस्य तात्पर्यमुक्तमुपसंहरति—प्रवृत्तीति॥२७॥

फलश्रुत्यङ्कुशाकृष्टः श्रवणादौ प्रवर्तते।
तत्पूर्वकं यतो ज्ञानं श्रुतिश्चैवमभाषत॥२८॥

फलश्रवणादुपाये प्रवृत्तिरित्येतदेव स्पष्टयति—फलश्रुतिरिति। किमिति श्रवणादौ साधनान्तरं परित्यज्य प्रवर्तते तत्राऽऽह—तत्पूर्वकमिति। श्रवणादिपूर्वकमेव ज्ञानं लभ्यते यतः श्रोतव्य इत्याद्या129 श्रुतिरेवं130 श्रवणादिपूर्वकमात्मज्ञानमुक्तवतीत्यर्थः॥२८॥

लौकिकी वैदिकी131 चाथ प्रवृत्तिर्येह काचन।
नर्ते प्रयोजनं यस्मात्तदेवातः प्रवृत्तिकृत्॥२९॥

यद्यपि प्रयोजनमनुद्दिश्येत्यादिन्यायेन प्रयोजनाधीना लौकिकी प्रवृत्तिस्तथाऽपि वेदवशादेव वैदिकी प्रवृत्तिरन्तरेणापि प्रयोजनं स्यादित्याशङ्क्याऽऽह—लौकिकीति॥२९॥

ब्रह्मविद्ब्रह्म वेत्तीति132 यः स आप्नोति तत्परम्।
सत्यादिलक्षणं ब्रह्म वक्ष्यते तदृचा स्फुटम्॥३०॥

शास्त्रादौ प्रयोजनोक्तेस्वात्पर्यमुक्त्वा वाक्यं योजयति—ब्रह्मविदिति। किं तद्ब्रह्म वेद्यमित्याशङ्कयाऽऽह—सत्यादीति॥३०॥

फलोक्तिः परमाप्नोतीत्याप्ता133 बह्मविदुच्यते।
सामर्थ्याद्ब्रह्मविद्या तु परस्यावाप्तिसाधनम्॥३१॥

तत्रैव सूत्रवाक्ये विभागं दर्शयति—फलोक्तिरिति। परस्य ब्रह्मणोऽवाप्तिसाधनं ब्रह्मविद्येति कथमवगम्यते तत्राऽऽह—सामर्थ्यादिति। ब्रह्मविद्विद्वान्परं134 ब्रह्म प्राप्नोतीत्ययं संबन्धो न सिध्यति। यदि ब्रह्मज्ञानं ब्रह्मप्राप्तिसाधनं न स्यात्तस्माच्छ्रत्यर्थानुपपत्त्या साधनत्वसिद्धिरित्यर्थः॥३१॥

स्वर्गं यथाऽग्निहोत्रेण यजमानः प्रसाधयेत्।
परावाप्तिं135 तथा कुर्याद्ब्रह्मविद्ब्रह्मविद्यया॥३२

ब्रह्मज्ञानाद्ब्रह्मप्राप्तिरित्युक्तमर्थं दृष्टान्तेन साधयति—स्वर्गमिति॥३२॥

बह्मैवाऽत्र परं ग्राह्यं तज्ज्ञानं नान्यसिद्धये।
अन्यज्ज्ञानं हि नान्यस्य क्वचिदप्याप्तये यतः॥३३॥

ब्रह्मवित्परमाप्नोतीतिपरावाप्तेरुक्तत्वात्कथं136 ब्रह्मविद्यया ब्रह्मप्राप्तिर्व्याख्यायते तत्राऽऽह—ब्रह्मैवेति। तत्र हेतुमाह—तज्ज्ञानमिति। ब्रह्मज्ञानं ब्रह्मणोऽन्यस्य न प्रापकमित्येतदुपपादयति अन्यज्ज्ञानं हीति। क्वचिदपीतिलोकवेदयोरुक्तिः॥३३॥

देशकालादिसंभेदपूर्विकाऽवाप्तिरिष्यते।
देशकालाद्यश्विन्नस्य कथं सेत्युच्यते यथा॥
सर्वात्मनोऽप्यनाप्तिः स्याद्दशमस्येव मोहजा॥३४॥

ब्रह्मावाप्तिमाक्षिपति—देशेति। उभयत्रादिशब्देन वस्तु गृह्यते। यथोक्तस्य ब्रह्मणो मुख्यावाप्त्ययोगेऽपि यथौपचारिकी137 सा घटते तथोच्यत इत्याह उच्यत इति। यथा लोके दशमस्य माणवकस्य दशमत्वानाप्तिरज्ञानहेतुकभ्रान्तिप्रभावादुपलभ्यते तथैव परिपूर्णस्यापि तत्वस्य मोहवशादनाप्तिसंभवात्तन्निवृत्त्या प्राप्तिरूपचरितेत्यर्थः॥३४॥

पञ्चस्वन्नमयाद्येषु ह्यहमस्मीतिविभ्रमात्॥३५॥

मोहवशादप्राप्तिरित्युक्तमंशं विशदयति—पञ्चस्विति। अन्नमयप्राण मयमनोमयविज्ञानमयानन्दमयेषु कार्यकारणात्मसु प्रत्येकमहमस्मीति मोहजन्याद्विभ्रमात्प्रसिद्धा138 ब्रह्मानाप्तिरित्यर्थः॥३५॥

दशमोऽस्मीत्यतो ज्ञानादज्ञानध्वस्तिवर्त्मना।
दशमाप्तिवदाप्तिः स्याद्ब्रह्मणोऽज्ञानहानतः॥३६॥

ब्रह्मानाप्तिरज्ञानादिति दृष्टान्तेनोक्त्वा ज्ञानात्तदाप्तिरित्येतदपि दृष्टान्तेन दर्शयति—दशमोऽस्मीति॥३६॥

विभिन्नवेत्तृवेद्यादौ गौणं ब्रह्म यतस्ततः।
अभिन्नवेत्तृवेद्यादि ग्राह्यं मुख्यार्थसिद्धये॥३७॥

मुख्यामाप्तिं139 विहाय किमित्याप्तिरौपचारिकी गृह्यते तत्राऽऽह—विभिन्नेति। प्रमाता प्रमाणं प्रमेयमित्यादौ द्वैते भिन्नेऽपारमार्थिके ब्रह्म-

णोऽर्थान्तरभूते स्वीकृते ब्रह्म गौणममुख्यं यस्मादापद्यते तस्माद्देशतः कालतो वस्तुतश्चानवच्छिन्नस्य मुख्यस्य ब्रह्मशब्दार्थस्य सिद्ध्यर्थमभिन्नंच वस्तुतो भेदरहितं प्रमात्रादि ग्रहीतव्यं तस्माद्विभागस्याविद्याकृतत्वाद्विद्योत्पत्तौ140 तन्निवृत्तौ गौण्येव ब्रह्मप्राप्तिरित्यर्थः॥३७॥

अन्यदृष्टाविवातोऽत्र न नियोगो मनागपि।
मोहप्रध्वंसमात्रेण निवृत्तेरोगहानिवत्॥३८॥

ब्रह्मविदोऽपि ब्रह्मध्याने नियोगाङ्गीकारात्तदधीना ब्रह्मप्राप्तिः स्वर्गदिप्राप्तिवन्मुख्यैवेत्याशङ्कन्याऽऽह—अन्यदृष्टाविति। यथाऽन्यद्दष्टावविद्यायां सत्यां कर्मणि नियोगोऽवगम्यते तथाऽत्र ब्रह्मज्ञाने समुत्पन्ने विरोधित्वादेव मोहस्य प्रध्वंसात्तावन्मात्रेण संसारस्यापि तत्कार्यस्य निवृत्तत्वाद्ध्या141नाभ्यासस्यानपेक्षितत्वान्न तत्र नियोगो मनागपि युज्यते। यथौषधप्रयोगेण रोगनिवृत्त्या स्वरूपावस्थानवज्ज्ञानादज्ञानतत्कार्यनिवृत्त्या स्वरूपावस्थानलक्षणो मोक्षो नियोगादृतेऽपि सिध्यत्यतो वेदान्तेषु न नियोगावकाशोऽस्तीत्यर्थः॥३८॥

कर्तृतां प्रत्यगालिङ्ग्य योऽकर्त्रात्मानमीप्सति।
उल्कापिशाचं सोऽभ्येति142 शीतार्तः पावकेच्छया॥३९॥

ब्रह्मविदोऽपि भिक्षाटनादौ कर्तृत्वोपलब्धेर्ज्ञानाभ्यासनियोगादेवाकर्तृब्रह्मप्राप्ति- रित्याशङ्याऽऽह—कर्तृतामिति प्रत्यगात्मनि कर्तृतां परमार्थभूतां गृहीत्वा ब्रह्माकर्त्रभोक्तृस्वरूपत्वेन ग्रहीतुं योऽपेक्षते स पारमार्थिककर्तृत्वादिनिवृत्ययोगान्नानार्थान्निवर्तते न च ब्रह्म प्राप्नोति। यथा शीतार्तः शीतापहरणबुद्ध्या वह्निमिच्छन्नुल्कापिशाचमनुगच्छन्न शीतनिवृत्तिं प्रतिपद्यते तस्यानग्नित्वादनर्थं च प्राप्नोति समीपमुपसृप्तस्य पिशाचेन मक्ष्यत्वसंभवात्तथाऽत्रापि द्रष्टव्यम्। भिक्षाटनादौ तु ब्रह्मविदो बाधितानुवृत्त्या प्रवृत्तिरित्यर्थः॥३९॥

करोमीति धिया चैतद्ब्रह्मास्मीति हि लभ्यते।
ब्रूतालाभेऽस्य को हेतुर्न ह्यतोऽन्योऽस्त्यदर्शनात्॥४०॥

इतोऽपि नास्ति पारमार्थिकं कर्तृत्वं किंतु कल्पितमेवेत्याह—करोमी143-

ति। करोमीत्येवमात्मिका धीर्नाम कर्ताऽस्मीतिबुद्धिस्तया विशिष्टस्य पारमार्थिकं कर्तृत्वमारूढस्यै144तद्ब्रह्माकर्त्र145भोक्त्रहमस्मीति यदि लभ्यते तर्हि कर्तृज्ञाने146 सत्येव ब्रह्मप्राप्त्यङ्गीकारात्कर्तृ147ज्ञानस्य च स्वापादेरन्यत्र सत्त्वाद्ब्रह्मोपदेशमन्तरेण तत्प्राप्तेः संभवाद्स्याऽऽत्मनस्तदलाभे को हेतुरितिपृष्टाः सन्तो हेतुं ब्रूत। स च हेतुर्नोपलभ्यते।148 न हि कश्चिदपि ब्रह्मालाभे हेतुरतोऽस्माददर्शनादज्ञानादन्यो दृश्यते। तस्मादात्मनि कर्तुत्वाद्यज्ञानकृतमेव न पारमार्थिकमित्यर्थः॥४०॥

तस्मादविद्यासंभूतकर्तृ प्रत्यगविकियम्।
अविद्यानर्थतत्कार्यप्रत्याख्यानेन बोध्यते॥४१॥

आत्मनि कर्तृत्वादेरविद्याकृतत्वे फलितमाह—तस्मादिति॥४१॥

कर्तुर्ज्ञातुर्हि या दृष्टिः सामान्याद्यर्थसंश्रया।
तत्प्रत्यगात्मदृष्ट्या तां प्रत्याख्यायाश्नुते परम्॥४२॥

कार्यकारणनिराकरणेन प्रत्यगात्मप्रतिबोधफलं कथयति—कर्तुरिति। ज्ञाता प्रमाता तस्य कर्तृत्वं परिणामित्वं तस्य सामान्यविशेष149विषया या दृष्टिस्तस्याः स्वरूपभूता या कूटस्थदृष्टि150स्तद्रूपेण तां पूर्वोक्तां दृष्टिं निराकृत्य परं151 ब्रह्म कूटस्थदृष्टिरूपमाप्नोतीत्यर्थः॥४२॥

अशेषानन्दवल्ल्यर्थ152सूत्रमाद्यमिदं वचः।
यस्मात्तस्मात्तदर्थस्य ह्याविष्कृद्रृगुदीर्यते॥४३

ब्रह्मविदाप्नोति परमितिसूत्रभूतं वाक्यं व्याख्याय तदेषाऽभ्युक्तेत्यस्य वाक्यस्य तात्पर्यमा—अशेषेति॥४३॥

विशेषणविशेषत्वात्सत्यादीन्यत एव च।
चत्वार्येकविभक्तीनि नीलरक्तोत्पलादिवत्॥४४

सत्यं ज्ञानमनन्तं ब्रह्मेत्यत्र चतुर्णां पदानामेकविभक्तियुक्तत्वे हेतुमाह—विशेषणेति॥४४॥

वेद्यत्वेन यतो ब्रह्म प्राधान्येन विवक्षितम्।
तस्माद्विशेष्यं विज्ञेयं ततोऽन्यत्स्याद्विशेषणम्॥४५॥

तेषु विशेषणविशेष्यत्वविभागं दर्शयति—वेद्यत्वेनेति॥४५॥

नीलं महत्सुगन्धीति विशिष्यन्त्युत्पलं यथा।
एकाधिकरणा153न्येवं सत्यादीनि परं महत्॥४६॥

ब्रह्मणो विशेष्यत्वं सत्यादीनां विशेषणत्वमित्येतद्दृष्टान्तेन साधयति—नीलमिति। परं महदित्यत्र महदितिविशेष्यं ब्रह्मोच्यते॥४६॥

एवं विभज्यमानं सत्सत्यमित्येवमादिभिः।
स्वविशेषविरुद्धेभ्यो धर्मिभ्यः स्यान्निराकृतम्॥४७॥

उक्ते विशेषणविशेष्यत्वे फलितं कथयति—एवमिति। स्वशब्देन ब्रह्मोक्तमस्य विशेषाः सत्यादयस्तैर्यदा ब्रह्म विशेषितं तदा सत्यादिविरुद्धेभ्योऽसत्यजाड्यपरिच्छिन्नेभ्यो निराकृतं ब्रह्म सिध्यतीत्यर्थः॥४७॥

एवं च सति तज्ज्ञातं154 यदन्येभ्योऽवधार्यते।
नीलोत्पलादिवद्ब्रह्म नान्यथाऽनवधारणात्॥४८॥

व्यावृत्तिफलमाह—एवं चेति। यथा नीलमुत्पलं रक्तमुत्पलमित्यादिप्रयोगे व्यक्त्यन्त155रेभ्यो व्यावृत्तमुत्पलमवगम्यते तथा यदन्थेभ्योऽसत्यादिभ्यो व्यावृत्तमवधार्यते। तद्ब्रह्मेत्येवं व्यावृत्तत्वे सति सच्चिदेकतनिं156 परिपूर्ण त्वदिति ज्ञातं भवति व्यावृत्तिश्चेन्न ज्ञायते तदाऽनृतादिभ्यो व्यावृत्त्यसिद्धेर्न ब्रह्म157 ज्ञातं स्यादित्यर्थः॥४८॥

ननु व्यभिचरद्वस्तु स्याद्विशेष्यं विशेषणैः।
ब्रह्मान्तरादृते त्वत्र कुतो ब्रूहि विशेष्यता॥४९॥

ब्रह्म विशेष्यं सत्यादि विशेषणमित्यत्र शङ्कते—

नन्विति। यद्वस्तु व्यक्तिभेदान्मिथो व्यभिचरति तद्विशेषणर्विशेष्यमिष्यते। यथोत्पलव्यक्तयो भूयस्यो मिथो व्यभिचारिण्यो नीलरक्तादिधर्मैर्विशेष्यन्ते न तथा ब्रह्मणोऽद्वितीयत्वाद्वहुत्वं संभवत्यतो ब्रह्मणि विशेषणविशेष्यत्वानुपपत्तिरित्यर्थः॥४९॥

विशेषणविशेष्यत्वे सति दोषः प्रसज्यते।
लक्ष्यं लक्षणतां यातु न दोषोऽत्र मनागपि॥५०॥

विशेषणविशेष्यपरत्वाभावाद्वाक्यस्य लक्षणकथनेन ब्रह्मप्रतिपादनपरत्वान्न चोद्यावकाशोऽस्तीति परिहरति—विशेषणेति॥५०॥

अनेकात्मविशेष्यस्थमागृहीतविशेष्यकम्।
सजातीयान्निराकर्तृ विशेषणमिहोच्यते॥५१॥

किं तर्हि विशेषणं तदाह—अनेकेति। एकरसस्य विशेष्यत्वादशनादनेकात्मनि नानारसे विशेष्ये स्थितं तत्रैवोपरक्तं समानजातीयाद्यावर्तकं व्यवहारभूमौ विशेषणं प्रसिद्धमित्यक्षरार्थः। विशेष्यबुद्ध्युपरक्तमेव विशेष्यव्यावर्तकं विशेषणमित्यर्थः॥५१॥

सामान्येतरसंयुक्तमनेकगुणसंयुतम्।
संभव्यसंभविगुणं विशेष्यं तत्प्रचक्षते॥५२॥

किं तर्हि विशेष्यं तदाह—सामान्येति। सामान्यविशेषसंबद्धमनेकैः शुक्लत्वादिभि158र्गुणैर्युक्तं विशेष्यमित्यर्थः। ते गुणा यदि तत्र नित्यं संभवन्ति तदा न तस्य विशेष्यत्वं विशेषाभावाद्यदि सर्वथा तत्र न संभवन्ति तदाऽपि159न विशेष्यत्वमसतां व्यावर्तकत्वायोगादिति मत्वाऽऽहसंभवीति। सजातीयमात्राद्यावर्तितं विशेष्यमित्यर्थः॥५२॥

विशेष्यान्तरशेषं यत्स्वविशेष्यान्यबुद्धिकृत्।
परिकल्पितसंबन्धं160 लक्षणं भावलक्षणम्॥५३॥

संप्रति लक्षणस्य लक्षणमाह—विशेष्यान्तरेति। विशेष्यान्तरं विशेष्यादन्यत्तस्य शेषमित्यस्यैवार्थमाह—स्वविशेष्येति। स्वेन विशेष्यं स्वेन लक्ष्यं यत्तस्य सर्वस्मादन्यबुद्धिं व्यावृत्तबुद्धिं161करोतीत्यर्थः। लक्ष्येणासंबद्धस्य लक्षणत्वानुपपत्तेः162स्वलक्ष्येण सह परिकल्पितो निष्पन्नः संबन्धस्तादात्म्यं यस्य तदेवंविधलक्षणं वस्तु भावलक्षणं पदार्थलक्षणमित्याह— परिकल्पितेति। सजातीयाद्विजातीयाच्च सर्वस्माद्यावर्तकं लक्षणमित्यर्थः॥५३॥

निरस्यति यथैवैकं तथैवान्य163द्विरोधि यत्।
स्वात्मनैवैकरूपेण लक्ष्यमत्र निगद्यते॥५४॥

लक्ष्य164लक्षणमधुना कथयति—निरस्यतीति। यथावकाशप्रदमाकाशमित्युक्ते सत्याकाशं स्वलक्षणेनावकाशदानेन सर्वस्माद्यावर्त्यते165तत्रैकमित्येकजातीयमुच्यते। अन्यदिति। भिन्नजातीयमत एव विरोधीत्युक्तंतथैवाऽऽका166शादन्यदपि स्वात्मनैवैकरूपेण स्वलक्षणेन सर्वस्माद्यावर्त्यतेयत्तलक्ष्यं विवक्षितं सर्वस्माद्यावर्तितं लक्ष्यमित्यर्थः॥५४॥

सत्यादयः परार्थत्वादितरेतरनिस्पृहाः।
एकैकस्त्वत एवैषा विशेष्यार्थेन बध्यते॥५५॥

विशेषणादीनां चतुर्णां स्वरूपमुक्त्वा विशेषणविशेष्यत्वपक्षमुपपादयति—सत्यादय इति। सत्यज्ञानानन्ता विशेष्यपारतन्त्र्यादन्योन्यनिरपेक्षत्वान्न मिथः संबध्यन्ते तथा च मिथोऽसंबन्धात्परतन्त्रत्वाच्चैषां मध्ये प्रत्येकमेव सत्यादिविशेष्यार्थेन ब्रह्मणा संबध्यते ततश्च सत्यादिविशेषणानि प्रत्येकं ब्रह्मणा संबद्धानि ब्रह्मासत्यादिभ्यो व्यावर्तयन्तीत्यर्थः॥५५॥

सकृत्प्रमितरूपाद्यद्रूपमन्यत्कदाचन।
नैव प्रपद्यते सत्यं तस्मात्का167र्यविलक्षणम्॥५६

सत्यशब्दार्थं दर्शयति—सकृदिति॥५६॥

यावान्कश्चिद्विकारोऽत्र ब्रह्म तस्मान्निवर्तितम्।
भजते कारणत्वं तत्तथाचैतन्यधर्मकम्॥५७

सत्यमितिविशेषणेन ब्रह्म कार्यादन्यदिति निर्धार्यते चेत्तस्य कारणत्वं प्राप्तं ततश्च मृदादिवज्जडत्वं प्रसक्तमितिशङ्कते—यावानिति॥५७॥

तद्दोषद्वयनुत्त्यर्थं ज्ञानं ब्रह्मेत्युदीर्यते।
अनेकार्थाभिसंबन्धात्किमर्थं ज्ञानमुच्यते॥५८

कारणत्वं जडत्वमितिप्राप्तं दोषद्वयं निराकर्तुं विशेषणमवतारयति तद्दोषेति। कर्तृकर्मकरणभावविषयत्वेन ज्ञानशब्दस्यानेकार्थत्वसंभवात्तदर्थविशेषबुभुत्सया पृच्छति—अनेकार्थेति॥५८॥

ब्रह्मणो भेदकं यस्मादानन्त्येन च संगतेः।
ज्ञप्तिर्ज्ञानमितिन्याय्यमन्यथा दोषदर्शनात्॥५९॥

ब्रह्मविशेषणत्वेन ज्ञानपदप्रयोगाज्ज्ञानमनन्तमित्यनन्तपदसंयोगात्कर्त्रादिविषयत्वे तदयोगाद्भावविषयं168 ज्ञानपदमित्युत्तरमाह—ब्रह्मण इति। ज्ञानपदस्य ज्ञप्तिविषयत्वं परिहृत्य कर्त्रादिविषयत्वे ब्रह्मविशेषणत्वायोगादानन्त्येन संगतेरसङ्गतत्वाच्च ज्ञप्तिविषयत्वमेव युक्तमित्युपपादयति—अन्यथेति॥५९॥

तस्मात्सत्यमनन्तं यज्ज्ञानं तदिह गृह्यते।
भावसाधनमेवातः स्यादेतद्युक्तिदर्शनात्॥६०॥

पदद्वयार्थमुपसंहरति—तस्मादिति। ज्ञानपदं भावसाधनमेव स्यादित्यत्रातः शब्दोपात्तं हेतुं दर्शयति—युक्तीति॥६०॥

ज्ञानं ब्रह्मेति वचनादन्तवत्त्वमवाप तत्।
ज्ञानस्य लौकिकस्येह ह्यन्तवत्त्वसमन्वयात्॥६१॥

ज्ञानस्य ब्रह्मत्वे तस्य क्षणिकत्वेन ब्रह्मणोऽपि तद्रूपस्य क्षणिकत्वं स्यादिति शङ्कते। ज्ञानमिति॥६१॥

अतस्तत्प्रतिषेधार्थमनन्तमितिशब्द्यते।
अन्तः सीमा तथेयत्ता तन्निषेधस्त्वनन्तता॥६२॥

कूटस्थं169 चैतन्यं ज्ञानं न क्रिया ततः शङ्कितदोषस्य निरवकाशत्वमित्यनन्तपदेन परिहरति—अत इति॥६२॥

अनृतादिनिषेधेन सत्यादीनामुपक्षयात्।
ब्रह्मणश्वाप्रसिद्धत्वान्मिथ्यार्थं चेद्वचो न तत्॥६३॥

विशेषणपक्षे सत्यादिशब्दार्थानामनृतादिनिवृत्यर्थत्वाद्विशेष्यस्य च ब्रह्मणो मानान्तरासिद्धत्वात्सत्यादिवाक्यं शून्यार्थनिष्ठं प्राप्तमित्याशङ्कामनुद्य प्रतिषेधति। अनृतादिति॥६३॥

परमार्थमनालिङ्ग्य न दृष्टं वितथं क्वचित्।
तस्माद्वा वितथं सर्वं परमार्थैकनिष्ठितम्॥६४॥

न तदित्युक्तं सिद्धान्तं प्रपञ्चयति—परमार्थमिति। निरधिष्ठानभ्रमा-

संभवात्तदधिष्ठानस्य परमार्थवस्तुनो वक्तव्यत्वे सत्यादिवचनस्य तदर्थत्वान्न शून्यार्थतेत्यर्थः॥६४॥

पदात्पदार्थबुद्धिर्न उत्पलादौ प्रजायते।
तदभावधियै नालं पदवाक्यार्थरूपतः॥६५॥

सत्यादिपदादसत्यादिप्रतिषेधप्रतीतिमङ्गीकृत्योक्तमिदानीमङ्गीकार परित्यजति। पदादिति। पदार्थविषया बुद्धिरेव पदादुत्पद्यमाना लोके दृश्यते। न तु पदं वाक्यार्थविषयां बुद्धिमुत्पादयितुमुत्सहते। अनृतनिषेधो जाड्यनिषेधः परिच्छेदनिषेधश्चेत्यस्य सर्वस्य वाक्यार्थरूपत्वात्तथोविधाभावज्ञानार्थं170 सत्यादिपदं न171 च पर्याप्तं तथा च परमार्थत्वस्वयंप्रभत्वपूर्णत्वाख्यानर्थान्बोधयन्ति सत्यादीनि पदानीत्यर्थः॥६५॥

प्रतिपद्य पदार्थं हि विरोधात्तद्विरोधिनः।
पश्चादभावं जानाति वध्यधातकवत्पदात्॥६६॥

सत्यादिपदेभ्यश्वेदसत्यादिनिषेधानधिगतिः कथं तर्हि तद्धीः सिध्येदित्याशङ्कयाऽऽह—प्रतिपद्येति। यथावच्छ्येनमूषकादिना172 दूषितां भूमिमुपलभ्य तद्विरोधिनां घातकस्य मार्जारादेरभावोऽर्थादवगम्यते तथा सत्यादिपदात्पदार्थं173 परमार्थत्वादिकं प्रतीत्य174 प्रतीतपरमार्थ175त्वादिविरोधिनोऽसत्यत्वादे176रमावोऽर्थापत्त्या ज्ञायते न हि सत्यदेर177सत्यादेश्चै काधिकरणत्वं घटते तेन मानान्तरसिद्धत्वादन्यव्यावृत्तरशब्दार्थतेत्यर्थः॥६६॥

शब्दात्प्रतीयते तावत्संगतिर्धर्मधर्मिणोः।
मानान्तरादपोहस्तु न शाब्दस्तेन स स्मृतः॥६७॥

अर्थापत्तिसिद्धार्थस्यापि शब्दार्थत्वं किं न स्यादित्याशङ्क्यनन्यलभ्यत्वाभावान्नैवमित्याह—शब्दादिति। सत्यं ब्रह्मेत्यादिना ब्रह्मशब्दसमानाधिकृतसत्यादिशब्दाद्धर्मस्य सत्यादेर्धर्मिणश्व ब्रह्मणस्तादात्म्यरूपा संगतिस्तावदवगम्यते तथा च सत्यादिरूपं चद्ब्रह्म कथं तदसत्यादि-

स्वादित्यर्थापत्तिरूपान्मानान्तरादसत्याद्यपोहो भासते ततश्च तस्यापूर्वस्वाभावान्न शब्दगम्यत्वं युज्यते। यश्चार्थादर्थो न स चोदनार्थ इति न्यायात्तदेवं सत्यादिवाक्यं परमार्थादिरूपे ब्रह्मणि पर्यवसितमशून्यार्थं सिद्धमित्यर्थः ॥६७॥

न नीलवदनादाय नीलधीरुपजायते ।
विशेष्यज्ञानमप्येवं नान्तरेण विशेषणम् ॥६८

सत्यादिवाक्यस्याशून्यार्थत्वे हेत्वन्तरमाह—न नीलवदिति। यथा नीलमित्युक्ते नैल्यविशेषणविशिष्टं वस्तु भाति विशेष्यमन्तरेण विशेषणायोगात्तथा विशेष्यमित्युक्ते विशेषणवद्वस्तु गम्यते तयोर्मिंथोब178द्धत्वादेवं प्रकृतेऽपि सत्यं ब्रह्म ज्ञानं ब्रह्मानन्तं ब्रह्मेत्युक्ते शून्यनिष्ठत्वं सत्यादिवाक्यस्य नोपपद्यते विशेषणाविशेष्ययोर्मिथोबद्ध179त्वादित्यर्थः॥६८॥

वाक्यार्थानुभवोऽस्माकं नीलादेरुपजायते ।
किं नीलमितिचा180ऽऽकाङक्षा सत्येवमुपपद्यते ॥६९

इतोऽपि सत्यादिवाक्यं शून्यनिष्ठं न भवतीत्याह—वाक्यार्थेति। अन्वितोऽर्थो वाक्यार्थस्तत्रानुभवोऽस्माकमन्विते पदशक्तिमवगच्छतां नीलमुत्पलमित्यादिपदादुत्पद्यतेऽन्यान्बिते शक्तिग्रहे सत्येव181 नीलमित्युक्ते किं नीलमित्याकाङ्क्षा दृश्यमानोपपद्यते तुच्छे च नीलादिपदार्थे नीलादिपदं स्वार्थशून्यमितरान्वितं नाभिधातुं शक्नोति। तुच्छस्य केनचिदन्वयाभावादतश्चेतरान्विते संगतिसंवेदनसामर्थ्यान्न सत्यादिवाक्यस्य शून्यार्थत्वाशङ्केत्यर्थः॥६९॥

प्रत्यक्षतोऽवसेयत्वादेवं सर्वस्व वस्तुनः।
नैव साधयितुं शक्यं क्षणिकत्वं कथंचन॥७०

ज्ञानं ब्रह्मेति सामानाधिकरण्याज्ज्ञानस्य क्षणिकत्वाद्वाक्यस्य शून्यनिष्ठत्वाभावेऽपि क्षणिकवस्तुनिष्ठता दुर्वारेत्याशङ्कयाऽऽह—प्रत्यक्षत इति। न हि क्षणिकत्वं कस्यचिदपि पदार्थस्य कदाचिदपि साधयितुं शक्यं प्रमाणाभावान्न तावत्प्रत्यक्षमत्र प्रमाणी भवति तेनाज्ञातस्यार्थस्य ज्ञातत्वाभ्युपगमादनधिगतिसमये चाधिगतेर्विरुद्धत्वादवस्थाभेदेन वस्तु—

नि ज्ञातत्वाज्ञातत्वयोर्वक्तव्यत्वादेवमनुमानादेर्मानान्तरस्यापि वस्तुन्यज्ञाते ज्ञापकत्वाविशेषान्न क्षणिकत्वसाधकत्वं दृष्ट्यविपरिलोपश्रुतेश्व नित्यदृष्टिरूपस्य ब्रह्मणोऽक्षणिकत्वान्न सत्यादिवाक्यस्य क्षणिकार्थनिष्ठत्वमित्यर्थः॥७०॥

सति कुम्भे न नाशोऽस्ति नाशोऽपि न तदाश्रयः।
अस्ति चेत्पूर्ववद्धर्मी न नष्टः पूर्ववद्धटः॥७१

वस्तुनि नाशस्य दुर्निरूपत्वाच्च क्षणिकत्वायोगान्न क्षणिकार्थनिष्ठता सत्यादिवाक्यस्य सिध्यति न तावदसति घटे तत्र नाशो वर्तितुमर्हति निरर्थक्यादाश्रयाभावाच्च नापि सति घटे तत्र नाशोऽस्ति सत्ववन्नाशस्य तदाश्रयत्वायोगादेकत्र सत्त्वासत्त्वयोरपर्यायेण विरुद्धत्वादित्याह—सतीति। यदि नाशे प्रवृत्तेऽपि तदाश्रयत्वेन नाशप्रवृत्तिप्रागवस्थायामिव कुम्भोऽभ्युपगम्येत तर्हि पूर्ववदेव कुम्भस्य नष्टत्वाभावान्नशा182त्प्राक्पूर्वीत्तरकालयोरविशेषो घटे स्यादित्याह—अस्ति चेदिति॥७१॥

इष्टो नाशस्य नाशश्वेदस्तु जीव शतं समाः।
घटोऽनाशीति मत्पक्षः स च नैवं विहन्यते॥७२

सति घटे नाशस्य प्रवृत्तत्वेऽपि घटगतं सत्त्वं स्वविरुद्धं दृष्ट्वा पुनर्नष्टः स्यादित्याशङ्क्याङ्गी करोति—इष्ट इति। नाशस्य नाशाङ्गीकारे घटस्याविनाशित्वप183क्षक्षतिर्नास्तीति हेतुमाह—घट इति॥७२॥

न नाशो हन्ति नष्टारं गन्तारमिव तद्गतिः ।
यस्मिन्सत्येव यः सिध्येन्निरुणद्धिं184 स तं कथम् ॥७३

किंच नाशो न स्वाश्रयं घटं निवर्तयति। तत्क्रियात्वान्न हि गमि क्रिया स्वाश्रयं गन्तारं निवर्तयन्ती दृष्टेत्याह—न नाश इति। नाशस्य स्वाश्रयनिवर्तकत्वाभावं साधयति—यस्मिन्निति॥७३॥

लक्षणार्थमिदं वाक्यं यस्मात्पूर्वमुदाहृतम्।
विशेषणाश्रयान्नातः शून्यताऽत्र प्रसज्यते॥७४

सत्यादिवाक्यस्य विशेषणार्थत्वमुपेत्य शून्यार्थत्वं क्षणिकार्थत्वं च नास्तीत्युक्तम्। अधुना स्वरूपलक्षणार्थमिदं वाक्यमित्युक्तत्वान्न शून्या-

र्थत्वं185 क्षणिकार्थत्वं वा वाक्य186स्याऽऽशङ्कितव्यमित्याह—लक्षणार्थमिति। अत्रेति वाक्यार्थोक्तिः शून्यताग्रहणं क्षणिक187तोपलक्षणार्थम्॥७४॥

विशेषणत्वेऽप्येतेषां लक्षणार्थत्वमात्मनि।
लक्ष्येऽसति न तादथ्यं सत्यादीनां प्रसज्यते॥७५॥

सत्यमाकाशं ज्ञानं गुणोऽनन्ता पृथिवीत्यत्र सत्यादिपदस्य विशेषणार्थत्वदर्शनादत्रापि तथा स्यादित्याशङ्क्याऽऽह्न–विशेषणत्वेऽपीति। प्रत्यग्ब्रह्मणि विशेषणविशेष्यत्वस्याबुभुत्सितत्वात्तत्र सत्यादिपदं बुभुत्सितस्वरूपलक्षणार्थमेवेत्यर्थः। वाक्यस्य लक्षणार्थत्वेऽपि शून्यमेव लक्ष्यं किं न स्यादित्याशङ्क्याऽऽह—लक्ष्येऽसतीति॥७५॥

अतो लक्षणवाचित्वान्न शून्यार्थमिदं वचः।
विशेष्यत्वेऽपि नैवं स्वात्स्वार्थासंत्यागकारणात्॥७६

वाक्यस्य लक्षणार्थत्वादसतश्चासत्त्वादेव लक्ष्यत्वायोगान्नास्ति वाक्यस्य शून्यार्थत्वाशङ्केत्युपसंहरति–अत इति। सत्यादिभिर्ब्रह्मणो लक्ष्यत्वमङ्गीकृत्य वाक्यस्य नास्ति शून्यार्थ188तेत्युक्तम्। इदानीं ब्रह्मणः सत्यादिभिर्विशेष्यत्वेऽपि नास्ति वाक्यस्य शून्यार्थत्वं सत्यादिपदानां स्वार्थापरित्यागेन विशेष्यार्थनियामकत्वादित्याह—विशेष्यत्वेऽपीति॥७६॥

स्वार्थेऽसति न सत्यादेर्विशेष्यार्थेनियन्तृता।
नियम्यार्थनियन्तृत्वं स्वार्थे सत्युपपद्यते॥७७

सत्यादिपदस्य स्वार्थनिष्ठस्यैव विशेष्यार्थ189नियामकत्वमित्येतदन्ययव्यतिरेकाभ्यां साधयति– स्वार्थेऽसतीति॥७७॥

स्वेनार्थेनार्थवांश्वात्र ब्रह्मशब्दः सहेतरैः।
तत्रानन्तोऽन्तवद्वस्तुव्यावृत्त्यैव विशेषणम्॥७८॥

स्वार्थार्पणप्रनाड्यैव190 परिशिष्टौ191 विशेषणम्।
तद्विरोध्यर्थसंत्यागः सामर्थ्यात्स्यान्न शब्दतः॥७९

किंच परमार्थत्वादिसमर्पकैः सत्यादिशब्दैः सह ब्रह्मशब्दोऽस्मिन्वाक्ये बृहद्वस्तुवाचित्वेनार्थवना192लक्ष्यते ततश्च कुतो वाक्यस्य शून्या-

र्थतेत्याह—स्वेनेति। सत्या193दीनि पदानि त्रीणि ब्रह्मणो विशेषणसमर्पकाणीत्यत्रावान्तरविशेषमाह—तत्रेति। सत्यत्वं ज्ञानत्वं पूर्णत्वमिति वदसत्यादिव्यावृत्तिरपिशब्दार्थः स्यादित्याशङ्क्य पूर्वोक्तं स्मारयति तद्विरोधीति॥७८॥७९॥

गुहायां निहितं यस्मादेतस्मादात्मनस्तथा।
ब्रह्मात्मशब्दयोस्तस्मादैकार्थ्यमवसीयते॥८०

ननु पूर्णत्वेन194 ब्रह्मणो यदानन्त्यमुच्यते तदयुक्तं ब्रह्मात्मशब्दयोरर्थमेदादात्मना ब्रह्मणः परिच्छेदसिद्धेरिति तत्राऽऽह—गुहायामिति। यो वेद निहितं गुहायामिति वक्ष्यमाणत्वाद्ब्रह्मणो बुद्धिसाक्षित्वेनाऽऽत्मत्वागमात्तस्माद्वा एतस्मादात्मन इति चाऽऽत्मशब्दस्य ब्रह्मणि प्रयोगाब्रह्मात्मशब्दयोरै195कार्थ्याध्यवसायान्नाऽऽत्मना परिच्छेदो ब्रह्मणः संभवतीत्यर्थः॥८०॥

विज्ञानात्मातिरेकेण ज्ञाप्यते ब्रह्म चेत्परम्।
नियोगगम्यः196 सम्भेदो वद केन निवार्यते॥८१

य आत्मनि तिष्ठन्नित्यादिश्रुत्या विज्ञानात्मनो197 भेदेन परस्य ब्रह्मणो ज्ञापनान्न ब्रह्मात्मशब्दयोरेकार्थत्वसिद्धिरित्याशङ्क्य नियोगतो नियमे। शास्त्रगम्यो भेदो यदीटस्तर्हि तस्य निवारणानुपपत्तेर्भेदस्य भ्रान्ति सिद्धस्यानुवादाद्वैक्यमेव शास्त्रार्थः स्यादित्याह— विज्ञानात्मेति॥८१॥

न चेदात्मा परं व्रह्म स्वतः स्यादस्य दुःखिन।
नियोगो वाऽनियोगो वा कं विशेषं करिष्यति॥८२

शास्त्रगम्योऽपि जीवब्रह्मभेदस्तत्त्वमसीति चेतो धारयदिति नियोगा- वष्टम्भात्तथाविधभावनाप्रभावाद्वा निवर्त्यो भविष्यतीत्याशङ्क्याऽऽह न चेदिति। यद्यात्मनो ब्रह्मत्वं न स्वाभाविकं तदा न तन्नियोगभाव नाभ्यां कर्तुं शक्यं न हि वह्नेः शैत्यमन्येन क्रियते नापि जीवब्रह्मभेदो नियोगादिना निवर्तयितुं शक्यते शास्त्रगम्यत्वाभ्युपगमादित्यर्थः॥८२॥

पश्यतः प्रत्यगात्मानमपविद्धान्यवस्तुनः।
अहं ब्रह्मेति चेज्ज्ञानं शास्त्रादन्यत्परं कथम्॥८३

जीवब्रह्मभेदस्य शास्त्रगम्यत्वमङ्गीकृत्योक्तं198 तदेव199नास्तीत्याह—पश्यत इति। नेति नेत्यस्थूलमनण्वित्यादिवाक्यादपाकृताना200त्मवर्गस्य प्रत्यगात्मभूतमात्मानं परिशुद्धं पश्यतस्तत्त्वमस्ययमात्मा ब्रह्मेति शास्त्रात्तापर्योपेतादहं ब्रह्मेत्यात्मनि विज्ञानं जायते चेत्परं ब्रह्मात्मनोऽन्यन्नभवेदात्मा201वा ब्रह्मणोऽन्यो न स्याद्य आत्मनीत्यादिवाक्यस्यान्यपरत्वात्प्रधनवाक्यविरोधे प्रामाण्यायोगादित्यर्थः॥८३॥.

आत्मनोऽन्यस्य चेद्धर्मा अस्थूलत्वादयो मताः।
अनात्मत्वेऽस्य किं तैः स्यादात्मत्वे त्वन्यधी हनुतिः॥८४

नन्वस्थूल202त्वादिधर्मकं ब्रह्म स्थूलादिधर्मकस्त्वत्मा तयोर्मिथो विरोधादैक्यासिद्धिरिति तत्राऽऽह—आत्मन इति। त्वमर्थादा203त्मनः सकाशादन्यस्य ब्रह्मणो यद्यस्थूलत्वादयो धर्माः स्वी क्रियन्ते तदा तषामस्थूल त्वादीनामात्मविशेषणत्वराहित्येसत्यस्याऽऽत्मनस्त्वंपदार्थस्य तैरस्थूलत्वादिभिर्न किंचिद्भवति यदि पुनरस्थूलत्वादीनामात्मविशेषणत्वंतदाऽऽत्मब्रह्मणोरन्यधर्भेदबुद्धिस्तस्या निवृत्तिः सेत्स्यत्यात्मब्रह्मणोर्लक्षणाभदादतो विरुद्धधमत्वाभावान्न भेदाशङ्केत्यर्थः॥८४॥

यत्साक्षादित्युपक्रम्य य आत्मेत्युपसंहृतेः।
अन्योन्यार्थसमाप्तेश्च व्यतिरेके त्वसंभवात्॥८५

यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तर इत्यत्र ब्रह्मणोपक्रम्याऽऽत्मनोपसंहारदर्शनादपि ब्रह्मात्मनोरैक्यमुपपन्नमित्याह—यत्साक्षादिति। ब्रह्मशब्दार्थस्य ब्रह्मणो ब्रह्मशब्दपर्यालोचनायामात्मनि समाप्तेरात्मशब्दपर्यालोचनायां चाऽऽत्मशब्दार्थस्याऽऽत्मनो ब्रह्मणि समाप्तेश्च तयोरैक्यं भेदे समाप्तिश्रुत्योरसंभवान्न हि तयोर्मिथो भेदे ब्रह्मशब्दा204र्थस्याऽऽत्मन्यात्मशब्दार्थस्य च ब्रह्मणि समाप्तिर्युक्तेत्याह—अन्योन्य इति॥८५॥

आत्मैव चेत्परं205 ब्रह्म भवताऽभ्युपगम्यते।
आत्मनो ज्ञानकर्तृत्वाज्ज्ञानं स्यात्कर्तृसाधनम्॥८६॥

अनन्तं ब्रह्मेत्युक्ते तदानन्त्यसमर्थनार्थं ब्रह्मात्मनोरैक्यमुक्तमुपेत्य चोदयति–आत्मैवेति। ऐक्यपक्षे ज्ञानं ब्रह्मेत्यत्र जानातीतिज्ञानमिति। ज्ञानपदं कर्तृसाधनमात्मनस्त206त्कर्तृत्वादतो ज्ञानकर्ताऽऽत्मा ब्रह्मेत्युक्तं भवतीत्यर्थः॥८६॥

पारतन्त्र्यमनित्यत्वं धात्वर्थत्वे प्रसज्यते।
तर्कशास्त्रप्रसिद्धेश्च कर्तृतैवाऽऽत्मनो भवेत्॥८७॥

ज्ञानपदस्य कर्तृसाधनत्वं भावसाधनत्वे दोषप्रदर्शनद्वारा प्रकटयति पारतन्त्र्यमिति। ज्ञानक्रिया ज्ञानशब्देनोक्ता चेज्ज्ञानस्य परतन्त्रत्वादनित्यत्वाद्ब्रह्मणोऽपि ज्ञानं ब्रह्मेति सामानााधिकरण्यात्तदभेदादनित्यत्वादि प्रसङ्गात्कर्तृसाधनं ज्ञानपदमित्यर्थः। तर्कशास्त्रावष्ट- म्भाच्चकर्तृत्वमात्मनः स्वीकर्तव्यमित्याह—तर्केति॥८७॥

उच्चैर्बाहुं समुद्धृत्य इत्याहुश्चोद्यचुञ्चवः।
यथोदितमिदं सर्वं नैतदेवं भवेत्कुतः॥८८॥

ज्ञानकर्ताऽऽत्मैव ब्रह्म नान्यद्ब्रह्मास्तीति पूर्वपक्षमुपसंहरति—उच्चैरिति। ज्ञानस्य कार्यत्वमङ्गीकृत्य कर्तृत्वमात्मनः शङ्कितं शिथिलयतियथोदितमिति। ज्ञानस्य कार्यत्वासंभवे कथं कार्यत्वप्रतीतिरिति पृच्छति–कुत इति॥८८॥

स्वरूपाव्यतिरेकेऽपि कार्यत्वमुपचारतः।
बुद्ध्युपाश्रयकार्याणि कल्प्यन्तेऽत्राविवेकतः॥८९॥

संवेदनापरपर्यायस्य ज्ञानस्याऽऽत्मस्वरूपाभेदेऽपि कार्यत्वमौपचारिकमित्युत्तरमाह–स्वरूपेति। कार्यत्वस्यौपचारिकत्वं स्फोरयति–बुद्धीति। अत्र हि संवेदने बुद्धिवृत्त्यविवेकात्तद्गतान्येव जन्मविनाशादीनि कार्याणि कल्प्यन्ते207 वस्तुतस्तु न तत्र जन्मादयो विकाराः सन्ति तेन कूटस्थे संवेदने कार्यत्वमारोपितमित्यर्थः॥८९॥

स्वरूपमात्मनो ज्ञानं न तस्माद्व्यतिरिच्यते।
बुद्धेः प्रत्ययकारित्वं तत्साक्षिण्युपचर्यते॥९०

यत्वात्मनो ज्ञानं प्रति कर्तृत्वमुक्तं तद्दूषयति—स्वरूपमिति। वृत्तिमदन्तःकरणोपाधिकमात्मनि कर्तृत्वमारोपितमित्यर्थः॥९०॥

आत्मचैतन्यसंव्याप्ता वृत्तीर्धीः कुरुते यतः।
चैतन्यालिङ्गिताः सर्वास्तप्तायोविस्फुलिङ्गवत्॥९१

कूटस्थमात्मसंवेदनं बुद्धिवृत्त्युपाधिकं कार्यत्वमास्कन्दती208त्युक्तं विवृणोति—आत्मेति। यथा तप्तस्यायसो विस्फुलिङ्गा यह्न्यकारा दृश्यन्ते तथा परिणामिनी बुद्धिरात्मचैतन्येन व्याप्ता सती नानाविधा वृत्तीश्चै तन्यामासव्याप्ता यतो निर्वर्तयत्यतो209 बुद्धिवृत्त्युपाधिचैतन्यं210 कार्यत्वेन मातीत्यर्थः ॥९९॥

चैतन्यखचितान्द्दष्ट्वा प्रत्ययान्बुद्धिकर्तृकान्।
ज्ञानं क्रियत इत्यज्ञाः कूटस्थमपि मन्वते॥९२

यत्तु वृत्तिमदन्तःकरणोपाधिकमात्मचैतन्यं कर्तृत्वेन भातीति तदुप पादयति—चैतन्येति॥९२॥

आविर्भावतिरोभावौ बुद्धेर्यत्साक्षिकौ नृणाम्।
ततोऽन्यं कं समाश्रित्य साक्षिकर्तृत्वमुच्यते॥९३॥

बुद्धेः प्रत्ययकारित्वं तत्साक्षिण्युपचर्यत इत्युक्तमधुना प्रपञ्चयति—आविर्भावेति॥९३॥

बुद्धि211भावानवच्छिन्नं ताद्दग्रूपं यथा पुरा।
बुद्ध्युत्पत्तावपि तथाऽविक्रियं ह्यनुभूयताम्॥९४॥

आत्मनः संविदात्मकस्य कर्तृत्वकार्यत्वयोरारोपितत्वे कूटस्थत्वं फलतीत्याह–बुद्धीति। यथाहि पूर्वं बुद्ध्युपाध्युत्पत्तेस्तद्भावे212नानवच्छिन्नमेकरूपमेव बुद्ध्यभावसाधकमवतिष्ठते तथा बुद्ध्युत्पत्तावपि तद्भावसा धकमेकरूपमेव चैतन्यमास्थेयं बुद्धिभावाभावयोरपि साधके साक्षिचैतन्ये विशेषस्य दर्शयितुमशक्यत्वादतश्च कूटस्थमेव213 चैतन्यमनुभवबलादास्थेयं तस्य सर्वक्रिया214साधकत्वादित्यर्थः॥९४॥

कर्तृकार्यावभासित्वात्कर्तृकार्याभिधायिनः।
लक्षयन्ति परं ब्रह्म नाञ्चसा तत्प्रचक्षते॥९५॥

वाच्यत्वाद्घटादिवदेव सक्रियं ब्रह्म215न कूटस्थमित्याशङ्क्याऽऽह—कर्त्रिति। कर्तृकर्मादीनां कारकाणां साक्षित्वेन ब्रह्मणो भासकत्वात्कर्त्रादिवाचिनः सत्यादिशब्दा ब्रह्म परं लक्षयन्ति। न तु साक्षाद्वक्तुमुत्सहन्ते शब्दप्रवृत्तिनिमित्तानां जात्यादीनां ब्रह्मण्यसत्वादतो वाच्यत्वं216 ब्रह्मण्यसिद्धमित्यर्थः॥९५॥

यत्तु तद्ब्रह्मणो ज्ञानं सर्वानन्यदविक्रियम्।
ब्रह्मणोऽव्यतिरिक्तं तत्सर्वप्रत्यक्समाप्तितः॥९६॥

ज्ञानशब्दस्य ब्रह्मणि लक्षणया प्रवृत्तिं प्रकटयति—यत्त्विति। ब्रह्मणोयत्तज्ज्ञानं चैतन्यं न च षष्ठीप्रयोगाद्ब्रह्मणस्तद्भिद्यते तद्धि ब्रह्मणः सकाशादव्यतिरिक्तं ज्ञानव्यतिरेके जडत्वाद्ब्रह्मणोऽब्रह्मत्वप्रसङ्गात्तच्च ब्रह्मात्मकं ज्ञानं सर्वानन्यदद्वितीयं ब्रह्मणः सर्वानन्यत्वादतश्चाविक्रियं विक्रियाहेत्वभावाच्च सर्वत्र प्रत्यक्त्वेन वर्तते तत्र तत्राऽऽत्मत्वेन समाप्तत्वादतोज्ञानपदं ब्रह्मणि लक्षणयैव वर्तते तत्र जात्यादेरसंभवादित्यर्थः॥९६॥

प्रत्याख्यायाताखिलानात्मभेदसत्यार्थवाचिना।
तथैव सत्यशब्देन लक्ष्यते तन्न217 तुच्यते॥९७॥

सत्यपदस्यापि ब्रह्मणिलक्षणयैव प्रवृत्तिं प्रत्याययति—प्रत्याख्यातेति। निरस्तः समस्तोऽनात्म218विशेषोऽनृतवर्गो यस्मिन्परमार्थार्थे तस्यवाचकेन सत्यशब्देनापि ज्ञानशब्देनेव ब्रह्म लक्ष्यते न तु तत्तेन वक्तुं शक्यते निमित्ताभावस्य तुल्यत्वादित्यर्थः॥९७॥

एवं सत्यादयः शब्दाः स्वार्थासंत्यागिनः परम्।
लक्षयन्ति विरुद्धार्थनिर्वृत्त्या219ऽज्ञानहानतः॥९८॥

सत्यज्ञानशब्दवदानन्दादयोऽपि शब्दलक्षणयैव ब्रह्म बोधयन्तीत्याह-एवमिति। सर्वे खल्वेते शब्दाः स्वार्थस्य परमार्थत्वं ज्ञानत्वमानन्दत्वं पूर्णत्वमित्यस्य स्वार्थस्यापरित्यागिनो भूत्वा विरुद्धार्थप्रतीतिहेत्वज्ञान-

निरासद्वारा विरुद्धस्यार्थस्यानृतजडदुःख220परिच्छेद221निवृत्तिवर्त्मना परं ब्रह्म लक्षयन्ति न तु साक्षादेव ब्रह्म वक्तुं क्षमन्ते प्रागुक्तन्यायविरो धादित्यर्थः॥९८॥

निवर्त्यभेदार्द्धिन्नोनोऽर्थो222ऽसत्याद्यर्थनिवर्तिनाम्।
सत्यादीनामतः सिद्धमवाक्यार्थत्वमात्मनः॥९९॥

सत्यादिशब्दाः स्वार्थासंत्यागिनश्चेत्स्वार्थानां सत्यादीनां भेदाद्गवानयनादिवाक्यवदस्मिन्नपि सत्यादिवाक्ये वाक्यार्थः संसर्गः223 संसृष्टो वा स्वादित्याशङ्कयाऽऽहनिवर्त्येति। सत्यादिशब्दानामसत्याद्यर्थनि वर्तकत्वेनोक्तानां निवर्त्यभेदादेव यद्यपि भिन्नोऽर्थो224ऽभ्युपगम्यते तथाऽपि विरुद्धार्थं225 परिहारायालक्ष्ये ब्रह्मणि तेषां पर्यवसानादात्मनो ब्रह्मणः सत्यादिवाक्यार्थस्य संसर्गसंसृष्टाभ्यामन्यत्वेनैकरस्यं वाक्पादेव सिध्यतीत्यर्थः॥९९॥

यतो वाचो निवर्तन्ते नेति नेतीति चापरम्।
एवं सत्यर्थवत्सर्वमन्यथा तदनर्थकम्॥१००॥

यत्प्रत्यग्ब्रह्मणः शब्दाविषयत्वं जातिमत्त्वादिविशेषशून्यत्वादुक्तं226 तथैव तस्मिन्नभ्युपगते सत्यविषयत्वस्य निर्विशेषत्वस्य च प्रतिपादकं227 वाक्य जातमुपपन्नार्थं ब्रह्मणोऽधिषयत्वे विशेषवस्वे चानुपपन्नार्थमप्रमाणमेव तदापद्येतेत्यात्मनो विषयत्वाद्यभावे प्रमाणमाह—यत इति॥१००॥

कौटस्थ्यं सत्यमित्युक्तं तद्गुणं ज्ञानमुच्यते।
स्वतो बोधस्य कौटस्थ्ये ज्ञातुरानन्त्यमेकता॥१॥

सत्यादिशब्दानां ब्रह्मणि लक्षणया बोधकत्वमुपपाद्य पदार्थम्रयमुक्तमुपसंहरति—कौटस्थ्यमिति। तदेव सत्यं गुणो यस्य228 ज्ञानस्य तज्ज्ञानं तद्गुणं सत्यस्वं ज्ञानस्य स्वरूपमित्याह—तद्गुणमिति। सत्यत्वेनोक्तस्य

ज्ञानस्य स्वारस्येन कौटस्थ्ये स्थिते त्रिविधमानन्त्यं तस्य सिद्ध्यतीत्याह–स्वत इति। यथोक्तं ज्ञानं ज्ञातुः साक्षिणो ब्रह्मणः स्वरूपं तस्याऽऽनन्त्यं कीद्दगित्यपेक्षायामुक्तम्—एकतेति॥१॥

ज्ञातृभेदात्तु तद्ब्रह्म ह्यनीप्सिततमं परम्।
ज्ञातुरन्यस्य चाभावाद्यो वेदेत्युच्यते कथम्॥२॥

सत्यं ज्ञानमनन्तं ब्रह्मेतिवाक्यमे

वं व्याख्याय समनन्तरवाक्यगतं यो वेदेति भागमाक्षिपति—ज्ञातृभेदादिति। तद्धि प्रकृतं ब्रह्म229 ज्ञानात्मत्वेन. वर्तते ज्ञानकर्तुः230 सकाशादभिन्नत्वाभ्युपगमान्न च तस्य ज्ञानकर्तृत्वमबिक्रियत्वान्न च ब्रह्मातिरेकेण ज्ञाताऽभ्युपगम्यते न चैकत्र कर्मकर्तृभावः संभवत्यतो यो वेदेत्यनुपपन्नमित्यर्थः॥२॥

सत्यादिलक्ष्याज्ञानोत्थाऽसत्याद्यर्थनिषेधधीः।
वर्त्मनैवाऽऽप्तमाप्नोति केवलज्ञानहानतः॥३॥

सत्यादिशब्देन यद्ब्रह्म लक्ष्यते तदज्ञानोत्थं यदसत्यादि तन्निषेधिका याऽहं ब्रह्मास्मीत्यविषयाकारा धीरुत्पद्यते तथा प्राप्तमेव ब्रह्माप्राप्तिहेत्वज्ञाननिवृत्त्यां प्राप्नोतीत्युपचारा231दुच्यतेऽत्र232कर्मकर्तृत्वस्याविवक्षितत्वान्नैवमिति परिहरति—सत्यादीति॥३॥

एवं ज्ञातं विजानाति विमुक्तश्व विमुच्यते।
निवर्तते निवृत्तं च त्रिर्वः शपथयाम्यहम्॥४॥

नन्वज्ञातं ब्रह्म ज्ञायते बद्धं च मुच्यते निवर्तते च निवृत्तमेवाज्ञानं तथैवाप्राप्तमेव ब्रह्म प्राप्तुं युक्तं तत्राऽऽह—एवमिति। प्राप्तप्राप्तिवदिति233 यावत्। ब्रह्मैव सन्ब्रह्माप्येति प्रज्ञानं ब्रह्म विमुक्तश्च234 विमुच्यते। एकमेवाद्वितीयमित्यादिशास्त्रमत्र प्रमाणमित्यभिप्रेत्याऽऽह—त्रिरिति॥४॥

तस्मादासन्नकर्तृत्वतिमिरोऽयमविद्यया।
सत्यादिलक्षणं ब्रह्म प्रत्यक्स्थमपि नेक्षते॥५॥

आज्ञादानेर्नित्यनिवृत्तत्वे किमिति सर्वदा ब्रह्मणि न प्रतिपत्तिरित्याशङ्कयाऽऽह—तस्मादिति। निवृत्तस्यैवाज्ञानादेरनिवृत्तवद्भानादितियावत्॥५॥

अतोऽविद्यानिषेधेन सदा विस्फु235रितेक्षणः।
पिबञ्ज्ञत्रादि नानात्वं प्रत्यगात्मानमीक्षते॥६॥

आसन्नत्वमारोपितत्वमविद्याध्यस्तकर्तृत्वादिकृतं प्रत्यग्ब्रह्मणोऽस्फुरणमिति स्थिते फलितमाह—अत इति॥६॥

भूतमात्रोपसंश्लेषसमुत्थं यत आत्मनः।
कर्तृभोक्तृत्वविज्ञानं बुद्धौ तन्निहितं ततः॥७॥

एवं यो वेदेतिवाक्यभागे संभवत्यपि निहितशब्दो न संभवति कुण्डे यदवदनाधारत्वाद्ब्रह्मणो बुद्धौ निहितत्वासिद्धेरित्याशङ्कयाऽऽह—भुत मात्रेति। भौतिकमन्तःकरणं भूतमात्राशब्देनात्र गृह्यते। अविद्या ध्यस्तबुद्धिसंबन्धकृतकर्तृ236त्वादिधर्मवत्त्वादात्मनो बुद्धौ निहितत्वोक्तिरित्यर्थः॥७॥

तमोरजोविनिर्मुक्तंतद्वृत्त्या चोपलभ्यते।
ब्रह्मातो निहितं बुद्धौ मनसैवेति च श्रुतिः॥८॥

सात्त्विकबुद्धिवृत्याऽहं237 ब्रह्मास्मीति वाक्योत्थया ब्रह्मणो दर्शनाद्वह्मबुद्धिस्थमुक्तमितिपक्षान्तरं प्रमाणमाह—तम इति॥८॥

निगूढमस्यां तद्ब्रह्म कामाविद्याद्युपप्लवात्।
प्रत्यग्धियोऽनुपश्यन्ति तस्माद्बुद्धिर्गुहोच्यते॥९॥

निहितशब्दार्थमित्थमुक्त्वा बुद्धेर्गुहात्वं साधयति—निगूढमिति॥९॥

परमं व्योम हार्दं स्याद्वाह्यात्तत्परमं यतः।
श्रुतेर्योऽयं बहिर्धेति तच्च बुद्धेः समाश्रयम्॥१०॥

परमे व्योमन्नित्यस्यार्थमाह—परममिति। हृदयावच्छिन्नं238 यूताकाशं परमं व्योमेत्यत्र प्रमाणमाह श्रुतेरिति। उक्ते हृदयाकाशे239 या गुहा बुद्धिस्तस्यां ब्रह्म नित्यं संनिहितमिति सप्तम्यर्थं सूचयति—तश्चेति॥१०॥

गुहायां परमे व्योमन्वस्तुवृत्तमपेक्ष्य वा।
सत्यादिलक्षणान्नान्यद्धियः प्रत्यक्प्रतीयते॥११

परमे व्योमन्नित्यस्यार्थान्तरमाह—गुहायामिति। अन्तःकरणे कार्यापेक्षया प्रकृष्टं व्योमाव्याकृताकाशमज्ञातं ब्रह्म तत्र कार्यकारणविनिर्मुक्तं शुद्धं ब्रह्म व्यवस्थितमिति वास्तवं वृत्तमपेक्ष्य वाचोयुक्तिरित्यर्थः। वस्तुवृत्तमपेक्ष्योक्तमेव व्यवक्ति—सत्यादीति। अन्तःकरणात्कार्यभूतात्प्रत्य240गान्तरं यदज्ञातं ब्रह्मकारणं तत्र सत्य्ययज्ञानानन्तानन्दात्मका241त्परिशुद्धात्कार्यकारणविरुद्धाद्ब्रह्मणोऽन्यन्न प्रामाणिकमस्ती242त्यतो बुद्धिगुहायां परमं व्योमाज्ञातं ब्रह्म तत्स्वरूपत्वेन स्थितं तत्र कार्यकारणविलक्षणं ब्रह्म निहितमित्यर्थः॥११॥

सत्याद्यर्थविरुद्धेभ्यः सम्यग्व्यावृत्तधीर्यतिः।
धियः प्रत्यक्प्रविश्याथ सत्यात्मानं प्रपश्यति॥१२॥

बुद्धिकारणे ब्रह्मण्यज्ञाते कार्यकारणविनिर्मुक्तस्य ब्रह्मणोऽवस्थान—कथनप्रयोजनमाह—सत्यादीति। अनृतजडपरिच्छिन्नदुःखेभ्यः संशयविपर्यासव्यतिरेकेण व्यावृत्तबुद्धिरुत्तमो ज्ञानाधिकारी धियोऽन्तःकरणात्प्रतीचि कारणे ब्रह्मणि प्रविश्य कार्यमात्रस्य तदुपाधिका243भावस्यच तदतिरेकेणाभावमालोच्याज्ञातस्य ब्रह्मणोऽपि कारणस्य कार्यकारणविलक्षणब्रह्मव्यतिरेकेणाभावं ज्ञात्वा सत्यज्ञानानन्तानन्दात्मकं ब्रह्मैव बुद्धिसाक्षिणस्तत्वमिति निश्चिनोतीत्यर्थः॥१२॥

तस्मादुपायसिद्ध्यर्थं बुद्धेः प्रत्यक्प्रवेशनम्।
गुहायां परमे व्योमञ्श्रुतिरस्मानतोऽन्वशात्॥१३

यस्मादेवं बुद्धिकारणे निहितं ब्रह्मेत्युक्ते बुद्धिसाक्षिणो ब्रह्मत्वे सिध्यति तस्माद्बुद्धेः प्रतीचि कारणे कार्यकारणविलक्षण244ब्रह्मप्रवेशनं निहितं गुहायामित्याद्या श्रुतिरहं ब्रह्मास्मीतिप्रतिपत्त्युपायत्वेनानुशास्त्यतो यो वेदेत्याद्या श्रुतिरुपपन्नार्थेत्याह—तस्मादिति॥१३॥

ज्ञातुज्ञेयं परं ब्रह्म भेदबुद्ध्यपनुत्तये।
गुहायां परमे व्योमञ्ज्ञेयं ज्ञातरि शिष्यते॥१४॥

संप्रति प्रथमव्याख्यानमेवानुसृत्य वाक्याथ कथयति—ज्ञातुरिति। आत्मनो बुद्धिसाक्षिणो ज्ञेयं परं ब्रह्मेत्युक्ते तयोर्भेदबुद्धिरुपजायते तन्निवृत्त्यर्थं बुद्धौ बाह्या245काशापेक्षया प्रकृष्टं यदाकाशं तत्र निहितं ब्रह्मेत्युच्यते तथा च ज्ञेयं ब्रह्म साक्षिणि तावन्मात्रमवशिष्यते सोऽपि साक्षी ब्रह्ममात्रमिति न तयोर्भेद246शङ्काऽस्तीत्यर्थः॥१४॥

साध्यसाधनसंबन्धवर्त्मनैवानुधावतः।
साध्यसाधननिर्मुक्तं स्वात्मन्याविशते परम्॥१५

ज्ञातृज्ञेययोर्जीवब्रह्मणोरभेदे जीवस्य संसारित्वाद्ब्रह्मणोऽपि संसारित्वप्रसङ्गात्तत्प्राप्ति- रसमीहिता स्यादित्याशङ्कयाऽऽह—साध्येति। यागादिना स्वर्गादि साध्यमितिसाध्यसाधनसंगतिद्वारेण प्रवृत्तस्य संसारिणस्तदुमयविलक्षणं परं ब्रह्म स्वरूपत्वेन यदा प्राप्तं247 भवति तदा संसारिणोऽपि संसारित्वं निवर्तते तत्कथं तद्दारा ब्रह्मणः संसारित्वं शङ्कितुं शक्त्यमित्यर्थः॥१५॥

सोऽश्नुते निखिलान्कामान्कर्तृत्वे तदसंभवम्।
आशङ्क्य बह्मणेत्याह युगपत्स्यात्सहेति च॥१६

ब्रह्मात्मैकत्वविदशेषं पुरुषार्थमाप्नोतीत्यस्मिन्नर्थे सोऽश्नुते सर्वान्कामानितिवाक्यैकदेशं व्याचष्टे—सोऽश्नुत इति। कर्तृत्व सर्वपुरुषाथसिद्धिर्न संभवतीत्याशङ्क्य तस्याविद्याध्यारोपितत्वाद्ब्रह्मरूपेण विदुषः सर्वपुरुषार्थसिद्धिर248विरुद्धेत्युत्तरवाक्यावष्टम्भेन दर्शयति—कर्तृत्व इति। सहशब्दार्थमाह—युगपदिति॥१६॥

प्रतीचि न स्यात्तद्ब्रह्म भेदार्था चेत्सहार्थता।
संभाव्यते पराग्भूतं249 नापि सत्यादिमत्परम्॥१७

सहशब्दस्य यथाश्रुतार्थत्वं किं न स्यादित्याशङ्क्याऽऽह—प्रतीचीति सहशब्दस्य मुख्यार्थत्वे सत्यात्मब्रह्मणोर्भेदाद्भेदार्थता सहशब्दस्य

स्यादेवं सहशब्दश्रुतिर्भेदार्था ततश्च सहशब्दस्य भेदेनार्थेनार्थवत्तेति चेदुच्यते तदात्मनि स्वरूपभूतं250ब्रह्म न सिध्यति तथा च तत्त्वमस्यादिवाक्यविरोधाद्युगपदर्थतायाः सहशब्दस्य युक्तत्वादेकस्मिन्नेव क्षणे सर्वान्पुरुषार्थान्ब्रह्मरूपेण ब्रह्मविदनुभवतीत्यर्थः। आत्मनः सकाशाद्रह्मणो भेदे दोषान्तरमाह—संभाव्यत इति॥१७॥

नापि नोत्सहते वक्तुं निपातत्वात्सहार्थताम्।
तस्माद्युगपदर्थस्य वाचकं स्यात्सहेति यत्॥१८

सहशब्दस्य युगपदर्थे सामर्थ्याभावान्न तदर्थत्वमित्याशङ्क्याऽऽह–नापीति। सहशब्दः सहार्थतां वदन्युगपदर्थं वक्तुं नैव शक्नोतीति न निपातानामनेकार्थत्वादस्य च निपातत्वादित्यर्थः। फलितमुपसंहरति–तस्मादिति॥१८॥

ज्ञानादसत्याद्युच्छित्तेरात्मनोऽन्यन्न विद्यते।
तस्माद्विपश्चिद्ब्रह्मभ्यां कामान्सर्वान्सहाश्नुते॥१९

सहशब्दस्य युगपदर्थत्वेऽपि यौगपद्यस्य भेदसापेक्षत्वाद्भेदप्रसक्तिरित्याशङ्कयाऽऽह–ज्ञानादिति। अहं ब्रह्मास्मीति ज्ञानादज्ञाननिवृत्त्या तत्कार्यासत्यपरिच्छेदादिनिवृत्तेः साक्षात्कृ251तब्रह्मा252 ब्रह्मविदात्मरूपेण ब्रह्मरूपेण च सर्वानानन्दान्यौगपद्येनानुभवति। अविद्यावस्थायामुपाध्यवच्छेदाद्विभक्तवदभिव्यक्तेर्बहूक्तिरित्यर्थः॥१९॥

ज्ञातुर्हार्दगु253हान्तस्थं प्रतीचोऽन्यन्न लभ्यते।254
सत्यादिमदतो ब्रह्म प्रत्यगात्मैव तद्विदः॥२०

विपश्चिद्ब्रह्मभ्यामित्युक्तत्वाद्विद्वद्ब्रह्मणोर्भेदः स्यादित्याशङ्कयाऽऽह—ज्ञातुरिति। यो वेद निहितं गुहायामिति ब्रह्मणो बुद्धिस्थत्वाभिधानादात्मनश्च तथात्वात्तयोर्भेदगन्धोऽपि नास्तीत्यर्थः॥२०॥

विपश्चिद्व्यतिरेकेण ज्ञेयत्वाद्यपनुत्तये।
सामानाधिकरण्येन ब्रह्मणा255 ह विपश्चिता॥२१

विद्वद्ब्र256ह्मणोर्भेदाभावे हेत्वन्तरमाह—विपश्चिदिति। ज्ञेयत्वादित्यादिशब्देन प्राप्यत्वं ब्रह्मणो गृह्यते॥२१॥

एकयाऽक्रमवर्तिन्या व्याप्नोति क्रमवर्तिनः।
अवगत्याखिलान्कामान्योऽकाम इति च श्रुतिः॥२२

सर्वान्कामान्समश्नुत इत्यस्यार्थमनूद्य तत्रैवार्थे श्रुत्यन्तरसंवादं दर्शयति—एकयेति। विदुषो विषयसुखप्राप्तौ सक्रियत्वमाशङ्क्यावगतिं विशिनष्टि। अक्रमवर्तिन्येति॥२२॥

आदावन्ते तथा मध्ये धियोऽनेकशरीरगाः।
निर्विशेषैकचिद्व्याप्ता ह्यनन्यानुभवात्मना॥२३

अवगतेरुक्तं कूटस्थत्वं साधयति—आदाविति॥२३॥

सर्वप्रवृत्तिहेतूंश्चयस्माद्ब्रह्मविदश्नुते।
कामान्ब्रह्मविदस्तस्मान्न प्रवृत्तिरहेतुतः॥२४

ब्रह्मविदोऽपि प्रवृत्तिमिच्छतां यथोक्तश्रुतिविरोधः स्यादित्यार्थिकं वाक्यतात्पर्यमा— सर्वप्रवृत्तीति। विदुषा सुखानां कामशब्दितानामात्पत्वात्तस्य कामाभावात्तन्निबन्धना प्रवृत्तिर्न सिध्यतीत्यर्थः॥२४॥

अविद्याहेतवः कामाः काममूलाः प्रवृत्तयः।
धर्माधर्मौ च तन्मूलौ देहोऽनर्थाश्रयस्ततः॥२५॥

अतोऽविद्यानिरोधे स्यान्निरोधो विदुषः सदा।
निःशेषकर्महेतूनां विकाराणां तदैव तु॥२६॥

ब्रह्मविदो257विद्ययाऽविद्यानिवृत्त्या कामादिनिवृत्तिरयत्नतः सिध्यतीत्येतदुपपादयति। अविद्येत्यादिना॥२५॥२६॥

कृत्स्नोपनिषदर्थस्य सूत्रमित्यभ्यधात्पुरा।
संक्षेपतस्तदर्थश्च सम्यङ्मन्त्रेण वर्णितः॥२७॥

तस्माद्वा एतस्मादित्यादेरुत्तरस्य संदर्भस्य संबन्धं वक्तुं वृत्तं कीर्तयति। कृत्स्नेति। ब्रह्मविदाप्नोति परमितिवाक्यं वल्लीद्वयार्थस्य ब्रह्मणस्तज्ज्ञानस्य तत्फलस्य च सूत्रमिति भाष्यकृदुक्तवान्। तच्चसूत्रितमर्थत्रयं सत्यमित्यादिना मन्त्रेण संशयविपर्ययापोहेन संक्षेपतो व्याख्यातमित्यर्थः॥२७॥

अनेन त्वाद्यसूत्रेण यावानर्थोऽत्र सूत्रितः258
आसमाप्तेरियं वृत्तिस्तस्मादित्युच्यतेऽधुना॥२८॥

ब्रह्मविदाप्नोति परमितिसूत्रेण योऽर्थः सूत्रितो यश्च मन्त्रेण संक्षेपतो व्याख्यातस्तस्यार्थस्य प्रपञ्चनार्थं तस्मादित्यादिसमाप्तिपर्यन्तं ग्रन्थजातमिति संबन्धं दर्शयति—अनेनेति॥२८॥

सत्यं ज्ञानमनन्तं च रसादेः पञ्चकात्परम्।
स्यामद्दश्यादिशास्त्रोक्तमहं ब्रह्मेति निर्भयम्॥२९॥

समुदायतात्पर्यमुक्त्वा मन्त्रोक्तमनुवदति। सत्यमिति॥२९॥

ननु सत्यमनन्तं च कथं सम्यक्प्रतीयते।
देशकालादिहेतुत्वात्तदिदानीं विभाव्यते॥३०॥

कोशपञ्चकविलक्षणं सत्यज्ञानानन्तानन्दात्मकं निर्विशेषं निर्भयं ब्रह्मात्मेत्यात्मब्रह्मणोरैक्ये मन्त्रेणोक्ते चोदयति। नन्विति। सर्वपदार्थानां त्रिधा परिच्छिन्नत्वद्ब्र259ह्मणोऽपि वस्तुत्वेन विभक्तत्वाद्रज्जुसर्पवदेव सत्यत्वायोगादसत्यत्वादेव जडत्वादुक्तो मन्त्रार्थो न सिध्यतीत्यर्थः। सर्वजगत्कारणत्वाद्ब्रह्मणस्त्रिविधमानन्त्यं सिध्यत्यतश्च सत्यत्वं ज्ञानत्वं घ तस्मिन्नुपपद्यते तच्चानन्त्यं सर्वकारणत्वकृतमनन्तरमेव प्रकटीकर्तव्यमिति परिहरति—देशेति॥३०॥

वस्तुतो देशतश्चैव कालतश्च त्रिधोच्यते।
आनन्त्यं ब्रह्मणश्वातः सत्याद्यपि च सिध्यति॥३१॥

तदिदानीं विभाव्यत इत्युक्तं प्रपञ्चयति—वस्तुत इति। अतः शब्दादुपरिष्टाच्च शब्दः संबध्यते परिच्छिन्नस्यैवासत्यत्वजडत्वदर्शनान्नापरिच्छिन्ने तत्प्राप्तिरित्यर्थः॥३१॥

अनन्तं देशतो व्योम देशवत्प्रकृतित्वतः।
कारणेनैकदेशं हि कार्यं नान्यत्र वर्तते॥३२॥

आकाशवदेव ब्रह्मणोऽनन्तत्वं न निरङ्कुशमित्याशङ्क्य बैषम्यमाह—अनन्तमिति। देशवतां पृथिव्यादीनामुपादानत्वेऽपि कथमाकाशस्य

देशतोऽनन्तत्वमित्याशङ्क्य कार्याणां सर्वेषामाकाशेऽन्तर्भावादित्याह—कारणेनेति॥३२॥

कार्यत्वात्कालतो नास्य वस्तुतश्च विहाय सः।
वस्त्वन्तरस्य सद्भावादानन्त्यं वस्तुतोऽपि न॥३३॥

तर्हि तथैव कालतो वस्तुतश्च तस्याऽऽनन्त्यं नेत्याह—कार्यत्वादिति। वस्तुतश्चाऽऽकाशस्य नाऽऽनन्त्यमित्युक्तं स्पष्टयति—वस्त्वन्तरस्येति। आकाशव्यतिरिक्तस्य ब्रह्मणः सद्भावादित्यर्थः॥३३॥

कालाकाशादियोनित्वात्सर्वात्मत्वात्तथाऽऽत्मनः।
वस्त्वन्तरस्य चासत्त्वान्मुख्यानन्त्यं परात्मनः॥३४॥

ब्रह्मण्याकाशाद्वैषम्यं दर्शयन्नाह—कालेति॥३४॥

कल्पितेन परिच्छेदो न ह्यकल्पितवस्तुनः।
कल्पितश्चेह कालादिर्वाचारम्भणशास्त्रतः॥३५॥

कार्येण कालादिना परिच्छिन्नस्य ब्रह्मणो न युक्तं मुख्यमानन्त्यमित्याशङ्क्य कल्पितत्वात्कालादेर्नैवमित्याह—कल्पितेनेति। कल्पितत्वमेव कालादेरसिद्धं मानाभावादित्याशङ्क्याऽऽहकल्पितश्चेति। विकारस्य वाचारम्भणत्वेन मिथ्यात्वाद्विकारत्वाच्च कालादेरपि मिथ्या त्वसिद्धिरित्यर्थः॥३५॥

तस्मात्सत्यादि याथात्म्यं तस्मादित्येवमादिना।
वक्ष्यते ब्रह्मणः सम्यक्सृष्टिव्याजेन यत्नतः॥३६॥

तस्मादित्यादिना सृष्टिप्रतिपादनात्कार्यकारणप्रपञ्चस्य सत्यत्वसि260द्धिरित्याशङ्क्य सृष्टिकथनव्याजेन ब्रह्मयाथात्म्यं सत्यत्वादिलक्षणं श्रुत्या प्रतिपाद्यते न तु सृष्टिरित्याह तस्मादिति। ब्रह्मणस्त्रिविधमानन्त्यं कार्यकारणयोश्च कल्पितत्वमित्यस्यार्थस्य विवक्षितत्वादिति यावत्॥३६॥

तस्मादित्यादि वाक्योक्तं वैशब्दः स्मरणाय तु।
एतस्मादितिमन्त्रोक्तं सत्यादिगुणलक्षितम्॥३७॥

तस्मादित्यादिवाक्यस्यैवं तात्पर्यमुक्त्वा पदत्रयार्थं कथयति—तस्मादितीति॥३७॥

तद्विद्विपश्चित्सामर्थ्यात्तदेतद्भ्यांप्रतीयते।
आत्मश्रुतेर्न मुख्योऽर्थः261 प्रतीचोऽन्यत्र लभ्यते॥३८॥

प्रकृतस्य ब्रह्मणस्तच्छब्दपरामृष्टस्य प्रत्यक्त्वेन262 संनिहितत्वादेतच्छब्दे नोपादाने कारणमाह—तद्विदिति। ब्रह्मविदाप्नोति परमिति ब्रह्मज्ञानमात्राद्ब्रह्मप्राप्तिश्रवणाद्ब्रह्मणा विपश्चितेति च ब्रह्मविदो विपश्चितो ब्रह्मणा सामानाधिकरण्यश्रवणाद्ब्रह्मात्मनोरेक्यावगमात्पूर्वोक्त- सामानाधिकरण्य—सामर्थ्यात्तस्मादित्यत्रोक्ताभ्यां तदेतच्छब्दाभ्यां समानाधिकरणाभ्यां ब्रह्मात्मनोरभेदरूपं प्रत्यक्त्वं ब्रह्मणो भाति तेन तस्मिन्नेतच्छब्दप्रयोगोपपत्तिरित्यर्थः। किंचास्मिन्वाक्ये ब्रह्मण्यात्मशब्दप्रयोगो दृश्यते स चाऽमत्वे सत्येव ब्रह्मणो युज्यते प्रतीचोऽन्यत्राऽऽत्मशब्दप्रयोगायोगादतो युक्तं ब्रह्मात्मनोरैक्यमित्याह—आत्मश्रुतेरिति॥३८॥

मत्तः सर्वमिदं जातं मय्येवान्ते प्रलीयते।

अहमेको बिभर्मीदमित्येवं च प्रसिध्यति॥३९॥

किंच ब्रह्मणः सर्ववेदान्तेषु जगत्कारणत्वश्रवणादात्मनश्चाऽऽत्मा वा इदमेक एवाग्र आसीदित्यादाविवात्र तदभिधानात्कारणद्वयस्यायुक्तत्वाज्जगत्कारण263त्वलिङ्गाद्ब्रह्मात्मनोरैक्यं सिध्यतीत्याह—मत्त इति॥३९॥

सर्वानन्याविकार्येकमकार्याकारणं परम्।
ब्रह्मस्वभावमालम्ब्य सृष्टिर्वक्तुं न शक्यते॥४०॥

आकाशः संभूत इत्यादिश्रुत्युक्तत्वावाादाकाशादिसृष्टिर्वास्तवीत्याशङ्क्याऽऽह—सर्वेति॥४०॥

ब्रह्मणोऽन्यदतः सर्वं कार्यत्वेन विवक्ष्यते।
ब्रह्मणोऽकारणत्वाच्च सृष्टौ हेतोरसंभवः॥४१॥

न ब्रह्मस्वभावमनुसृत्य सृष्टिरुच्यते264 किंतुकारणानुरोधेनेत्याशङ्क्य कारणं ब्रह्मणोऽन्यदनन्यद्वेति विकल्प्य प्रथमं प्रत्याह—ब्रह्मणोऽन्यदिति। अतः शब्देन ब्रह्मातिरिक्तस्य सर्वस्य कार्यत्वे ब्रह्मान्यत्वमेव हेतू-

क्रियते तथाच मूलकारणत्वासिद्धिरितिशेषः। तर्हि ब्रह्मैव कारणमितिद्वितीयं265 पक्षमाशङ्क्याऽऽह—ब्रह्मण इति। अकारणत्वं कूटस्थत्वम्॥४१॥

ब्रह्मस्वभावो हेतुश्चेत्सृष्टेस्तत्संनिधेः सदा।
सर्वदा ब्रह्मवत्सर्गो न च देशाद्यसंभवात्॥४२

कूटस्थस्यापि कारणत्वमयस्कान्तवदित्याशङ्क्य ब्रह्मसत्तासंनिधिसातत्याद्ब्र266ह्मवदेव जगतः सर्गेऽपि सातत्येन स्यादिति दूषयति—ब्रह्मेति। न चास्तु सर्वदा सृष्टिरिति वाच्यं सर्वं हि जायमानं देशे काले च जायते न च तथा देशकालादि संभवति देशस्य देशान्तराभावात्कालस्य च कालान्तराभावान्न चावस्थान्तरमवस्थायाः सिध्यत्यनवस्थानादृतो न सर्वदा सृष्टिरित्याह—न चेति॥४२॥

नाभूत्सृष्टिरभूतत्वादभूतं कालहेतुतः।
न भविष्यत्यभाव्यत्वादभाव्यं चाक्रियोत्थितेः॥४३

किंच भूतकालपरिच्छेद्या वा भविष्यत्कालपरिच्छेद्या वा वर्तमान कालपरिच्छेद्या वा सृष्टिरेष्टव्या नाऽऽद्या267 स्रष्टृत्वेनेष्टस्य ब्रह्मणोऽसङ्गत्वेन भूतकालसंबन्धाभावादित्याह—नाभूदिति। अभूतत्वे ब्रह्मणो हेत्वन्तरमाह—अभूतमिति। कालकारणत्वादभूतं कालपरिच्छेद्यं ब्रह्म कारणत्वेन कालान्वयस्य मायात्मकत्वाब्रह्मणो घटादिवन्न कालव्याप्यतेत्यर्थः—द्वितीयं दूषयति–न भविष्यतीति। ब्रह्मणो भविष्यत्कालापरिच्छेद्यत्वादिति हेतुमाह–अभाव्यत्वादिति। तस्याभाव्यत्वे हेत्वन्तरमाह–अमान्य चेति। अक्रियोत्थितिरकार्यत्वम्॥४३॥

नेदानीमद्वितीयत्वात्कौटस्थ्यादात्मनः सदा।
भविष्यत्यस्त्यभून्नातो वस्तुवृत्तमपेक्ष्य तु॥४४॥

तृतीयं प्रत्याह–नेदानीमिति॥४४॥

भविष्यत्यस्त्यभूच्चेति यतो वन्ध्यं विशेषणम्।
उष्ट्रादिवदणोस्तस्मादविद्यैवात्र कारणम्॥४५॥

इदं च हेतुद्वयं पूर्वत्रापि तुल्यं कालत्रयविशेष्यत्वं यतः सृष्टेरश्लिष्टमती मायात्मिकैव सृष्टिरितिफलितमाह–भविष्यतीति। यथा

करमो रासभो वा परमाणुरितिपरमाणोर्विशेषणं निरर्थकं तथा कालत्रयमपि सृष्टिविशेषणं न सिध्यत्यतः सृष्टावविधैव कारणमित्युक्तं स्पष्टयति—उष्ट्रादिवदिति॥४५॥

असतः कारणं नास्ति सतोऽनतिशयत्वतः।
कौटस्थ्याज्जन्मनाशानामनवस्था जनेर्जनौ॥४६॥

किंच सदसद्वा जायते न तावदसदुत्पद्यते तस्यासत्त्वादेव कारणा268संबन्धेनं जन्मायोगान्नापि सज्जायते269 तस्य पूर्वमेव सत्त्वाज्जन्मातिशयाभावादतःसृष्टिरपारमार्थिकीत्याह—असत इति जन्मादिभावविकाराणां जन्माद्यभावात्तेषां कूटस्थत्वाच्च सृष्टिरपारमार्थिकीत्याह—कौटस्थ्यादिति। जन्मनाशग्रहणमितरेषामपि भावविकाराणामुपलक्षणार्थं जन्मादेर्जन्माद्यङ्गीकारे दोषमाह—अनवस्थेति। यथा जन्मनो जन्माभ्युपगमेऽनवस्था तथा नाशस्य नाशेऽपक्षयस्यापक्षये परिणामस्य पीरणामे विवृद्धेर्विवृद्धावस्तित्वस्यास्तित्वे चानवस्थासाम्याज्जन्मादेर्जन्माद्ययोगात्कूटस्थत्वमास्थेयं न च तथेष्यते ततः सृष्ट्यादि कल्पितमेवेत्यर्थः॥४६॥

कालत्रयस्याविद्यायाः समुत्थानादहेतुता।
कर्मदेवेश्वरादीनामत एवानिमित्तता॥४७॥

कालो जगतो हेतुरिति केचित्तत्राऽऽह—कालत्रयस्येति। धर्माधर्मादिकारणमित्यपरे तान्प्रत्याह—कर्मेति। अत एव270तेषामविद्यायाः समुत्थानादेवेति यावत्॥४७॥

जनिस्थित्यप्यया ह्येते जगतः स्युः प्रतिक्षणम् \।
धिया जनयते कर्ता कर्मभिश्चेति हि श्रुतिः॥४८॥

कालादेरकारणत्वे ब्रह्मणश्च कूटस्थत्वे मायामयी सृष्टिर्विद्याकर्मवशात्प्रतिक्षणं जगतो भवतीति श्रुत्यन्तरावष्टम्भेन दर्शयति—जनीति॥४८॥

अनादिमध्यनिधनाविद्यासंदूषितात्मनः।
ब्रह्मणो जायते व्योम तिमिरादिव चन्द्रमाः॥४९॥

सृष्टिश्वेन्मायामयी तर्हि कथमात्मन आकाशः संभूत इति प्रत्यग्ब्रह्मणः सकाशादाकाशादि271सृष्टिरुपदिश्यते तत्राऽऽह—अनादीति॥४९॥

नालं क्षणमपि स्थातुं कार्यं तद्ध्रुवता कुतः।
रज्ज्वेव भोग्यविद्योत्थं मू272मूढदृष्टेर्धुवायते॥५०॥

आकाशादेर्ब्रह्मणो जायमानत्वेऽपि प्रध्वंसवदनाशित्वं किं न स्यात्तत्राऽऽह—नालमिति। तर्हिकथमाकाशादेर्ध्रुव273त्वबुद्धिस्तत्राऽऽह—रज्ज्वेवेति॥५०॥

तिमिरोपप्लुतो यद्वद्भिन्नामिव समीक्षते।
चन्द्रिकामात्मनस्तद्वत्कार्यं भिन्नं समीक्षते॥५१॥

ब्रह्मकार्यत्वे जगतो ब्रह्मभेदप्रतिभानासंभवाद्घटस्य मृदो274 भेदानुपलम्भात्प्रकृते च भेदप्रतीतेर्न ब्रह्मकार्यं जगदित्याशङ्क्याऽऽह—तिमिरेति॥५१॥

यद्यद्भूतं यथासंख्यं तत्तत्तावद्गुणं स्मृतम्।
पूर्वैर्व्याप्तानि कार्यत्वादुत्तराणि यथाक्रमम्॥५२॥

आकाशो जायमानः स्वगुणेन शब्देन सह जायते वाय्वादीनि तु स्वकीयै275र्गुणैः स्पर्शनादिभिराकाशादिपूर्वपूर्वगुणैश्च शब्दादिभिः सह संभवन्तीति भाष्योक्तमनुवदति—यद्यदिति। भाष्यार्थं समर्थयते—पूर्वैरिति। पूर्वपूर्वाकाशादिभूतव्याप्तत्वेनोत्तरोत्तरवाय्वादिभूतोत्पत्तेस्तत्तदाकाशादिभूतगुणवत्त्वमुत्तरोत्तरवाय्वादि भूतस्योचितमित्यर्थः॥५२॥

आकाशादेश्चकार्यत्वान्न वाय्वादि प्रजायते।
वियद्रूपान्मरुज्जन्म तस्मादात्मन एव तत्॥५३॥

आकाशाद्वायुरित्यादावाकाशादेर्वाय्वादिकारणत्वं श्रूयते तन्न यथाश्रुतं ग्राह्यमनन्वयादनवस्थानाच्च कार्यस्योपादानत्वासंभवादित्याह—आकाशादेश्चेति। आकाशाद्वायुरित्याद्या श्रुतिस्तार्ह कथमित्याशङ्क्य तत्तद्रूपापन्नं ब्रह्मैवानादि तत्तदुपादानमितिश्रुतेरुपपत्तिमाह—वियद्रूपादिति॥५३॥

पञ्चैव खलु भूतानि व्योमादीन्युपलक्षयेत्।276
कार्यकारणरूपेण भूतेभ्यो नान्यदिष्यते॥५४॥

दशैव भूतमात्रेति क्वचिदुक्तत्वात्किमिति पञ्चानामेव भूतानामिहोत्पत्तिरुक्तेत्याशङ्क्य पञ्चीकृतापञ्चीकृताभिप्रायेण दशसंख्याव्यपदेशात्प—

ञ्चैव वस्तुतो भूतानीति तेषामेवात्रोत्पत्तिरुक्तेत्याह—पञ्चैवेति। भूतानां पञ्चत्वेऽपि तदतिरिक्तमस्ति कार्यं कार्यभेदस्यासंख्यत्वादित्याशङ्क्य कार्यकारणरूपेण वर्तमानभूतपञ्चकातिरेकेण नान्यदस्ति कार्यमित्याह–कार्येति॥५४॥

वाय्वादिषु तु यः शब्दः स्वस्थं तमविचक्षणाः।
वाय्वादीनामिवेक्षन्ते स्रुग्गुणानिव भोगिनः॥५५

आकाशस्य सहजः शब्दो वायोः सहजस्पर्शस्तत्राऽऽकाशसंबन्धेन शब्दो दृश्यते तेजसः सहजं रूपं तस्मिन्नाकाशवायुसंबन्धेन शब्दस्पर्शौ दृश्येते। अपां सहजो रसस्तास्वाकाशादिभूतत्रयसंबन्धेन शब्दस्पर्शरूपाण्युपलभ्यन्ते। पृथिव्याः277 सहजो गन्धस्तस्यां पूर्वभूतचतुष्टयसंपर्कद्वारेण शब्दस्पर्शरूपरसा गृह्यन्ते न स्वतं इत्ययुक्तं278 गृह्यमाणगुणानां तत्र तत्र स्वाभाविकत्वसंभवादित्याशङ्क्याऽऽह—वाय्वादिष्विति। शब्दग्रहणं स्पर्शादीनामुपलक्षणार्थमेकैकत्रैकैकगुणस्य स्वतोभावाद्गुणान्तरस्य भूतान्तरसंपर्कप्रयुक्तत्वान्न स्वाभाविकत्वसिद्धिरित्यर्थः॥५५॥

चतुर्गुणात्मिका पृथ्वी न चतुर्ष्वपि सा यथा।
ब्रह्मात्मकं जगत्सर्वं ब्रह्मैवं न जगन्मयम्॥५६

ब्रह्मणो भूतकारणत्वे भूतमयत्वेन सविशेषत्वप्रसक्तिरित्याशङ्क्याऽऽह–चतुर्गुणेति। गुणशब्देन भूतान्युच्यन्ते। आकाशादिभूतचतुष्टयकार्यत्वात्पृथिव्या भूतचतुष्टयात्मकत्वेऽपि न भूतचतुष्टयस्य पृथिव्यात्मकत्वं पृथिवीकार्यत्वाभावात्तथाभूतभौतिकं जगद्ब्रह्मकार्यत्वादशेषमपि ब्रह्मात्मकं तद्व्यतिरेकेण नास्ति न हि शुक्त्यादिव्यतिरेकेण रजतादि संभवति ब्रह्म तु न जगदात्मकमतत्कार्यत्वान्न हि शुक्त्यादिरजताद्यात्मकमतो ब्रह्मणो निर्विशेषत्वमविरुद्धमित्यर्थः॥५६॥

सत्यं ज्ञानमनन्तं यत्प्रत्यज्ञायिपुरैकलम्।
अनन्यानुभवं ब्रह्म तत्सिद्धं न्यायतः स्फुटम्॥५७

ब्रह्मणः सर्वकारणत्वेन सर्वस्य जगतो ब्रह्म279व्यतिरेकेणासत्त्वस्याऽऽरम्मणाधिकरणन्यायेन सिद्धत्वात्प्रतिज्ञातं सत्यत्वादिसिद्धमित्युपसंहरति–सत्यमिति॥५७॥

दिगादिकारणो280 देवः पञ्चभूतशरीरभृत्।
सर्वोऽस्मीत्यभिमानेद्धो विराडेवमजायत॥५८॥

पृथिव्या ओषधय इत्योषधीनां पञ्चीकृतपृथिवीकार्यत्वश्रवणा- त्पञ्चीकृत281पञ्चमहाभूतोत्पत्तेरिहोक्तत्वेऽपि पृथगेव विराडात्मोत्पत्तिर्वक्तव्येत्याशङ्क्य पञ्चीकृतमहाभूतशरीरत्वाद्विराजस्तदुत्पत्त्यैवोत्पत्तिः सिद्धेत्याह—दिगादीति॥५८॥

अस्मात्पूर्वं भवेत्सूत्रं तस्मिन्सति विराड्यतः।
श्रुत्यन्तरानुरोधाच्च विज्ञानमिति लिङ्गतः॥५९॥

तर्हि विराजः सूत्रकार्यत्वात्कारणस्य सूत्रस्योत्पत्तिरुच्यतां तत्राऽऽह–अस्मादिति। सूत्रमत्र विवक्षितमित्यत्रैव हेत्वन्तरमाह–श्रुत्यन्तरेति। कस्मिन्नु282 खलु ब्रह्मलोका ओताश्च प्रोताश्चेतिश्रुत्यन्तरे विराडाधारत्वेन सूत्रस्य विवक्षितत्वादिह सूत्राधारविराट्प्रतीतेः सूत्रमत्र विवक्षितं प्रतिमातीत्यर्थः। विज्ञानं यज्ञं तनुत इति विज्ञानपदस्य सूत्रवाचकत्वाच्चात्र सूत्रमभिप्रेतमित्याह—विज्ञानमितीति॥५९॥

व्युत्थाप्यान्नमयादिभ्यो ह्यन्नं प्राणमितीरणात्।
उपासनोपदेशाच्च सूत्रमत्र विवक्षितम्॥६०॥

भृगुवल्ल्यामन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमितिप्राणादिशब्दैः सूत्रस्याभिधानाच्च सूत्रमन्त्राभीष्टमित्याह—व्युत्थाप्येति। विज्ञानं देवाः सर्वे ब्रह्मज्येष्ठमुपासत इत्यत्र विज्ञानपदेनोक्तस्योपासनोपदेशाच्च सूत्रं पञ्चीकृतभूतोत्पत्तेः पूर्वं विवक्षितमेवेत्याह–उपासनेति। न हि धात्वर्थस्यात्रोपासनमुच्यते ब्रह्मज्येष्ठमितिविशेषणविरोधात्कर्तुरात्मनश्च कर्मत्वायोगात्कारणब्रह्मणश्च विज्ञानपदेनाग्रहणादतो विज्ञानशब्देन सूत्रमेव गृहीतमित्यर्थः॥६०॥

कार्योत्पादात्पुरा सूत्रं मृद्वत्सदविभागवत्।283
कारणं कार्यमुत्पाद्य कार्यतामिव गच्छति॥६१॥

पूर्वमेव विराडुत्पत्तेः सूत्रोत्पत्तिरभीष्टा चेत्तत्र पूर्वमेव किमिति कार्यव्यवहारो न बभूवेत्याशङ्क्याऽऽह—कार्येति। विराडुत्पत्तेः पूर्वं कार्य-

मपि सूत्रं स्वकारणेन सता परमात्मना सह विभागाभावादतिसूक्ष्मत्वात्कार्यव्यवहारक्षमं न भवति तदेव पुनर्विराडात्मकं कार्यमुत्पाद्य मृदिव घटादिकार्यं कार्यतां284 कार्यव्यवहारं गच्छति तद्यवहारक्षमं भवत्येव285 विराडात्मद्वारा स्थूलतालाभादित्यर्थः॥६१॥

कार्येऽसति तु तत्सूत्रं प्रज्ञानघनरूपभृत्।
अवच्छिन्नं स्वकार्येण समष्टिव्यष्टितां व्रजेत्॥६२

विराडुत्पत्तौ सूत्रे सामान्यविशेषव्यवहारोऽपि सिध्यतीत्याह—कार्येऽसतीति। विराडाख्यं कार्यं चेदसिद्धं तदा तत्सूत्रं क्रियाविज्ञानशक्तिरूपेण स्थितं नोभयविध286व्यवहाराय287 पर्याप्तं यदा तु विराडुत्पत्त्यातदवच्छिन्नं288 सूत्रमवतिष्ठते तदा तदुभय289विधव्यवहारभाग्भवतीत्यर्थः॥६२ ॥

वृष्ट्यादिसव्यपेक्षाया भुवः पञ्चगुणात्मिकाः।
व्रीहिप्रभृतयः सर्वा भवन्त्योषधयः क्रमात्॥६३

आकाशादिसृष्टिश्रुतेस्तात्पर्यार्थो दर्शितः। संप्रति पृथिव्या ओषधय इत्यस्यार्थमाह—वृष्ट्यादीति। भुवो वृष्ट्यादिसव्यपेक्षत्वं पञ्चीकृतत्वम्॥६३॥

अदनार्हं तथाऽन्नं290 च ताभ्यः समभिजायते।
जग्धादन्नाद्रसोत्पत्तिः शोणितं जायते रसात्॥६४॥

जायते रुधिरान्मांसं मेदसश्च ततो भवः।
मेदसोऽस्थीनि जायन्ते मज्जाऽप्यस्थिसमुद्भवा॥
ततः शुकस्य निष्पत्तिर्बीजं मात्रसृजा सह॥६५

औषधीभ्योऽन्नमित्यस्यार्थमाह—अदनार्हमिति। अन्नात्पुरुष इत्युक्तं न हि केवलादन्नात्पुरुषोत्पत्तिर्दृश्यते तत्र रेतोरूपेण291 परिणतादन्नात्पुरुषोत्पत्तिरिति वक्तुं रेतो जन्मक्रममनुक्रामति—जग्धादिति॥६४॥६५॥

निजाविद्यामहाजालसंवीतधिषणः पुमान्।
मोहोत्थानलकामाख्यबडिशापहृता292शयः॥६६॥

उक्तेन क्रमेणोत्पन्नं रेतो मातुः शोणितेन सहितं पुरुषोत्पत्तौ बीज293मित्युक्त्वा294 तस्मात्पुरुषोत्पत्तिक्रमं दर्शयति–निजाविद्येत्यादिना। आत्मन्य295नादिर296निर्वाच्याविद्या निजाविद्येत्युच्यते। मोहशब्देनाविवेको गृह्यते ततो जातस्य कामस्यानलत्वं कदाचिदप्यलंप्रत्ययविकलत्वम्॥६६॥

तमसा कामशार्ङ्गेण संकल्पाकर्षणेन सः।
रागाख्यविषलेपेन ताडितो विषयेषुणा॥६७॥

ग्रहाविष्ट इवानीशश्वोदितो जन्यकर्मणा।
योषिदग्निं पतत्याशु ज्योतिर्लोभात्पतङ्गवत्॥६८॥

तमस्तृतीयो गुणः कामरागयोर्विप्रकृष्टसंनिकृष्टविषयत्वेन भेदो रागाख्यं विषं तेन लेपो यस्मिन्निति बहुव्रीहिणा विषयेषुर्विशेष्य297ते॥६७॥६८॥

आकृष्य देहात्तच्छुकं यथाकर्म यथाश्रुतम्।
रेतोवहप्रनाड्याऽथ योनौ पुंसा निषिच्यते॥६९॥

परवशस्य योषिदनुषङ्गे पश्चात्तनं कृत्यं दर्शयति–आकृष्येति। तच्छुक्रमितिप्रागुक्तप्रकारेण निष्पन्नमित्यर्थः। तयोर्जन्यजनकयोर्वास्त्रीपुंसयोर्वा यथाकर्म यथाश्रुतं तथा रेतः सर्वेभ्योऽङ्गेभ्यः समाकृष्य रेतोवहया प्रजनने298न्द्रियरूपया नाड्या पुरुषेणानन्तरमेव योनौ निषिक्तं भवतीत्यर्थः॥६९॥

तस्य योनौ निषिक्तस्य निमित्तवशवर्तिनः।
जायते कललाऽवस्था ततो बुद्बुदरूपिणी॥७०॥

निमित्तवशवर्तित्वं पूर्वोक्तज्ञानकर्मानुसारित्वम्॥७०॥

बुद्बुदाज्जायते पेशी पेशीतो जायते धनम्।
घनादङ्गाभिनिष्पत्तिः केशरोमाणि चाङ्गतः॥७१॥

पेशीतो मांसाद्धनं कठिनं कार्यं ततोऽङ्गं शरीररूपं निर्वर्तते॥ ७११॥

पूर्वजन्मनि यान्यासन्भूतानि करणानि च।
तान्येवेहापि देहाय तद्यथेति श्रुतेर्बलात्॥७२॥

अनेन क्रमेण जायमानस्य शरीरस्य पूर्वोपात्तदेहारम्भकभूतपञ्चकमेवोपादानं299 करणानि च तत्रत्यान्येवात्राभिव्यज्यन्ते। तद्यथा पेशस्कारीत्यादिश्रुतेरित्ये300तमर्थमाह—पूर्वजन्मनीति॥७२॥

सर्वात्मनोऽप्यवच्छेदो विराजः सूत्रजन्मनः।
इयानस्मीति संमोहात्कामकर्मसमन्वयात्॥७३॥

यदुक्तक्रमेणान्नादुत्पन्नं शरीरं तत्र यः स्थूलो भागः स सूत्रकार्थस्य विराजोऽनवच्छिन्नस्यापि संमोहात्कामकर्मवशादियानेव तावन्मात्रोऽस्मीत्यवच्छेदो भवतीत्याह—सर्वात्मन इति॥७३॥

लिङ्गात्मकतया तद्वत्समष्टिव्यष्टिरूपिणः।
तदवच्छेदहेतोः स्यादव्यक्तस्य सुषुप्तता॥७४॥

तथैव तस्मिन्नेव शरीरे यः सूक्ष्मो मागः सप्तदश301लिङ्गात्मकत्वेन वर्तते स समष्टिव्यष्ट्यात्मकसूत्रस्यावच्छेदः302 स्यादित्याह—लिङ्गेति। तस्यावच्छेदद्वयस्य303 हेतुरव्यक्तं तस्य सौषुप्तं रूपमत्र शरीरे304ऽवच्छेदो गृह्यतामित्याह—तदवच्छेदेति॥७४॥

परात्मनो305ऽप्यनन्तस्य क्षेत्रज्ञत्वमविद्यया।
क्षेत्रज्ञं चापि मां विद्धीत्येवं सत्युपपद्यते॥७५॥

यश्चात्र शरीरे क्षेत्रज्ञाख्यश्चैतन्याभासो गृह्यते स परस्य कार्यकारणविलक्षणस्यावच्छेदो ज्ञायतामित्याह—परात्मनो306ऽपीति। परमात्मैवात्र शरीरे क्षेत्रज्ञो नाऽन्योऽस्तीत्यत्र भगवद्वाक्यमनुकूलयति—क्षेत्रज्ञं चेति॥७५॥

न जानामीत्यविद्यैकाऽनित्या तत्कारणं मता।
स्व307प्रसिद्ध्यैव सा सिध्येन्निशौलूकीव वासरे॥७६

पूर्वोक्ताना308मवच्छेदानां किं कारणमित्याशङ्क्य क्षेत्रज्ञत्वमविद्ययेत्युक्तामविद्यां विवृण्वन्नाह—नेत्यादिना। क्षेत्रज्ञत्व हेतुरविद्यैव पूर्वोक्तानामवच्छेदानां कारणमित्यर्थः। प्रमाणनिवर्त्यत्वादविद्याया न प्रमाणतः सिद्धिरित्याशङ्क्य स्वप्रसिद्धि309रात्मचैतन्यं तद्बलादेवा310विद्या सिध्यतीत्याह—स्वप्रसिद्ध्यैवेति। स्वानुभवादविद्यासिद्धिं द्दष्टान्तेन साधयति–निशेति। उलूकस्येयमौलूकी निशा यथा दिवसे311ऽन्धकारबुद्ध्या रात्रिरुलूकस्य स्वानुभवाद्भात्येवं चिदेकताने वस्तुन्यविद्या स्वानुभवादेव सिध्यतीत्यर्थः॥७६॥

प्रमाणोत्पन्नया दृष्ट्या योऽविद्यां द्रष्टुमिच्छति।
दीपेनासौ ध्रुवं पश्येद्गुहाकुक्षिगतं तमः॥७७॥

यस्तु स्वानुभवमवधीर्य312 प्रमाणसिद्धामविद्यामाद्रियते तं प्रत्याह—प्रमाणेति॥७७॥

अनात्मेतीह यद्भाति तदविद्याविजृम्भितम्।
तस्मादविद्या साऽप्युक्ता313 विद्या त्वात्मैकरूपिणी॥७८॥

अविद्याया मानसिद्धत्वाभावेऽपि मानसिद्धत्वादनात्मनो नाविद्याकार्यतेत्याशङ्क्य दृश्यत्वादिना तस्याप्यविद्यान्तर्भावमभिप्रेत्याऽऽह—अनात्मेतीति। का तर्हि विद्येत्याशङ्क्य विद्या चैतन्यं तदात्मैवेत्याह–विद्याविति॥७८॥

आत्माग्रहातिरेकेण तस्या रूपं न विद्यते।
अमित्र314वदविद्येति सत्येवं घटते सदा॥७९॥

केचित्तु ज्ञानप्रागभावमविद्यामाचक्षते तान्प्रत्याह—आत्मेति। आत्मनोऽग्रहो नामाऽऽवरणमाच्छादनं न तदतिरेकेणाविद्यया रूपमस्ति न खल्वभावस्याऽऽच्छादकत्वं संभवत्यतो वस्त्वाच्छादकत्वमविद्यायाः315 स्वरूपमित्यर्थः। अविद्येति। नञस्तार्हे कोऽर्थः स्यादित्याशङ्क्य यथाऽ-

मित्राधर्मादौ तदन्यत्वं तद्विरुद्धत्वं316 वा नञोऽर्थस्तथा विद्यातोऽन्यत्वं विद्याविरुद्धत्वं317 वा नञोऽर्थो न तदभावत्वमित्याह—अमित्र318वदिति॥७९॥

तस्मात्सदसदित्यादिर्विकल्पो मूढचेतसाम्।
निरूप्यमाणो निर्वाति न वेद्मीत्यग्रहात्मनि॥८०॥

एवमभावविलक्षणत्वमविद्याया दर्शयित्वा यदनात्मबर्गस्याविद्याविजृम्भितत्वमुक्तं तदुपसंहरति—तस्मादिति। सदसदाद्यात्मकमनात्मजातं निरूप्यमाणमविद्यायामेव यस्मात्पर्यवस्यति तस्मादविद्याविलसितं तवेष्टव्यमित्यर्थः॥८०॥

तया संवीतचित्तोऽयं त्यक्त्वा देहं पुरातनम्।
लिङ्गात्मा319 प्राविशेद्योनिं कर्मादिमरुतेरितः॥८१॥

आत्माविद्याया वस्त्वाच्छादकत्वेऽपि प्रकृते शरीरजन्मनि किं सिद्धमित्याशङ्कयाऽऽह—तयेति। चित्तशब्देन विवेकज्ञानं गृह्यते लिङ्गात्मा लिङ्गोपहितो जीवः॥८१॥

अन्नमम्भस्तथा तेजो भुक्तं प्रत्येकशस्त्रिधा।
त्रिवृत्कृतं तथैवैकं परिणामं प्रपद्यते॥८२॥

पुरीषमांसबुद्ध्यंशैर्मूत्रासृक्प्राणरश्मिभिः।
तथाऽस्थिमज्जावाग्भागैरन्नाप्तेजांसि कालतः॥८३॥

योषिद्योनिं320 प्रविष्टस्यानुशायिनो जीवस्य द्विविधशरीरग्रहणं प्रतिपादयितुं मात्रा भुक्तस्यान्नादेस्त्रिधा परिणामं दर्शयति—अन्नमित्यादिना॥८२॥८३॥

मनोबुद्धीन्द्रियाणां स्यात्कर्मशक्तेश्चभारती।
प्राणश्च प्राणभेदानामुपलक्षणसिद्धये॥८४॥

योऽणिष्ठस्तन्मन इत्यत्र मनःशब्देन बुद्धीन्द्रियाण्युपलक्ष्यन्ते। योऽणिष्ठः सा वागित्यत्र वाक्पदेनावशिष्टानि कर्मेन्द्रियाण्युपलक्षितानि। योऽणिष्ठः स प्राण इत्यत्र प्राणशब्देन प्राणादिवृत्तीनामुपलक्षणं विवक्षितमित्याह—मन इति॥८४॥

कर्मोत्थभावनाभिस्तु चोद्यते यद्यदिन्द्रियम्।
जायते तदहंकाराद्यथाकर्म यथाश्रुतम्॥८५

मनआदेश्चैतन्याभासानुविद्धस्यैव जन्मेत्येतदधुना सांख्यपक्षप्रतिक्षेपार्थं कथयति— कर्मोत्थेति॥८५॥

श्रोताऽस्मीत्यभिमानाद्धि जायते श्रवणेन्द्रियम्।
परिशिष्टेषु चाप्येवमिन्द्रियेषूपधारयेत्॥८६॥

सामासादहंकारात्तत्तदिन्द्रियजन्मेत्येतदेव विशदयति—श्रोतेति। स्प्रष्टाऽस्मीत्यभिमानाद्धि जायते स्पर्शनेन्द्रियम्। द्रष्टाऽस्मीत्यभिमामानान्तु जायते चक्षुरिन्द्रियमित्यादि द्रष्टव्यमित्याह—परिशिष्टेष्विति॥८६॥

देहोत्पत्तिमनुत्पन्नो व्योमवद्घटजन्मना।
अस्त्यादयोऽप्यतो न स्युः सति जन्मनि ते यतः॥८७॥

अन्तःकरणादिवदात्मनोऽपि जन्म स्यादित्याशङ्क्य तस्यौपाधिकं जन्मेत्याह—देहेति। आत्मनः स्वतो जन्मनिरासादितरेऽपि भावविकारास्तस्य निषिद्धा321 भवन्तीत्याह—अस्त्यादय इति॥८७॥

यावद्यावदयं देहो वर्धते गर्भशायिनः।
तावत्तावदभिव्यक्तिर्लिङ्गस्याप्यु322पजायते॥८८

देहोत्पत्तिमनूत्पन्न इत्यत्र लिङ्गोत्पत्यपेक्षया जीवोत्पत्तिर्विवक्ष्यते चेदसदेव लिङ्गं कथमुत्पद्येतेत्याशङ्कयाऽऽह—यावद्यावदिति॥८८॥

समग्रकरणस्याथ नवमे मासि देहिनः।
व्यतीतानेकजन्मोत्था व्यज्यन्ते वासनाः क्रमात्॥८९

लिङ्गोपहितस्य323 जीवस्य गर्भाशयं प्रविष्टस्य तत्रैव वर्तमानस्य संसारोपवर्णनं वैराग्यार्थं करोति324। समग्रेत्यादिना। देहिनो देहलिङ्गवतो धर्माधर्मवशाद्गर्भे प्रविष्टस्य तत्रैव शयानस्य सर्वैरेव करणैरुपेतस्य नवमे दशमे वा मासे जन्मप्राप्तौ तस्मात्पूर्वमेवातीताानेकजन्मप्रवृत्तवासनाभिव्यक्तिर्भवतीत्यर्थः। अथशब्दो मासविकल्पार्थः॥८९॥

आविर्भूतप्रबोधोऽसौ गर्भदुःखादिसंस्कृतः।
हा कष्टमिति निर्विण्णः स्वात्मानं शोशुचीत्यथ॥९०॥

गर्भस्थस्य वासनात्मकज्ञानोत्पत्त्यनन्तरं तत्कार्यस्य महतः शोकस्य स्वात्मन्युत्पत्तिं दर्शयति–आविर्भूतेति॥९०॥

अनुभूताः325 पुराऽसह्या मया मर्मच्छिदोऽसकृत्।
करम्भवालुकास्तप्ता या दहन्त्यशुभाशयान्॥९१॥

शोकप्रकारमनुवदति–अनुभूता इति। पुरा गर्भप्रवेशात्पूर्वमतीतेषु जन्मस्विति यावत्। मर्मच्छिदो वेदना इति शेषः। या हि करम्भवालुका भृशं तप्ताः सत्योऽशुभाशयान्पापकर्मवतो जनान्दहन्ति ताश्वासकृन्मयाऽनुभूता इति संबन्धः॥९१॥

जाठरानलसंतप्ताः पित्ताख्यरसविप्लुषः।
गर्भाशये निमग्नं ता दहन्त्यतिभृशं तु माम्॥९२॥

पूर्वानुभूतवेदनाभ्यः समधिका वेदना गर्भाशये शयानस्य ममास्तीत्याह–

जाठरेति॥९२॥

औदर्यकृमिवक्त्राणि कूटशाल्मलिकण्टकैः।
तुल्यानि वितुदन्त्यार्तं पार्श्वास्थिक्रकचार्दितम्॥९३॥

न केवलं गर्भे वर्तमानस्य मातुरौदर्येणाग्निना दग्धत्वमेव किंतु दुःखान्तरमपि दुःसहमस्तीत्याह–औदर्येति॥९३॥

गर्भे दुर्गन्धभूयिष्ठे जाठराग्निप्रदीपिते।
दुःखं मयाऽऽप्तं यत्तस्मात्कनीयः कुम्भिपाकजम्॥९४॥

कुम्भीपाकदुःखापेक्षया गर्भवास326दुःखस्याऽऽधिक्यं दर्शयन्गर्भवासस्य हेयत्वमाह–गर्भ इति॥९४॥.

पूयाक्सृश्लेष्मपायित्वं वान्ताशित्वं च यद्भवेत्।
अशुचौ327 क्रिमिभावश्च तत्प्राप्तं गर्भशायिना॥९५॥

यद्गर्भे शयनं तदनेकेषु नरकभेदेष्ववस्थानादतिरिच्यते—अतोऽपि गर्भवासानेरासाय प्रयतितव्यमित्याह–पूयेति॥९५॥

गर्भशय्यां समारुह्य दुःखं यादृङ्मयाऽपि तत्।
नातिशेते महद्दुःखं निःशेषनरकेषु यत्॥९६॥

किंच सर्वेष्वेव नरकेषु यद्दुःखं महद्दृष्टं328 तन्न गर्भवासकृताद्दुःखादतिरिच्यते तेनापि गर्भे शयनं परिहर्तव्यमित्याह—गर्भेति॥९६॥

अस्थियन्त्रविनिष्पिष्टः परीतः329 कुक्षिवह्निना।
क्लेदासृग्दिग्धसर्वाङ्गो जरायुपसंवृतः॥९७॥

गर्भं प्रविष्टस्य जीवस्य गर्भस्थितिमुपसंहरति—अस्थीति॥९७॥

निष्क्रामन्भृशदुःखार्तो रुदन्नुच्चैरधोमुखः।
यन्त्रादिव विनिर्मुक्तः पतत्युत्तानशाय्यधः॥९८॥

तस्य जन्मप्रकारं दर्शयति—निष्क्रामन्निति॥९८॥

अकिंचिज्ज्ञस्तदा बालो मांसपेशीसमः स्थितः।
श्वमार्जारादिदंष्ट्रिभ्यो रक्ष्यते दण्डपाणिभिः॥९९॥

पितृवदाक्षसं वेत्ति मातृवड्डाकिनीमपि।
पूयं पयोवदश्नाति धिक्पापिष्ठं हि शैशवम्॥२००॥

जातस्य बाल्यावस्थां विवृणोति—अकिंचिज्ज्ञ इति॥९९॥२००॥

दृप्तोऽथ यौवनं प्राप्य मन्मथज्वरविह्वलः।
गायत्यकस्मादुच्चैः स तथाऽकस्माच्च वल्गति॥१॥

आरोहति तरुं वेगाच्छान्तानुद्वेजयत्यपि।
कामक्रोधमदान्धः सन्न किंचिदपि वीक्षते॥२॥

बाल्यानन्तरं यौवनावस्थां प्रपञ्चयति—दृप्त इति॥१॥२॥

महापरिभवस्थानं जरां प्राप्याथ दुःखितः।
श्लेष्मणा पिहितोरस्को जग्धमन्नं न जीर्यति॥३॥

भग्नदन्तो भग्नदृष्टिः कटुतिक्तकषायभुक्।
वातभुग्नकटिग्रीवाकरोरुचरणोऽबलः॥४॥

गदायुतसमाविष्टः परिभूतः स्वबन्धुभिः।
निःशौचो मलदिग्धाङ्ग आलिङ्गितधरोषितः॥५॥

कासाधोवायुमुरजा330 सितश्मश्रुकचाम्बरा।
श्वासोत्थस्वनवंशा च जाठरध्वनिगेयिका॥६॥

वलीपलितवच्चर्मवरकञ्चुकधारिणी।
दण्डतृतीयपादेयं प्रस्खलन्ती मुहुर्मुहुः॥७॥

यौवनानन्तरं निरतिशयस्य परिभवस्याऽऽस्पदभूतां जरां प्राप्या331तिदुःखितो भवतीत्याह– महापरिभवेति। तामेव जरां स्फोटयति332—श्लेष्म णेत्यादिना॥३॥४॥५॥६॥७॥

अग्निपाकिकरुक्माढ्या सूक्ष्मत्वक्पटसंवृता।
गुल्फजान्वस्थिसंघर्ष333चलन्नूपुरघोषिणी॥८॥

अग्निपाकिकशब्देन शरीरे दृश्यमाना मांसग्रन्थयो गृह्यन्ते॥८॥

प्रज्ञां मेधां धृतिं शौर्यं यूनां जग्ध्वा बलं तथा।
कृतार्थेवप्रहर्षेण334जरायोषित्प्रनृत्यति॥९॥

प्रज्ञा श्रुतग्रहणसामर्थ्यम्। मेधागृहीताविस्मरणसामर्थ्या वृत्तिः। धृतिशब्देन शरीरेन्द्रियावसादप्राप्तौ धैर्यम्। शौर्यं पराक्रमकृतं बलम्। बलं शरीरादिसामर्थ्यम्॥९॥

ततोऽपि मृतिदुःखस्य दृष्टान्तो नोपलभ्यते।
यस्माद्बिभ्यति भूतानि प्राप्तान्यपि परां रुजम्॥१०॥

जरानन्तरं मरणावस्थां विवृणोति—ततोऽपीति। मृतिदुःखमेव विशिनष्टि—यस्मादिति॥१०॥

ह्रियते मृत्युना जन्तुः परिष्वक्तोऽपि बान्धवैः।
सागरान्तर्जलगतो गरुडेनेव पन्नगः॥११॥

बान्धवैरेव सृतिदुःखं परिहर्तुं शक्यमित्याशङ्क्य सदृष्टान्तमाह—ह्रियत इति॥११॥

हा कान्ते हा धनं पुत्र क्रन्दमानः सुदारुणम्।
मण्डूक इव सर्पेण गीर्यते मृत्युना नरः335॥१२

प्रियमाणस्य पुत्रकलत्रादिविषयं दारुणं रोदनं दृष्ट्वा मृत्युर्नाऽऽगमिष्यतीत्याशङ्क्याऽऽ—हा कान्तेति॥१२॥

मर्मसूत्कृत्यमानेषु मुच्यमानेषु संधिषु।
यद्दुःखं म्रियमाणस्य स्मर्यतां तन्मुमुक्षुभिः॥१३

यथोक्तमरणावस्थाप्राप्त्यपेक्षया पूर्वमेव स्वस्थावस्थायां तत्प्राप्तिपरिहारार्थं शुभाचरणाय मुमुक्षुभिः स्मर्तव्यं दर्शयति–मर्मस्विति॥१३॥

दृष्टावाक्षिप्यमाणायां संज्ञया ह्रियमाणया।
मृत्युपाशेन बद्धश्च त्रातारं नोपलप्स्यसे336॥१४

मरणे प्राप्ते शुभाचरणद्वारेण दुःखं परिहर्तव्यमित्याशङ्क्याऽऽह–दृष्टाविति॥१४॥

संरुध्यमानस्तमसा महच्छ्वभ्रमिवाऽऽविशन्।
उरो घ्नतस्तदा ज्ञातीन्द्रक्ष्यसे दीनचक्षुषा॥१५

तदा ज्ञातयस्त्रातारो भविष्यन्तीत्याशङ्क्याऽऽह—संरुध्यमान इति॥१५॥

अयः पाशेन कालेन स्नेहपाशेन बन्धुभिः।
आत्मानं कृष्यमाणं त्वमभितो द्रक्ष्यसे तदा॥१६॥

किंच तस्यामवस्थायां शुभाचरणे नास्ति स्वातन्त्र्यमित्याह337—अयः पाशेनेति॥१६॥

हिक्किकाबाध्यमानस्य श्वासेन परिशुष्यतः।
कृष्यमाणस्य पाशेन न खल्वस्ति परायणम्॥१७॥

म्रियमाणस्य मरणावस्थामुपसंहरति—हिक्किकेति। पाशो द्विविधो विवक्षितो मुमूर्षोः॥१७॥

संसारयन्त्रमारूढो यमदूतैरधिष्ठितः।
क्व यास्यामीतिदुःखार्तः कालपाशेन योजितः॥१८

स्थूला338द्देहान्निष्क्रान्तस्य कर्मफलभोगार्थं गच्छतोऽपि नास्ति, स्वच्छन्दतेत्याह–संसारेति॥१८॥

मातापितागुरुसुताः स्वजनो ममेति
मायोपमे जगति कस्य भवेत्प्रतिज्ञा।
एको यदा ब्रजति कर्मपुरःसरोऽयं
विश्रामवृक्षसदृशः खलु जीवलोकः॥१९

मात्रादिजीवलोकोऽस्य तस्यामवस्थायां सहायो भविष्यतीत्याशङ्क्याऽऽह–मातेति॥१९॥

सायं सायं वासवृक्षं समेताः
प्रातः प्रातस्तेन तेन प्रयान्ति।
त्यक्त्वाऽन्योन्यं तं च वृक्षं विहङ्गा
यद्वत्तद्वज्ज्ञातयोऽज्ञातयश्च॥२०

उक्तं विश्रामवृक्षसद्दशत्वं जीवलोकस्य339 व्यक्ती करोति सायं सायमिति॥२०॥

मृतिबीजं भवेज्जन्म जन्मबीजं तथा मृतिः।
घटीयन्त्रवदश्रान्तो बम्भ्रमीत्यनिशं नरः॥२१

गर्भजन्मबाल्ययौवनजरामरणाद्यवस्थासु340 जीवस्य वैराग्यार्थं प्रपञ्चितां संसारगतिमुपसंहरति–मृतीति॥२१॥

द्युपर्जन्यधरामर्त्ययोषिदग्निषु दैवतैः।
श्रद्धोडुराजवर्षान्नरेतआख्यं हविर्हुतम्॥२२॥

पञ्चम्यामाहुतावेवं पुंवचा341 जायते पुमान्।
क्रमात्तस्य महानर्थसंसृत्युच्छित्तिरुच्यते॥२३

अन्नात्पुरुष इत्युक्तायां पुरुषोत्पत्तौ श्रुत्यन्तरसंमतिमाह–द्युपर्जन्येति॥द्युलोकाग्नौ दैवतैर्यजमानप्राणैः श्रद्धा हूयते तस्याश्चाऽऽहुतेः सोमो

राजा जायते ततश्च पर्जन्याग्रौ तैरेव देवैः सोमो हूयते तस्याश्चाऽऽहुतेर्वृष्टिर्जायते ततश्च पृथिवीलक्षणे तृतीयेऽग्रौ देवा वर्षं जुह्वति वर्षाहुतेश्वान्नं342 संभवति ततश्च पुरुषाग्नौचतुर्थे प्रकृता देवास्तदन्नं जुह्वति तस्याश्चान्नाहुते रेतः संपद्यते ततो योषिदग्रौ पञ्चमे यजमानप्राणा रेतः सिञ्चन्ति तदेव पञ्चम्यामाहुतौ हुतायां पुमानित्येवंवाच्यः सन्पुरुषो जायत इत्यर्थः। स वा एष पुरुषोऽन्नरसमय इत्यादिपञ्चकोशोपन्यासवाक्यस्य तात्पर्यार्थमाह—क्रमादिति। उत्तरेण ग्रन्थेन कोशपञ्चकोपन्यासक्रमेण पूर्वपूर्वस्योत्तरोत्तरस्मिन्प्रविलापनमुक्त्वा कार्यकारणविलक्षणब्रह्मात्मैकत्वज्ञानं सकार्याविद्यानिवर्तकं ब्रह्म पुच्छं प्रतिष्ठेत्यादावुच्यत इत्यर्थः॥२२॥२३॥

इत्याद्या विक्रियाः सर्वा लिङ्गन्देहसमाश्रयाः।
अतद्वानपि संमोहात्तद्वानित्यभिमन्यते॥२४॥

समनन्तरवाक्येषु343 पुरुषग्रहणस्य तात्पर्यं वक्तुं यथोक्तस्य संसारस्योपाधिनिष्ठत्वादात्मनिष्ठत्वाभावात्तस्मिन्वैराग्योपयोगित्वेन तदुपवर्णनमुचितमित्या- शङ्क्य परिहरति—इत्याद्या इति। यद्यपि प्रागुक्ता344 गर्भवासाद्या विक्रियाः शरीरद्वयनिष्ठा नाऽऽत्मनि345 तिष्ठन्ति तथाऽप्यात्मावस्तुतो गर्भवासादिविक्रियारहितोऽपि देहद्वयादात्मनो विवेकाग्रहणादहमेव गर्भवासादिविक्रियावानस्मीत्यात्मानं मोहमाहात्म्यादभिमन्यते तेन तत्र संसारो दृश्यमानो वैराग्यं भावयिष्यतीत्यर्थः॥२४॥

ज्ञातास्मीत्यभिमानाद्धि चेष्टते ज्ञानकर्मणी।346
मन्ताऽस्मीति ततो मोहात्कुरुते मानसीः क्रियाः॥२५

कथं देहद्वयेऽहमभिमानः स्यादित्याशङ्क्य बुद्धावहमभिमानमज्ञान347कृतं तत्कार्यं च प्रकटयति—ज्ञातेति। मनस्यहमभिमानमविवेककृतं तत्कार्यं च कथयति—मन्तेति॥२५॥

प्राणाद्यात्माभिमानेन कर्मचेष्टां प्रपद्यते।
चक्षुराद्यभिमानी च रूपाद्यालोचनापरः॥२६

प्राणापानादौ कर्तास्मीत्यात्मा348भिमानं तत्कार्यं चाज्ञानप्रयुक्तमुपन्य—

स्यति—प्राणादीति। इन्द्रियेषु ममाभिमानं तत्कार्य चाज्ञानकृतं दर्शयति—चक्षुरादीति॥२६॥

तथा देहस्य दाहादौ दग्धोऽस्मीति च मन्यते।
श्यामोऽस्मीति च देहस्य श्यामत्वं मन्यतेऽबुधः॥२७॥

स्थूले349 देहे मोहादभिमानं तत्कार्यं च प्रकटयति—तथेति। देहादात्मनो विवेकग्रहविहीनत्वमबुधत्वम्॥२७॥

गोधनाद्यभिमानेन तद्वानस्मीत्यविद्यया।
ब्रह्मचारी गृहस्थोऽहं तापसोऽस्मि तथा मुनिः॥
देहलिङ्गात्मसंस्कारान्मन्यते सङ्गकारणात्॥२८॥

गवादौ ममाभिमानादविद्यया350 विद्यमानाद्यत्कार्यं जायते तदुदाहरति–गोधनादीति। देहे लिङ्गात्मनि च ये संस्कारा ब्रह्मचारित्वादयः स्नानाचमनादयश्च तानविद्याकृतांस्तयोरेव351 सङ्गाद्धेतोरात्मनि कल्पयतीत्याह–ब्रह्मचारीति॥२८॥

भिन्नात्मनां तु भूतानां शरीरं कार्यमुच्यते।
ममाहमितिसंमोहादनर्थं प्रतिपद्यते॥२९॥

किं बहुना। पञ्चभूतमयं शरीरं तस्मिन्नहं ममाभिमानादात्मनो नित्यमुक्तस्यैव संसारो मोहमाहात्म्याप्र्ततिभातीत्युपसंहरति—भिन्नात्मनामिति॥२९॥

सर्वेषां चान्नकार्यत्वे ब्रह्मजत्वे समे तथा।
कर्मज्ञानाधिकारित्वात्पुमानेवेह गृह्यते॥३०

एवमात्मनि संसारं दर्शयित्वा समनन्तरवाक्ये पश्वादिग्रहणं विहाय पुरुषग्रहणस्य तात्पर्यमाह—सर्वेषां चेति॥३०॥

अनेकानर्थनीडेऽस्मिन्निमग्रंब्रह्मविद्यया।
संक्रामयितुमिष्टत्वाद्ब्रह्मान्तरतमं नरम्॥३१

कर्मज्ञानाधिकारित्वस्य पुरुषग्रहणहेतुत्वं साधयति—अनेकेति। कर्मभिः शुद्धान्तःकरणस्य ब्रह्मज्ञानान्मोक्षोऽत्र विवक्ष्यते तस्मादनेका-

नर्थाश्रये संसारसागरे पतितं नरं ब्रह्मास्मीतिविद्यया सर्वान्तरतमं ब्रह्म प्रापयितुमिष्टत्वाद्यस्य कर्मज्ञानयोरधिकारः संभाव्यते तस्यैवात्र ग्रहणं युक्तमित्यर्थः॥३१॥

तरुशाखाग्रद्दष्ट्यैव सोमं यद्वत्प्रदर्शयेत्352
निष्कोशं कोशद्दष्टचैव प्रतीचि ब्रह्म353दर्श्यते॥३२॥

ब्रह्मविद्यया मोक्षस्यात्र विवक्षितत्वे सैव वक्तव्या कोशपञ्चकोपन्यासस्तु वृथे354त्याशङ्क्याऽऽह—तरुशाखेति॥३२॥

अनादाविह संसारे वासनारञ्जिता मतिः।
प्रतीच्युपायतः कर्तुं शक्या तस्मात्स उच्यते॥३३॥

ब्रह्मविद्योपायत्वेन कोशपञ्चकोक्तिरित्युक्तमेव व्यक्ती करोति–अनादाविति॥३३॥

द्वैतास्पृक्प्रत्यगात्मैकः प्रतीचीव परागपि।
युष्मदस्मद्विभागाभ्यां भिद्यतेऽविद्यया मृषा॥३४॥

ब्रह्मविद्योपायत्वन कोशपञ्चको355पदेशे ब्रह्मकोशयोरभेदादद्वैतहानिरित्याशङ्कयाऽऽह—द्वैतास्पृगिति। यथाऽयं प्रत्यगात्मा प्रतीचि स्वात्मनि भेदस्पर्शमन्तरेणैकोऽवतिष्ठते तथा परागपि कोशापेक्षया द्वैतस्पर्शी356 न भवतीत्यत्र हेतुमाह—युष्मदिति। युष्मत्वञ्चकमस्मत्पञ्चकं चेति कोशदशकरूपेण स्वाविद्यया प्रत्यगात्मनो विभक्तत्वाद्भेदस्य सर्वप्रकारस्याऽऽत्माऽविद्याकृतत्वेन मिथ्यात्वान्नाद्वैतहानिरित्यर्थः॥३४॥

अस्मद्विभागे पञ्चास्य यथैवान्नमयादयः।
तथा तत्प्रत्यगात्मानो युष्मदन्नादयः स्मृताः॥३५॥

युष्मदस्मद्विभागेन सूचितान्दश कोशानेव दर्शयति—अस्मदिति। यथैवास्य प्रत्यगात्मनोऽस्मद्विभागे पञ्चान्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मयडर्थभूताः कोशा भवन्त्यहंबुद्धिग्राह्यास्तथा तेषां प्रत्यगात्मानोऽन्नप्राणमनोविज्ञानानन्दाः प्रकृत्यर्थभूता युष्मद्भावेनाभिमतास्तेष्वहंबुद्ध्यभावादेवमस्ति कोशदशकमित्यर्थः॥३५॥

आध्यात्मिकान्विलाप्याथ यथास्वं प्रत्यगात्मसु।
अन्नादीन्पर्युपासीत ह्युत्तरोत्तररूपगान्॥३६॥

कोशपञ्चकस्य प्रकृतिप्रत्ययविभागेन दशधा करणं कुत्रोपयुक्तमित्याशङ्कयाऽऽह— आध्यात्मिकानिति। पूर्वोक्तरीत्या कोशानां दशधा प्रतिपत्त्यनन्तरमाध्यात्मिकान्नमयप्राणमयमनोमयविज्ञानमयानन्दमयान्मयडर्थान्प्रकृत्यर्थेषु प्रत्येकं कारणेष्वात्मभूतेष्वन्नप्राणमनोविज्ञानानन्देषु कारणातिरेकेण कार्यं नास्तीति विवेकबुद्ध्या प्रविलाप्य तन्मात्रतया ज्ञात्वा पुनरन्नं प्राणतया प्राणं मनस्त्वेन मनो विज्ञानतया विज्ञानमानन्दशब्दितमूलकारणमात्रतया निरूपयेदित्यर्थः॥३६॥

जग्ध्वा कार्यात्मतामेवं कारणात्मतया स्थितः।
आत्मनाऽऽलिङ्गते ब्रह्म वाक्याज्जग्ध्वा च तामपि॥३७॥

प्रदर्शितया प्रक्रियया कार्यात्मतां कारणात्मतयोपसंहृत्याज्ञातब्रह्मरूपेण स्थितो विद्वानहं ब्रह्मास्मीतिवाक्योत्थज्ञानेन तामपि कारणात्मतां प्रविलाप्य स्वरूपेण कार्यकारणविलक्षणं ब्रह्म प्राप्नोतीत्येतदाह–जग्ध्वेति॥३७॥

अन्नं विराडिति ज्ञेयं प्राणात्तदभिवर्धते।
ऋग्यजुः सामरूपोऽतो वेदात्माऽन्तर्मनोमयः॥३८॥

अन्नादीन्पर्युपासीतेत्युक्ता357नन्नादीन्कथयति—अन्नमिति। क्रियाविज्ञानशक्तिमति सूत्रात्मनि प्राणशब्देन क्रियाशक्तिभागो गृह्यते ततोऽन्नस्योत्पत्तिरित्याह—प्राणादिति। विज्ञानशक्ति358भागोऽपि मनो विज्ञानं चेति द्वेधा भिद्यते तत्र सविकल्पकज्ञानोत्पादनशक्तिमदन्तःकरणं मनःशब्दवाच्यमित्याह—ऋग्यजुरिति। अतोऽस्मात्प्राणादन्तरितिसंबन्धः। मनोमयशब्देन मनो गृह्यते॥३८॥

वेदार्थविषया बुद्धिर्विज्ञानं निश्वयात्मकम्।359
ज्ञानकर्माभिनिर्वृत्त आनन्दः फललक्षणः॥३९॥

प्रकृतिप्रकरणान्निर्विकल्पज्ञानोत्पादनशक्तिमदन्तःकरणं विज्ञानमित्याह—वेदार्थेति। आनन्दशब्देन कारणमुच्यत इत्यङ्गीकृत्याऽऽह-

ज्ञानेति। तत्र प्राणो मनो विज्ञानं चेतिकोशत्रयं सूत्रात्मरूपमन्नं विराट्कोश आनन्दः कारणकोश इति संग्रहः॥३९॥

त्रीण्येवान्नानि चैतानि प्राजापत्यानि सर्वशः।
प्राणो मनस्तथा वाक्च विराडन्नात्मतां गतः॥४०॥

एतच्च कोशपञ्चकमुक्तं बृहदारण्यकेऽपीत्याह–त्रीण्येवेति। वाक्शब्देन विज्ञानं गृह्यते। कनीयोऽन्नं करिष्य इत्यत्रान्नशब्देन विराडुच्यते तद्धेदं तर्हीत्यत्र कारणमुक्तमिति चशब्दार्थः॥४०॥

चतुर्णां प्रत्यगात्मैवमानन्दमय उच्यते।
प्रज्ञानघनरूपत्वात्स्याद्धेदोऽप्यस्य कार्यतः॥४१॥

यथाऽन्नादीनां चतुर्णां प्रकृत्यर्थानामानन्दस्वरूपमेवमन्नमयादीनां प्रत्ययार्थानामानन्दमयः प्रत्यगात्मा स्वरूपमित्येतदाह—चतुर्णामिति। तत्र कोशचतुष्टयस्य जीवव्यतिरेकेणाभावादितिहेतुमाह—प्रज्ञानेति। जीवस्य प्रज्ञानघनत्वे कथं शिरःपुच्छादिकल्पनेत्याशङ्क्य कर्मफलभेदादित्याह—स्यादिति॥४१॥

शिरआदिप्रकॢप्तिस्तु स्यादुपासनकर्मणे।
तस्मादेवं चितीरेता मानसीर्व्याचचक्षिरे॥४२॥

स वा एष पुरुष इत्यादौ360 तात्पर्यार्थमुक्त्वा तस्येदमेव शिर इत्यादेस्तात्पर्यमाह—शिरआदीति। उपासनानुष्ठानार्थं361 शिरआदिकल्पनामाश्रित्य वृद्धानामपि प्रसिद्धिरित्याह—तस्मादिति॥४२॥

शिरो मूर्धा भुजौ पक्षावात्मा कायश्चमध्यमः।
शेषं पुच्छमिति ज्ञेयं चितिमेवं विचिन्तयेत्॥४३॥

तस्येदमेवेत्यादेरक्षरोत्थ362मर्थं कथयन्पञ्चप्रकारां चितिमेव चिन्तनीयां स्फोरयति—शिर इति॥४३॥

उपासीनश्चितीरेवं विद्वानेता यथाक्रमम्।
पूर्वपूर्वप्रहाणेन ह्यन्तरन्तः प्रपद्यते॥४४॥

पञ्चप्रकारचित्युपासनेन किं फलतीत्यपेक्षायामाह—उपासीन इति। पञ्चविधकोशानां चित्यात्मकानां नैरन्तर्येणानुसंधानाद्बुद्विशुद्ध्यति-

शये363विवेकबुद्धिर्भवति। तद्बलाच्च पूर्वं पूर्वं कोशमपहायोत्तरमुत्तरं प्रतिपद्यते तदेवं364सर्वानपि कोशान्प्रविलाप्याहं ब्रह्मास्मीति ज्ञानान्मोक्षमधिगच्छतीत्यर्थः॥ ४४ ॥

श्रुतेरनतिशङ्क्यत्वात्संभाव्येत यथोदितम्।
लिङ्गप्रत्यक्षगम्ये हि स्यादाशङ्का नृबुद्धितः॥४५ ॥

कथं तर्हि सर्वं वै तेऽन्नमाप्नुवन्तीत्यादि यथाश्रुतं फलमुपासनस्य संभवेदेकस्योभयफलत्वासंभवादित्याशङ्क्य फलद्वयमेकस्योपासनस्य श्रुतिसिद्धत्वादविरुद्धमित्याह–श्रुतेरिति। श्रुतेर्निर्दोषत्वात्तदुक्तेऽर्थे शङ्काभावे कुत्र शङ्कायाः सावकाशत्वमित्याशङ्क्य पुरुषबुद्धिवशात्प्रत्यक्षादिषु365 करणदोषसंभवादाशङ्का स्याद्वेदे तु तद्भावान्नैवमित्याह—लिङ्गेति॥४५॥

स्वभावतो वा संप्राप्तमनूद्योपासनं श्रुतिः।
नामादाविव भूमानं विधत्ते ज्ञानमात्मनि॥४६॥

पञ्चविधकोशोपासनोपदेशस्य तात्पर्यान्तरमाह–स्वभावतो वेति। यथा छान्दोग्ये सप्तमे प्रपाठके स्वभावतः सिद्धमुपासनमुच्चनीचभावेन नामादिविषयमनूद्य भूमविज्ञानं विधीयते तथा कोशेष्वात्माभिमानिनो यथोक्तध्यानानुष्ठानादेव पूर्वपूर्वस्योत्तरोत्तरस्मिन्विलापनं कृत्वा श्रुतफलविवक्षामन्तरेणै366व ब्रह्मात्मैकत्व367विज्ञानं प्रधानत्वादत्रविवक्षितमित्यर्थः॥४६॥

श्रुत्यन्तराद्वा संप्राप्तं मोक्षादर्वाक्फलाय तु।
तदनूद्य परं श्रेयः प्राप्तये ज्ञानमुच्यते॥४७॥

कोशपञ्चकोपन्यासस्यापरं तात्पर्यमाह—श्रुत्यन्तरादिति। यद्धि मोक्षादर्वाचीनं संसारान्तर्भूतं फलं तत्प्राप्तये विराडात्मनः सूत्रात्मनश्च बृहदारण्यकादावुपासनं सिद्धं तदनुवादेन मोक्षफलं ज्ञानमत्रोच्यत इत्यर्थः॥४७॥

ब्रह्मविद्योडुपेनैव368 कोशानर्थमहोदधेः।
निनीषन्ती परं पारं स वा इत्यभ्यधादथ॥४८॥

एवं तात्पर्यमुक्त्वा तत्रैवार्थे वाक्यं पदार्थकथनार्थमवतारयति–ब्रह्मविद्येति। निनीषन्ती श्रुतिरितिशेषः। पुरुषस्यैव ज्ञानकर्मणोरधिकारो न पश्वादेरिति निर्धारणानन्तरमित्यथशब्दार्थः॥४८॥

मूलात्मानं स शब्देन स्पृष्ट्वा तत्स्मृतयेऽथ वै।
कोशात्मतां समापन्नएष इत्यभिधीयते॥४९॥

तत्र पदत्रयस्यार्थं कथयति–मूलात्मानमिति। कार्यकारणविलक्षणं प्रत्यगात्मानं स्वशब्देन गृहीत्वा तस्यैव सर्वोपनिषत्प्रसिद्धस्य वैशब्देनानुसंधानं कृत्वा स एव स्वाविद्यया पञ्चकोशात्म369कत्वं प्राप्तः सन्नपरोक्षत्वादेष शब्देनोपदिश्यत इत्यर्थः॥४९॥

अविद्यया तदर्होऽपि रज्जुः सर्पात्मतामिव।
कोशपञ्चकतां यातस्तमनुक्रोशती370व हि॥५०॥

कार्यकारणविलक्षणश्चेत्प्रत्यगात्मा तर्हि कथमसावविद्ययाऽपि पञ्चकोशात्मतां गन्तुमर्हतीत्या371शङ्क्याऽऽह—अविद्ययेति॥५०॥

मयडत्रविकारा372र्थे निषिद्धोऽसौ परात्मनः।
युक्त्यागमाभ्यामन्नस्य कार्यं देहः प्रतीयते॥५१॥

यथोक्त373प्रत्यगात्मनोऽन्नरसमयत्वं कथमित्याशङ्क्याऽऽह—मयडत्रेति। प्रकृते वाक्ये प्रयुक्तो मयड्विकारार्थे प्रयुज्यते। विकार374श्च परस्य प्रत्यगात्मनो निरवयवत्वासङ्गत्वादियुक्त्या न जायते म्रियते चेत्याद्यागमाच्च निषिद्धत्वान्न सिध्यति। अतः शरीरस्यान्नरसविकारत्वप्रतीतेरात्मनोऽपि तदुपाधित्वात्तथा व्यपदेशसिद्धिरित्यर्थः॥५१॥

इदमेव शिरस्तस्य मा भूदध्यासलक्षणम्।
प्राणकोशवदेवेति तस्मादेवावधार्यते॥५२॥

प्रसिद्धमेव शिरआदिप्रथमकोशे ग्राह्यं न प्राणादिष्विव कल्पनेति दर्शयितुं तस्येदमेवेत्यत्रावधारणमित्याह—इदमेवेति॥५२॥

विराट्पिण्डात्मनोरैक्यं श्रुत्यन्तरवशादिह।
उपासनोपदेशाच्च जानीयात्पिण्डदेवताम्॥५३॥

अन्नरसमयशब्देन न प्रसिद्धमेव शरीरं ग्राह्यं किंतु विराडात्माऽपीस्याह—विराडिति। आत्मैवेदमग्र आसीत्पुरुषविध इत्यादिश्रुत्यन्तरे शरीरविराजोरेकत्वस्य विवक्षितत्वा375द्येऽन्नं ब्रह्मोपासत इत्यत्रध्यानोपदेशाच्छिरआदिकल्पनायाश्च ध्यानार्थत्वाद्विराड्देवताऽत्र ग्रहीतव्येत्यर्थः॥५३॥

विराडात्मकतां याते पिण्डेऽध्यात्मावसायिनी।
प्राणो वाय्वात्मतामेति प्रध्वस्तघटदीपवत्॥५४॥

विराजो देहस्य च किमर्थमेकत्वमुच्यते तत्राऽऽह—विराडात्मकतामिति। उपासनातः शरीरस्य विराडात्मभावे संवृत्ते प्राणोऽपि शरीरान्तर्गतो हिरण्यगर्भो भवति ततश्च तदुपाधिरात्माऽनवच्छिन्नः सिध्यति यथा घटे प्रध्वस्ते कपालादिभावमापन्ने तदन्तर्गतो दीपस्तेजोमात्रतामापद्यते तद्वदित्यर्थः॥५४॥

विद्यादन्नमयेनैव मूषायां द्रुतताम्रवत्।
सर्वान्प्राणमयादींस्तान्रचितान्पुरुषाकृतीन्॥५५॥

अन्नमयस्य प्रसिद्धमेव शिरआदि376 प्राणमयादेस्तु कथमित्याशङ्क्याऽऽह—विद्यादिति। यथा मूषायां दुतं ताम्रादि प्रक्षिप्तं मूषाकारं377 भजते तथा शरीरस्य शिरआदिमत्त्वात्तदन्तर्वर्तिप्राणमयादेस्तद्युक्तमुपासनार्थं पदार्थविवेकसौकर्यार्थं चेयं कल्पनेत्यर्थः॥५५॥

यथोदितानुवादी तु श्लोकोऽप्यत्र निगद्यते।
ब्राह्मणोक्तार्थविज्ञानद्रढिम्ने हितकाम्यया॥५६॥

तदप्येष श्लोको भवतीत्यस्यार्थमाह—यथोदितेति॥५६॥

इति प्रथमः खण्डः॥१॥

अन्नादेव प्रजाः सर्वा जायन्ते378ऽन्नेन बृंहिताः।
वर्धन्ते त्वन्नमेवैताः प्रविलीयन्ति सर्वशः॥५७॥

श्लोकाक्षराणि योजयति—अन्नादेवेति॥५७॥

भूतेभ्यः पूर्वनिष्पत्तेज्यैष्ठमन्नं विराड्भवेत्।
स वै शरीरी प्रथमस्तथा पौराणिकी स्मृतिः॥५८॥

अन्नं हि भूतानां ज्येष्ठमिति कथमन्नस्य ज्येष्ठत्वमुच्यते तत्राऽऽह—भूतेभ्य इति। विराजो भूतापेक्षया पूर्वनिष्पन्नत्वे प्रमाणमाह–स वा इति॥५८॥

ओषणादग्निरोषः स्याद्धातूनुष्यति येन सः।
धानात्तस्यान्नत379त्त्वज्ञैरौषधं शब्द्यते सदा॥५९॥

अन्नस्य सर्वौषधत्वं श्रुत्योच्यते तत्कथमित्याशङ्क्याऽऽह—ओषणादिति। दहनादिति यावत्। अग्नेरोषत्वं साधयति—धातूनिति। उष्यति दहतीत्यर्थः। अन्नालाभे जाठरोऽग्नि380र्धातूनेव दहति तस्याग्नेरन्नेन धानात्पानादुपशमनात्तृप्तिसाधनादन्नमौषधमित्येतदाह—धानादिति॥५९॥

सर्वेषां जाठराग्न्याख्यं वत्सं चोष्यादिभिः स्तनैः।
अन्नं गौर्धयते यस्मात्सर्वौषधमतो भवेत्॥६०॥

सर्वोषधमित्यस्य संपिण्डितमर्थमाह—सर्वेषामिति। चोष्यादिभिरित्याशब्देन लेह्यभक्ष्यभोज्यानां ग्रहणं धयते पाययतीत्यर्थः॥६०॥

उद्भूतिस्थितिहानिभ्यो जगतोऽन्नं हि कारणम्॥६१॥

कार्यस्य कारणाद्ब्रह्म तद्ये नित्यमुपासते।
आप्नुवन्त्यखिलं तेऽन्नमध्यात्मं381 दैवतात्मना॥६२॥

येऽन्नं ब्रह्मोपासत इत्यत्रान्ने ब्रह्मशब्दप्रयोगे निमित्तमाह–उद्भूतीति। अन्नब्रह्मोपासनस्य फलमाह–तद्य इति। तदन्नं विराडात्मकं ये दीर्घकालमादरनैरन्तर्याभ्यामहंग्रहेण ध्यायन्ति ते विराडात्मरूपेण सर्वमेवाऽऽध्यात्मिकमन्नमाप्नुवन्ति। विराडुपासको हि विराडात्मवदेव सर्वेषामन्नानामत्ता भवतीत्यर्थः॥६१॥६२॥

सैषा विराडिति ह्युक्तमन्नात्तृत्वं हि ताण्डि382कैः।
कार्यं सर्वं यतो व्याप्तं कारणेनात्तृरूपिणा॥
इति हेतूपदेशाय383ह्यन्नं हीत्युच्यते पुनः॥६३॥

विराजोऽन्नात्तृत्वे प्रमाणमाह–सैषेति। अन्नं हि भूतानामित्यादिपुनर्वचनं किमर्थमित्याशङ्क्याऽऽह–कार्यमिति। उपासकस्य विराडात्मरूपेण सर्वान्नभक्षणसमर्थनार्थमुपास्यस्य विराडात्मनः कार्यव्याप्तिलक्षणो हेतुः पुनर्वचने384न चोच्यते। दृष्टं हि सर्वं कार्य कारणेन व्याप्तं प्रकृते चा385त्तृरू386पेण विराजा सर्वमन्नं यतो व्याप्यते ततश्चान्नोपासकस्य विराडात्मरूपेण सर्वान्नभक्षणं संभवतीतिहेतुकथनार्थमन्नं हीत्यादि पुनर्वचनमुचितमित्यर्थः॥६३॥

अद्यतेऽन्नं प्रधानत्वाद387दितित्वात्तथाऽत्ति च।
अन्नान्नादत्वहेतोस्तदन्नं हीत्युच्यते बुधैः॥६४॥

अद्यतेऽत्ति388 चेत्यादिवाक्यद्वयस्यार्थमाह–अद्यत इति अदनादद्यमानत्वाच्चान्नमिति॥६४॥

आप्नोति सर्वकार्याणि कारणात्मतया विराट्।
ततोऽप्यन्तः प्रवेशाय तस्मादित्यभिधीयते॥६५॥

प्रजापतिरूपमेवोक्तमित्यन्नान्नादत्वेन विराजो व्याप्तिमुक्तामुपसंहरति–आप्नोतीति। प्रकृतात्मकृत्यर्थादन्नादन्नमयाच्च प्रत्ययार्थादन्तरवस्थितात्मनि बुद्धिप्रवेशनाथ प्राणपर्यायस्य प्रवृत्तिरित्याह–ततोऽपीति॥६५॥

वैशब्देनैव संस्मार्य दवीयोदेशवर्तिनम्॥६६॥

तस्माच्छब्देन वैराजमादायाध्यात्मरूपिणः।
एतस्मादितिशब्देन वैराजत्वं प्रबोध्यते॥६७॥

प्रस्तावि389ते वाक्ये शब्दत्रयस्यार्थमाह–वैशब्देनेति। दूरतरे देशे व्यवस्थितं प्रकृत्यर्थभूतमन्नात्मकं विराडात्मानं वैशब्देन390संस्मार्य तत्रैव

तस्माच्छब्दं प्रयुज्य391तेन वैरा392जमात्मानं गृहीत्वा पुनरध्यात्मरूपिणो देहस्य प्रत्ययार्थस्य संनिहितत्वादेतस्मादित्युपादानाच्छन्दसमानाधिकृतैतच्छब्देन विराडेकत्वमेतस्य प्रदर्श्यते। पदद्वयसामानाधिकरण्यस्यैकत्वमन्तरेणायोगादित्यर्थः॥६६॥६७॥

कार्याणां कारणात्मत्वमेवं स्यादुत्तरेष्वपि।
ब्रह्मानन्तं भवेदेवं सांख्यराद्धान्तमन्यथा॥६८॥

यथाऽत्र तदेतच्छब्दाभ्यामध्यात्मदेहस्य विराडैक्यं विवक्ष्यते तथोत्तरत्रापि तदेतच्छब्दाभ्यां कारणेन प्राणादिना कार्यस्य प्राणमयादेरैक्यमभिप्रेतमित्याह–कार्याणामिति। कार्यस्य कारणमात्रत्वे फलितमाह–ब्रह्मेति। उक्तन्यायेन द्वैतप्रपञ्चस्याज्ञातब्रह्ममात्रत्वं तस्य कार्यकारणविलक्षणानवच्छिन्नवस्तुमात्रत्वेन पर्यवसानं सिध्यतीत्यर्थः। जगद्ब्रह्मणोर्भेदे तु सांख्यादीनां सिद्धान्तो निर्णयों यस्मिन्द्वैते तदेव स्यात्ततश्चानेकागमयुक्तिविरोधो भवेदित्याह–सांख्येति॥६८॥

पूर्वकार्यातिरेकेण393 स्वात्मना चान्वयोक्तितः।
अन्वयव्यतिरेकाभ्यां यथोक्तार्थः394 समर्थितः॥६९॥

कार्यस्य कारणात्मत्वं हेत्वन्तरेण साधयति–पूर्वकार्येति। पूर्वस्मादन्नमयादिकार्यादतिरेकेणोत्तरस्य प्राणमयादिकारणस्य सिद्धेर्व्यतिरेकसिद्धिः पूर्वस्य च कार्यस्योत्तरेण कारणेनान्वयात्तदव्यतिरेकादन्वयसिद्धिः। एवमन्वयव्यतिरेकाभ्यां कार्यकारणयोरैक्यं समर्थितमित्यर्थः॥६९॥

यथोक्तान्नमयादस्मादन्यः स्यात्तद्विलक्षणः।
अन्तरः प्रत्यगित्येतदात्मा चात्मसमन्वयात्॥७०॥

अन्योऽन्तर आत्मेतिशब्दानामर्थमाह—यथोक्तेति॥७०॥

कोशैश्चतुर्भिः संव्याप्तौ यथैवान्नमयः पुरा।
जानीयादुत्तरानेवं त्रिव्द्येकार्थसमन्वयात्॥७१॥

अन्नमये दर्शितन्यायं प्राणमयादिष्वतिदिशति—कोशैरिति। यथा

३.

क. °नन्दं भ°।

प्रथमे पर्याये व्यवस्थितोऽन्नमयः प्राणमयमनोमयविज्ञानमयानन्दमयैश्चतुर्भिः कोशैर्व्याप्यते तथा प्राणमयो मनोमयविज्ञानमयानन्दमयैस्त्रिभिर्व्याप्तो मनोमयो विज्ञानमयानन्दमयाभ्यां द्वाभ्यां विज्ञानमयस्त्वेकेनानन्दमयेन व्याप्तः। ततश्च पूर्वपूर्वस्योत्तरोत्तरेण व्याप्ते रज्ज्वा सर्प395वत्पूर्वस्य पूर्वस्योत्तरमुत्तरं स्वरूपं सिध्यतीत्यर्थः॥७१॥

तेन प्राणमयेनैष पूर्णो रज्ज्वेव पन्नगः।
कार्यतोऽन्नमयः क्लृप्तो वाचारम्भणशास्त्रतः॥७२॥

अन्नमयस्य प्राणमयेन व्याप्तत्वे तेनैष पूर्ण इति वाक्यं प्रमाणयति–तेनेति। अन्नमयस्य कल्पितत्वासिद्धेरुदाहरणमननुगुणमित्याशङ्क्याऽऽह–कार्यत इति॥७२॥

स वै पुरुषविधोह्युक्तो योऽयं प्राणमयः स्मृतः।
अमूर्तत्वात्कुतोऽन्वेतद्धेतुस्तस्येति भण्यते॥७३॥

स वा एष पुरुषविध एवेत्यस्यार्थमाह—स वा इति। निरवयवत्वात्प्राणमयस्य शिरःपाण्यादिमत्त्वेन पुरुषविधत्वमयुक्तमित्या396ह—अमूर्तत्वादिति। तस्य पुरुषविधतामित्यादिना परिहरति–हेतुरिति। स्थूलदेहस्य पुरुषाकारत्वात्तद्न्तर्गत397स्य प्राणमयस्यापि मूषानिषिक्त398द्रुतताम्रवत्पुरुषविधत्वं प्रक399ल्प्यते ततोऽस्य पुरुषविधत्वे हेतुरनेन वाक्येनोच्यत इत्यर्थः॥७३॥

प्राणस्तस्य शिरःश्रैष्ठ्यात्प्राणो यस्मान्मुखालयः।
व्यानोऽस्य दक्षिणः पक्ष उत्तरोऽपान उच्यते॥७४॥

तस्य प्राण एव शिर इत्यादेरर्थमाह–प्राणस्तस्येति॥७४॥

सामान्यं वीर्यवत्ता स्यादितरस्यातथात्मता।
आकाश इति चात्र स्यात्समानोऽम्बरसाम्यतः॥७५॥

कोऽसौ व्यानः स्यादित्युक्ते देहधर्मसामान्यं वीर्यवत्ता व्यानस्य स्यादितिधर्मद्वारा धर्मिणं निर्दिशति–सामान्यमिति। न प्राणादेस्तथा400विधधर्मवत्त्वमित्याह—इतरस्येति। आकाश आत्मेत्यत्राऽऽकाशशब्देन

समानो गृह्यते समानस्य व्यापकत्वेनाऽऽकाशसदृशत्वादित्याह—आकाश इति चेति॥७५॥

प्राणानां तत्प्रतिष्ठानादात्माऽसौ श्रुतितो भवेत्।
पृथिवी देवता पुच्छं सैषेति श्रुतिदर्शनात्॥७६॥

असोराध्यात्मिकस्यैषा स्थितिहेतुः प्रकीर्ति401तः।
अन्नात्मनीवेहाप्याह श्लोकं प्राणमयात्मनि॥७७॥

कुतः समानस्य व्यापकत्वमित्याशङ्क्य कस्मिन्प्राणः प्रतिष्ठित इति श्रुत्या प्राणादिवृत्तीनां समानप्रतिष्ठत्वावगमात्समानो वृत्तीनामात्मेति दर्शयन्नुत्तरमाह—प्राणानामिति। पृथिवी पुच्छं प्रतिष्ठेतिवाक्यमवतारयति। पृथिवीति। प्राणमयस्येतिशेषः। सैषा पुरुषस्यापानमवष्टभ्येति श्रुतेराध्यात्मिकस्य प्राणस्यैषा पृथिवी देवता पुच्छवत्प्रतिष्ठा402स्थितिहेतुरितिवाक्यं योजयति। सैषेति। तदप्येष श्लोको भवतीत्यस्यार्थमाह—अन्नात्मनीवेति॥७६॥७७॥

इति द्वितीयः खण्डः॥२॥

प्राणं प्राणं तमन्वेव देवाः प्राणन्ति न स्वतः॥७८॥

प्राणं देवा अनुप्राणन्तीत्यादिश्लोकाक्षराणि व्याचष्टे—प्राणमिति॥७८॥

वर्षसीह यदैव त्वमथेमाः प्राणते प्रजाः।
मनुष्याः पशवोऽन्ये च प्राणन्त्यसुसमाश्रयात्॥७९॥

प्राणाधीना देवादीनां वृत्तिरित्य403त्र श्रुत्यन्तरमुदाहरति—वर्षसीति॥७९॥

अध्यात्ममधिदैवं च करणान्यधि404दै405वताः।
प्राणस्वरूपमा406पद्यजहुर्मृत्युमिति श्रुतिः॥८०॥

तत्रैवार्थे बृहदारण्यकश्रुतिं दर्शयति—अध्यात्ममिति॥८०॥

घटतेऽसाविदं सर्वं सर्वस्यायुर्यतो ह्यसुः।
तस्मात्तं तद्विदः प्राहुः सर्वायुषमनेकशः॥८१॥

अथै407ना मृत्युमत्यवहदित्याद्या श्रुतिः श्रुतिशब्देन गृह्यते। तस्मात्सर्वायुषमुच्यत इत्यस्यार्थमा–घटतेऽसाविति। प्राणविषया निमित्तार्था

सप्तमी। प्राणनिमित्तं सर्वं प408रस्परं वर्धयन्तो वर्तन्ते तेन प्राणः सर्व स्यायुर्भवतीत्यर्थः॥८१॥

सर्वायुषगुणेनासुं य आत्मानमुपासते।
ते तं सर्वायुषं प्राणं प्राप्नुवन्त्यभियोगतः॥८२॥

सर्वमेवेत्यादेरर्थमाह—सर्वायुषेति॥८२॥

तस्य त्वन्नमयस्यैष योऽयं प्राणमयः स्मृतः।
भवः शरीरे शारीर आत्मा तेनाऽऽत्मवान्यतः॥८३॥

नोपासनविधानमस्मिन्प्रकरणे विवक्षितमुपक्रमोपसंहारयोर्बह्मात्मैकत्वप्रतिपादनेनैवोपक्षयान्मध्यग्रन्थस्योपासनविधौ तात्पर्ये वाक्यभेदप्रसङ्गादतस्तत्र तत्र फलश्रुतेरर्थवादमात्रतेत्यभिप्रेत्य तस्यैष एवेत्यादेरर्थमाह—तस्य त्विति॥८३॥

सत्यादिलक्षणो वाऽऽत्मा गौणो ह्यात्मामुतोऽपरः।
सर्वान्तरत्वान्न्याय्यैवं यः409 पूर्वस्येति हि श्रुतिः॥८४॥

पूर्वं पूर्वकोशस्योत्तरोत्तरकोशो भवत्यात्मेत्यापातदर्शनेन व्याख्यातं तदयुक्तमात्म- शब्दस्यामुख्यार्थत्वप्रसङ्गात्प्रकृतपरामर्श्येतच्छब्दव्याकोपाच्चातः सर्वकोशाध्यासाधिष्ठानभूतं चिदात्मैवा410त्राऽऽत्मशब्देन विवक्षित इत्याह—सत्यादीति। प्रत्यग्भूतस्य परमात्मनो मु411ख्यात्म412त्वात्तस्य सर्वान्तरत्वात्तदभ्यन्तरवस्त्वन्तराभावात्कोशात्मनश्च गौणात्मत्वाद्यः पूर्वस्येतिश्रुतेश्चैवमुपपन्नत्वादेष शब्दस्य च प्रकृतपरामर्शिनो दर्शितन्यायेन युक्तत्वाञ्चिदात्मैवात्र सत्यादिलक्षणो विवक्षित इत्यर्थः॥८४॥

मिथ्यात्मनां हि सर्वेषां सत्यादिगुणलक्षणम्।
व्याविद्धाशेषसंसारमात्मानं तं प्रचक्ष्महे॥८५॥

कोशपञ्चकस्य कल्पितत्वाच्च परमात्मैवात्राऽऽत्मशब्देन गृह्यत इत्याह–मिथ्यात्मनामिति॥८५॥

२ ख. °युष्ट्वगु°।

न ह्यात्मवान्भवेत्सर्पो दण्डाद्यध्यासरूपिणा।
आत्मना वितथेनैव सर्पो रज्ज्वात्मनाऽऽत्मवान्॥८६॥

उक्तमर्थं दृष्टान्तेन साधयति–न हीति॥८६॥

प्राणाद्ध्येवेत्यतो न्यायाद्वक्ष्यमाणश्रुतीरितात्।
व्युत्थाप्यान्नमयं तुच्छं प्राणोऽस्मीतिव्यवस्थितः॥

यस्तं मनोमयात्मानं संक्रामयितुमुच्यते॥८७॥

तृतीयपर्यायस्य तात्पर्यमाह–प्राणाद्धीति। प्राणाद्ध्येव खल्विमानि भूतानि जायन्त इति भृगुवल्ल्यामुक्तेन न्यायेनान्नमयं निरस्य प्राणोऽस्मीति यो व्यवस्थितस्तं मनोमयमात्मानं प्रापयितुं तृतीयकोशप्रवृत्तिरित्यर्थः॥८७॥

तस्मादित्यादिवाक्यस्य त्वर्थं पूर्वमवादिषम्।
प्राधान्यं यजुषो ज्ञेयं हविःप्रक्षेपकारणात्॥८८॥

तस्मादितिप्रकृत्यर्थमुपादाय तमेव वैशब्देन स्मृत्वा प्रत्ययार्थस्यैतस्मादित्युपादानात्तदेत- च्छब्दयोश्चसामानाधिकरण्यात्प्रकृतिप्रत्ययार्थयोरेकत्वावमात्कार्यस्य कारणव्यतिरेकेणा- भावात्कार्यकारणविलक्षणं ब्रह्मैव तत्त्वमित्येतदत्र पदत्रये विवक्षितमिति पूर्वमेवोक्तमित्याह—तस्मादित्यादीति। अन्यत्वं मनोमयस्य प्राणमयादत्यन्तविलक्षणत्वमन्तरत्वमभ्यन्तरत्वं प्रत्यगात्म413त्वं तु परमार्थात्मव्याप्तत्वात्तदति-रिक्तस्वरूपाभावादित्यवधेयम्। तस्य यजुरेव शिर इत्यत्र यजु414षः शिरस्त्वं प्राधान्यादित्यादिभाष्योक्तं व्यक्ती करोति—प्राधान्यमिति॥८८॥

स्वाहा स्वधा वषट् चेति संनिपत्योपकुर्वते॥८९॥

शिरआदिप्रकॢप्तिस्तु वाचनिक्यथ वाऽस्त्विह॥
वचनं बलवद्यस्मात्पौरुषेयी हि कल्पना॥९०॥

हविषो यजुषा415ऽग्नौप्रक्षेपमेव प्रकटयति–स्वाहेति॥८९॥

कल्पनातो वचनस्य बलीयस्त्वमङ्गीकृत्य पक्षान्तरमाह—शिरआदीति॥९०॥

पदवाक्यस्वरस्थाननादवर्णादिसंयुता।
यत्नो416त्थमानसी वृत्तिर्यजुःसंकेतवर्त्मना॥९१॥

ऐश्वरज्ञानसंदृब्धा पदवाक्यानुरञ्जिता।
श्रोत्रादिकरणद्वास्था यजुरित्यभिधीयते॥९२॥

यजुःशब्देन बाह्यो यजुर्वेदो गृह्यते तस्य कथमान्त417रं मनोम418यं प्रति शिरस्त्वमित्याशङ्क्य मनसो हीत्यादिभाष्येणोत्तरमाह—पदेति। सा च पदाद्यनुरक्ता विशिष्टा मानसी वृत्तिःश्रो419त्रं मनश्चेतिकरणाधीना गृह्यमाणा यजुःसंकेतमर्हतीति विशिनष्टि। पदवाक्येति॥९१॥९२॥

ज्ञानात्मत्वे हि मन्त्राणां घटते मानसो जपः।
ज्ञानस्याशब्दरूपत्वादृगावृत्तिर्न सिध्यति॥
अशक्यत्वान्न चाऽऽवृत्तिर्घटादेरिव शक्यते॥९३॥

चैतन्योपरक्ता विशिष्टा बुद्धिवृत्तिश्चैतन्यं वा प्रागुक्तबुद्धिवृत्तिविशिष्टं यजुरादिशब्दवाच्यमित्यत्र युक्तिमाह—ज्ञानात्मत्वे हीति। यजुरादिमन्त्राणां ज्ञान420स्वरूपत्वे तेषां मान421सो जपो विधीयमानो युज्यते ज्ञानस्य शब्दत्वमन्तरेण क्रियात्वादावृत्तियोग्यत्वादित्यर्थः। यदि तु यजुरादिशब्दानां घटादिवद्बाह्यद्रव्यत्वं गृह्यते तदा मनसो बाह्येऽर्थे स्वातन्त्र्याभावात्तेषां मनोविषयत्वायोगान्मानसो जपो न सिध्येदित्याह— ऋगावृत्तिरिति। आकाशत्वं प्रपञ्चयति—न422 चेति। क्रियैवाऽऽवर्त्यते न द्रव्यं शब्दस्य च घटादिवद्द्रव्यत्वेन मानस्यावृत्तिर्युक्तेत्यर्थः॥९३॥

आवृत्तिश्चोद्यते चर्चा श्रुतौ त्रिः प्रथमामिति॥९४॥

ऋगादेरावृत्तिरेव मा भूदित्याशङ्क्य त्रिः प्रथमामन्वाह त्रिरुत्तमामितिश्रुतिविरोधान्मै423वमित्याह—आवृत्तिरिति॥९४॥

अथर्चोविषयत्वेऽपि स्मृतेरावृत्तिरिष्यते।
ऋगर्थविषयायाश्चेन्मैवं गौणी हि सा भवेत्॥९५॥

आवृत्तिसिद्ध्यन्यथानुपपत्त्या क्रियात्वमृगादेर्वाच्यमित्यत्रान्यथाऽप्युपपत्तिं चोदयति—अथेति। मन्त्रेभ्यः स्मृतेरन्यत्वादन्यावृ424त्तिर्गौणी प्रसज्येतातो नान्यथाऽप्युपपत्तिरित्युत्तरमाह—मैवमिति॥९५॥

भूयोऽल्पीयःफलत्वं च बाह्यमानसयोर्जपे।
अतो मानसमुख्यत्वभितरस्यास्तु गौणता॥१६॥

किंच वाचनिकजपस्याल्पफल425त्वं मानस426स्य जपस्य साहस्रो मानसः स्मृत इतिबहुफलत्वं स्मर्यते। तदपि यजुरादेर्मनोवृत्तित्वे युक्तमि427त्याह—भूय इति॥९६॥

नाऽऽत्मानं लभते गौणी मुख्यार्थे सति कल्पना।
तस्मादैश्वरविज्ञानं यजु428र्बुद्ध्याद्युपाश्रयम्॥९७॥

गौणेऽपि जपे का क्षतिरित्याशङ्क्य मुख्यसापेक्षत्वात्तस्य तेनैव चरितार्थत्वादानर्थक्यमित्याह—नाऽऽत्मानमिति। मन्त्राणां मनोवृत्तित्वस्यावश्यकत्वान्मनो- वृत्तीनां च सदा चिदात्म429व्या430प्तत्वेनैव सिद्धेश्चिदात्मत्व431मिष्टमित्याह—तस्मादिति॥९७॥

एवं च सति नित्यत्वं वेदानां घटतेऽञ्जसा।
वाचकत्वमशब्दस्य सिद्धं न स्फोटरूपतः॥९८॥

न केवलं मन्त्राणां मनोवृत्तित्वे सत्यावृत्तिरेव घटते किंतु परम्परया चिदात्मत्वे सति नित्यत्वमपि सिध्यतीत्याह–एवं चेति। यदा वेदस्य चिदात्मत्वमुक्तरीत्या सिध्यति तदा तस्य ज432डं शब्दरूपं परिहाय चिदात्म433रूपेणैवा434वस्थितस्य धर्माद्यर्थबोधकत्वमपि सिध्यतीतिलाभान्तरमाहवाचकत्वमिति। ननु स्फोटरूपेणार्थप्रतिपादकत्वेऽपि वेदस्याशब्द435स्य

बोधकत्वं सिध्य436ति। स्फोटस्य वर्णेभ्योऽर्थान्तरत्वादित्याशङ्क्य स्फोटस्याप्रामाणिकत्वा437न्मैवमित्याह—न स्फोटेति॥९८॥

सर्वे वेदाश्चयत्रैकं भवन्तीति श्रुतेर्वचः।
आदेशो ब्राह्मणं विद्याद्यस्मात्स विधिरूपभृत्॥९९॥

ब्रह्मणो वा परस्येयमाज्ञा ब्राह्मणलक्षणा।
तस्मादादेश इत्येवं ब्राह्मणं संप्रचक्षते॥३००॥

अथर्वाङ्गिर438साभ्यां ये दृष्टाः पुष्ट्यादिकारिणः।
एत एव हि मन्त्राः स्युरथर्वाङ्गिरसोऽत्र तु॥१॥

मनोवृत्तिव्यापकचिदात्मत्वे वेदानामुक्ते प्रमाणमाह—सर्व इति। यत्र साक्षिभूते चिदात्मनि सर्वे वेदास्तादात्म्येनैकतां गच्छन्ति स मानसीनः साक्षितया मनसि भवो जनानां सर्वेषामात्मेत्यर्थः॥९९॥ ॥३००॥१॥

मनोमयात्मसाक्ष्यत्र श्लोकः पूर्ववदुच्यते।
यथोक्तवेदसिद्ध्यर्थं लिङ्गं श्लो439कोऽपि कीर्त्यते॥२॥

मनोवृत्तिनिष्ठमात्मचैतन्यमनादिनिधनं यजुरादिशब्दवाच्यत्वमित्युक्तेऽर्थे मन्त्रमवतारयति–मनोमयेति। तदेव स्पष्टयति–यथोक्तेति॥२॥

अभिधाननिवृत्तिर्हि ब्रह्मणो नान्यतो यतः।
सदावगमरूपत्वान्मनो440 यस्मान्निवर्तते॥३॥

अवतारितस्य मन्त्रस्य विवक्षितमर्थं दर्शयति–अभिधानेति। वाचां मनसां चाविषय441त्वमत्र मनोमयस्योच्यते तच्च परमात्मपरिग्रहे परमुपपद्यते तस्य कूटस्थावगतिरूपस्य वागाद्यगोचरत्वाद्यस्मा442देवं तस्माद्ब्रह्मैवात्र ग्राह्यं न शब्दराशिरित्यर्थः॥३॥

इति तृतीयः खण्डः॥३॥

यद्धि वाचाऽनभ्युदितं मनुते मनसा न यत्।
ब्रह्मणोऽविषयत्वं हि श्रुतिर्वाङ्मनसोऽवदत्॥४॥

ब्रह्मणो वागाद्यगोचरत्वे श्रुत्यन्तरमनुकूलयति–यद्धीति। यतो वाचो निवर्तन्त इत्यादिश्रुतिः॥४॥

ना443गोचरं ययोरस्ति ब्रह्म मुक्त्वा निरञ्जनम्।
ते मनोमयनिर्दिष्टे विद्याद्वाङ्मनसे बुधः॥
इतीममर्थं चोद्दिश्य श्लोकं श्रुतिरुदाहरत्॥५॥

ब्रह्मैव वाङ्मनसयोरविषयो व्यतिरिक्तं सर्वं ययोर्विषयत्वेनैव वर्तते444 ते वाङ्मनसे मनोमयकोशे निर्दिश्येते यजुरादयश्चप्रसिद्धा गृह्यन्ते रूढिप्राबल्यादितिपक्षान्तरमाह–नेत्यादिना॥५॥

ब्रह्मणोऽनवरत्वात्तु नेह मन्त्राभिधेयता।
वृत्तिप्रधानो वेदात्मा वृत्तिमान्स्यादथोत्तरः॥६॥

ब्रह्मैव मन्त्रे प्रतिभातीत्याश445ङ्क्य कोशप्रकरणविरोधान्मैवमित्याह–ब्रह्मण इति। न हि मनसः साक्षिवेद्यत्वेनानपेक्षस्य वागादिविषयत्वं वृत्तिविरोधाच्च न स्वविषयत्वं सूत्रस्य महत्त्वात्तदात्मके मनसि ब्रह्मशब्दश्चोपपद्यते तस्य ब्रह्मणो मनोमयस्याऽऽनन्दमुपासनाफलं विद्वानुपासनातो ब्रह्मानन्दं च प्राप्य हिरण्यगर्भावस्थायां कदाचिदपि न बिभे446तीतिमन्त्राक्षराण्यपि कोशपक्षे निर्वक्ष्यन्तीतिभावः। चतुर्थं पर्यायमुत्थापयति–वृत्तीति॥६॥

व्यवसायात्मिका बुद्धिर्वृत्तिमानित्युदीर्यते।
यज्ञं तनुत इत्येतत्कर्तृत्वे सति युज्यते॥७॥

कोऽसौ वृत्तिमानित्यपेक्षायामाह–व्यवसायेति। विज्ञानशब्देन वृत्तिरेवोच्यते न वृत्तिमानित्याशङ्क्य वाक्यशेषविरोधा447न्मैवमित्याह–यज्ञमिति॥७॥

आत्मचैतन्यरूपा धीः कर्त्र्यात्मा न ध्रुवत्वतः।
यज्ञारम्भस्य हेतुत्वात्तदभावाद्वृथा यजिः॥८॥

विज्ञानशब्देन कर्तृग्रहणेऽपि यज्ञादिकर्तृत्वमात्मनः स्यादित्याशङ्क्य बुद्धिरेवाऽऽत्माभासा कर्त्री न त्वात्मा कूटस्थत्वादित्याह—आत्मेति। चिदाभासाया बुद्धेरेव कर्तृत्वं प्रकारान्तरेण प्रतिपादयति–यज्ञेति। कूटस्थत्वादात्मनोऽकर्तृत्वात्तदाभासाया बुद्धेरेव यज्ञानुष्ठानकर्तृत्वात्तत्कर्तृत्वानङ्गीकारे कर्तुरन्यस्याभावाद्यागादिस्वरूपाभावात्तदीय- फलारम्भस्य दूरनिरस्तत्वाच्चिदाभासोपरक्ता बुद्धिरेव कर्त्री वक्तव्येत्यर्थः॥८॥

श्रद्धाया उत्तमाङ्गत्वं स्मृ448तिरश्रद्धयेति च॥९॥

सत्यं हि श्रदिति प्राहुर्धत्ते धीः प्रत्यगात्मनि॥
तद्यतस्तां महात्मानः श्रद्धामित्यूचिरे धियम्॥१०॥

एवं विज्ञानशब्दार्थमुक्त्वा तस्य श्रद्धैव शिर इत्यस्यार्थमाह–श्रद्धाया इति। शिरसः शरीरावयवानामुत्तमत्वाद्बुद्धिवृत्तीनां च श्रद्धायास्तथात्वादश्रद्धया हुतं दत्तमित्यादिस्मृतेश्च श्रद्धाप्राधान्याधिगमादुक्तेन सामान्येन शिरसि कर्तव्या श्रद्धादृष्टिरित्यर्थः॥९॥

श्रद्धाशब्दार्थमाह–सत्यं हीति। श्रच्छब्दवाच्यं सत्यवचनं तदात्मनि स्वस्मिन्नेव धत्ते विवेकधीरित्यसौ449 श्रद्धेत्युक्त्वा यद्वा श्रच्छब्देन सत्यमवितथं ब्रह्मोच्यते तत्प्रत्यगात्मनि शमादिसंस्कृता धीर्धारयत्यतो यथोक्ता धीरेव श्रद्धेत्यर्थः॥१०॥

योगो युक्तिः समाधानमात्मा स्यात्तदुपाश्रयात्।
श्रद्धादीनि यथोक्तार्थप्रतिपत्तिक्षमाणि450 च॥११॥

योग आत्मेत्यस्यार्थमाह—योग इति। देहावयवानां मध्यमात्मा तत्र योगदृष्टिः कर्तव्येत्यर्थः। तदेवोपपादयति–तदुपाश्रयादिति। यथा हस्ताद्यङ्गानि देहमध्यमाश्रित्य स्वव्यापारसमर्थानि तथा सत्यादीनि यथोक्तं योगाश्रयाणि सन्ति यथार्थप्रतिपत्तौ समर्थानि भवन्तीत्यनेन सामान्येनात्मनि योगदृष्टिरित्यर्थः॥११॥

महत्तत्त्वं महो ग्राह्यं नीडं कार्यस्य तद्यतः।
व्याचष्टे तन्महद्यक्षं श्रुतिः प्रथमजं तु यत्॥१२॥

महः पुच्छं प्रतिष्ठेत्यत्र महःशब्दार्थमाह–महदिति। सूत्रं महत्तत्त्वं तस्य सर्वकार्याश्रयत्वान्महत्त्वमित्यत्र श्रुत्यन्तरं प्रमाणयति। व्याचष्ट इति॥१२॥

इति चतुर्थः खण्डः॥४॥

विज्ञानं तनुते यज्ञं कर्माण्यन्यानि यानि च।
सर्वे च देवा विज्ञानं ब्रह्म जेष्ठमुपासते॥१३॥

विज्ञानमयस्य महत्तत्वं पुच्छवत्प्रतिष्ठात्वेन ध्येयमित्युक्त्वा ब्राह्मणोक्तेऽर्थे मन्त्रमवतारयति–विज्ञानमिति॥१३॥

परमेव हि तद्ब्रह्म बुद्धिकञ्चुकभृत्स्वयम्।
घटादाविव विज्ञप्तौ धीरात्मानं ततोऽर्पयेत्॥१४॥

ब्रह्मशब्दार्थमाह—परमेवेति। यथोक्तस्य ब्रह्मणो ग्रहणे प्रयोजनमाह–घटादाविति। यथा घटादौ विषये धीरात्मानमर्पयन्ती घटादिविषयं प्रकाशयति तथा विज्ञप्तिरूपे ब्रह्मणि धीरात्मानमर्पयन्ती ब्रह्म प्रकाशयति ततो बुद्ध्युपरक्तं ब्रह्मेत्युक्ते मुमुक्षोर्ब्रह्मप्रतिपत्तिः सुकरा भवतीत्यर्थः॥१४॥

अग्रजं ब्रह्म विज्ञानं देवा अग्न्यादयः सदा।
उपासते तदाप्त्यर्थं ते देवा इति च श्रुतिः॥१५॥

ब्रह्मणो यत्प्रकृतमुपासनं तत्प्रकटयति—अग्रजमिति। तत्रैव श्रुत्यन्तरं संवादयति—ते देवा इति॥१५॥

यथोक्तेन प्रकारेण विज्ञानं ब्रह्म वेद चेत्।
प्रमायति न चेत्तस्मादुक्तकोशात्मशक्तितः॥१६॥

प्रकृतस्योपासनस्य पापक्षयः सर्वकामावाप्तिश्चेति द्विविधं फलम्। तत्र पापक्षयं फलं विज्ञानं ब्रह्म चेत्यादिवाक्यव्याख्यानेन कथयति—यथोक्तेनेति। प्रकृतोपासनस्य प्रमादप्रसङ्गं दर्शयति—उक्तेति। प्रथमजबुद्ध्युपाधिब्रह्मोपासने प्रवृत्तो यद्यात्मबुद्धिं प्राचीने कोशत्रये न करोति तदोपासकस्य शरीराभिमानाभावात्पापक्षयः सिध्यतीत्यर्थः॥

पाप्मनामाश्रयो यस्माद्रूपनामक्रियात्मकः।
देहोऽतस्तत्प्रहाणेन हानिः स्यात्सर्वपाप्मनाम्॥१७॥

शरीरे पाप्मनो हित्वेत्यस्यार्थं प्रपञ्चयति—पाप्मनामिति। देहाभिमाननिमित्तत्वात्पाप्मनां देहाभिमानाभावे सर्वपापहानिः सिध्यतीत्यर्थः॥१७॥

विज्ञानमहमस्मीति तावन्मात्राभिमान्यतः451
शरीरे पाप्मनो हित्वा सर्वान्कामान्समश्नुते॥१८॥

अवशिष्टमुपासनाफलं सर्वान्कामान्समश्रुत इतिवाक्यव्याख्यानेन कथयति—विज्ञानमिति॥१८॥

अणिमादिगुणैश्वर्यो बुद्ध्यात्मा कार्यरूपिणः।
कार्यं हि कारणव्याप्तमतः कामान्समश्नुते॥१९॥

उपासकं हिरण्यगर्भरूप452मापन्नं विशिनष्टि—अणिमादीति। कामानां विशेषणं कार्यरूपिण इति कामानां कार्यरूपित्वे कथमुपासकस्य तत्प्राप्तिरित्याशङ्कयाऽऽह—कार्यं हीति। उपासकस्य हिरण्यगर्भभावं प्राप्तस्य453सर्वकर्मफ454लकारणत्वात्कारणस्य455च कार्यव्यापकत्वादुपासकस्य युक्ता सर्वकामावाप्तिरित्यर्थः॥१९॥

ज्ञानकर्मफलोपाधिविज्ञानं प्रत्यगात्मनः।
आनन्दमय इत्यत्र भण्यते कर्तृशान्तये॥२०॥

पञ्चमपर्यायस्य तात्प456र्यार्थमाह—ज्ञानेति। सुखादि ज्ञानकर्मफलं तदात्मकं यदन्तःकरणं तदुपाधि यत्प्रत्यगात्मनो विज्ञानं चैतन्यामासः सोऽत्राऽऽनन्दमय शब्देनोच्यते। आत्मनि यत्कर्तुत्वमुक्तं तन्निवृत्त्यर्थं भोक्तृत्वं तस्य कथ्यत इत्यर्थः॥२०॥

विज्ञानमयशब्देन कर्ता व्याख्यायि पूर्वया।
तस्य प्रत्यक्त्या चाथ श्रुत्या भोक्तोच्यतेऽधुना॥२१॥

उक्तमेव व्यक्ती करोति—विज्ञानेति॥२१॥

शुद्धस्यापि स्वतो बुद्धौप्रियाद्याकारतोदये।
जायते तदुपाधित्वाद्भोक्ताऽऽत्मा स्यादविद्यया॥२२॥

** **नित्यशुद्धबुद्धमुक्तस्वभावस्याऽऽत्मनो न भोक्तृत्वमित्याशङ्क्याऽऽह–शुद्धस्यापीति। प्रत्यगात्मनः शुद्धस्वभावस्यापि बुद्धौप्रियादिपरिणामोदये सति तदुपरक्ततया चैतन्याभासो जायते तदा तदुपाधित्वादविद्ययाऽऽत्माभोक्ता स्यादित्यर्थः॥२२॥

अपरे पण्डितंमन्याः परमेतं प्रचक्षते।
इहैवोपरमादूर्ध्वं भृगोश्चवरुणस्य च॥२३॥

** **आनन्दमयशब्देन चैतन्याभासो जीवो गृह्यत इति स्वसिद्धान्तमुक्त्वा पूर्वपक्षमाह–अपर इति। आनन्दवल्ल्यामानन्दमयशब्देनोक्तस्य भृगुवल्ल्यामानन्दाद्ध्येवेत्यानन्दत्वेन परामर्शात्। भृगुवरुणयोश्च सैषेति पञ्चमपर्यायेणैवोपसंहारादानन्दमयस्याब्रह्मत्वे तदयोगादित्युक्तेऽर्थे हेतुमाह—इहैवेति॥२३॥

अपि चाऽऽनन्दरूपस्य ब्रह्मत्वं बहुशः श्रुतम्।
तथा चाऽऽनन्दवल्लीति व्यपदेशोऽपि युज्यते॥२४॥

आनन्दमयशब्देनोक्तस्याऽऽनन्दशब्देनाभ्यासाच्च तस्य ब्रह्मत्वमिति हेत्वन्तरमाह—अपि चेति। आनन्दवल्लीतिसमाख्यायाश्चाऽऽनन्दमयस्य ब्रह्मत्वं457 प्राधान्येन व्यपदेशाद्ब्रह्मणः प्रधानत्वाज्जीवस्य तदभावान्मयटश्च प्राचुर्यार्थत्वेनाविरुद्धत्वादित्यभिप्रेत्याऽऽह—तथा चेति॥२४॥

कार्याधिकारगत्वात्तु नैतद्ब्रह्म परं भवेत्।
अन्नादिमयवत्कार्यं स्यादानन्दमयोऽप्ययम्॥२५॥

विकारप्रकरणमाश्रित्य सिद्धान्तयति—कार्येति॥२५॥

मयट् चात्र विकारार्थे458 यथैवान्नमयादिषु।
वैरूप्यलक्षणो दोषः प्रायोऽर्थत्वे प्रसज्यते॥२६॥

विकारार्थमयट्शब्दश्रुतेश्चाऽऽनन्दमयो न परमात्मेत्याह—मयट् चेति। आनन्दमये मयटोन विकारार्थत्वं किंतु प्राचुर्यार्थत्वमित्युक्तमाश-

ङ्क्याऽऽह–वैरूप्येति। न चात्रार्थविरोधोऽस्त्यानन्दस्य ब्रह्मत्वे459ऽपि मयडन्तस्य तस्य ब्रह्मत्वे हेत्वभावात्तस्मात्प्रकरणश्रुतिभ्यां कार्यात्मैवाऽऽनन्दमय इत्यर्थः॥२६॥

अपि संक्रमणास्य कार्यताऽध्यवसीयते।
कार्यात्मनां460 हि संक्रान्तिर्युज्यते कारणात्मनि॥२७॥

आनन्दमयस्य परमात्मत्वाभा461वे हेत्वन्तरमाह—अपीति। एतमानन्दमयमात्मानमुपसंक्रामतीति संक्रमणकर्मत्वश्रवणेऽपि कथमानन्दमयस्य कार्यतत्याशङ्क्याऽऽह—कार्यात्मनामिति॥२७॥

अत्ययो वाऽथ संप्राप्तिः संक्रान्तिः स्यात्परात्मनः।
नाऽऽत्मत्वादात्मनः प्राप्तिस्तदु नात्येति कश्चन॥२८॥

आनन्दमयस्य परमात्मनः संक्रान्तेरसंभवमभिधातुं संक्रान्तिं विकल्पयति। अत्ययो वेति। जीवस्य परमात्मनोऽभिन्नत्वान्न परमात्मनि प्राप्तिर्नाम संक्रान्तिः संभवतीति द्वितीयं प्रत्यादिशति। नाऽऽत्मत्वादिति। तद्ब्रह्म कश्चिदपि नात्येतीतिश्रुतेर्न ब्रह्मादिक्रमणं जीवस्य घटते ब्रह्माभेदात्। ब्रह्मणः सर्वगतत्वाच्चेति प्रथमं प्रत्याह—तदुनेति॥२८॥

न चाऽऽत्मना स्वमात्मानमुपसंक्रामतीश्वरः।
नालं स्वस्कन्धमारोढुं निपुणोऽपीह साधकः॥२९॥

स्वेनैव स्वस्यातिक्रमोवा462 प्राप्तिर्वा न संभवतीत्युक्तमर्थं दृष्टान्तेन साधयति—न चेति॥२९॥

शिरआद्याकृतेरत्र मू463र्तामूर्ताद्यसंभवात्।
असंभवःपरे तत्त्वे नेति नेतीतिशास्त्रतः॥३०॥

इतश्चाऽऽनन्दमयस्य नास्ति ब्रह्मत्वमित्याह—शिरआदीति। आनन्दमये शिरआद्यवयवकल्पनया सविशेषत्वसिद्धेर्ब्रह्मणि च परस्मिन्नेति नेतीतिशास्त्रान्मूर्ता464द्यशेषविशेषासंभवान्न सविशेषस्याऽऽनन्दमयस्य ब्रह्मत्वमित्यर्थः॥३०॥

अदृश्येऽनात्म्य इत्येवं पूर्वोत्तरविरुद्धता।
न स्यादाकारवत्त्वाद्धि अस्ति नास्तीतिसंशयः॥३१॥

पूर्वापरविरोधप्रसङ्गाच्चाऽऽनन्दमयस्य न ब्रह्मत्वमित्याह–अदृश्य इति। आनन्दमयस्य सविशेषत्वेनास्ति-त्वस्य प्रसिद्धत्वात्तत्रास्ति नास्तीति संशयायोगाद्ब्रह्मणि च तद्दर्शनान्नाऽऽनन्दमयस्य ब्रह्मत्वमित्याह—न स्यादिति॥३१॥

कार्यात्माऽयमतो ग्राह्यो यथोक्तन्याय465गौरवात्।
भृगोरुपरमाच्चेति कार्यात्मत्वेऽपि युज्यते॥३२॥

उक्तयुक्तिफलं कथयति–कार्यात्मेति। यदुक्तमानन्दमात्रमुक्त्वा—सैषा भार्गवीति भृगुवरुणयोरुपरमणमानन्दमयस्य ब्रह्मत्वं गमयति स्थानप्रामाण्यादिति तत्राऽऽह–भृगोरिति॥३२॥

आनन्दवल्ल्यां ब्र466ह्मोक्तं तदुपायविधित्सया।
अधीहि भगवो ब्रह्मेत्यवोचद्वरुणं भृगुः॥३३॥

तदेवोपपादयितुं संप्रतिपन्नमर्थमाह–आनन्देति॥३३॥

व्याख्यातत्वादुपेयस्य ह्युपायोऽत्रावशिष्यते।
उपायाः कोशाः पञ्चापि यस्मात्तैस्तं प्रप467द्यते॥३४॥

ब्रह्मात्मैक्यज्ञानोपायविधानार्थं भृगुवल्ल्यारम्भ इत्यत्र हेतुमाह—व्याख्यातत्वादिति। तमेवोपायमुपन्यस्यति–उपाया इति॥३४॥

अन्वयव्यतिरेकाभ्यां कोशैरात्मसमीक्षणम्।
क्रियते हि यतस्तेषामुपायत्वं प्रतीयते॥३५॥

कोशानामात्मज्ञानोत्पत्तिहेतुखेनोपायत्वमुपपादयति—अन्वयेति। आनन्दवल्ल्यां ब्रह्मात्मैक्यज्ञानमुपेयमुक्तं भृगुवल्ल्यां तदुपायत्वेनान्नप्राणादिकोशपञ्चकोक्तिद्वारेणा- न्वयव्यतिरेकाख्यव्या468पारो विहितस्तथा चोपायोपेययोः सिद्धत्वाद्वक्तव्यानवशेषादत्रैव भृगोरुपरमणमुचितं न तु पञ्चमपर्यायस्य ब्रह्मविषयत्वादानन्दमयस्य ब्रह्मत्वं शङ्कितव्यमानन्दुशब्दस्यात्रापि कोशविषयत्वादित्यर्थः॥३५॥

स्वातन्त्र्यं यत्र कर्तुः स्यात्तत्रैवासौ नियुज्यते।
फलं कर्त्रनधीनत्वात्संबन्धायैव शक्यते469॥३६॥

अन्वयव्यतिरेकाख्यो व्यापारो नात्र विधीयते। आनन्दो ब्रह्मेति व्यजानादितिविज्ञानस्योक्तत्वात्तस्यैव विधेयत्वादित्याशङ्क्याऽऽह—स्यातन्त्र्यामिति। ज्ञानस्य विधेयत्वाभावे ब्रह्मविदाप्नोति परमित्यादौ ज्ञानसंकीर्तनं किमर्थमिति चेत्तत्राऽऽह—फलमिति। अन्वयव्यतिरेकव्यापारस्य साधनत्वमैक्यज्ञानस्य च साध्यत्वमित्येवं साध्यसाधनसंबन्धसिद्ध्यर्थं प्रकृते वाक्ये फलमैक्यज्ञानलक्षणं विवक्ष्यते न तु विधेयत्वसिद्ध्यर्थं तदुच्यते तस्य कर्त्रधीनत्वराहित्यादेव विध्ययोग्यत्वादित्यर्थः॥३६॥

पञ्च कोशानतस्तस्मै वाक्यार्थप्रतिपत्तये।
स्वतः प्रसिद्धेः शेषस्य ह्युपरेमे भृगुस्ततः॥३७॥

यतो ज्ञानस्य विधेयत्वं नोपपद्यतेऽतो वाक्यार्थप्रतिपत्त्युपायत्वे नान्नादीनानन्दान्तान्पञ्च कोशान्भृगवे वरुणेनोक्तान्प्रतिपाद्या470वशिष्टस्य ज्ञानस्य स्वतो विधिव्यतिरेकेण वाक्यादेव सिद्धत्वाद्भृगुरुपरतवान्न त्वानन्दमयस्य ब्रह्मत्वं प्रतिपन्नवानि471त्युपसंहरति—पञ्चकोशानिति। ततःशब्देन वक्तव्यशेषाभावः परामृश्यते॥३७॥

ब्रह्मताऽऽनन्दरूपस्य केन वा प्रतिषिध्यते।
निरस्ताशेषभेदस्य रूपं तत्परमात्मनः॥३८॥

आनन्दो ब्रह्मेति व्यजानादि472त्यत्राऽऽनन्दशब्दस्य कोशविषयत्वमुक्तमिदानीं तस्य ब्रह्मविषयत्वे473ऽपि नानुपपत्तिरित्याह–ब्रह्मतेति। प्रियमोदादिसर्वविशेषशून्यस्याऽऽ-नन्दस्या474त्राऽऽनन्दशब्देन ग्रहणात्तस्य ब्रह्म475त्वात्तदेवाऽऽनन्दशब्दवाच्यं न साभासमज्ञानमित्यर्थः॥३८॥

प्रियाद्यानन्दरूपाणां भेदो यत्र निवर्तते।
अमनोविषये476ऽत्यन्तं तमानन्दं प्रचक्ष्महे॥३९॥

आनन्दो निर्विशेषो ब्रह्मैवेत्येतदेव प्रकटयति–प्रियादीति॥३९॥

कोशपञ्चक एतस्मिन्निषिद्धेऽज्ञानहेतुके।
नाऽऽनन्दमयता न्याय्या धियां वाचामगोचरे॥४०॥

आनन्दो ब्रह्मेत्यत्राऽऽनन्दशब्देनाऽऽनन्दमयो गृह्यते स्थानप्रामाण्यादित्याशङ्क्याऽऽह—कोशेति। आनन्दस्य निर्विशेषत्वेन वाङ्मनसयोरगोचरत्वादज्ञानतत्कार्यात्मककोश- पञ्चकानन्तर्भावान्न तस्याऽऽनन्दमयत्वमतो नाऽऽनन्दमयस्य स्थानावष्टम्भाद्ब्रह्मत्वं तस्य प्रागुक्तश्रुत्यादिविरुद्धस्याप्रमाणत्वादित्यर्थः॥४०॥

परानन्दस्वभावेन पूर्णा ह्यन्नमयादयः।
कार्यात्मानो477ऽपि तद्धेतोरानन्दमयता भवेत्॥४१॥

तेनैष पूर्ण इतिवाक्याव478ष्टम्भेनाऽऽनन्दमयस्याब्रह्मत्वे हेत्वन्तरमाह–परानन्देति। यथा कार्यात्मानो479ऽन्न-मयादयश्चत्वारोऽपि कोशा ब्रह्मणा परा480नन्दस्वभावेन पूर्णा वर्ण्यन्ते तथाऽऽनन्दमयस्यापि कार्यात्मत्वाविशेषात्तद्धे481तोरानन्देन ब्रह्मणा पूर्णत्वादानन्दमयता न तु ब्रह्मत्वादतो यथा विज्ञानमय आत्माऽऽनन्दमयेन पूर्णस्तथाऽऽनन्दमयोऽपि पुच्छब्रह्मणा पूर्णो न स्वयं ब्रह्मेत्यर्थः॥४१॥

तस्माज्ज्ञानक्रियाकार्यं प्रियाद्यारक्तबुद्धिगम्।
आनन्दमयमात्मानं श्रुतिः सोपाधिकं जगौ॥४२॥

आनन्दमयस्योक्तप्रकारेण ब्रह्मत्वासंभवे फलितं निगमयति—तस्मादिति॥४२॥

प्रियादिवासनारूपो ह्यानन्दमय ईक्ष्यते482
विज्ञानमयसंस्थो यः स्वप्ने वै स्वप्नदर्शिभिः॥४३॥

स्वप्नावस्थायां प्रत्यगात्मना दृश्यत्वाच्चाऽऽनन्दमयस्य न ब्रह्मत्वमित्याह–प्रियादीति॥४३॥

पुत्रादिविषया प्रीतिर्वासना शिर उच्यते।
प्रियलाभनिमित्तोत्थो हर्षो मोदः प्रकीर्तितः॥४४॥

प्रकर्षगुणसंयुक्तः प्रमोदः स्यात्स एव तु।
सुखसामान्यमात्मा स्यादानन्दो भेदसंश्रयात्॥४५॥

तस्य प्रियमेव शिर इत्यादिवाक्यचतुष्टयार्थं संक्षिप्य दर्शयति—पुत्रादीत्यादिना॥४४॥४५॥

उत्कृष्यमाण आनन्दो निष्ठां यत्रा483धिगच्छति।
तदेकं484 सकलं ब्रह्म पुच्छं सर्वाश्रयत्वतः॥४६॥

ब्रह्म पुच्छं प्रतिष्ठेत्यस्यार्थं कथयति–उत्कृष्यमाण इति॥४६॥

आनन्दः पर एवाऽऽत्मा भेदसंसर्गवर्जितः।
स एव सुखरूपेण व्यज्यते पुण्यकर्मभिः॥४७॥

कर्मफलस्याऽऽनन्दस्य सातिशयत्वान्निरतिशयात्परमानन्दादर्थान्तरत्वमापतेदित्या- शङ्क्याऽऽह—आनन्द इति॥४७॥

यावद्यावत्तमोऽपैति बुद्धौधर्मसमाहतम्।
तावत्तावद्धियः स्वास्थ्यं तावत्तावत्सुखोन्नतिः॥४८॥

आत्मरूपस्यैवाऽऽनन्दस्यपुण्यकर्मवशात्तत्फलत्वेनाभिव्यक्तिमुक्तां प्रकटयति। यावदिति॥४८॥

तारतम्यं सुखस्यापि वैचित्र्यादुप485पद्यते।
पुण्यस्य कर्मणस्तस्मादात्मैवाऽऽनन्द उच्यते॥४९॥

तस्मात्कामादिहानेन ह्युत्तरोत्तरवृद्धितः।
श्रोत्रियस्येतिवाक्येन काष्ठाऽऽनन्दस्य भण्यते॥५०॥

ब्रह्मानन्दस्यैव कर्मफलत्वे कथं तस्य तारतम्यमित्याह486–तारतम्यमिति॥४९॥

परमानन्दस्य परमात्माभे487दाज्जीवपरयोश्च भेदाभावाद्ब्रह्मविदि निरस्तकामसंबन्धे ब्रह्मानन्दस्य काष्ठां परिसमाप्तिं सर्वात्म488नाऽभिव्यक्तिं श्रुतिरादर्शयतीत्युक्तेऽर्थे लिङ्गमाह–तस्मादिति॥५०॥

तत्रैतस्मिन्यथोक्तेऽर्थे श्लोकोऽप्युच्चैर्निगद्यते।
मन्त्रद्वारेण वाक्यार्थं कथं नाम प्रपत्स्यते॥५१॥

असत्समोऽसौ भवति योऽसद्ब्रह्मेति वेद चेत्।
अस्ति ब्रह्मेति चेद्वेद सन्तं तं ब्राह्मणा विदुः॥५२॥

सर्वस्य प्रतिष्ठाभूते स्वप्रधाने ब्रह्मणि ब्राह्मणोक्ते मन्त्रमवतार्य तदर्थं संक्षिपति। तत्रेति॥५१॥ इति पञ्चमः खण्डः॥५॥५२॥

सदप्यात्मस्वरूपेण ब्रह्मासदिति वेद चेत्।
सोऽन्नेवेह भवति कोशात्मत्वाभिमानभाक्॥५३॥

असन्नेव स भवति। असद्ब्रह्मेति वेद चेदित्यस्य श्लोकभागरयार्थं प्रपञ्चयति–सदपीति॥५३॥

न हि कोशात्मना सत्त्वमृते ब्रह्म समश्नुते।
कुतः सर्पात्मना सत्त्वमृते रज्जुं सदात्मिकाम्॥५४॥

किमित्यात्मनोऽसत्त्वं कोशरूपेण सत्त्वादित्याशङ्क्याऽऽह–न हीति। दृष्टान्ते सर्पो दार्ष्टान्तिके चाऽऽत्मा कर्तृत्वेन संबध्यते॥५४॥

असद्भ्यः खलु कोशेभ्यः सदेकं ब्रह्म वेद चेत्।
दृशे रूपान्तरासत्त्वात्सन्तं तं ब्राह्मणा विदुः॥५५॥

अस्ति ब्रह्मेतिचेद्वेद। सन्तमेनं ततो विदुरितिश्लोकस्योत्तरार्धं प्रपञ्चयति–असद्भ्य इति। दृशेरात्मनो ब्रह्मणः सकाशाद्रूपान्तरस्यासत्त्वाद्ब्रह्मणश्च सत्त्वाभ्युपगमादिति हेत्वर्थः॥५५॥

यस्मादेवमतो हित्वा कोशानज्ञानकल्पितान्।
निर्विकारमनाद्यन्तं परमात्मानमाश्रयेत्॥५६॥

यतो ब्रह्मरूपेणैवात्मनः सत्त्वं489 न कोशरूपेण कोशानां कल्पितत्वेनासत्त्वादतश्च कोशान्विवेकज्ञानेन विहाय परमात्मानमात्मत्वेन जानीयादित्याह–यस्मादिति॥५६॥

यतः कोशातिरेकेण नासत्त्वं विद्यते परम्।
मृत्युर्वा असदित्येवं घटते श्रुत्युदीरणम्॥५७॥

परमात्मरूपेणापि कोशरूपेणैवाऽऽत्मनोऽसत्त्वं स्यादित्याशङ्क्याऽऽह–यत इति। कोशात्मनैवासत्त्व-मित्यत्र प्रमाणमाह–मृत्युर्वा इति॥५७॥

अस्तीत्येवोपलब्धव्यः सदेवेति च शासनम्।
ब्रह्मात्मव्यतिरेकेण सत्त्वमन्यत्र दुर्लभम्॥५८॥

कोशपञ्चकं मृत्युशब्देन विवक्षितं ब्रह्मात्मना तुं नाऽऽत्मनोऽसत्त्वमित्यत्रापि प्रमाणमाह–अस्तीत्येवेति। श्लोकार्थमुपसंहरति–ब्रह्मात्मेति॥५८॥

तस्यैष एव शारीरो योऽशरीरः सदेकलः।
आनन्दान्तस्य पूर्वस्य ह्यात्मा नाऽऽत्मवतः परः॥५९॥

तस्यैष एव शारीर आत्मा। यः पूर्वस्येत्यस्यार्थमाह–तस्येति॥ ५९ ॥

उक्तं ब्रह्मविदाप्नोति परं नाज्ञोऽसदाश्रयः।
इत्यस्य निर्णयार्थाय परो ग्रन्थोऽवतार्यते॥६०॥

अथातोऽनुप्रश्ना इत्यादेरुत्तरग्रन्थस्य तात्पर्यमाह–उक्तमिति। ब्रह्मविदाप्नोति परमित्यत्र ब्रह्मविदेव परं ब्रह्म प्राप्नोति नाज्ञोऽविद्वान्कल्पितको490शपञ्चकमात्मत्वेगतत्वादित्युक्त491मस्यैवार्थस्याऽऽक्षेपद्वारा समाधानार्थमुत्तरग्रन्थप्रवृत्तिरित्यर्थः॥६०॥

साधारणं परं ब्रह्म विदुषोऽविदुषश्च चेत्।
प्राप्त्यप्राप्ती समे स्यातां नियमे हेत्वसंभवात्॥६१॥

श्रुत्या विवक्षितमाक्षेपमेव दर्शयति–साधारणमिति–विदुषोऽविदुषश्च साधारणं492 स्वरूपं यदि परं ब्रह्म तदा द्वयोरपि ब्रह्मप्राप्तिस्तदप्राप्तिर्वा समाने युज्येते न तु विदुषो ब्रह्मप्राप्तिरविदुषश्च तदप्राप्तिरिति नियमो नियामकाभावादित्याक्षिप्य नियमसमर्थनार्थमुत्तरग्रन्थप्रवृत्तिरित्यर्थः॥६१॥

कार्यमात्रावबद्धान्तःकरणत्वात्तमस्विनः।
न शक्याऽस्तीति धीः कर्तुं स्वतःसिद्धात्मवस्तुनि॥
अतोऽस्यास्तित्वसिद्ध्यर्थं कल्पनातीतरूपिणः॥६२॥

उत्तरग्रन्थस्यैव तात्पर्यान्तरमाह–कार्यमात्रेति। कोशपञ्चकस्याऽऽत्मत्वेन प्रतिपन्नत्वात्परमात्मा नास्त्येवेतिशङ्कायां तदस्तित्वसाधनायावशिष्टप्रश्नद्वयसमाधाना493य च समनन्तरग्रन्थसमुत्थानमित्यर्थः॥६२॥

अथात इत्यनुप्रश्ना वक्ष्यन्ते निर्णयार्थिने494॥६३॥

अथानन्तरमस्यैव साधारण्याप्रमेयतः।
आचार्योक्तिमनुप्रश्नाः शिष्यस्य गुरुसंनिधौ॥६४॥

एवं तात्पर्यमुक्त्वा पदार्थान्कथयति–अथेति। ब्रह्मात्मैक्यज्ञानस्य फलवत्त्वकथनानन्तर्यमथशब्दार्थः। यतो विदुषोऽविदुषश्च साधारणं ब्रह्मयतश्चाप्रमेयमतः प्रश्ना भवन्तीत्यतःशब्दार्थः। आचार्योक्तेरनन्तरमित्यनुशब्दार्थः॥६३॥६४॥

अप्यविद्वानमुं लोकं प्रेत्य कश्चित्समश्नुते।
न चेदविद्वानाप्नोति विद्वानेतीति का प्रमा॥
स्यान्न वेत्यपरः प्रश्नस्त्रित्वाद्धि बहुवागियम्॥६५॥

प्रश्नानेव विभज्य कथयति–अपीति। अविद्वान्क495श्चिन्मृतः सन्कैवल्यं प्राप्नोत्युत न प्राप्नोतीत्येकः प्रश्नः। आत्मत्वे सत्यपि ब्रह्मणोऽविद्वान्विद्याबलाभावान्न प्राप्नोतीति चे496त्तदा विद्वानपि प्राप्नोत्युत नेति द्वितीयः। ब्रह्मप्राप्तेरविद्यानिवृत्तेरति497रेकाद्ब्रह्मास्ति नास्तीति तृतीयः। तेन बहुवचनमित्यर्थः॥६५॥

प्लुतिश्चात्र विचारार्था विचार्यं वस्त्विदं यतः।
एतेषां खलु चोद्यानामुत्तरार्थोत्तरा श्रुतिः॥६६॥

प्लुतेर्विचारविषयत्वोक्तिपूर्वकं सोऽकामयतेत्या498द्युत्तरसंदर्भस्य तात्पर्यमाह–प्लुतिश्चेति॥६६॥

द्वयोः सद्भावपूर्वत्वादस्तित्वं तावदुच्यते॥६७॥

घटाङ्कुरादि499यत्कार्यं दृष्टं सत्कारणं हि तत्।
आकाशादि च500नः कार्यं तदप्येवं प्रतीयताम्॥६८॥

क्रममतिक्रम्य तृतीयप्रश्नस्य प्राथम्येन निर्णये हेतुमाह–द्वयोरिति॥६७॥

ब्रह्मणः सत्त्वमनुमानेन साधयति–घटेति। आकाशादि सत्पूर्वकं क्तार्थत्वाद्धादिवदिति लौकिकव्याप्त्यवष्टम्भेन सत्कारणं तावदधिगतं तस्य च देशादिकारणत्वेन दे501शाद्यनवच्छिन्नत्वाद्ब्रह्मत्वं सिद्धमित्यर्थः॥६८॥

असतश्चेदिदं कार्यं सर्वं स्यादसदन्वितम्।
असतः कारणत्वं च निरात्मत्वान्न सिद्ध्यति॥६९॥

जगत्कारणस्य ब्रह्मणो विशेषतोऽनुपलम्भेनासत्त्वादसदेव कारणं जगतः स्यादित्याशङ्क्याऽऽह–असतश्चेदिति। किंच कारणत्वं कार्यापेक्षया नियतप्राक्कालसत्त्वं तन्न शून्यस्य संभवतीत्याह–असत इति॥६९॥

ध्रुवः502 सन्कुरुते कार्यमयस्कान्तो मणिर्यथा।
कारणत्वं भवेदेवं कुर्वतोऽतिशयः कुतः॥७०॥

ब्रह्मापि जगतो न कारणं कूटस्थत्वादित्याशङ्क्याऽऽह–ध्रुवः503 सन्निति। कुर्वत्कारणमित्यङ्गीकरणान्न कूटस्थस्य कारणत्वमित्याशङ्क्याऽऽह—कुर्वत इति। सदा कुर्वच्चेत्कारणं तदाऽतिशयस्य विशेषस्याभावादेकरूपत्वात्कूटस्थस्यैव कारणत्वमापद्येत कदाचित्कुर्वच्चेत्कारणं तर्हि कारणत्वमकुर्वत एव कुर्वद्रूपस्याकुर्वत्कार्यत्वादित्यर्थः॥७०॥

साविद्यः प्रत्यगात्मा यो वियद्योनिः पुरोदितः।
सोऽकामयत नाविद्यां विना कामोऽस्ति कस्यचित्॥७१॥

आकाशादिकारणस्य प्रत्यगात्मनः सद्भावं प्रसाध्य तत्रैवा504र्थे समनन्तरवाक्यमवतारयति–साविद्य इति। आकाशादिकारणस्याज्ञातस्य प्रत्यगात्मनः सशब्देनोपादाने हेतुमाह–नाविद्यामिति॥७१॥

अलातस्यैकरूपस्य वैश्वरूप्यं यथाऽन्यतः।
रूपाभिधानभ्रान्त्युत्था बहुतेयं परात्मनः॥
प्रजायेयेत्यतो वक्ति नामरूपात्मना प्रभुः॥७२॥

अविद्यया कामयितृत्ववत्परस्याऽऽत्मनो बहुभवनमपि तथैवे505ति दशयन्नन्तरं वाक्यमुत्थापयति–अलातस्येति। तस्य नैश्चल्ये सति तेजोमात्रत्वेनैकरूपस्य बहुरूपत्वं दीर्घत्ववकत्वादिचलनविशेषाद्यथोत्पद्यते तथा परस्याऽऽत्मनः स्वारस्येनैकरूपस्य नामरूपात्मकाविद्याजनितभ्रान्तिवशाद्बहुभवनं भवति। अतो बहुभवनस्याविद्यामन्तरेणायोगान्नामाद्यात्मना प्रजायेयेति श्रुतिरित्यर्थः॥७२॥

आत्मस्थे नामरूपे ये506 देशकालाद्यपेक्षिणी।
जगत्कर्मवशादीशाद्व्यज्येते बहुधाऽऽत्मनः॥७३॥

व्याकृतिर्या तयोर्विष्णोः प्रत्यहं नामरूपयोः।
भूयो भवनमेतत्स्यान्मायिनोऽनेकता यथा॥७४॥

अविद्यया बहुभवनं परस्य प्रपञ्चयति–आत्मस्थ इति। जगच्छब्देन प्राणिजातं गृह्यते। वार्तिकद्वयेऽपि नामरूपशब्देनाविद्योच्यते॥७३॥७४॥

न ह्यनवयवस्यास्य बहुत्वं युज्यतेऽञ्जसा।
तस्माद्भाक्तं बहुत्वं स्याद्व्योम्नो यद्वदघटादिभिः॥७५॥

परिणामित्वाद्ब्रह्मणो मुख्यमेव बहुभवनं नाविद्याकृतमित्याशक्याऽऽह–न हीति॥७५॥

श्रौतं सृष्ट्यादिविषयमीश्वरालोचनं तपः।
कार्यत्वाल्लौकिकस्येह तपसोऽसंभवो भवे507त्॥७६॥

स तपोऽतप्यतेत्यत्र तपःशब्दार्थमाह–श्रौतमिति। किमिति तपःशब्देन प्रसिद्धमेव कृच्छ्रादि नोच्यते तस्य कार्यत्वेन वर्णाश्रमादिसर्गोत्तरकालत्वाद्ब्रह्माणि चासंभवादित्याह–कार्यत्वादिति॥७६॥

यथाश्रुति समालोच्य ससर्ज जगदीश्वरः।
यथाक्रमं यथारूपं यथाकर्म यथाकृति॥७७॥

स सपस्तप्त्वेत्यादेरर्थमाह–यथाश्रुतीति॥७७॥

मायावी जगदुत्पाद्यमाययैवेश्वरेश्वरः।
सर्पादीन्कल्पितान्स्रग्वत्तदेवानुविवेश सः॥७८॥

तत्सृष्ट्वेत्यादेरर्थं कथयति–मायावीति॥७८॥

मृद्वच्चेत्कारणं ब्रह्म कार्यं सर्वं तदात्मकम्।
तदात्मताति508रेकेण प्रवेशोऽन्यो न विद्यते॥७९॥

जगत्सृष्ट्वाऽत्र प्रविष्टं स्रष्टृ बह्मेत्युक्तं प्रवेशमाक्षिपति–मृद्वदिति॥७५॥

न चान्यः प्रावि509शद्विष्णोः श्रूयते ह्येककर्तृता।
सृष्ट्वा जगत्तदेवानुप्राविशच्चेति हि श्रुतिः॥८०॥

कार्यस्योपादानाव्यतिरेकादुपादानस्य ब्रह्मणोऽप्रविष्टदेशाभावात्प्रवेशो न सिध्यति चेत्तर्हि ब्रह्मणोऽन्यस्य कस्यचित्प्रविष्टत्वमेष्टव्यमित्याशङ्क्य सृष्टिप्रवेशयोरेककर्तृकत्वश्रु510ति- विरोधान्नैव मित्याह–न चेति॥८०॥

कपालाद्यात्मना कुम्भं मृद्वच्चेत्प्राविशज्जगत्।
मृदोऽनेकात्मकत्वात्तु घटते नैकतो दृशेः॥८१॥

यथा घटस्य समवायिकारणमेव कपालचूर्णादेर्घटे प्रवेशे सति तदात्मना घटं प्रविशतीति व्यपदिश्यते तथा जगतः समवायिकारणमेव ब्रह्म जगदुत्पाद्य तत्र प्रविष्टमिति व्यपदेशः सिध्यतीति शङ्कते—कपालादीति। वैषम्यप्रदर्शनेन प्रत्यादिशति। मृद इति॥८१॥

अनाप्तदेशवन्मृद्वत्प्रवेशो व्यापिनः कथम्।
प्रवेशश्रवणात्तर्हि परिच्छिन्नं प्रकल्पता511म्॥८२॥

वैषम्यमेव स्फोरय512ति। अनाप्तेति। प्रवेशश्रुत्या परिच्छिन्नत्वं स्रष्टुरिष्यतामित्याशङ्कते–प्रवेशेति॥८२॥

मुखे हस्तादिवच्चायं प्रवेशोऽपि घटिष्यति।
अमूर्तस्यापि नैवं स्यात्कार्यव्यापित्वहेतुतः॥८३॥

परिच्छिन्नत्वाङ्गीकारेऽपि कथं प्रवेशोपपत्तिरित्याशङ्क्याऽऽह–मुख इति। मूर्तस्य मूर्तान्तरे प्रवेशदर्शनात्परस्य चामूर्तत्वान्न कार्ये प्र513वेशो

युज्यते। तस्य कार्यव्यापित्वाद514व्याप्तकार्यदेशाभावादित्युत्तरमाह–अमूर्तस्येति॥८३॥

व्यापि वाऽव्यापि वा कार्यं व्याप्नोत्येव हि कारणम्।
न ह्यात्मशून्यो देशोऽस्ति यं जीवेनाऽऽविशेत्परः॥८४॥

तस्य परिच्छिन्नत्वाङ्गीकारात्कथं कार्यव्यापित्वमित्याशङ्क्याऽऽह—व्यापि वेति। समवायिकारणं परिच्छेदेऽपरिच्छेदे च स्वकार्यं व्याप्नोत्येव तथा च सृ515ष्ट्वा प्रविष्ट इत्येतदनिष्टामित्यर्थः। परस्य व्यापित्वेऽपि जीवस्याव्यापित्वाचेनाऽऽत्मनाऽस्य516 कार्ये प्रवेशः स्यादित्याशङ्क्याऽऽह–न हीति॥८४॥

अथ कारणरूपेण कार्यमीशः समाविशेत्।
अहं ब्रह्मेतिवज्जह्यात्कार्यं कार्यात्मतां तथा॥८५॥

यथा कार्यं कारणरूपेण पर्यवस्यति तथेश्वरो जगदुत्पाद्य तंत्र प्रविशतीत्यभ्युपगमान्न प्रवेशानुपपत्तिरिति चोदयति। अथेति। यथाऽहं ब्रह्मास्मीत्यत्राहं कर्तृत्वनिरासेनात्मनो ब्रह्मत्वं बोध्यते तथा यथोक्ते प्रवेशे कार्यस्य कार्यात्मतात्यागः स्यात्तथा सति न कार्ये प्र517वेशः सिध्यतीत्युत्तरमाह–अहमिति॥८५॥

मतं जीवात्मकं कार्यं याति कार्यान्तरं यदि।
विरोधान्नैवमप्येतन्नैति कुम्भः शरावताम्॥८६॥

परमात्मकार्यस्य जीवस्याहंकारादिकार्यात्मकत्वं परस्य प्रवेशो नामेति पुनः शङ्कते। मतमिति। घटस्य शरावत्वादर्शनादन्यस्यान्यभावासंमवान्न जीवस्याहंकारा518द्यात्मत्व519मिति दूषयति–विरोधादिति॥८६॥

नामरूपादिकार्याच्च व्यतिरेकानुवादिनि।
श्रुतिः कुप्येत मोक्षश्च तदापत्तौ सुदुर्लभः॥८७॥

किंच जीवस्य परमात्मकार्यस्याहंकारादिकार्यभावे सत्यनेन जीवेनाऽऽत्मनाऽनुप्रविश्येति नामरूपक्रियात्मककार्यातिरेकं जीवस्यानुवदन्ती श्रुतिर्विरुध्येतेत्याह–नामेति। कार्यस्य जीवस्य कार्यान्तरापत्तौ तस्य

ब्रह्मभावो मोक्षोऽपि दुर्लभो भवेत्स्वरूपनाशमन्तरेणान्यस्यान्यमावासंभवातोऽपि यथोक्तप्रवेशानुपपत्तिरित्याह–मोक्षश्चेति॥८७॥

जलार्कवत्प्रवेशश्चेन्नापरिच्छिन्नरूपतः।
अमूर्तत्वाच्च नास्यैवं प्रवेश उपपद्यते॥८८॥

प्रकारान्तरेण प्रवेशमाशङ्क्य प्रत्यादिशति–जलार्कवदिति॥८८॥

एवं तर्हि प्रवेशोऽस्य श्लिष्यते न कथंचन।
न च गत्यन्तरं विद्मो येन वाक्यं समर्थ्यते॥८९॥

यथोक्तानां प्रवेशप्रकाराणामन्यतमोऽपि प्रकारो दर्शितरीत्या नोपपद्यते चेत्तर्हि परस्याऽऽत्मनो न कथंचिदपि प्रवेशो युज्यत इत्युपसंहरति––एवं तर्हीति। प्रवेशवाक्यं तर्हि प्रागुक्तान्प्रकारान्परिहाय प्रकारान्तरेण समर्थ्यतामित्याशङ्क्याऽऽह–न चेति॥८९॥

आनर्थक्यादिदं तर्हि त्यज्यतां शिशुवाक्यवत्।
प्रवेशवाक्यं नैवं तद्गत्यन्तरसमाश्रयात्॥९०॥

कथं तर्हि प्रवेशवाक्यस्य प्रामाण्यमित्याशङ्रक्यपूर्वपक्षमुपसंहरति–आनर्थक्यादिति। प्रवेशवाक्यं न त्याज्यं तस्य गत्यन्तरसंभवादिति सिद्धान्तयति। नैवमिति॥९०॥

ब्रह्मवित्परमाप्नोतीत्युक्त्वा सत्यादिलक्षणम्।
प्रावेशयद्गुहां तच्च तदनात्मत्वशान्तये॥९१॥

ब्रह्मात्मनोरेकत्वज्ञानार्थं प्रवेशस्याप्रतिपाद्यस्यैव कल्पितत्वान्नोक्तदोषाणामवकाशोऽस्तीति गत्यन्तरमेव स्फोरयति–ब्रह्मविदिति॥९१॥

अब्रह्मत्वनिवृत्त्यर्थं ब्रह्मात्मेतिविशेषणम्।
तन्निवृत्ताववाक्यार्थं कैवल्यं प्रतिपद्यते॥९२॥

यो वेद निहितं गुहायामिति गुहाप्रवेशवचनं ब्रह्मणोऽनात्मत्वनिवृत्त्यर्थमिति यथोच्यते तथैवायमात्मा ब्रह्मेति ब्रह्मणो विशेष्यत्वमात्मनोऽप्यब्रह्मत्वशङ्कानिवृत्त्यर्थमित्याह–अब्रह्मत्वेति। ब्रह्मणोऽनात्मत्वनिवृत्तिरात्मनश्चाब्रह्मत्वनिवृत्तिर्यदा विशेषणसामर्थ्याल्लभ्यते तदा सिद्धमर्थं कथयति—तन्निवृत्ताविति॥९२॥

यस्मादेवं फलं तस्माज्ज्ञानमत्र विवक्षितम्।
गुहायामद्वयं ब्रह्म तस्मान्निहितमुच्यते॥९३॥

मोक्षफलस्यैक्यज्ञानस्यात्र विवक्षितत्वे तादर्थ्येन मन्त्रे ब्राह्मणे च प्रवेशकल्पनेत्याह–यस्मादिति॥९३॥

तद्रूपानुगमायान्नमयान्तं कार्यमाह हि॥९४॥

पूर्वपूर्वातिरेकेण त्रीन्कोशानतिलङ्घ्य च।
विज्ञानमयरूपायां गुहायां दर्शितः परः॥९५॥

कथमेकत्व520ज्ञानमत्र विवक्षितमित्युच्यते कोशपञ्चकोपन्यासस्यापीह दर्शनादित्याशङ्क्याऽऽह—तद्रूपेति। ब्रह्मात्मैकत्वस्वरूपानुगमस्तदवगतिस्तदर्थमानन्द- मयाद्यन्नमयान्तं कोशपञ्चकमिहोपन्यस्यते तस्मादैक्यज्ञानमेवात्र521विवक्षितं कोशपञ्चकवचनस्य522 तदुपायत्वादित्यर्थः॥९४॥

प्रवेशवचनमेकत्वज्ञानार्थमित्युक्तं प्रपञ्चयति–पूर्वपूर्वेति। पूर्वस्मादन्नमयाद्बाह्यादतिरेकेणान्तरं प्राणमयं ततोऽपि चातिरेकेण मनोमयं ततश्चातिरेकेण विज्ञानमयं गृहीत्वा त्रीन्कोशान्पूर्वोक्तानेवमतिक्रम्य विज्ञानमयरूपा या बुद्धिलक्षणा गुहा तत्र परमात्मा प्रविष्टो दर्शितस्तथा च जीवपरयोरैक्यं सिध्यतीत्यर्थः॥९५॥

तत्राऽऽनन्दमयो यस्माल्लक्ष्यते राहुचन्द्रवत्।
मानुषादधि यत्रेदं सुखं निष्ठां प्रपद्यते॥
उत्कृष्यमाणं क्रमशस्तद्ब्रह्मासीति बोधयेत्॥९६॥

कोशान्तरं परित्यज्य बुद्धावेव परस्य प्रवेशवचने हेतुमाह—तत्रेति। ब्रह्मात्मैकत्वज्ञानस्यात्र विवक्षितत्वादाचार्यो योग्यं शिष्यं दृष्ट्वा त्वं ब्रह्मेन्युपदिशेदित्याह–मानुषादिति॥९६॥

विकल्पयोनावेतस्यां निर्विकल्पोऽधिगम्यते।
तस्मात्तस्यां प्रवेशोऽस्य कल्प्यते नाञ्जसोच्यते॥९७॥

एकत्वज्ञानाय प्रवेशकल्पनेत्युक्तमेव प्रकारान्तरेण प्रकटयति–विकल्पेति। एषा हि बुद्धिर्विकल्पयोनिः सर्वविकल्पाश्रयत्वात्तत्र प्रत्यगा-

त्मप्रवेशे सत्येव निर्विकल्पः सर्वाविद्यात्तत्कार्यविनिर्मुक्तोऽहं ब्रह्मास्मीति यस्मात्परो ज्ञातुं शक्यते तस्मात्तत्र प्रवेशकल्पना भवत्यैक्यज्ञानार्थेत्यर्थः॥९७॥

प्रकाशात्मक एतस्मिन्द्रष्टृश्रोत्रादिलक्षणम्।
मोहादीक्षामहे यस्मात्प्रविष्टस्तेन कल्प्यते॥९८॥

आत्मनो दर्शनश्रवणादिविशेषज्ञानस्यान्तःकरणद्वारा चक्षुःश्रोत्रादिकृतत्वा523च्च तस्य तत्र प्रवेशो भवतीत्याह–प्रकाशात्मक इति। एत स्मिन्नित्यन्तःकरणमुच्यते तस्य च प्रकाशात्मकत्वं ज्ञानाकारपरिणामङ्गीवाणात्तत्र द्रष्टा श्रोतेत्यादिरूपं मोहात्प्रतीयते तस्य च परिशुद्धस्य परमात्ममात्रत्वादैक्यसिद्ध्यर्थत्वेनैव प्रवेशकल्पनेत्यर्थः॥९८॥

तस्यैष एव शारीर आत्मेत्येवं ब्रुवाणया।
ऐकात्म्यमुच्यते श्रुत्या हृत्प्रविष्टाप्रविष्टयोः॥९९॥

इतश्चात्र ब्रह्मात्मनोरेकत्वं विवक्षितमित्याह–तस्येति। यो हि परमात्मऽसन्नेव स भवतीत्यादिश्लोके नि524र्दिश्यते तस्य संनिधानादेषशब्देन पराम्रष्टुं श525क्यत्वादसावेव परमात्मा तस्य पूर्वोक्तस्य कोशपञ्चकस्य शारीर आत्मेत्युक्ते जीवब्रह्मणोरेकत्वमेव सिध्यति परस्यैव कोशपञ्चकानुप्रवेशेन जीवभावादित्यर्थः॥ ९९ ॥

प्रवेशहेतुदोषाणामध्यस्तानां परात्मनि।
यदाहीत्यादिना ध्वंस एवं सत्युपपद्यते॥४००॥

जीवब्रह्मणोरेकान्तेनैकत्वे प्रवेशनिमित्तकर्तृत्वादिदोषाणां ब्रह्मण्यध्यारोपितानां यदा हीत्यादिवाक्योत्थज्ञानानिवृत्तिः सिध्यतीति फलितमाह–प्रवेशेति॥४००॥

अप्रविष्टस्वभावस्य प्रवेशस्तेन कल्प्यते।
क्षेत्रज्ञेश्वरहानेन ह्यैकात्म्यं स्यात्कथं त्विति526॥१॥

जीवब्रह्मणोरेकत्वे527 ब्रह्मणोऽसंसारित्वात्तदभेदाज्जीवेऽपि भात528संसारस्य कल्पितत्वादेकत्वज्ञानान्मोक्षोपपत्तेरेकत्वज्ञानायप्रवेशकल्पना

युक्तेत्युपसंहरति। अप्रविष्टेति–तेनेत्युक्तं प्रवेशकल्पनाकारणमेव स्कोरयति–क्षेत्रज्ञेति॥१॥

मूर्तामूर्तात्मकं कार्यं यत्सृष्ट्वा प्राविशत्प्रभुः।
रजतं शुक्तिकैवा529ऽऽत्मा तदात्मेवाभवन्मृषा॥२॥

तदनुप्रविश्य सच्च त्यच्चाभवदित्यस्य तात्पर्यार्थमा530ह–मूर्तेति। यत्कार्यमूर्तामूर्तात्मकं भूतपञ्च531कं तदविद्यया सृष्ट्वा परमात्मा प्राविशत्प्रविश्य चायमात्मा तत्तदात्मैव मिथ्या संवृत्तः। यथा शुक्तिका मिथ्या रजतं भवति तद्वदित्यर्थः॥२॥

मूर्तं भू532तत्रयं सत्स्यादितरत्त्यदिहोच्यते।
अव्याकृतादाशरीरादेतावद्वस्तु नापरम्॥३॥

पृथिव्यापस्तेज533श्चेति भूतत्रयं मूर्तं सच्छब्दवाच्यं बायुराकाशश्वेति भूतद्वयममूर्तं त्यच्छब्दवाच्यमित्यवान्तरविमागमाह—मूर्तमिति। प्रतीचो भूतपञ्चकात्मकत्व534कथनेऽपि कार्यान्तरं पृथगवशिष्टमस्तीत्या535शङ्क्याव्याकृतादर्वागन्त्यकार्यपर्यन्तं सर्वं भूतपञ्चकात्मकमित्याह–अव्याकृतादिति॥३॥

समानेतरजातीयान्निर्धार्येदंतयोच्यते।
यन्निरुक्तं तदत्र स्यादनिरुक्तमितोऽ536न्यथा॥४॥

निरुक्तं चानिरुक्तं चेत्यस्यार्थमाह–समानेति। सजातीयाद्विजातीयाच्च पृथक्कृत्य येन विशेषेणेदंतया वस्तु निर्दिश्यते स विशेषो निरुक्तशब्देनोच्यते। सजातीयविजातीयाभ्यामव्या537वर्तको विशेषस्त्वनि538रुक्तशब्दवाच्यो भवतीत्यर्थः॥४॥

साक्षात्परोक्षरूपे तु मू539र्तामूर्ते पुरोदिते।
निरुक्तेतररूपे ये तयोरेव विशेषणे॥५॥

निरुक्तानिरुक्तयोः स्वातन्त्र्यं व्यावर्तयति। साक्षादिति। भूतत्रय-

मपरोक्षं सच्छब्दवाच्यं भूतद्वयं परोक्षं त्यच्छब्दवाच्यमित्युक्तयोरेव निरुक्तानिरुक्ते यथाक्रमं विशेषणे स्यातामित्यर्थः॥५॥

निलयो मूर्तधर्मः स्यादुत्तरोऽमूर्तसंश्रयः।
विज्ञानं चेतनं विद्यादविज्ञानमचेतनम्॥६॥

निरुक्तानिरुक्तयोरुक्तन्यायं निलयनं चानिलयनं चेत्यत्रापि योजयति–निलय इति। विज्ञानं चाविज्ञानं चेत्यस्यार्थमाह—विज्ञानमिति॥६॥

व्यावहारिकमेवात्र सत्यं स्यादधिकारतः।
पारमार्थिकसत्यस्य वाक्यान्ते समुदीरणात्॥७॥

सत्यं चानृतं च सत्यमभवदित्यत्र प्रथमसत्यशब्दार्थमाह–व्यावहारिकमिति। सत्त्यदादिव्यावहारिकपदार्थोक्तिप्रकरणे सत्यमित्युक्तत्वादनृतसंनिधानाच्चेति हेतुमाह–अधिकारत इति। तत्रैव हेत्वन्तरमाह—पारमार्थिकेति॥७॥

मृगतृष्णादिवन्मिथ्या तदिहानृतमुच्यते।
इत्येतदभवत्स्रष्टाह्यवि540द्योत्थमविद्यया॥८॥

अनृतशब्दार्थमाह—मृगतृष्णादीति। सच्च त्यच्चेत्यादिवाक्यानामुक्तमर्थमुपसंहरति—इत्येतदिति॥८॥

प्रत्याख्यानेन सर्वस्य सत्त्यदाद्यात्मकस्य हि।
व्यावृत्ताखिलनानात्वमहं ब्रह्मेति बोध्यते॥९॥

प्रत्यगात्मनोऽविद्यया समस्तजगदात्मत्वभित्युक्ते फलितमर्थं कथयति—प्रत्याख्यानेनेति। सर्वविशेषनि541राकरणेन स542र्वस्याऽऽत्मभूतमखण्डं वस्तु यदा ह्येवेत्यादिना बोध्यते तदेवं सत्युपपन्नं543 भवतीत्यर्थः॥९॥

नैतदस्ति न नास्तीदं द्वयोर्मोहोद्भवत्वतः।
न सत्तन्नास544दित्येवं प्राह विश्वेश्वरोऽपि हि॥१०॥

सत्त्यदाद्यात्मकस्य जगतो यदि कल्पितत्वं तर्हि ब्रह्मणोऽपि कल्पितत्वं सदन्तर्भावादित्याशङ्क्याऽऽह—नैतदिति। न तावदत्र सत्त्वं

निषेध्यं तस्य सिसाधयिषितत्वादतो व्यभिचारित्वात्कार्यकारणयोस्ब्रह्मत्वं श्रुतिस्मृत्योरभिप्रेतमित्यर्थः॥१०॥

आविर्भावतिरोभावौ बुद्धेर्यत्साक्षिकाविह।
तमेकमन्तरात्मानं विद्यादव्यभिचारिणम्॥११॥

ज्ञानात्का545र्यवत्कारणस्यापि व्यभिचारे कस्याव्यभिचारः स्यादित्याशङ्क्याऽऽह—आविर्भावेति॥११॥

तस्मादस्ति परं ब्रह्म यस्याविद्या546विकल्पिताः।
सन्तीव सत्तामालम्ब्य कार्यकारणलक्षणाः॥१२॥

सर्वानात्मकल्पना कूटस्थब्रह्मचैतन्याधीनेत्युक्त्या प्रकृतं ब्रह्मणोऽस्तित्वं सिद्धमिति फलितमाह–तस्मादिति॥१२॥

विवादगोचरापन्नं यत्किंचिद्रचनात्मकम्।
तत्सर्वं बुद्धिमत्पूर्वं तदात्मत्वाद्घटादिवत्॥१३॥

प्रकृते ब्रह्मणोऽस्तित्वे संभावनाहेतुत्वेनानुमानमारचयति—विवादेति। यत्किंचिद्विशिष्टरचनात्मकं तत्सर्वं बुद्धिमत्पूर्वकं यथा घटघटिकादि तथाऽभिमतं जगदपि चेतनपूर्वकं विशिष्टरचनात्मकत्वा547त्संमतवदित्यर्थः॥१३॥

तत्रैतस्मिन्यथोक्तेऽर्थे श्लोकः पूर्ववदुच्यते।
श्रुत्युक्तार्थानुवादी तु द्रढिम्ने पुंधियोऽधुना॥१४॥

ब्रह्मणः सत्त्वे ब्राह्मणानुमानाभ्यामुक्ते तदप्येष श्लोको भवतीतिमन्त्रमवतारयति–तत्रेति॥१४॥

इति षष्ठः खण्डः॥६॥

यदिदंशब्दधीगम्यं प्रागसत्तदभूज्जगत्।
असच्छब्देन चात्र स्याद्ब्रह्मैवानामरूपकम्॥१५॥

असदा इदमग्र आसीदित्यस्यार्थमाह–यदिति। इदंशब्देनेदंधियाऽवगम्यमानं यदिदानीं जगदनुभूयते तत्प्रागवस्थायामसदभूदित्यर्थः। असच्छब्दस्य शून्यविषयत्वं व्यावर्तयति–असच्छब्देनेति। शून्यस्य जगज्जन्महेतुत्वायोगादित्यर्थः॥१५॥

नामरूपात्मकं कार्यमनात्मत्वात्स्वतो ह्यसत्।
यत्सदेकं परं ब्रह्म ततो वै सदजायत॥१६॥

जगतः स्वतःसत्त्वसंभवात्ततो वै सजायतेत्ययुक्तमित्याशङ्क्याऽऽह–नामेति। सत्व548तुच्छव्यावृत्तत्वम्॥१६॥

सत्यं ज्ञानमनन्तं यत्तदुपेतमविद्यया।
स्वात्मनैव स्वमात्मानं सत्त्यद्रूपमचीक्लृपत्॥१७॥

तदात्मानं स्वयमकुरुतेत्यस्यार्थमाह—सत्यमिति॥१७॥

यस्मात्स्वयमिदं सर्वमकरोन्निपुणः प्रभुः।
सुकृतं प्रभुमेवातो महात्मानः प्रचक्षते॥१८॥

तस्मात्तत्सुकृतमुच्यत *इतिवाक्यस्यार्थमाह549–यस्मादिति॥१८॥

यदि वेश्वरनिर्वृत्तं कार्यं सुकृतमुच्यते।
निष्ठासंश्रवणात्साक्षान्न तु कर्तेश उच्यते॥१९॥

तत्सुकृतमिति स्रष्टुब्रह्मविषयत्वेन व्याख्यायार्थान्तरमाह—यदि वेति॥१९॥

लोकेऽपि स्वामिना साक्षाद्यत्कृतं कर्म यत्नतः।
तदेवसु550कृतं प्राहुर्न तु भृत्यैस्तथा कृतम्॥२०॥

ईश्वरेण कृतं सुकृतमित्यत्र लोकप्रसिद्धिं दर्शयति–लोकेऽपीति॥२०॥

यद्वै तत्सुकृतं प्रोक्तं सत्यदादिस्वभावकम्।
नीरसस्यास्य कार्यस्य रसोऽसौ परमः स्मृतः॥२१॥

यद्वै तत्सुकृतमित्यादेरर्थमाह–यद्वै तदिति॥२१॥

रसः सारोऽमृतं ब्रह्म आनन्दो ह्लाद उच्यते।
निःसारं तेन सारेण सारवल्लक्ष्यते जगत्॥२२॥

रसशब्दार्थं दर्शयन्नुक्तमेव551 विशदयति—रस इति॥२२॥

रसस्यातीन्द्रियस्यास्य त्वानन्दत्वं कुतो न्विति।
अतस्तत्प्रतिपत्त्यर्थं रसं हीत्युत्तरं वचः॥२३॥

रसस्याऽऽनन्दत्वमुक्तमुपपादयितुमनन्तरवाक्यमादत्ते–रसस्येति॥२३॥

एतस्मादपि हेतोस्तदस्तीत्यभ्युपगम्यताम्।
इतश्चास्ति परं ब्रह्म रसत्वस्य प्रसिद्धितः॥२४॥

रसं हीत्यादिवाक्यस्यार्थान्तरमाह–एतस्मादिति। न केवलं कारणत्वादेव ब्रह्मास्ति किंतु552 ब्रह्मणो रसत्वस्य श्रुतिसिद्धत्वाच्च तदस्तीत्युक्तमेव प्रपञ्चयति—इतश्चेति॥२४॥

तृप्तिहेतू रसो नाम मधुराम्लादिलक्षणः॥२५॥

अन्नादिरसलाभेन यथा तृप्ताः समासते।
आनन्दिनः कामहीना निरीहाः साध्यसिद्धये॥२६॥

प्रसिद्धरसशब्दार्थकथनमुखेन ब्रह्मणि रसत्वस्य सत्त्वसाधकत्वं साधयति। तृप्तिहेतुरिति। असतस्तृप्तिहेतुत्वायोगाद्ब्रह्मणश्च रसत्वेन तृप्तिहेतुत्वादस्ति ब्रह्मेत्यर्थः॥२५॥

तदेव स्पष्टयितुं दृष्टान्तमाह–अन्नादीति॥२६॥

अपविद्धैषणास्तद्वद्बाह्योपादानवर्जिताः।
निःसंबोधं परानन्दं प्राप्ताः संन्यासिनोऽमलाः॥२७॥

दार्ष्टान्तिकं दर्शयति––अपविद्धेति॥२७॥

नूनं तेषां परं स्वास्थ्यं चेतांस्याह्लादयन्त्यलम्।
प्रह्लादचेतसां यानि तानि लिङ्गानि तेषु हि॥२८॥

विषयोपभोगविहीनानां विशेषविज्ञानरहितं परमानन्दं प्राप्तानां परमहंसपरिव्राजकानां परमं स्वास्थ्यमस्तीतिस्थिते किं सिध्यतीत्याशङ्क्याऽऽह—नूनमिति। तत्र गमकमाह—प्रह्लादेति॥२८॥

उपाग्नि पामनस्येव सुखसं553सक्तचेतसः।
लिङ्गं कण्डूयमानस्य लक्षयाम्यात्म554वेदिषु॥२९॥

तान्येव लिङ्गानि दृष्टान्तोपन्यासेन स्पष्टयति—उपाग्नीति। अग्निसमीपे वर्तमानस्य पाम्ना व्याधिविशेषेण संयुक्तस्य विशेषतोऽग्निसंताप-

पूर्वकं लिङ्गादिकण्डूयने प्रवृत्तस्य जायमाने सुखे संसक्तान्तःकरणस्य परमं स्वास्थ्यं प्राप्तस्य यदिन्द्रियबुद्ध्यादिप्रसन्नत्वमुपलभ्यते तदेव विषयरसानाघ्रातचेतःस्वात्मवेवेदिषु परमहंसपरिव्राजकेषु लक्ष्यते–तस्मादस्ति यथोक्तरीत्या तृप्तिकारणं ब्रह्मेत्यर्थः॥२९॥

अज्ञातानन्दतत्त्वानामनुमानमिदं भवेत्।
साक्षात्कृतात्मतत्त्वानां प्रत्यक्षतममेव तत्॥३०॥

प्रत्यक्षस्याऽऽत्मसंवेद्यस्य सुखस्य पुरुषार्थत्वाभ्युपगमादानन्दस्य प्रागुक्तलिङ्गानुमेयत्वे पुमर्थत्वासिद्धिरित्याशङ्क्याविद्वद्दृष्ट्यानुमानोपन्यासाद्विद्वद्दृष्ट्या चाऽऽनन्दस्य प्रत्यक्षत्वान्नैतदित्याह–अज्ञातेति॥३०॥

बाह्येन्द्रि555याणामध्यात्मं संहतिर्येह लक्ष्यते।
एकार्थवृत्तिरूपेण सा दृष्टाऽसंहते सति॥३१॥

रसं हीत्यादिवाक्यमेवं व्याख्याय को हीत्यादिवाक्यमवतारयितुं भूमिकां करोति556–बाह्येन्द्रि556याणामिति। या हि व्यवहारभूमौ शयनासना557दीनामेकस्मिन्भोगाख्येऽर्थे संहत्य वृत्तिरूपेण संहतिर्दृष्टा सा शयनादिभिरसंहते शेषिणि देवदत्ते सत्येव भवतीत्युपलब्धं तथा च वायुभेदानामिन्द्रियाणां बुद्ध्यादेश्चाध्यात्मं558 शरीरे संहतिरालक्ष्यमाणा कस्मिंश्चिदसंहते सत्येव भवितुमर्हति विमता संहतिरसंहतचेतनार्था विशिष्टसंहतित्वात्संप्रतिपन्नशयनादिसंहतिवद्यदर्थेयं संहतिस्तदस्ति ब्रह्मेत्यर्थः॥३१॥

अतः साक्षेपमाहेयं को ह्येवान्यादिति श्रुतिः।
आकाशे परमे व्योम्नि ह्यानन्दो न भवेद्यदि॥३२॥

उक्तेऽर्थे वाक्यद्वयमवतारयति–अत इति। संहतेरसंहतार्थत्वस्यानुमानसिद्धत्वादिति यावत्। सप्तम्यन्तं पदं छित्वा श्रुतिं योजयति––आकाश इति। यदि हृदयावच्छिन्ने सर्वदोषरहिते व्याम्नि भूताकाशरूपे समस्तबुद्धिवृत्तिसाक्षिभूतो निरतिशयसुखात्मकः प्रत्यगात्मा न भवेत्तदा प्राणापानादिसंहतिद्वारा चेष्टा न सिध्येदित्य559र्थः। अथवा प्रथमान्त-

माकाशपदमानन्दपदसमानाधिकरणं ततश्चाऽऽकाशाभिधानः परमानन्दः परमात्मस्वभावो यदि न स्यात्तदा प्राणादिसंहतिद्वारा प्रवृत्तिरनुपपन्नेत्यर्थः॥३२॥

आब्रह्मस्तम्बलोकेऽस्मिन्पुण्यकर्मानुरूपतः।
आनन्दः परमो यस्मादानन्दयति नः सदा॥३३॥

एष ह्येवानन्दयातीत्यस्यार्थमाह–आब्रह्मेति। सातिशयस्य लौकिकानन्दस्य निरतिशयब्रह्मानन्दव्यतिरेकेणायोगात्तेन भवितव्यमित्यर्थः॥

सोऽयं लौकिक आनन्दो निष्ठां साधनसंपदा।
यत्र प्रपद्यते भूम्नि सोऽस्त्यानन्दः परो रसः॥३४॥

तदेव प्र560पञ्चयति—सोऽयमिति। साधनसंपदेत्यत्र लब्धात्मकः सन्नित्यध्याहरणीयम्॥३४॥

अस्तित्वे हेतवः सम्यग्ब्रह्मणोऽभिहिता यतः।
उताविद्वानिति प्रश्नः श्रुत्याऽऽविष्क्रियतेऽधुना॥३५॥

यदाहीत्यनन्तरवाक्यस्य संगतिं वक्तुं वृत्तं कीर्तयति—अस्तित्व इति। सोऽकामयतेत्यारभ्यातीतेन ग्रन्थेन ब्रह्मणोऽस्तित्वेयतो बाधविधुरा हेतवो दर्शितास्ततोऽस्ति नास्तीति प्रश्नस्योत्तरं सिद्धमित्यर्थः। परिशिष्टप्रश्नद्वयनिर्णयार्थत्वेनोत्तरग्रन्थमवतारयति—उतेति॥३५॥

विद्वानेवैति तद्ब्रह्म ह्यभयं भयहेतु यत्।
तमोमात्रावरुद्ध561त्वात्तत्प्राप्तेर्नान्यदस्ति हि॥३६॥

तत्र विद्वानेव तद्ब्रह्म प्राप्नोतीत्यस्या562र्थस्य समर्थनार्थं यदा हीत्याद्यथ सोऽमयं गतो भवतीत्येतदन्तं वाक्यमित्याह—विद्वानेवैति। विद्वानेव ब्रह्म प्राप्नोतीत्यत्र हेतुमाह—तमोमात्रेति। ब्रह्मप्राप्तेस्तमोमात्रव्यवहितत्वमसिद्धं देशकालादेरपि तद्यवधानत्वादित्याशङ्क्याऽऽह—नान्यदिति॥३६॥

व्यवधानं हि यद्यस्मात्तत्तन्मोहैकहेतुकम्।
यस्मात्तस्मादविद्यैव मोक्षाप्तेर्व्यव563धिर्भवेत्॥३७॥

अविद्यातिरिक्तं मोक्षव्यवधानं नास्तीत्येतदुपपादयति। व्यवधानं हीति॥३७॥

अविद्यासाक्ष्यपि प्रत्यक्सदाऽनस्तमितोदितः।
अविद्यया व्यवहितस्तद्बलेनैव तद्वचः॥३८॥

आत्मनः स्वयंप्रकाशस्यावि564द्यासाधकस्य कथमविद्याऽपि व्यवधानं स्यादित्याशङ्क्याऽऽह–अविद्येति। आत्मनो यथोक्तलक्षणस्यैवाविद्याव्यवहितत्वमविद्याबलादेवोच्यते। तस्मादात्मविद्यावशाद्ब्रह्मात्मप्राप्तिर्विदुष एवेत्यर्थः॥३८॥

विद्वत्ताव्यतिरेकेण यदि तत्प्राप्तिरुच्यते।
चोद्यमेतत्तदा युक्तं न त्वेवं सति युक्तिमत्॥३९॥

ब्रह्मणः सर्वस्वरूपत्वादविदुषोऽपि तत्प्राप्तिः स्यादित्याशङ्क्य किं संसारहेत्वविद्यानिरासेन ब्रह्मप्राप्तिरविदुषोऽपि स्यादित्युच्यते किं वा ब्रह्मणः स्वरूपत्वेन प्राप्तिरविदुषोऽपि समानेति विकल्प्याऽऽद्यं दूषयति। विद्वत्तेति। ज्ञानस्य ब्रह्मप्राप्तावकारणत्वे स्यादविदुषोऽपि ब्रह्मप्राप्तिरिति चोद्यते।565 ज्ञानादनर्थहेत्वज्ञाननिवृत्तिद्वारा ब्रह्मप्राप्तिरित्यङ्गीकारे तु नाविदुषो ब्रह्मप्राप्तिचोद्यमुल्लसतीत्यर्थः॥३९॥

या तु साधारणी प्राप्तिरात्मत्वाद्ब्रह्मणः स्वतः।
विदुषोऽविदुषो वाऽसावस्माभिर्न नियम्यते॥४०॥

द्वितीयमङ्गी करोति–या त्विति॥४०॥

अतोऽविद्यानिषेधेन सर्वदाऽवाप्तिरू566पिणः।
प्राप्तिः स्यादात्महेतुत्वादिति पूर्वमवादिषम्॥४१॥

ज्ञानादनर्थहेत्वज्ञाननिराकरणेन ब्रह्मप्राप्तिर्विद्वदसाधारणीत्यत्र ब्रह्मविदाप्नोति परमितिवाक्यं प्रमाणयति। अत इति। तत्त्वज्ञानं पञ्चम्या परामृश्यते। आत्महेतुत्वादिति। ब्रह्मणः सर्वप्रत्यगात्मत्वाद्धेतोरित्यर्थः॥४१॥

अतः परीक्ष्यते श्रुत्या तदिदानीं प्रयत्नतः।
विद्वानेवैति नाविद्वान्यदा हीत्येवमाद्यया॥४२॥

यतो विदुष एवाविद्यानिवृत्त्या ब्रह्मप्राप्तिर्नाविदुषः संभवत्यतस्तदेव वस्तुनिरूपणद्वारेण प्रतिपाद्यते समनन्तरवाक्येनेत्युत्तरवाक्यमादुत्ते–अत इति॥४२॥

विषयानुपातिनी या तु ह्यशेषकरणाश्रया।
लौकिकत्वात्पदार्थस्य दृशिरत्राभिधीयते॥४३॥

तस्मिन्वाक्ये पदानि व्याकुर्वन्नदृश्यपदार्थस्य दृश्याधीनत्वात्तस्य च दृशनिबन्धनत्वाद्दृशिशब्दार्थमाह—विषयेति। अदृश्य इत्यत्र दृशिशब्देन विषयविषयं चक्षुःश्रोत्रादिजन्यं सर्वं ज्ञानमुच्यते। पदार्थस्य लौकिकत्वेनापूर्वत्वायोगादित्यर्थः॥४३॥

विशेषवद्भवेद्दृश्यं तद्धि दर्शनमर्हति।
नित्या दृष्टिरभावो वा नैव दर्शनमर्हति॥४४॥

दृश्यशब्दार्थमाह—विशेषवदिति। सविशेषस्य वस्तुनः सर्वदर्शनयोग्यत्वादित्युक्तेऽर्थे हेतुमाह–तद्धीति। न कूटस्थबोधो नापि शून्यं567 दृश्यं तयोः साधारणदर्शन568योग्यत्वा569भावादिति व्यावर्त्यमंशं दर्शयति–नित्येति। अदृश्यं यथोक्तदृश्यरहितं तस्मिन्ब्रह्मणीत्यदृश्यशब्दार्थः॥४४॥

दृश्यान्वयिहि यद्वस्तु तदा570त्म्यमिति भण्यते।
स्वतो ह्य571स्याऽऽत्म572दारिद्र्यादर्हार्थे लभते च यत्॥४५॥

आत्मशब्दार्थं कथयति–दृश्येति। सामान्यमात्म्यशब्दवाच्यं तस्य व्यक्तिपरतन्त्रत्वात्तदतिरेकेण स्व573रूपाभावादात्मानमर्हतीत्यात्म्यमिति यत्प्रत्ययार्थमाह–स्वतो हीति। अनात्म्यमिति निःसामान्यं ब्रह्म तस्मिन्नित्यर्थः॥४५॥

स्याद्वा जाग्रदवस्थेयं दृश्यत्वेन प्रसिद्धितः।
कोशत्रयमिहात्म्यं स्यादात्मार्थत्वसमन्वयात्॥४६॥

दृश्यशब्देन पञ्चीकृत574पञ्चमहाभूतात्मको विराडात्मा जागरितशब्दवाच्योऽन्नमयकोशो गृह्यते ततश्च समस्तमेव स्थूलं कार्यं दृश्यशब्दवाच्यमितिपक्षान्तरमाह—स्याद्वेति। आत्म्यशब्देनापि प्राणमयमनोमयविज्ञानमयाख्यं सूत्रमपञ्चीकृतपञ्चमहाभूतात्मकं विवक्ष्यते। तथा च सर्वमेव सूक्ष्मं कार्यमात्म्यशब्दवाच्यं तस्याऽऽत्मशेष575त्वादित्याह—कोशत्रयमिति॥४६॥

पञ्चमोऽत्र निरुक्तः स्यात्पारिशेष्यात्फलात्मकः।
अत्यानन्दमयं ब्रह्म त्वनिरुक्तं परं पदम्॥४७॥

आनन्दमयकोशः शरीरद्वयावच्छिन्नो ज्ञानकर्मफलात्मकश्चैतन्यामासो जीवोऽत्र पारिशेष्यान्निरुक्तशब्दवाच्यो भवतीत्याह—पञ्चम इति। कार्यकारणविनिर्मुक्तं त्वंपदलक्ष्यं चिन्मात्रमनिरुक्तशब्दवाच्यमित्याह–अत्यानन्देति। तस्मिन्ननिरुक्ते त्वंपदलक्ष्यात्मके चिन्मात्रे ब्रह्मणीत्यर्थः॥४७॥

निलीयते जगद्यस्मिन्निलीनं जायते यतः।
नि576लयं तत्परं ब्रू577मः कोशपञ्चककारणम्॥४८॥

अज्ञातं ब्रह्म सर्वस्यापि जगतः कारणं निलयनश578ब्दवाच्यमित्याह–निलीयत इति। अनिलयनश579ब्देन तत्पदलक्ष्यं नित्यशुद्धबुद्धमुक्तस्वभावं लक्ष्यं त्वंपदार्थस्वरूपभूतं ब्रह्मोच्यते। तस्मिन्ननिरुक्तेऽनिलयने ब्रह्मणीतिसामानाधिकरण्यात्तत्त्वमर्थयोरैक्यं लक्ष्ययोर्विवक्षितमित्यर्थः॥

सच्चत्यच्चादि वाऽपेक्ष्य निषेधोऽयमिहोच्यते।
प्राप्तिर्ह्यभवदित्युक्ता चारु प्राप्तनिषेधनम्॥४९॥

अदृश्यादिवाक्यस्यार्थान्तरमाह–सच्चेति। सच्च त्यच्चाभवदित्यादिना ब्रह्मणि सविद्यस्य जगतः सर्वस्य प्राप्तिरुच्यते। तस्य च प्राप्तस्यादृश्यादिवाक्ये निषेधः कियते। वाक्यस्य निषेधरूपत्वात्प्राप्तनि580षेधस्य च युक्तत्वादित्यर्थः॥४९॥

मूर्तमूर्तौ हि राशी द्वौ सच्चत्यच्चादिनोदितौ।
श्रुत्यन्तरेण संगानात्तयोरेवास्त्वपहूनुतिः॥५०॥

निषेधपक्षे श्रुत्यन्तरेण नेति नेतीत्यादिना सहैकवाक्यत्वसिद्धिरिति लाभान्तरमाह—मुर्तेति॥५०॥

अस्मिन्पक्षे तु निलयो वासनानिलयो भवेत्।
एवं च नेति नेतीति साक्षात्स्याद्ब्रह्मदर्शनम्॥५१॥

निषेधपक्षे च मूलकारणं निलयनश581ब्देन न गृह्यते किंतु वासनानां निलयत्वादन्तःकरणं सवासनं निलयनश582ब्दवाच्यं ततश्च सवासनमन्तः करणमनिलयनश583ब्देन निषिध्यते। अदृश्यादिपदैरेव मूर्तीमूर्तप्रतिषेधेन कारणस्यापि निषिद्धत्वान्निराकाङ्क्षब्रह्म584प्रति- पत्तिसिद्धिरित्यभिप्रेत्याऽऽह–अस्मिन्निति। सर्वप्र585तिषेध्यानामुक्तन्यायेन प्रतिषिद्धत्वे सति वाक्यार्थज्ञानं निराकाङ्क्ष सिध्यतीतिफलितमाह–एवं चेति॥५१॥

भावाभावात्मिका बुद्धिर्यत आत्माप586चारिणी।
भावाभावनिषेधेन प्रतीचि स्थाप्यते ततः॥५२॥

ननु प्रत्यगात्मप्रतिपत्त्यैव पुरुषार्थपरिसमाप्तिसंभवात्कार्यकारणप्रपपञ्चप्रतिषेधो वृथेत्याशङ्क्यानात्मप्रपञ्चस्याऽऽत्मन्यनर्थहेतुत्वान्निषेधेन ततो व्यावर्त्यात्म587न्येव बुद्धिः स्थिरी कर्तव्या ततोऽनात्मनिषेधोऽर्थवानित्याह—भावाभावेति। प्रत्यगात्मन्यन्तःकरणे प्रविष्टे सति तस्यब्रह्मत्वबुद्ध्या पुरुषार्थपरिसमाप्तिरित्यर्थः॥५२॥

दृश्यादिप्रतिषेधोक्त्या प्रतीचि ब्रह्म बोध्यते।
न तदन्यत्तदन्यस्य परमार्थात्मता कुतः॥५३॥

अदृश्यादिवाक्यस्य निषेधपरत्वे प्रतीयमाने कुतो वस्तुपरत्वमित्याशङ्क्याऽऽत्म- ब्रह्मणोरैक्यंस्वतः सिद्धं निषेधमुखेन बोध्यतेऽतो588 निषेधस्य वस्तुसिद्धौ द्वारत्वान्न निषेधपरं वाक्यं किंतु वस्तुपरमित्याह—दृश्यादीति। प्रतीचि ब्रह्म बोध्यमितिनिर्देशादात्मनोऽर्थान्तरं ब्रह्मेत्याशङ्क्याऽऽह—न तदिति। तद्धि ब्रह्म नाऽऽत्मनोऽन्यद्भवितुमलमात्मनोऽन्यस्य मिथ्यात्वाद्ब्रह्मणोऽप्यन्यत्वे तत्प्रसङ्गाद्ब्रह्मात्मनोरक्यमेवेत्यर्थः॥५३॥

न नञर्थो विकल्पो वा परमार्थमकल्पितम्।
असंप्रविश्य संसिद्धिं लभते क्वचिदन्यतः॥५४॥

आत्मनोऽन्यस्य नास्ति परमार्थत्वमितिकल्पितत्वाभिधानात्कल्पिताकल्पितयोर्भेदः स्यादित्याशङ्क्याऽऽह–नेत्यादिना। शून्यस्य कल्पितस्य

वा कूटस्थानुभवादन्यत्र सत्त्वोपलब्ध्योर589सिद्धेः सच्चिदेकतानं कूटस्थं तत्त्वमास्थेयमित्यर्थः॥५४॥

दृश्यादि गुणहीनस्य स्वत आत्मत्वकारणात्।
वेत्ति विन्दत इत्यस्मादैकार्थ्यादुपसंहृतिः॥५५॥

ब्रह्मविदाप्नोति परमितिविदिनोपक्रम्याभयं प्रतिष्ठां विन्दत इति विन्दतिनोपसंहारे श्रुतेरभिप्रायमाह–दृश्यादीति। अदृश्यादिवाक्योक्तस्य ब्रह्मणः स्वारस्येनाऽऽत्मस्वरूपत्वात्तस्य वेदनव्यतिरेकेण लाभावोगाद्वेत्तिविन्दत इत्यनयो590रेकार्थत्वाद्धेतोर्वेत्तीत्युपक्रम्यं विन्दत इत्युपसंहारे न कश्चिद्दोषोऽस्तीत्यर्थः॥५५॥

दृश्यादिगुणहीनेऽस्मिन्निरविद्यो591 यदाऽभयम्।
साक्षाद्वेत्ति तदैवायमभयं विन्दते परम्॥५६॥

अभयं विन्दत इत्यस्यार्थमाह–दृश्यादीति। निर्विशेषे ब्रह्मणि प्रकृते यदा साक्षादहमस्मीतिप्रत्यग्भेदमवगच्छति तदैव विद्वान्निरविद्यः सन्नभयं कैवल्यं लब्ध्वा कृतकृत्यो भवतीत्यर्थः॥५६॥

ब्रह्म पुच्छं प्रतिष्ठेति यदभाणि पुरा सकृत्।
तेनैकवाक्यतार्थाय प्रतिष्ठामिति भण्यते॥५७॥

प्रतिष्ठापदप्रयोगे ब्रह्मज्ञानफलं ब्रह्मैव नान्यदितिप्रदर्शनम592भिसंहित593मित्याह—ब्रह्मेति। ब्रह्मविद्याप्राप्तेरनन्तरं स विद्वानभयं ब्रह्म प्राप्य कृतकृत्यो निर्विण्णो भवतीत्यथ सोऽभयं गतो भवतीतिवाक्यमर्था594द्व्याख्यातमितिभावः॥५७॥

अथाधुना यथा विद्वान्प्रेत्य नैति परं पदम्।
व्याख्यायते तथा स्पष्टं यदा हीत्येवमाद्यया॥५८॥

विद्वान्ब्रह्म प्राप्नोत्युत नेतिप्रश्ने प्राप्नोत्येव विद्वान्ब्रह्मेति निर्धारितम्। इदानीमविद्वानपि ब्रह्म प्राप्नोति न वेतिप्रश्नं प्रत्याह–अथेति॥५८॥

सदा लब्धात्मकस्यापि यतोऽज्ञानमनाप्तिकृत्।
अवाद्युच्चैरतः श्रुत्या विद्वानेतीति सादरम्॥५९॥

ज्ञानस्य ब्रह्मप्राप्तिहेतुत्वाविधानादज्ञस्यब्र595ह्मप्राप्तिरयुक्तेत्येतदुपपादयति–सदेति॥५९॥

यस्मादेव ततो विद्वाल्लँभते न तमीश्वरम्।
अविद्याव्यवधानाद्धि लब्ध एव न लभ्यते॥६०॥

विद्यावतो ब्रह्मलाभे सिद्धे फलितमाह–यस्मादिति। अविद्वान्न लभते ब्रह्मेत्ययुक्तं तस्याऽऽत्मत्वेन सदा लब्धत्वादित्याशङ्क्याऽऽह—अविद्येति॥६०॥

यदा ह्येवैष आत्मैको दृश्यत्वादिविवर्जितः।
एतस्मिन्वर्तमानोऽपि वञ्चितोऽविद्ययैव हि॥६१॥

यदा ह्येवैष एतस्मिन्नितिवाक्याक्षराण्यपेक्षितं पूरयन्योजयति–यदा ह्येवेति। ततश्च स्वरूपमप्राप्तमिव पश्यतीतिशेषः॥६१॥

हस्तप्राप्तमपि द्रव्यमप्राप्तमिव मन्यते।
मोहादेवमनाप्तिः स्यादात्मनोऽपि ममाऽऽत्मनः॥६२॥

आत्मत्वेन प्राप्तमेव ब्रह्म मोहव्यवहितत्वादप्राप्तवद्भवतीत्येतद्दृष्टान्तेन स्पष्टयति–हस्तेति। ममाऽऽत्मनोऽपि ब्रह्मणः प्रत्यग्भूतस्य मोहादनाप्तिरिति संबन्धः॥६२॥

अविद्यया तदोद्धृत्य रज्ज्वा596 रज्जुमिव स्वयम्।
अहित्वेनाद्वयाद्बोधात्कुरुते कर्तृभोक्तृभिः॥६३॥

एवममिद्यया वञ्चितत्वे किं स्यादित्याह–अविद्ययेति। यदाऽयमात्मा प्रागुक्तेन न्यायेनाविद्यया वञ्चितो वर्तते तदा यथा रज्जुः स्वाविद्यया स्वात्मानमहित्वेन करोति तथाऽयमप्यात्मा597 स्वाविद्यया स्वमात्मा598नमद्वयाद्बोधाद्ब्रह्मणः सकाशात्पृथक्कृत्य कर्तृभोक्तृत्वरू599पेण करोतीत्यर्थः॥६३॥

अरं छिद्रं भिदाऽन्यत्वं वेद्यवे600त्तृत्वलक्षणम्।
यस्मादुत्कुरुते मोहादात्मनो ब्रह्मणः स्वतः॥६४॥

उदरमन्तरं कुरुत इत्यस्यार्थमाह–अरमिति। यदाऽऽत्मन्यविद्यया कर्तृत्वादिकमारोप्य पश्यति तदा ब्रह्मात्मनोर्भेदं यस्मान्मन्यते तस्मान्मिथ्या ज्ञानी भवतीत्यर्थः॥६४॥

अन्योऽसावीश्वरो मत्तस्तस्माच्चाहमनीश्वरः।
इति च्छिद्रय601तोऽच्छिद्रं छिद्रेऽनर्थो भवेद्भयम्॥६५॥

मिथ्याज्ञानफलं कथयन्नथ तस्येत्यादिवाक्यस्यार्थमाह—अन्योऽसाविति॥६५॥

निर्भयोऽपि स्वतो विद्वानेके सन्तमनेकधा।
प्रकल्प्याविद्ययाऽऽत्मानं तमेव भयमाप्नुयात्॥६६॥

आत्मब्रह्मणोर्भेदं पश्यतः संसारभयप्राप्तिरित्येतदेव प्रपञ्चयति। निर्भयोऽपीति। विभागेन दृष्टमात्मानं तच्छब्देन परामृशति॥६६॥

भयहेतोर्द्वितीयस्य हिशब्देन परिग्रहात्।
द्वितीयाद्वै भयं हीति श्रुतिरुच्चैरतोऽन्वशात्॥ ६७ ॥

यदाहीत्यत्र हिशब्देन द्योतितमर्थं कथयति—भयहेतोरिति। द्वितीयदर्शिनो मयमवश्यंभावीत्ये602तदिहोच्यते तदे603व श्रुत्यन्तरेऽपि द604र्शितमित्याह—द्वितीयादिति। यतो द्वितीयं भ605यकारणमतः श्रुतिरेवमनुशास्तीत्यर्थः॥६७॥

ईशितव्याद्विभक्तो यद्य606स्मादीशो भयंकरः।
इति कल्पयतस्तस्मादभयं जायते भयम्॥६८॥

तत्त्वेवेत्यादिवाक्यमवतारयितुं भूमिकां करोति—ईशितव्यादिति। यस्मान्मद्विच्छेदादी607शितव्याज्जीवाद्विभक्तत्वेन दृष्टः सन्नीश्वरो विभागदर्शिनो भयंकरो608 भवति तस्माद्भयमेव ब्रह्म विभागेन परिकल्प्य विभक्तं पश्यतस्तदेव भयं जायते भेददर्शनस्य भयकारणत्वादित्यर्थः॥६८॥

अहो बलमविद्याया अतिशेते न कश्चन।
अग्न्यादिभयहेतोर्या ब्रह्मणोऽपि भयंकरी॥६९॥

ब्रह्मैवाभयमात्मा चेत्कुतस्तस्य भयमित्याशङ्क्याविद्यासामर्थ्यादिस्याह–अहो इति॥६९॥

निर्भयो भयकृद्देव ईश्वराणामपीश्वरः।
भयं तस्यापि जनयेन्नाज्ञानस्यास्त्यगोचरः॥७०॥

अविद्यासामर्थ्यं प्रपञ्चयति–निर्भय इति॥ ७० ॥

यज्ज्ञात्वा विन्दते विद्वानभयं हीत्यवादिषम्।
तत्त्वेवाभयकृद्ब्रह्म स्यान्मोहादात्मनो भयम्॥७१॥

उक्तेऽर्थे तत्त्वमेव भयमितिवाक्यभागं विभजते–यज्ज्ञात्वेति॥७१॥

निषिद्धदृश्यत्वाद्येकमभयं मोहनिह्नवात्।
यत्तस्यैव भयं तत्स्यादविद्यावशवर्तिनः॥७२॥

तदेव स्पष्टयति–निषिद्धेति॥७२॥

अपि वालाग्रमात्रेण विदुषः प्रत्यगात्मनः।
भिन्नं ब्रह्मेतिसंमोहादात्मैवास्य भयं भवेत्।
व्याख्यानं वा पुरोक्तस्य च्छिद्रस्य क्रियतेऽनया॥७३॥

विदुषो मन्वानस्येतिभागं योजयति–अपीति। प्रत्यगात्मनः सकाशादीषन्मात्रेणापि भिन्नं ब्रह्मेति पश्यतः संमोहवशवर्तिनो मोहादात्मैव भयं भवतीत्यर्थः। अविद्याया नास्ति दुष्करमित्येवं परत्वेन तत्त्वेवेत्यादिवाक्यं व्याख्याय व्याख्यानान्तरमाह–व्याख्यानं वेति॥७३॥

अमन्वानस्य तद्ब्रह्म विदुषोऽपि भयंकरम्॥७४॥

वेद्यवेत्तृत्वशून्यत्वाद्विद्वत्ताऽपि तमोमयी।
रजतत्वादिवच्छुक्तावमन्वानो भवेदतः॥७५॥

व्याख्यानप्रकारमेव प्रकटयति–अमन्वानस्येति। यथा शुक्त्यादौ रजतत्वादि तमोमयं वस्तुतो नास्ति तथा ब्रह्मण्यात्मनि विद्वत्ताऽपि तमोमयी वस्तुतो न विद्यते ब्रह्मात्मनो609वेद्यवेत्तृत्व610विभागशून्यत्वादत-

श्चावेद्यं ब्रह्मात्मत्वेनाम611न्वानो यो भवेत्तस्यैकत्वेन ब्रह्मामन्वानस्यावेद्यमेव तया भिन्नत्वेन पश्यतोऽपि भयंकरमापद्यते। अन्यथादर्शित्वादित्यर्थः॥ ७४ ॥ ७५ ॥

यस्यामतं तस्य मतं मतं यस्य न वेद सः।
विदिताविदिताभ्यां तदन्यदेवेति हि श्रुतिः॥ ७६ ॥

वेद्यवेत्तृत्वशून्यं ब्रह्मेत्यत्र श्रुत्यन्तरमुदाहरति–यस्येति॥ ७६ ॥

अन्यदेव हि तद्वेद्यादवेद्यादन्यदेव तत्।
वेद्यवेत्तृद्व्याच्चान्यदितिश्रुत्यनुशासनम्॥ ७७ ॥

उदाहृतश्रुत्यन्तरस्य विवक्षितमर्थमाह–अन्यदेवेति॥ ७७ ॥

वेद्यावेद्यात्मता यस्माच्छब्दाद्यर्था612नुपातिनी।
वेद्यवेत्तृत्वमप्येवमन्यथा तदसंगतेः॥७८॥

ब्रह्मात्मनो वेद्य613त्वमवेद्यत्वं614 वेत्तृत्वं च नास्तीत्यत्र श्रुतिमुदाहृत्य तत्रैव श्रुतिसिद्धेऽर्थे युक्तिं समुच्चिनोति—वेद्येति। ज्ञानोदये वेद्यरूपता जडेषु शब्दार्थे615ष्वनुप्रविश्य वर्तते ज्ञानानुदये च तदविषयत्वमवेद्या616त्मत्वं617 तेष्वेव तिष्ठति। एवमेव वेद्येष्वर्थेषु वेत्तृत्वं ज्ञानकर्तृत्वं च साभासान्तःकरणस्य परिणामवतो जडस्यैव युज्यते यस्मादात्मनः संविदेकतानस्याजडस्य वेद्यत्वादि नोपपद्यते तस्मात्तस्य कूटस्थदृष्टिरूपस्य सिद्धमविषयत्वमित्यर्थः। यद्यात्मनो वेद्यत्वाद्यभ्युपगम्येत तदा तस्य कूटस्थाद्वयदृष्टिब्रह्मत्वं शास्त्रसिद्धमसंबद्धमापद्येतातो न तस्य वेद्यत्वादीत्युक्तामेव युक्तिं व्यनक्ति—अन्यथेति॥७८॥

व्युत्थाप्य वेद्याद्विद्याया वेत्तुश्चाज्ञानकल्पितात्।
तदन्येभ्यश्च जानीयादहं ब्रह्मेतिवाक्यतः॥७९॥

आत्मनः सर्वविशेषवि618लक्षणत्वे कथं प्रतिपत्तव्यतेत्याशङ्क्याऽऽह—व्युत्थाप्येति। वेद्यं विद्यावेत्तेति त्रयमवेद्यमविद्यावेत्तेति च त्रयं

तस्मादेतस्मादज्ञानकल्पितादशेषात्पृथक्कृत्याऽऽत्मानं तत्त्वमस्यादिवाक्यादहं ब्रह्मास्मीति विद्याद्भेदेन तु सविशेषतया दृष्टं ब्रह्म भयावहं भ619वतीत्यर्थः॥७९॥

इति सप्तमः खण्डः॥७॥

यथोक्तबोधविरहादीश्वराणामपीश्वराः।
प्रतीचो ब्रह्मणो भीताः स्वकर्माणि प्रकुर्वते॥८०॥

ब्राह्मणोऽर्थे तदप्येष श्लोको भवतीति मन्त्रमवतार्य भीषाऽस्मादि620त्यादि श्लोकाक्षराणि व्याचष्टे—यथोक्तेति॥ ८० ॥

वातादयो महावीर्याः स्वतन्त्रा621बाहुशालिनः।
तेऽपि भीताः प्रवर्तन्ते ब्रह्मणोऽपि महत्तमाः॥८१॥

उक्तमेव प्रपञ्चयति–वातादय इति॥ ८१ ॥

यस्माद्ब्रह्मण आनन्दाद्भीता वातादयोऽवशाः।
स्वकर्मसु प्रवर्तन्ते भृत्याः स्वामिभयादिव॥
तस्याऽऽनन्दस्य मीमांसा विचारः क्रियतेऽधुना॥८२॥

सैषाऽऽनन्दस्य मीमांसा भवतीतिवाक्यं व्याचष्टे–यस्मादिति॥८२॥

उत्कर्षेतरहीनोऽसौ य आनन्दोऽधिगम्यते॥८३॥

दृष्टः सातिशयस्तावदानन्दः कर्महेतुकः।
आब्रह्मनरपर्यन्ते लोकेऽस्माभिः प्रमाणतः॥८४॥

यो विचारेणाऽऽनन्दोऽधिगम्यतेऽसावुत्कर्षापकर्षरहितः सर्वविशेषवर्जितो निरतिशयो भवतीतिविचार-सिद्धानन्दस्य622 स्वरूपं कथयति–उत्कर्षेति॥८३॥

ब्रह्मानन्दस्य निरतिशयत्वे कथं प्राणिनि623ष्ठानन्दस्य सातिशयत्वप्रतीतिरित्याशङ्क्य कर्मफलभूतानन्दस्य सातिशयत्वं प्रतिभातीत्याह—दृष्ट इति॥८४॥

उत्कृष्यमाणो यत्रायं परां निष्ठां प्रपद्यते।
अनापन्नादिमध्यान्तं तद्ब्रह्मेत्यवधारयेत्॥ ८५ ॥

ब्रह्मादिषु मनुष्यपर्यन्तेषु सातिशयश्चेदानन्दो दृश्यते तर्हि ब्रह्मानन्दोऽपि सातिशयः स्यादानन्दत्वाविशेषादित्याशङ्क्य निरतिशयानन्दं ब्रह्माहमस्मीतिनिर्धारणार्थं ब्रह्मानन्दस्य निरतिशयत्वमाश्रयितव्यमिस्याह—उत्कृष्यमाण इति॥ ८५ ॥

ब्रह्मादिनरपर्यन्तं पुण्यकर्मानुरूपतः।
उपजीवति लोकोऽयं यस्याऽऽनन्दस्य विप्रुष624म्॥ ८६ ॥

तर्हि सातिशयानन्दो निरतिशयानन्दश्चेत्यानन्दभेदप्रसक्तिरित्याशङ्क्यैतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुत्या परिहरति— ब्रह्मादीति। स एव ब्रह्मानन्दः शुभकर्मजनितबुद्धिवृत्त्यवच्छिन्नः सातिशयोऽऽनवच्छिन्नो निरतिशय इति न भेदप्रसक्तिरित्यर्थः॥ ८६ ॥

उत्तरोत्तरवृद्ध्यैवं मनुष्यादधि तं वयम्।
प्रतिपद्यामहे साक्षादानन्दं स्वात्मनि स्थितम्॥ ८७ ॥

कल्पितेन सातिशयानन्देन निरतिशयानन्दस्याकल्पितस्य प्रतिपत्तिरित्युपायोपेयभावमुपन्यस्यति—उत्तरोत्तरेति। वक्ष्यमाणेन प्रकारेण मनुष्यादारभ्योपरिष्टाद्ब्रह्मपर्यन्तमुत्तरोत्तरभूमौशतगुणाभिवृद्धिद्वारेण निरतिशयान625न्दं स्वात्मनि पर्यवसितं626 स्व626रूपत्वेनापरोक्षतया प्रतिपद्यामहे तेन विचारद्वारा निरतिशयानन्दप्रत्यग्भूतब्रह्मप्रतिपत्तिरित्यर्थः॥ ८७ ॥

विषयेन्द्रियसंबन्धसमुत्थो वा भवेदयम्।
लौकिकानन्दवत्स्याद्वा सर्वसाधननिस्पृहः॥ ८८ ॥

विचारस्वरूपं दर्शयति— विषयेति॥ ८८ ॥

तत्र लौकिक आनन्दो बाह्याध्यात्मिकसाधनः।
संपन्निमित्तो यो दृष्टः सैषेति स इहोच्यते॥ ८९ ॥

सैषाऽऽनन्दस्येत्यत्राऽऽनन्दशब्दार्थमाह— तत्रेति॥ ८९ ॥

उत्कृष्यमाणेनानेन ह्यस्मद्गोचरवर्तिना।
असाधनमसाध्यं तमानन्दं व्याचचक्ष्महे॥ ९० ॥

किमिति कर्मफलं सुखमानन्दशब्देनोच्यते निरतिशयानन्दब्रह्माहमस्मीतिप्रतिपत्तेरे627वाभिप्रेतत्वादित्या-शङ्क्याऽऽह—उत्कृष्यमाणेनेति॥ ९० ॥

निष्ठां सातिशयं यस्मात्स्वतोऽनतिशयात्मनि।
गच्छ दीक्षामहे यस्मादेवमानन्द ईक्ष्यताम्॥ ९१ ॥

सातिशयानन्देन निरतिशयानन्दस्य प्रतिपत्तिमेव दृष्टान्तेन स्पष्टयति–निष्ठामिति। सातिशयं परिमाणादी-तिशेषः। द्वितीयोयस्माच्छब्दस्तस्मादित्यस्मिन्नर्थे द्रष्टव्यः॥ ९९ ॥

येयं सातिशया संख्या संख्येयार्थावसायिनी।
यथैवमस्मदानन्दः स्यात्परानन्दनिष्ठितः॥ ९२ ॥

उक्तमेव दृष्टान्तदार्ष्टान्तिकरूपमर्थं समर्थयते—येयमिति॥ ९२ ॥

आविष्करिष्यन्त्याहात इममर्थं श्रुतिः स्वयम्।
बहिष्प्रवणदृष्टीनां स्वतोऽसामर्थ्यदर्शनात्॥ ९३ ॥

उक्तस्यैव निरतिशयानन्दस्य प्रतिपादकत्वेन युवा स्यादित्यादिश्रुतिमवतारयति—आविष्करिष्यन्तीति। यतः सातिशयानन्देनाऽऽनन्दो निरतिशयो गम्यतेऽतश्चेममेव निरतिशयानन्दाख्यमर्थं सातिशयानन्दद्वारेण प्रकटीकरिष्यन्ती श्रुतिर्युवा स्यादित्याद्याहेतियोजना।ननु निरतिशयान628न्दस्य स्वप्रकाशप्रत्यगात्मभूतस्य स्वारस्येन समधिगतिसंभवादनर्थिका सातिशयानन्दोक्तिरिति चेन्नेत्याह–बहिरिति॥ ९३ ॥

युवा प्रथमवयाः स्याद्यूनः साधुयुवेतिकिम्।
पञ्चविंशा629ब्दिकः साधुरिति साधुयुवोच्यते॥ ९४ ॥

एवं तात्पर्यमुक्त्वा युवशब्दार्थमाह—युवेति। साधुयुवेत्यत्र यूनः साधुरिति विशेषणं किमर्थमिति पृच्छति– यून इति। तत्रोत्तरं वक्तुं प्रथमं630 प्रथमवयस्त्वं पूर्वोक्तं प्रकटयति–पञ्चविंशेति। साधुश्चासौ युवा चेति व्युत्पत्त्या साधुरितिपूर्वोक्तस्य यूनो विशेषणमिति तावदाह–साधुरितीति॥ ९४ ॥

मिथः सव्यभिचारित्वात्साधुयौवनयोरतः।
विशेषणमिदं तस्मात्पुनः साधुयुवेति हि॥ ९५ ॥

इदानीं प्रश्नस्योत्त631रमाह–मिथ इति। युवत्वं परित्यज्य स्थविरे साधुत्वं दृश्यते। साधुत्वं विधूयोन्मा632दवति पञ्चविंशाब्दिके यथेष्टचेष्टाविशिष्टे युवत्वमुपलभ्यते। अतः साधुयौ633वनयोरन्योन्यव्यभिचारित्वाद्यूनः साधुरितिविशेषणमर्थवद्भवति तस्माद्विशेषणवैयर्थ्यचो634द्यं नास्तीत्यर्थः॥ ९५ ॥

अध्येति सर्वमध्येयमतोऽध्यापक उच्यते।
क्षिप्रकार्यति635शायित्वादाशिष्ठोऽसौ भवेदतः॥ ९६ ॥

अध्यापकशब्दार्थमाह—अध्येतीति। आशिष्ठशब्दार्थमाह–क्षिप्रेति। क्षिप्रकारिषु मध्ये स्वयमतिशयवत्त्वा-दिति यावत्। अतःशब्दस्तु पञ्चम्या संबध्यते॥ ९६ ॥

समग्राशेषचार्वङ्गो दृढिष्ठः परिकीर्त्यते।
अभिभूय यतः सर्वान्बलिनो वर्तते ततः॥
बलिष्ठस्तेनविद्वद्भिः636 कीर्त्यते पृथुकीर्तिभिः॥ ९७ ॥

दृष्टिशब्दार्थमाह–समग्रेति। बलिष्ठशब्दं योजयति–अभिभूयेति। तेन बलातिरेकेणेति यावत्॥ ९७ ॥

यावदाध्यात्मिकं किंचित्पुंभिरापेक्ष्यते क्वचित्।
दृष्टादृष्टेष्टभोगाय तेन सर्वेण संयुतः॥ ९८ ॥

युवेत्यादिवाक्यस्याक्षरार्थमुक्त्वा तात्पर्यार्थमाह–यावदिति॥ ९८ ॥

तस्येयं पृथिवी सर्वा पूर्णा वित्तस्य चेद्भवेत्।
इति साधनमुक्तं स्याद्दृष्टादृष्टार्थकर्मणः॥ ९९ ॥

बाह्योपकरणैरपि संपन्नत्वमनन्तरवाक्यावष्टम्भेन दर्शयति–तस्येति। यदि यथोक्तवित्तसंपत्तिस्तदा बाह्यसाधनसंपत्तिरि637त्यर्थः। वाक्यत्रयार्थमुपसंहरति। इतीति। साधनमित्याध्यात्मिकं बाह्यं चेत्युभयं साधनं गृह्यते॥ ९९ ॥

बाह्यैराध्यात्मिकैश्चैव सं638पन्नः साधनैः पुमान्।
लभते यमसौ ह्लादं नरानन्दः स उच्यते॥ ५०० ॥

स एको मानुष आनन्द इत्यस्यार्थमाह—बाह्यैरिति॥ ५०० ॥

य एते शतमानन्दा मानुषाणां639 समाहृताः।
नरगन्धर्वकाणां स्यात्तावानेकः प्रमाणतः॥ १ ॥

ते ये शतमित्यादिवाक्य640द्वयस्यार्थमाह—य एत इति॥ १ ॥

सुगन्धिनः कामरूपा अन्तर्धानादिशक्तयः।
नृत्यगीतादिकुशला गन्धर्वाः स्युर्नृलौकिकाः॥ २ ॥

मनुष्यानन्दापेक्षया शतगुणितो मनुष्यगन्धर्वाणामानन्दो भवतीत्यत्र कारणं वक्तुं मनुष्यगन्धर्वस्वरूपमाह—सुगन्धिन इति॥ २ ॥

भूयोद्वंद्वप्रतीघातशक्तिसाधनसंपदा।
नारगन्ध641र्वको भूयानानन्दो मानुषादधि॥ ३ ॥

तेषामानन्दाधिक्ये विवक्षितं कारणमाह—भूयोद्वंद्वेति। भूयसां द्वंद्वानां प्रतीघाते प्रतिक्षेपे शक्तिश्चसाधनानि642 च तेषां संपदा सामग्र्येति यावत्॥ ३ ॥

आविरिञ्चाद्भवेदेवं पूर्वस्मादुत्तरोऽधिकः।
सहस्रदशभागेन ह्युत्तरोत्तरतः क्रमात्॥ ४ ॥

यथा मानुषानन्दान्मनुष्यगन्धर्वानन्दस्य शतगुणमाधिक्यं साधनबहुत्वादुक्तमेवं हि643रण्यगर्भपर्यन्तं पाठक्रमानुसारेणोत्तरोत्तरभूमौ पूर्वपूर्वापेक्षया शतगुणितः सन्नानन्दः साधनबहुत्वमेव प्रयोजकीकृत्य प्रवृत्तोऽस्तीत्यतिदिशति। आविरिञ्चादिति॥ ४ ॥

श्रोत्रियोऽधीतवेदः स्यात्साध्वाचारः प्रसिद्धितः।
कामानुपहता644त्माऽपि स्यादकामहतस्तथा॥ ५ ॥

श्रोत्रियस्य चाकामहतस्येत्यस्यार्थमाह—श्रोत्रिय इति। तस्य साध्वाचारत्वविशेषणं कुतो लब्धमित्याशङ्क्याधीतस्वाध्याये स्वाचारवति वृद्धानां श्रोत्रियत्वप्रसिद्धेरित्याह—प्रसिद्धित इति॥५ ॥

मार्त्याोद्भोगाद्विरक्तस्य ह्युत्तराह्लादकामिनः।
सहस्रदशभागेन मानुषाद्गुणतो645 भवेत्॥ ६ ॥

इत्येतस्य प्रसिद्ध्यर्थमादावग्रहणं कृतम्।
अकामहत इत्यस्य हेतोरानन्दवृद्धये॥ ७ ॥

प्रथमे पर्याये श्रोत्रियत्वादेरग्रहणे कारणमाह—मार्त्यादिति। मनुष्यसंबन्धिनः सुखभोगाच्छर्दितान्नादिवद्विर646क्तस्य तदपेक्षयोत्तरत्र च मनुष्यगन्धर्वानन्दे तत्प्राप्तिसाधनानुष्ठानव्यतिरेकेणात्रैव647 प्रा647प्तिमिच्छतो मानुषानन्दाच्छतगुणतो मनुष्यगन्धर्वेण तुल्यः सन्नानन्दो भवेदित्येतस्यार्थस्य प्रतिपत्त्यर्थमकामहतत्वादेरग्रहणं प्रथमे पर्याये कृतं ततश्च मानुषाद्भोगाद्वैराग्यहेतोर्मनुष्यगन्धर्वेण तुल्यानन्दलाभान्मानुषाद्विरक्तस्य मनुष्यापेक्षया सुखविवृद्धिसिद्ध्यर्थं श्रोत्रियस्य चाकामहतस्येत्यादौ नोक्तं यदि प्रथमपर्याय एवाकामहतो गृह्यते तदा तस्य सार्वभौमानन्देनाऽऽनन्दः समः स्यात्। ततश्च व्याघातो मानुषानन्दे विरक्तो मानुषानन्दभोगभागी चेति ततो मनुष्यगन्धर्वानन्देन तुल्यमानन्दं मनुष्यानन्दाद्विरक्तस्य दर्शयितुं प्रथमप648र्याये श्रोत्रियत्वादेरग्रहणमित्यर्थः॥ ६ ॥ ७ ॥

श्रोत्रियावृजिनत्वे द्वे सर्वत्रैव समे अपि।
कामानुपहतत्वस्य वृद्धौ ह्लादो विवर्धते॥ ८ ॥

श्रोत्रियत्वमवृजिनत्वमकामहतत्वमित्येतानि त्रीणि सुखप्राप्तौसाधनानि तेष्ववान्तरविशेषमाह—श्रोत्रियेति। अपिशब्दो द्विशब्देन सर्वशब्देन च संबध्यते। एवशब्दस्तु समशब्देन संबन्धनीयः। कथं तर्हि सुखवृद्धिरित्याशङ्क्याऽऽह—कामेति॥ ८ ॥

यतोऽकामहतत्वं स्या649त्सर्वातिशयिनोऽञ्जसा।
सुखस्य प्राप्तये तस्मात्तदेवोत्कृष्टिद्भवेत्॥ ९ ॥

तदेव स्पष्टयति। यत इति। निरतिशयानन्दप्राप्तौ निरतिशयाकामहतत्वं यतो हेतुस्तस्मादानन्दस्यावान्तरोत्कर्षोऽपि तस्यैवाकामहतत्वस्यावान्तरोत्कर्षाधीनः स्यादित्यर्थः॥ ९ ॥

तस्माद्यथोदितानन्दप्राप्तये साधनत्रयम्।
श्रोत्रियावृजिनत्वे द्वे तथाऽकामहतात्मता॥ १० ॥

श्रोत्रियत्वादीनां त्रयाणामवान्तरविशेषमुक्त्वा साधारणं रूपमाह—तस्मादिति। श्रुतत्वाविशेषादित्यर्थः। अवृजिनत्वं यथोक्तकारित्वं तदत्रानुक्तमपि श्रुत्यन्तरसि650द्धं संगृह्यते॥ १० ॥

तुल्ये आब्रह्मणः पूर्वे उत्कर्षस्तूत्तरस्य च।
अकामहततैवातः पूर्वाभ्यां साधनं परम्॥ ११ ॥

यदुक्तं श्रोत्रियावृजिनत्वे द्वे सर्वत्रैवेत्यादि तदेव स्पष्टयति—तुल्ये इति। श्रोत्रियत्वावृजिनत्वयोस्तुल्यत्वमुत्कर्षश्चाकामहतत्वस्येति स्थिते फलितमाह—अकामहततेति॥ ११ ॥

चिरकालस्थितिर्येषु पितृलोकेषु ते स्मृताः।
चिरलोकलोकास्तेऽपि स्युः पितृश्राद्धादिकारिणः॥ १२ ॥

स एकः पितॄणां चिरलोकलोकानामानन्द इत्यत्र पितॄणां चिरलोकलोकत्वं विशेषणं तदुपपादयति— चिरकालेति। के ते चिरकालं पितृलोकेषु वसन्ति तानाह—तेऽपीति॥ १२ ॥

आजानो देवलोकः स्यात्तज्जा आजानजाः स्मृताः।
स्मार्तकर्मकृतस्तत्र जायन्ते देवभूमिषु॥१३ ॥

स एक आजानजानां देवानामित्यादावाजानश651ब्दार्थमाह—आजान इति। केषां देवलोके जातत्वमित्युक्ते वापीकूपतटाकादिसुकृतकारिणामित्याह—स्मार्तेति॥ १३ ॥

कर्मणैव त्वविद्वांसो ये जाताः सुरसद्मसु।
कर्मदेवांस्तु652 तान्विद्याद्देवांश्चोत्तरमार्गमान्॥ १४ ॥

स एकः कर्मदेवानामित्यादौ कर्मदेवशब्दार्थमाह—कर्मणैवेति। कर्मशब्देनाग्निहोत्रादि केवलं कर्म गृह्यते। स एको देवानामित्यादौ देवशब्दार्थमाह—देवानिति। देवाः समुच्चयकारिणो देवयानमार्गगामिनो देवान्विद्यादितिसंबन्धः॥ १४ ॥

अकामहत इत्येवं निरविद्योऽभिधीयते।
तस्यामसत्यां तद्ब्रह्म स्वयमेवानुभूयते॥ २४ ॥

श्रोत्रियस्य चाकामहतस्येत्यन्त्ये पर्याये ज्ञानान्निरस्ताविद्यस्य प्रत्यगात्मनः संनिहितत्वादपि ब्रह्माऽऽत्मा प्रत्यगात्मैवायंशब्देन निर्दिश्यतः इत्याह—अकामहत इत्येवमिति। विद्यया निरविद्यत्वं चेदुच्यते कथं तर्हि ब्रह्मसिद्धिरिति तत्राऽऽह—तस्यामिति॥ २४ ॥

अज्ञातं ज्ञायते यत्र प्रमातृत्वाद्यनिह्नवात्।
तत्र मानान्तरापेक्षा न स्वतोऽवगमात्मके॥ २५ ॥

ब्रह्म स्वयमेव सिध्यतीत्ययुक्तं तस्य वस्तुत्वेन घटादिवन्मानान्तरसापेक्षत्वानुमानादित्याशङ्क्य जडत्वोपाधेर्मैवमित्याह—अज्ञातमिति॥ २५ ॥

प्रमैवाऽत्मात्मिका यत्र त्वनन्यानुभवात्मिका।
नात्र मानान्तरापेक्षा सैवानस्तमितोदिता॥ २६ ॥

साधनव्याप्तिपरिहारार्थं न स्वतोऽवगमात्मक इत्युक्तं तत्प्रपञ्चयति—प्रमैवेति। श्रुतिः स्वविषयमात्मानम-विषयत्वेनैव बोधयन्ती तद्गताविद्यानिवर्तकत्वेन तत्र प्रविशतीति भावः॥ २६ ॥

आधेयार्थप्रधानेयं सप्तमी पुरुषात्परा।
योऽयमित्यादिना तद्वच्छ्रुतिरेवं प्रमादिनी॥ २७ ॥

वाक्यद्वयेऽपि सप्तमीप्रयोगस्याऽऽधारप्रधानत्वाभावान्नोपासनापरत्वमाधेयात्मब्रह्मपरत्वात्तु तयोरेकत्वप-रत्वं पुरुषग्रहणस्याऽऽदित्योपलक्षणत्वादित्य653भिप्रेत्याऽऽह—आधेयेति। आधारार्थत्वं परित्यज्याऽऽधेयप्रधाना सप्तमी न दृष्टेत्याशङ्क्य योऽयं विज्ञानमयः प्राणेष्वित्यत्राऽऽधेयात्मप्रधाना सप्तमी दृष्टेत्याह—योऽयमित्यादिनेति॥ २७ ॥

अकामहतधीगम्यो योऽयं बुद्धेः सदेक्षकः।
अयं पुरुष इत्यत्र स एव त्वभिधीयते॥ २८ ॥

स यश्चायं पुरुष इतिवाक्यस्य त्वंपदलक्ष्यमर्थमुक्तमुपसंहरति—अकामेति॥ २८ ॥

प्रध्वस्तास्मद्विभागश्चरोचिष्णुर्यश्च भास्करे।
सूर्य आत्मेतिमन्त्रोऽपि योऽसाविति च साक्ष्यथ॥ २९ ॥

यश्चासावादित्य इतिवाक्यस्य तत्पदलक्ष्यार्थविषयत्वमाह—प्रध्वस्तेति। आदित्यमण्डले परमात्मा संनिहितोऽस्तीत्यत्र श्रुतिस्मृती प्रमाणयति—सूर्य इति॥ २९ ॥

क्षेत्रज्ञेश्वरभेदेन ह्यभिन्नं वस्त्वविद्यया।
तस्मात्तद्धानतश्चैक्यं घटेतरखयोरिव॥ ३० ॥

स एक इतिवाक्यस्य तात्पर्या654र्थमाह—क्षेत्रज्ञेति। अभिन्नमेव वस्तुतो वस्तु क्षेत्रज्ञश्चेश्वरश्चेत्यविद्यया भिन्नं यस्माद्भासते तस्मादविद्यानिरासद्वारा घटाकाशमहाकाशयोरिव जीवेश्वरयोरैक्यमत्र बोध्यमित्यर्थः॥ ३० ॥

मूर्तामूर्तात्मकस्यास्य ह्युत्कर्षः परमो रविः।
स्वान्तर्गतेन तस्यैक्यं तन्निमित्तनिषेधतः॥ ३१ ॥

आदित्याधारं तत्पदार्थमुक्त्वा त्वंपदार्थं चान्तःकरणाधारमुपदिश्य तयोरैक्यकथने फ655लितमाह—मूर्तेति। भूतपञ्चकस्य प्रधानं कार्यं तद्गतेन लिङ्गेन सहाऽऽदित्यमण्डलं तत्र संनिहितस्य ब्रह्मणस्तत्पदार्थस्य साक्षिणा त्वंपदार्थेनैक्यमध्यारोपितोत्कर्षापकर्षकारणाविद्यानिराकरणेनात्र बोध्यते ततश्चाऽऽदित्याधारत्वात्तदर्थस्योत्कृष्टत्वं त्वमर्थस्य चान्तः करणाधिकरणत्वेन रागादिकलुषितत्वान्निकृष्टत्वमित्याशङ्का न कर्तव्येत्यर्थः॥ ३१ ॥

अनूद्य स य इत्येवमपकृष्टं नृबु656द्धिगम्।
उत्कृष्टेनेश्वरेणाथ विशिष्ट्यहिरज्जुवत्॥ ३२ ॥

तत्त्वंपदार्थयोरेकत्वबोधनप्रकारमत्रा657भिप्रेतं प्रकटयति—अनुद्येति। यथा यः सर्पः सा रज्जुरित्युच्यते तथा बुद्धिस्थमपकृष्टत्वेन कल्पितं त्वंपदार्थमनूद्याऽऽदित्यमण्डलस्थेन प्रकृष्टतया कल्पितेन तत्पदार्थेनैक्यमत्र बोध्यते तथा चोत्कर्षापकर्षहीनं सच्चिदानन्दात्मकं वस्तु परिशिष्टं अवतीत्यर्थः॥ ३२ ॥

उत्कृष्टो यदपेक्ष्येशस्तत्तावद्बाध्यते बलात्।
जहाति पश्चादुत्कर्षमपकृष्टाश्रयो हि सः॥३३॥

विशेषणफलं विशदयति—उत्कृष्ट इति। ईश्वरो हि जीवगतमपकृष्टत्वमपेक्ष्य स्वयमुत्कृष्टो व्यपदिश्यते। तच्च जीवगतमपकृष्टत्वं जीवानुवादेन तस्य ब्रह्मणा विशेष्यत्वे व्यावर्तते। ब्रह्म हि जीवस्य विशेषणं तद्गतमपकृष्टत्वं बलादेव बाधते। उत्कृष्टस्य निकृष्टं प्रति विशेषणत्वायोगाज्जीवमतापकर्षानिवृत्तौ च ब्रह्म स्वगतमुत्कर्षं परित्यजति। तस्यापकर्षसापेक्षत्वादित्यर्थः॥३३॥

नाऽऽदित्यस्थस्तदोत्कर्षो नापकृष्टिस्तथाऽऽत्मा658
हित्वोभयमवाक्यार्थं नेति नेतीति विन्दते॥३४॥

उत्कर्षापकर्षनिवृत्ताषात्मनो ब्रह्मत्वं ब्रह्मणश्चाऽऽत्मत्वं सिध्यतीत्युत्कर्षापकर्षनिवृत्त्यनुवादेन तत्फलं कथयति—नेत्यादिना। विशेषणविशेष्यत्वावस्था जीवब्रह्मणोस्तदेति परामृश्यते॥३४॥

उत्कृष्टिर्वाऽपकृष्टिर्वा नेह स्वात्मनि विद्यते।
तमोपहतदृष्टीनामुत्कर्षेत659रवीक्षणम्॥३५॥

उत्कृष्टत्वापकृष्टत्वयोर्वस्तुत्वे कुतो निवृत्तिरित्याशङ्क्याऽऽह–उत्कृष्टिरिति॥३५॥

अविद्यैव यतो हेतुरुत्कृष्ट्यादे660र्न वस्त्वतः।
जरधायां विद्यया तस्यां नानात्वं विनिवर्तते॥३६॥

उत्कर्षांदेरविद्याकार्यत्वे फलितमाह–अविद्यैवेति॥३६॥

अतिशेते यतः सर्वानानन्दानाग्रजादधि।
विकल्पभूमेर्व्यावृत्तेरैक्यं स्वात्मरविस्थयोः॥३७॥

ज्ञानफलमपकर्षाद्यनर्थनिवृत्तिरेव न भवति किंतु निरतिशयानन्दप्राप्तिरपीत्याह–अतिशेत इति। अग्रजो हिरण्यगर्भो ब्रह्मा तत्पर्यन्ता ये केचिदानन्दास्तन्कर्मफलभूतानशेषानतिशेते यस्मादुपरिष्टाद्व्यवस्थितो निरतिशयो ब्रह्मानन्दस्तस्मादात्मन्यन्तःकरणे साक्षित्वेनावस्थितस्य त्वंपदलक्ष्यस्याऽऽदित्यमण्डलेऽवस्थि-तस्य ब्रह्मणस्तत्पदलक्ष्यस्य निरतिश-

यानन्दात्मकस्य वाक्यादैक्यमास्थेयं661 तज्ज्ञा661नाच्चसर्वविकल्पाश्रवस्याज्ञांनस्य व्यावृत्तेरनर्थनिवृत्त्युपलक्षितं निरतिशयसु662खमाविर्भवतीत्यर्थः॥ ३७ ॥

सत्यं ज्ञानमिति ह्यस्मा663दसत्याद्यर्थवारणात्।
भेदाश्रयस्य व्यावृत्तेरैक्यं स्वात्मरविस्थयोः॥ ३८ ॥

यदुक्तं ब्रह्मात्मनोरैक्यं तदेव साधयति—सत्यमिति। सत्यं ज्ञानमनन्तं ब्रह्मेत्यस्माद्वाक्याद्ब्रह्मणः सत्यादिरूपत्वविधानादसत्यादेरर्थस्य निवारणाज्ज्ञानत्वविधानादज्ञानस्य भेदादिकारणस्य निराकरणा-द्ब्रह्मात्मनोरैक्यं युक्तमित्यर्थः॥ ३८ ॥

कार्येण रसलाभेन प्राणनाद्युपपत्तिभिः।
अस्तीत्यपाक्रियैतस्य प्राहुर्भाष्यकृतः स्वयम्॥ ३९ ॥

प्रश्नयोरस्ति नास्तीति व्याख्यातत्वाद्थाधुना।
आहो विद्वानमुं लोकमित्यस्यापाक्रियोच्यते॥ ४० ॥

संप्रति भाष्यकारीयं व्याख्यानमनुवदति–कार्येणेति। सोऽकामयतेत्यादिना प्रागुक्तोपपत्त्यनुरोधेन ब्रह्मास्तीत्य664स्यार्थस्य सिद्धत्वादस्ति नास्तीत्येतस्य प्रश्नस्य व्याख्यातत्वादपाकृतत्वादनन्तरमवशिष्टयोः प्रश्नयो665र्याऽपाक्रि666या कर्तव्या तदवसरे प्राप्ते सत्याहो विद्वानित्यादिर्यो द्वितीयःप्रश्नस्तस्यैतस्यापाक्रिया स यश्चायमित्यादिनोच्यते। विद्वानेव ब्रह्म प्राप्नोतीत्युक्ते चार्थादविद्वान्न प्राप्नोतीत्युताविद्वानित्यादिप्रश्नोऽपि निर्णीतो भवतीति स्वयं भाष्यकृतः प्राहुरिति वार्तिकयोरक्षरयोजना॥ ३९ ॥ ४० ॥

तद्वाणीभानुसंप्लुष्टबहुलाज्ञानधीरहम्।
यदा हीत्यादिना मन्ये उतेत्यादेर्विनि667र्णयम्॥ ४१ ॥

इदानीं स्वव्याख्यानं दर्शयति—तद्वाणीति॥ ४१ ॥

उताविद्वानमुं लोकमितिप्रश्नविनिर्णयात्।
अस्ति नास्तीति सिद्धः स्यात्प्रश्नयोरपि निर्णयः॥ ४२ ॥

उताविद्वानित्यादिप्रश्नस्योत्तरं यदा ह्येवैष एतस्मिन्नित्यादिना शब्देमैवोच्यते न त्वर्थादिति स्थिते लाभान्तरमाह—उताविद्वानिति।

उताविद्वानित्यादिना प्रश्नयोरुभयोर्विनिर्णयादस्ति नास्तीत्यस्यापि प्रश्नस्य निर्णयलाभात्त्रयाणामपि प्रश्नानामत्रैव निर्णयः सिद्धः स्यादिति योजना। असतोऽर्थस्य ज्ञानाज्ञानाभ्यां भुक्तिबन्धयोरयोगाद्यदाहीत्यादि वाक्यं त्रयाणामपि प्रश्नानां भवत्युत्तरमित्यर्थः॥ ४२ ॥

विद्वत्ताव्यतिरेकेण फलं भिन्नं यथा तथा।
अकामहततायास्तु परानन्दो न भिद्यते॥ ४३ ॥

स यश्चायमित्यादिवाक्येन ब्रह्मात्मनोरेकत्वमुक्तं तज्ज्ञानफलं समूलानर्थनिवृत्ति668रनतिशयानन्दश्चेतिभावा-भावात्मकं मिथो भिन्नमित्याशङ्क्याऽऽह—विद्वत्तेति। विद्वत्ता विदुषो भावो ब्रह्मत्वं तस्या व्यतिरेकेण पूर्णत्वेन हेतुना तस्माद्ब्रह्मभावाद्विद्वद्रूपात्फलं यथा भिन्नं न भवति तस्याद्वितीयत्वान्नकारस्तूपरिष्टात्ततोऽत्रानु-षज्यते तथैवाकामहततायाः समूलानर्थनिवृत्तेः सकाशात्परमानन्दो न भिद्यतेसमस्तानर्थनिवृत्त्युपलक्षितस्य ब्रह्मणो निरतिशयानन्दत्वस्य निर्धारितत्वात्तस्मादैक्यज्ञानफले नास्ति भेदश669ङ्केत्यर्थः॥ ४३ ॥

अनेकजन्मसंसिद्धः स यः कश्चिद्भवेदिह।
यथोदितार्थवित्साक्षादस्माद्रागेतरात्मकात्॥ ४४ ॥

लोकादाध्यात्मिकात्प्रेत्य यश्चस्यादाधिभौतिकः670
तदुत्क्रान्तेर्भवेद्धेतुरन्नसृष्टिस्थितिक्षयः671॥ ४५ ॥

स य एवंविदित्यादेरर्थमाह–अनेकेति। अनेकेष्वतिक्रान्तेषु जन्मसु ज्ञानसाधनानुष्ठानद्वारा क्षपितज्ञानोत्पत्तिप्रतिबन्धकः संसिद्धो लब्धज्ञानसामग्रीको मनुष्याणां सहस्रेषु कश्चिदेव योऽत्र संसारमण्डले यथोक्तार्थे स672र्वानर्थरहिते निरतिशयानन्दे ब्रह्मात्मन्यहमस्मीतिसाक्षादेव वेदिता संभावितः सोऽस्मादनुभवारूढादाध्यात्मिकाद्देहादनेकानर्थकलुषितादाधिभौतिकादाधिदैविकाच्च सर्वस्मादेव कोशपञ्चकात्प्रेत्य ज्ञानबलात्त-त्राभिमानं परित्यज्याभये निर्विशेषे स्वात्मनि प्रतिष्ठां प्राप्नो673तीत्यर्थः॥ ४४ ॥ ४५ ॥

लोकादस्मात्समुत्क्रम्य ह्येवंविदितिवाचकः।
सर्वशेषमितिन्यायं तद्व्याख्यानाय चोत्तरम्॥ ४६ ॥

विद्वान्देहाभिमानं परित्यज्य किं करोतीत्यपेक्षायामाह—लोकादिति। एवंविदित्ययंश674ब्दो वाचको यस्य स विद्वानेवंविच्छब्दवाच्यो देहादभि675मानतः स्वीकृतादध्यात्मादिभेदभिन्नात्तत्त्वज्ञानबलमवलम्ब्य समुत्क्रम्य तत्राभिमानमपबाध्यासङ्गोदासीनः स्थितः सर्वत्र वक्ष्यमाणोपसंक्रमणे शेषत्वेन कर्तेत्येवमभ्युपगन्तुं युक्तं सर्वत्रोपसंक्रमणकर्ता विद्वानेवेत्येतस्यार्थस्य व्याख्यानार्थ676मन्नमयमित्यादिवाक्यमित्यर्थः॥ ४६ ॥

गत्वेहान्नमयात्मानं तत्कार्यं यद्वदत्यगात्।
अन्नेनान्नमयं तद्वद्विद्वान्प्राणमयात्मना॥ ४७ ॥

तस्यापि ह्यन्तरात्मानमही रज्जुमिव स्वतः।
मनोमयात्मना बाह्यमुपसंक्रामतीश्वरः।
पूर्वपूर्वप्रहाणं स्यादुत्तरोत्तरगामिभिः॥ ४८ ॥

व्याख्यानप्रकारं प्रकटयति—गत्वेत्यादिना। अत्र सर्वत्रेत्थंभावे तृतीया। उत्क्रमणं कोशपञ्चकेऽभि677माना-पबाधः संक्रमणं कोशपञ्चकस्यैव बाध इति भेदः। पदार्थपरिशोधनावस्थायां प्रथमं विराडात्मानमात्मत्वेन प्राप्य तत्कार्यं पुत्रपौत्रादि678कं सर्वं तन्मात्रत्वेनापबाध्य यथाऽन्नमयोऽस्मीत्यव679तिष्ठते तथैवान्न680मयमपि प्राणमयमात्रत्वेन बाधित्वा प्राणमयमात्मरूपेण विद्वान्वर्तते प्राणमयस्यापि पुनरभ्यन्तरमात्मानं मनोमयं प्राप्य तेनाऽऽत्मना बाह्यं प्राणमयं स्वसामर्थ्यादेव जहाति यथा कल्पितः681 सर्पो रज्जुं प्राप्य तत्स्वभावसामर्थ्यादेव सर्पत्वं मुञ्चत्येवमेव पूर्वस्य मनोमयस्य विज्ञानमयात्म682ना प्रहाणं विज्ञानमयस्य च पूर्वस्याऽऽन683न्दमयात्मनाऽवस्थानं तस्य चाऽऽनन्दमयस्यपु684च्छब्रह्ममात्रत्वेन स्थितिरिति पदार्थविवेककुशलो मिरूपयति। तथा निरूपणानन्तरं वाक्याद्वाक्यार्थं प्रतिपद्य कोशपञ्चकमपबाध्य निर्भये ब्रह्मणि तिष्ठतीत्यर्थः॥ ४७ ॥ ४८ ॥

दृश्यादृश्यादिहीनेऽथ प्रतिष्ठां विन्दतेऽभयम्685॥ ४९ ॥

योऽसावेवंविदित्युक्तः परस्मात्किमसौ भवेत्।
स्वतो भिन्नोऽथ वाऽभिन्नो यदि वोभयलक्षणः॥ ५० ॥

वाक्यार्थज्ञानमु686पसंहरति—दृश्येति॥ ४९ ॥

स य एवंविदित्यादेरित्थं पदार्थव्याख्यानं कृत्वा विचारमवतारयति—योऽसाविति। ब्रह्मविद्ब्रह्मणः सकाशाद्भिन्नो वा स्यादभिन्नो वा भिन्नाभिन्नो वेति विमर्शनार्थः। स्वतः स्वभावादुपाधिपरामर्शमन्तरेणेति यावत्॥ ५० ॥

भेदेश्रुतिविरोधः स्यादन्योऽसावितिनिन्दनात्।
कर्मकर्तृत्वमेकस्य दोषोऽभेदेऽपि विद्यते॥ ५१ ॥

तत्त्वमस्यादिवाक्यविरोधो भेदनिन्दाश्रुतिविरोधश्चेति भेदपक्षे दोषं सूचयति—भेद इति। उपसंक्रमणमति-क्रमणं प्राप्तिर्वा द्विधाऽप्यानन्दमयं687 परमात्मानमुपादाय कर्मकर्तृत्वविरोधमभेदपक्षे दर्शयति—कर्मेति॥ ५१ ॥

परस्य दुःखिता चैवं पराभावः प्रसज्यते।
तस्मान्निर्धारणार्थोऽयं विचारः क्रियतेऽधुना॥ ५२ ॥

जीवपरयोरभेदे जीवस्यसंसारित्वात्परोऽपि संसारी स्यात्। ततश्च परासत्त्वमित्य688भेदपक्षे दोषान्तरमाह—परस्येति। विद्वच्छब्देनात्ममात्रमंत्र गृ689ह्यते। भेदाभेदपक्षे तु विरोधोऽतिस्फुटत्वान्नोद्भाव्यते। पक्षत्रयेऽपि दोषस्य सत्त्वाददुष्टपक्षनि690र्धारणार्थं विचारः कर्तव्य इत्याह—तस्मादिति॥ ५२ ॥

निश्चितं हि परिज्ञानं फलवत्स्यात्प्रसिद्धितः॥ ५३ ॥

नान्यस्यान्यात्मता यस्माध्दवंसे वाऽध्वंस एव वा।
तस्मादनन्यो विज्ञेयः परस्मादात्मनो बुधः॥ ५४ ॥

अदुष्टपक्षनिर्धारणं किमर्थमित्याशङ्क्याऽऽह—निश्चितं हीति। प्रसिद्धितो निश्चितस्य ज्ञानस्य फलवत्ताया वृद्धव्यवहारे प्रसिद्धत्वादित्यर्थः॥ ५३ ॥

ब्रह्म वेद ब्रह्मैव भवतीतिश्रवणादन्यो जीवो ज्ञानद्वारा ब्रह्म प्राप्नोतीत्यभ्युपगमाद्भेदपक्षे प्राप्ते सिद्धान्तमाह—नान्यस्येति। न हि नष्टस्यानष्टस्य वाऽन्यस्यान्यभावो युज्यते। घटे नष्टेऽनष्टे च पटभावानुपलम्भात्तस्मादात्मा सदा ब्रह्मैव न ततोऽन्यो भवतीत्यर्थः॥ ५४ ॥

अनन्यश्चेद्भवेद्विद्वान्भूतत्वाद्भवतीति किम्।
बाढं प्राप्तं प691रं ब्रह्म नानात्माऽऽप्नोति येन तत्॥ ५५ ॥

जीवस्य सदा ब्रह्मभावे ब्रह्म वेद ब्रह्मैव भवतीतिश्रुतिरनुपपन्नेति शङ्कते—अनन्यश्चेदिति। तत्रानन्यत्वमन्यस्यान्यभा692वानुपपत्तेरेवाङ्गी करोति—बाढमिति॥ ५५ ॥

दशमाप्तिवदज्ञानात्स्वरूपादिव वर्ण्यते।
विद्यया तदवाप्नोति यदनाप्तमविद्यया॥ ५६ ॥

शङ्कितश्रुतिविरोधं दृष्टान्तेन निराचष्टे—दशमेति। यथा दशमो माणवकः स्वस्वरू693पादविद्यया विभक्तवद्भातीति तदवाप्तिर्ज्ञानादुच्यते तथा जीवोऽपि ब्रह्मस्वरूपादज्ञानाद्विभक्तवद्भातीति ज्ञानात्तद्भावो वर्ण्यते शास्त्रेणेत्यर्थः। ब्रह्मण्यप्राप्तिरविद्याकृता विद्याकृता तन्निवृत्तिरेव प्राप्तिरित्युक्तमेव व्यक्ती करोति—विद्ययेति॥ ५६ ॥

तमोह्नुत्यतिरेकेण नेह ग्रामाद्यवाप्तिवत्।
तत्प्राप्तिसाधनं ज्ञानं ग्राममार्गप्रबोधवत्॥ ५७ ॥

इत्येवं चेन्न वैधर्म्यान्न हि तत्रोपदिश्यते।
गन्तव्यविषयं ज्ञा694नं यथा सत्यादिलक्षणम्॥ ५८ ॥

ग्रामादिप्राप्तिद्ब्रह्मण्यपि प्राप्तिर्मुख्यैव किं न स्यादित्याशङ्क्य प्रत्यग्भूतत्वा695द्ब्रह्मणस्तत्राज्ञाननिवृत्त्यतिरेकेण नास्ति प्राप्तिरित्याह—तमोह्नुतीति। यथा ग्रामस्य मार्गज्ञानं गमनद्वारेणैव प्राप्तिसाधनमेवं ब्रह्मज्ञानमपि स्वाभ्यासद्वारेणैव ब्रह्मप्रा696प्तिसाधनमिति ब्रह्मणि मुख्यावाप्तिः सिध्यतीति शङ्कते—तत्प्राप्तीति। उपदेशवैषम्योपन्यासेन परिहरति—न वैधर्म्यादिति। यथा सत्यज्ञानानन्तानन्दात्मकं ब्रह्म तत्त्वमसीतिप्राप्यं696

ब्रह्माधिकृत्य ज्ञानमुपदिश्यते न तथा दृष्टान्ते गन्तव्यं ग्रामं विषयीकृत्य ज्ञानमुपदिश्यमानं दृश्यते। तत्प्राप्तिमार्गस्तु तत्रोपदिश्यते तेन तत्र गमनद्वारा मुख्या प्राप्तिः। इह तु ज्ञानादज्ञाननिवृत्त्या प्राप्तिरौपचारिकीत्यर्थः॥ ५७ ॥ ५८ ॥

कर्मापेक्षं परप्राप्तौ ज्ञानं स्यादिति चेन्न तत्।
मुक्तौ न कर्मणः कार्यं यस्मादवपि विद्यते॥ ५९ ॥

उपदेशवैषम्येऽपि ज्ञानस्य कर्मापेक्षस्य ब्रह्मप्राप्तिहेतुत्वात्तत्प्राप्तेर्मुख्यत्वसिद्धिरिति शङ्कते—कर्मापेक्षमिति। मोक्षे कर्मकार्यस्य कस्यचिदपि वक्तुमशक्यत्वान्न तत्र कर्मापे697क्षा ज्ञानस्येति दूषयति698—न तदिति॥ ५९ ॥

बुद्धं यस्मात्स्वतस्तत्त्वमतः शुद्धं स्वतो भवेत्।
अतो मुक्तं स्वतो ब्रह्म वद स्यात्कर्मणाऽत्र किम्॥ ६० ॥

चतुर्विधमपि कर्मकार्यं भुक्तौ नास्तीत्येतदेव साधयति—बुद्धमिति॥ ६० ॥

स्रष्टृप्रवेष्ट्रोश्चै699कत्वादभिन्नः स्यात्पराद्बुधः।
विपश्चिद्व्यतिरेकेण यदीशोऽन्यो न विद्यते॥
ततः स्यादभयप्राप्तिर्द्वितीयाद्वै भयश्रु700तेः॥ ६१ ॥

विद्वद्ब्रह्मणोर्भेदपक्षं निराकृत्याभेदपक्षे समर्थिते प्रमाणमाह—स्रष्ट्रिति। मोक्षान्यथानुपपत्त्याऽपि तयोरैक्यमास्थेयमित्याह—विपश्चिदिति॥ ६१ ॥

द्वितीयं चेदविद्योत्थमेकं वस्तु स्वतो यदि।
न स वेदैकधैवेति विभागोक्तिस्तदा भवेत्॥ ६२ ॥

अभेदस्य पारमार्थिकत्वं भेदस्य भ्रान्तत्वमित्यभ्युपगमे सत्यथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति701 न स वेदेति भेददर्शने त702स्याप्यविद्याकृ703तत्वेन भेदस्यावस्तुत्वोक्तिरेकधैवानुद्रष्टव्यमित्यभेदविधानं चोपपद्यतेऽतो704ऽपि जीवपरयोरैक्यमभ्युपगन्तव्यमित्याह—द्वितीयमिति॥ ६२ ॥

यदि तैभिरिकादन्यैर्द्वितीयो नेक्ष्यते705 शशी॥ ६३ ॥

चन्द्र एक इति ज्ञानं तदा स्यात्पारमार्थिकम्706
तद्गृह्यते द्वितीयं चेन्न सुषुप्तेऽग्रहः श्रुतेः॥ ६४ ॥

यथा चन्द्रैकत्वज्ञाने सत्यद707र्शनाच्चन्द्रद्वित्वस्य708 भ्रान्तिदर्शनसिद्धत्वं त709था द्वैतं न कदाचिदपि न गृह्यते तस्मादभ्रान्तद्वैतमिति शङ्कते—यदीति। न हि निर्दुष्टदृष्टिभिर्द्वितीयश्चन्द्रो710 दृश्यते तेन दोषजन्यभ्रान्तिविषय711त्वाद्द्वितीयश्चन्द्रो712 मिथ्येति युक्तं चन्द्रैक्यज्ञानस्य निर्दोषक713रणजन्यत्वेन सम्यक्त्वाच्चन्द्रैक्यं पारमार्थिकं न तथा द्वितीयं कदाचिन्न गृह्यते तस्मादद्वैतस्य परमार्थत्वायोगाद्द्वैतस्यैव परमार्थतेत्यर्थः। न तावत्सुषुप्त्यवस्थायां द्वैतस्य ग्रहोऽस्ति न तु तद्द्द्वितीयमस्तीतिश्रुतेरतो द्वैतस्य कदाचिद्ग्रहेऽपि कदाचिदग्रहाव्यभिचाराद्युक्तं मिथ्यात्वमिति दूषयति—न सुषुप्त इति॥ ६३ ॥ ६४ ॥

न चेहान्यमनस्ता स्यात्सर्वेषामग्रहो यतः।
अस्त्येवैतद्द्वितीयं चेद्ग्रहणात्स्वप्नबोधयोः॥ ६५ ॥

सुषुप्ते विद्यमानस्यैव द्वैतस्यान्यमनस्कत्वादग्रहणं न त्वभावादित्याशङ्क्याऽऽह—न चेति। यदि सुषुप्ते द्वैतस्याग्रहणादसत्त्वं तर्हि जाग्रत्स्वप्नयोर्ग्रहणात्तस्य सत्त्वं किं न स्यादिति शङ्कते—अस्त्येवेति॥ ६५ ॥

अविद्योत्थानतो नैवं तदा तद्भावभावतः।
द्वयाबोधः सुषुप्तेऽपि त्वज्ञानादिति चेन्न तत्॥
स्वाभाविकत्वात्तस्यापि निमित्तस्यानपेक्षणात्॥ ६६ ॥

अज्ञोऽहमिति स्फुटतराविद्याप्रतिभाने द्वै714तप्रतिभानात्तदभावे च तत्प्रतिभानाभावादविद्याकृतं द्वैतं न परमार्थतोऽस्तीति परिहरति—अविद्येति। यथाऽन्धकारावृतो घटादिर्विद्यमानोऽपि तदावृतत्वान्नोपलभ्यते तथा द्वैतमपि विद्यमानमेव सुषुप्त्यवस्थायामज्ञानावृतत्वादनुपलब्धमिति

शङ्कते—द्वयेति। सौषुप्त715स्याग्रहणस्य निमित्तनिरपेक्षत्वेन स्वभावतः सिद्धत्वान्न तत्र द्वैताग्रहणमावृतत्वप्र-युक्तमिति दूषयति—न तदिति॥ ६६ ॥

अन्यापेक्षं हि यद्रूपं न तत्तस्य स्वतो भवेत्।
विक्रियाऽविक्रिया त्वस्य716 तत्त्वमन्यानपेक्षणात्॥ ६७ ॥

किंच ग्रहणस्य विक्रियात्वेन717 हेतुकृतत्वादस्वाभाविकत्वात्तद्विषयस्यापि द्वैतस्य दृश्यत्वादेव रज्जुसर्पादिवत्क718ल्पितत्वात्तस्य सुषुप्ते ग्रहणाभावादक्रिय719त्वमेवास्य स्वाभाविकं रूपमित्यभिप्रेत्याऽऽह—अन्यापेक्षं हीति॥ ६७ ॥

स्वप्नवन्न सुषुप्तोऽतः स्वत एवाद्वयत्वतः।
द्रष्टुर्दृष्टेर्न लोपः स्यात्सत्यमेवं श्रु720तेवचः॥ ६८ ॥

यथा स्वाप्नं रूपं मिथ्या तथा सौषुप्तमपि रूपं मिथ्यैवेति युक्तमवस्थावच्छिन्नत्वाविशे721षादित्याशङ्क्याऽऽह—स्वप्नवदिति। अन्यापेक्षामन्तरेण सौषुप्तमात्मरू722पं परमार्थतोऽद्वितीयत्वान्न स्वप्नतुल्यमित्यर्थः। विनाशमेवापीतो भवतीतिश्रवणादात्मैव सुषुप्ते नास्तीत्याशङ्क्य विनाशश्रुतेर्विशेषविज्ञानविनाशाभिप्राय-त्वान्मैवमित्याह—द्रष्टुरिति॥ ६८ ॥

आत्मनोऽन्यो भवेद्येषामीश्वरः कारणात्तथा।
कार्यं भयानिवृत्तिः स्यादन्यहेतुत्वसंश्रयात्॥ ६९ ॥

एवं जीवेश्वरयोरभेदपक्षं प्रसाध्य भेदपक्षे दोषान्तरमाह—आत्मन इति। जीवेश्वरयोर्भेदे कार्यकारणयोश्च भिन्नत्वे भेदेन दृष्टादीश्वराज्जीवस्य भयं भवेदन्यस्य हेतोरुपलब्धस्य भयहेतुत्वाद्द्वितीयाद्वै भयं भवतीत्यादिश्रु723तेरित्यर्थः॥ ६९ ॥

अन्यस्य भयहेतुत्वमधर्मापेक्षयेति चेत्724
मैवं तस्यापि तुल्यत्वान्निवृत्तेः स्यादसंभवः॥ ७० ॥

ईश्वरस्यान्यत्वेऽपि सहायी725भूताधर्माद्यभावान्न भयहेतुरिति शङ्कते—अन्यस्येति। सहकार्यभावादीश्वरस्य भयं प्रत्यकारणत्वमित्येव नो726पप-

द्यते सहायीभूताधर्मादेरपि जीवगतस्य जीवत्वादौ कारणे सति सत्त्वस्य तुल्यत्वान्निवृत्तेरसंभवो यस्माद्भवतीति दूषयति727—मैवमिति॥ ७० ॥

निर्निमित्तं भयं चेत्स्यान्न तस्यास्ति निवारणम्।
ध्वंसेन वा निवृत्तिः स्यादात्मनो नेष्यते तथा॥ ७१ ॥

संसारमयस्य निमित्तनिरपेक्षत्वान्न तस्येश्वरकृतत्वमिति शङ्कते728—नि728र्निमित्तमिति। तर्हि संसारभयं सदा स्यादिति दूषयति—न तस्येति। किंच स्वाभाविकं भयमात्मन्यभ्युपगम्यते चेत्तस्याऽऽत्मनिवृत्त्यैव निवृत्तिः स्यान्न729 चाऽऽत्मनो निवृत्तिर्वैदिकैरिष्यते730 तस्मा730द्भेदपक्षे मोक्षस्यैवानुपपत्तिरित्याह—ध्वंसेन731 वे731ति। वाशब्दश्चार्थे॥ ७१ ॥

एकत्वपक्षे त्वेतेषां दोषो नान्यतमो भवेत्।
भयस्याज्ञानहेतुत्वात्तन्निवृत्तौ निवर्तते॥ ७२ ॥

अभेदपक्षे यथोक्तसर्वदोषराहित्यमित्याह—एकत्वेति। सर्वदा संसारित्वं न कदाचिन्मुक्तत्वं बन्धहेतोर्मोक्षहेतोश्चाऽऽनर्थक्यं शास्त्रविरोधश्चेत्येतेषामिति यावत्। तत्र हेतुं सूचयति—भयस्येति॥ ७२ ॥

अन्यहेतुः732 स्व732तो वा स्याद्भयं नोभयथाऽपि हि।
स्वातन्त्र्याभावादन्यस्मिन्स्वात्महामं च नेष्यते॥ ७३ ॥

किंच भेदपक्षे भयस्यान्यकृतत्वमात्मकृतत्वं वेति विकल्प्योभयथाऽपि तन्निवृत्तिर्न संभवतीत्याह— अन्येति। अन्यस्मिन्भयनिमित्ते स्वीकृते सत्यात्मनः स्वातन्त्र्याभावादन्यनिमित्तं संसारभयं सदा स्यादेवेत्यन्यहेतुत्वपक्षे भयान्निवृ733त्तिं साधयति—स्वातन्त्र्येति। आत्महेतुत्वपक्षे तु भयस्याऽऽत्मनाशानङ्गीका-रात्तत्कृतं भयं सदा संभाव्यत734 इत्याह—स्वात्मेति॥ ७३ ॥

अनिवर्त्य स्वमात्मानं न भयस्य निराक्रिया।
निवृत्तावपि नैव स्यान्निवृत्त्यैव समाप्तितः॥ ७४ ॥

कुलालकृतस्य घटस्य कुलालनाशमन्तरेण नाशवदात्मकृतस्य भयस्याऽऽत्मनाशादृतेऽपि नाशः स्यादित्याशङ्क्याऽऽत्मनो735 भयं प्रति निर-

पेक्षहेतुत्वान्नैवमित्याह—अनिवर्त्येति। तर्हि स्वात्मनिवृत्त्या भयनिवृत्तिरित्याशङ्क्याऽऽत्मनो निवृत्त्या भयनिवृत्तावपि निवृत्तिरूपेणैवाऽऽत्मनःसमाप्तत्वाद्भयनिवृत्तिफलेन फलितत्वायो736गान्नैतद्युक्तमित्याह—निवृत्ताविति॥ ७४ ॥

अविद्यामात्रहेतौ तु सर्वमेतत्समञ्जसम्।
तस्यामसत्यां तन्न स्यात्सत्यामेव हि भीर्यतः॥ ७५ ॥

त्वत्पक्षेऽपि यथोक्तं सर्वं समानमित्याशङ्क्यैकत्वपक्षे त्वेतेषामित्यत्रोक्तं स्मारयति—अविद्येति॥ ७५ ॥

यदज्ञानाद्भयं यत्स्यात्तज्ज्ञानात्कुतो भवेत्।
रज्जुसर्पादिवत्तस्मादविद्यैव भयोद्भवः॥ ७६ ॥

विदुषोऽपि भयदर्शनान्नाविद्याहेतुत्वं भयस्येत्याशङ्क्याऽऽह—यदज्ञानादिति। विदुषो भयस्य बाधितानुवृत्त्या भानेऽपि वस्तुतस्तदसंभवे फलितमाह—रज्जुसर्पेति॥ ७६ ॥

विद्याविद्यात्मकं ब्रह्म737मतं737 चेन्न विरोधतः।
पृथक्च दृश्यमानत्वादात्मनो घटरूपवत्॥ ७७ ॥

आत्मन्यविद्यया भयप्रतीतिर्विद्यया च तन्निवृत्तिरित्यङ्गीकारे विद्याविद्ये च तत्र स्वीकृते स्यातामित्याशङ्क्य तयोरात्मनि स्वरूपत्वं धर्मत्वं वेति विकल्प्याऽऽद्यमनूद्य दूषयति—विद्येति। तयोरात्मत्वाभावे हेत्वन्तरमाह—पृथक्चेति॥ ७७ ॥

प्रत्यक्षेण हि दृश्येते विद्याविद्ये मनोगते।
न तयोरात्मधर्मत्वं तस्मात्ते नामरूपयोः॥ ७८ ॥

कल्पान्तरं प्रत्याह—प्रत्यक्षेणेति। विद्या कादाचित्कं ज्ञानमविद्या मिथ्याज्ञानमग्रहणं च तयोर्मनोनिष्ठत्वानुभवात्तदुपादानभूतानाद्यनिर्वाच्याज्ञानगतत्वमेव साश्रययोर्विद्याविद्ययोरित्याह—तस्मादिति। नामरूपशब्देनानाद्यज्ञानमुच्यते॥ ७८ ॥

अन्तरा नामरूपे ये ब्रह्मबाह्ये तयोर्हि तत्।
न स्तो ब्रह्मणि ते भानावुदयास्तमयाविव॥ ७९ ॥

नामरूपयोर्ब्रह्मणश्च मिथो विलक्षणत्वे प्रमाणमाह—अन्तरेति। ये नामरूपे ते ब्रह्मणः सकाशाद्बाह्ये विलक्षणे तयोश्च नामरूपयोस्तद्ब्रह्मान्तरा विलक्षणमित्यर्थः। विलक्षणत्वेऽपि नामरूपयोर्ब्रह्मणि संगतिमाशङ्क्यासङ्गत्वश्रुतिविरोधान्नैवमित्याह—न स्त इति॥ ७९ ॥

कर्मकर्तृकतैकस्य दोषः स्यादिति चेन्न तत्।
संक्रान्तेर्ज्ञानमात्रत्वात्तद्धि भेदनिरासि नः॥ ८० ॥

यत्तु जीवब्रह्मणोरभेद738श्चेदेतमानन्दमयमात्मानमुपसंक्रामतीत्यत्र कर्मकर्तृत्वविरोधः स्यादिति तदनूद्य दूषयति—कर्मेति। अत्र हि वाक्ये संक्रान्तेरहं ब्रह्मास्मीतिज्ञान739मात्रत्वात्तस्य च ब्रह्मात्मन्यध्यस्तसकार्याविद्यानिवर्तकत्वात्प्राप्तायां विद्यायां कर्मकर्तृत्वविरोधाश740ङ्का नास्तीति दूषणमेव प्रपञ्चयति—संक्रान्तेरिति॥ ८० ॥

सुखदुःखादिसंबद्धमा741त्माऽऽत्मानं न वेत्ति चेत्।
भवतो मुमुक्षुता कस्माद्विस्रम्भा742देतदुच्यताम्॥ ८१ ॥

ब्रह्मात्मनि नित्यमुक्ते संसारस्यैवाभावात्कुतस्तन्निवृत्तिर्विद्याफलमत्याशङ्क्य ब्रह्मव्यतिरिक्तसंसार्यभावा-द्ब्रह्मणः संसाराभावे मुमुक्षोरमावान्मोक्षशास्त्रानर्थक्यं स्यादित्याह—सुखेति॥ ८१ ॥

जाग्रत्स्वप्नसुषुप्तेषु वस्तुवृत्तानुरोधतः।
श्यामः सुखी न वेद्मीति वेत्त्यात्मानं प्रसिद्धितः॥ ८२ ॥

न केवलं मोक्षशास्त्रानुपपत्त्यैव ब्रह्मणि संसारसिद्धिः किंतु स्वानुभववशादपीत्याह—जाग्रदिति। वस्तुवृत्तानुरोधतःप्रसिद्धित इति संबन्धः। वस्तुनो वृत्तं स्वरूपभूतं चैतन्यं तदनुसारात्प्रसिद्धिः स्वानुभवस्तद्वशादिति यावत्॥ ८२ ॥

कार्यकारणहानाच्च न विभागः परात्मनि।
अभावात्कर्मकर्त्रादेर्बोध एवावशिष्यते॥ ८३ ॥

ब्रह्मात्मन्युपपत्तेरनुभवाच्च संसारसमारोपमुक्त्वा कर्मकर्तृविरोधाभावे हेत्वन्तरमाह—कार्येति। आत्मनि कर्मकर्तृकरणादिविभागाभावे किमवशिष्टं भवतीत्याशङ्क्याऽऽह–अभावादिति॥ ८३ ॥

कारकाण्युपमृङ्गाति विद्या बुद्धिमिवोषरे743
कारकत्वमविद्योत्थं स्वतश्चाकारकात्मता॥ ८४ ॥

किंच कूटस्थस्या744ऽऽत्मनः स्वाभाविकत्वात्कर्तृत्वादेरविद्याकृतत्वात्तन्निवृत्त्या745 निवृत्तेर्न कर्मकर्तृत्वविरोधा-शङ्काऽस्तीत्याह—कारकाणीति॥ ८४ ॥

यद्धि यस्य स्वतो रूपं न तत्प्राप्तावपेक्षते।
क्रियामन्यनिमित्तत्वादपेक्षा कर्त्रपह्नवे॥ ८५ ॥

आत्मरूप746मेव कूटस्थत्वं क्रि747यापेक्षमित्याशङ्क्याऽऽह—यद्धीति। विक्रियायामुत्पत्त्यादि748रूपायां क्रियाया निमित्तत्वादितिहेतुमाह–अन्येति। तर्हि त्वत्पक्षे कर्मशास्त्रमनर्थकमित्याशङ्क्य बुद्धिशुद्धिद्वारेण सर्वजगन्निर्माणकारणाज्ञानापनोदिज्ञानप्राप्तौकर्मापेक्षत्यवैयर्थ्यं कर्मकाण्डस्येत्याह—अपेक्षेति॥ ८५ ॥

नैवेहान्नभयात्मानं जलूका749वत्परोऽञ्जसा।
उपसंक्रामतीत्यस्माद्गौणी संक्रान्तिरिष्यते॥ ८६ ॥

किमित्युपसंक्रमणं गौण्या वृत्त्या ज्ञानमात्रमिति व्याख्यातं प्रसिद्धमेवोपसंक्रमणं कस्मान्न स्यादित्या-शङ्क्याऽऽह–नैवेति॥ ८६ ॥

बहिः प्रवृत्तेः संक्रान्तिः प्रत्यावृत्येति चेन्मतम्।
मनोमयादिवन्नैवं विरुद्धा स्वात्मनि क्रिया॥ ८७ ॥

यथा मनो बुद्धिर्वा स्ववृत्तिद्वारेण विषयपर्यन्तं गत्वा तस्मात्प्रत्यावृत्य स्वात्मानमेवोपसंक्रामति तथाऽऽत्माऽपि मनोद्वारेण देहादौ बहिर्भूत्वा ततो निष्क्रम्याऽऽत्मानमेव प्रविशतीति मुख्या संक्रान्तिर750त्र संभवतीति

शङ्कते—बहिरिति। कर्मकर्तृभा751वस्यैकत्र विरुद्धत्वान्न हि तदिति दूषयति—नैवमिति॥ ८७ ॥

स्फुरन्ती न जलुकाऽपि स्वात्मानं स्वात्मनाऽञ्जसा।
उपसंक्रामतीत्यत्र निर्भागत्वात्तथाऽपि न॥ ८८ ॥

विरोधमेव दृष्टान्तेन स्पष्टयति—स्फुरन्तीति। जलूकायाः सावयवत्वादेकेनांशेन संक्रमणे कर्तृत्वमंशान्तरेण कर्मत्वं चाविरुद्धमित्याशङ्कामङ्गी752कृत्य नैवमात्मनि संभवति निरवयवत्वादित्याह—अत्रेति॥ ८८ ॥

तस्मात्प्राप्तिर्न संक्रान्तिर्न च कोशात्मकर्तृका।
पञ्चकोशातिरिक्तात्मकर्तृका परिशिष्यते॥ ८९ ॥

आत्मनि मुख्यसंक्रान्तेरतिक्रमणस्य प्राप्तेर्वा यथोक्तन्यायेनायुक्तत्वाद्वाक्यार्थज्ञानमेवात्र संक्रमणं न च तत्कोशपञ्चककर्तृकं पञ्चानां कोशानामचेतनत्वाज्ज्ञानकर्तृत्वायोगादित्युपसंहरति—तस्मादिति। तर्हि किंकर्तृका यथोक्ता संक्रान्तिरित्याशङ्क्याऽऽह—पञ्चकोशेति। कार्यकारणात्मककोशपञ्चकव्यतिरिक्तकूटस्थचिन्मात्रब्रह्मकर्तृका संक्रान्तिरहं ब्रह्मास्मीतिज्ञानरूपा वाक्यकृता स्वीकृता न च कूटस्थस्याज्ञानमन्तरेण कर्तृत्वमित्यज्ञा753ने ज्ञानान्निवृत्ते तदुत्थं कर्तृत्वमपि निवृत्तमेवेत्या754त्मनः स्वेन निर्विशेषात्मनाऽवस्थानसिद्धिरित्यर्थः॥ ८९ ॥

कोशातिरिक्तरूपस्य सर्वान्तरतमात्मनः।
अक्रियस्यैव संक्रान्तिर्नभोवत्स्यात्परात्मनः॥ ९० ॥

आकाशमवकाशं ददातीतिवदात्मनो ज्ञानकर्तृत्वं कूटस्थस्याज्ञानोत्थमास्थेयमिति साधयति—कोशेति॥ ९० ॥

गुहाश्रयाभिसंबन्धो योऽविद्याविभ्रमाद्भवेत्।
आत्मज्ञानाद्ध्रमध्वस्तौ संक्रान्तिरिति गीरिय755म्॥ ९१ ॥

आत्मनि संक्रमणमौपचारिकं न मुख्यमित्यत्रैव हेत्वन्तरमाह—गुहाश्रयेति। गुहा बुद्धिराश्रयो यस्याऽऽभासस्य तद्वता756 सामासेन

कोशपञ्चकेनाऽऽत्मनो यः संबन्धोऽविद्याकृतविभ्रमप्रयुक्तो भवति स पुनर्वाक्य757त्थत्मज्ञानात्तदज्ञाननिवृत्त्या तदुत्थविभ्रमध्वस्तौ कोशपञ्चकातिक्रमणादात्मा ब्रह्मैव भवतीत्यतः संक्रान्तिरित्यौपचारिको व्यपदेश इत्यर्थः॥ ९१ ॥

तस्मात्सत्यमनन्तं यत्सर्वदाऽविकलेक्षणम्।
तदस्मीतिप्रबोधार्थं बहु स्यामिति कल्प्यते758॥ ९२ ॥

ब्रह्मात्मनि कर्तृत्वं वास्तवमेव सृष्टिश्रुतिवशादेष्टव्यमित्याशङ्क्य प्रदर्शितप्रकारेण ज्ञानोत्पत्त्यर्थत्वेन सृष्टिप्रवेशादेरारोपितत्वान्मैवमित्याह—तस्मादिति॥ ९२ ॥

पञ्चकोशातिवर्त्यात्मा ज्ञा759नभानूदयात्कमात्।
जग्ध्वा पञ्चापि कोशांस्तान्निर्वात्यात्मनि दीपवत्॥ ९३ ॥

ज्ञानफलमिदानीमुपसंहरति—पञ्चकोशेति॥ ९३ ॥

तदेतस्मिन्यथोक्तेऽर्थे श्लोको मन्त्रोऽपि विद्यते।
अशेषानन्दवल्ल्यर्थसारस्यास्य प्रकाशकः॥ ९४ ॥

निरतिशयानन्दरूपं निःशेषानर्थनिवृत्त्युपलक्षितं ब्रह्म तदज्ञानादात्मा संसरति तज्ज्ञानाच्च मुक्तो भवतीत्यस्मिन्ब्राह्मणोक्तेऽर्थे तदप्येष श्लोको भवतीति मन्त्रमवतारयति—तदेतस्मिन्निति॥ ९४ ॥

इत्यष्टमः खण्डः॥ ८ ॥

यतो वाचो निवर्तन्ते तद्ब्रह्मेति प्रतीयताम्॥ ९५ ॥

शब्दप्रवृत्तिहेतूनां प्रत्यगात्मन्यसंभवात्॥
शब्दार्थासंभवं प्राह ह्यप्राप्येत्यादराच्छ्रुतिः॥ ९६ ॥

शब्दातिरिक्तप्रमाणागम्यं ब्रह्माहमस्मीति प्रतिपत्तव्यमित्यस्मिन्नर्थे यत इत्यादिवाक्यमाकाङ्क्षां पूरयन्योजयति—यत इति॥ ९५ ॥

अप्राप्येत्यत्र विवक्षितमर्थं कथयति—शब्दप्रवृत्तीति। षष्ठीगुणक्रियाजातिरूढयः शब्दप्रवृत्तिहेतवः। शब्दार्थासंभवः। शब्दवाच्यत्वासंभवः॥ ९६ ॥

तस्मालक्षणवाचीनि सत्यादीनि पुराऽब्रवम्।
विशेषणविशेष्याणां निषेधात्कोशशायिनाम्॥ ९७ ॥

कथं तर्हि ब्रह्मणः शब्दप्रमाणकत्वमित्याशङ्क्योपक्रमे दर्शितं स्मारयति—तस्मादिति। वाच्यत्वासंभवादिति यावत्॥ ९७ ॥

निर्ममं निरहंकारं ब्रह्मैवाऽऽत्मेत्युपास्महे।
द्रव्यादिविषये यानि प्रयुक्तानि प्रयोक्तृभिः॥
स्वार्थहेतोर्निवृत्त्यैव निवर्तन्ते वचांस्यतः॥ ९८ ॥

लक्षणावृत्त्या बोधक760शब्दवशादुत्पन्नज्ञानात्प्रत्यक्त्वेनैव ब्रह्मप्रतिपत्तिरिति विशेषं दर्शयति—निर्मममिति। यत इत्यादिवाक्यस्यार्थं पूर्वोक्तमुपसंहरति—द्रव्यादीति। यानि लोके द्रव्यगुणाद्यनात्मविषये श्रोतृबुद्धिसिद्ध्यर्थं प्रयोक्तृभिर्वृद्धैर्वचांसि प्रयुक्तानि प्रतीयन्ते तानि स्वार्थे प्रवृत्तिहेतोः षष्ठ्यादेर्निवृत्त्यैव ब्रह्मणो निवर्तन्ते तस्मान्न ब्रह्मणो वाच्यतेत्यर्थः॥ ९८ ॥

न मातृयायिनो यस्मात्प्रत्यया बुद्धिकर्तृकाः।
तन्निवृत्तौ निवर्तन्ते तस्मात्ते मनसा सह॥ ९९ ॥

मनसा सहेतिभागस्यार्थमाह—नेत्यादिना। प्रत्यया विपरिणामा बुद्धिकर्तृकाः सर्वे बुद्धितद्वृत्तिसा761क्षिणि मातरि यस्माद्गन्तुं न पारयन्ति तस्मात्तेषां प्रत्ययानां साक्षिणः सकाशान्निवृत्तौ तज्ज762नकाः शब्दाः स्वकार्यभूतैर्मनःशब्दितैस्तैरेव प्रत्ययैः सह निवर्तन्ते। अतः शब्दतज्ज्ञानयोरविषयो ब्रह्मेत्यर्थः॥ ९९ ॥

यतो वाचोऽभिधानानि प्रयुक्तान्युपलब्धये।
सर्वाण्यनभिधायैव निवर्तन्तेऽवबोध्य च॥ ६०० ॥

तर्हि कुतो ब्रह्मणः शास्त्रप्रमाणकत्व763मित्याशङ्क्य लक्षणावृत्त्या ब्रह्मणि शास्त्रस्य बोधकत्वमित्युक्तं स्मारयति—यत इति। वाचकवाभावेऽपि लक्षणया बोधमाधायैव निवृत्तेन शब्दप्रमाणकत्वहानिरिति शेषः॥ ६०० ॥

उदयादि च यच्छब्दैर्ज्ञानमाकारवद्धियः।
स्वतो बुद्धं तदप्राप्य नाम्ना सह निवर्तते॥ १ ॥

ज्ञानेन सह शब्दानां निवृत्तिमुक्त्वा शब्देन सह ज्ञानस्य निवृत्तिं दर्शयति—उदयादीति॥ १ ॥

माहात्म्यमेतच्छब्दस्य यदविद्यां निरस्यति।
सुषुप्त इव निद्राया दुर्बलत्वाच्च बाध्यते॥ २ ॥

ब्रह्मणः शब्दतज्जन्य764ज्ञानाविषयत्वेकथं तद्गताविद्यानिवर्तकत्वं शब्दस्य सिध्यतीत्याशङ्क्याऽऽह— माहात्म्यमिति। तत्त्वमस्यादिवाक्यस्याऽऽत्मविषयत्वमन्तरेण तद्गताविद्यानिवर्तकत्वे दृष्टान्तमाह—सुषुप्त इति। यथा सुषुप्ते पुरुषे देवदत्तोत्तिष्ठेत्यादिस्तद्बोधकः शब्दस्तमविषयीकुर्वन्नेव तद्गतनिद्राया निवर्तको दृश्यते तथाऽत्रापीत्यर्थः॥ २ ॥

दुर्बलत्वादविद्याया आत्मत्वाद्बोधरूपिणः।
शब्दशक्तेरचिन्त्यत्वाद्विद्मस्तं मोहहानतः॥ ३ ॥

अविद्याया दुर्बलत्वाच्च प्रत्यगात्मनि शब्दोत्थवि765द्या तद्बाधिकेत्याह—दुर्बलत्वाच्चेति। दार्ष्टान्तिकं प्रपञ्चयति—दुर्बलत्वादिति। बोधैकरसस्याऽऽत्मत्वात्तत्राविद्याया दुस्थत्वाद्विषमन्त्रादिषु दृष्टत्वादेव शब्दसामर्थ्यस्याचिन्त्यत्वादात्मनो विषयीकरणमन्तरेण तदाकारज्ञानोदयमात्रेण तत्राविद्यां शब्दो निवर्तयतीत्यर्थः॥ ३ ॥

अगृहीत्वैव संबन्धमभिधानाभिधेययोः।
हित्वा निद्रां प्रबुध्यन्ते सुषुप्ते बोधिताः परैः॥ ४ ॥

सुषुप्तदृष्टान्तं पूर्वोपदिष्टं प्रपञ्चयति—अगृहीत्वैवेति। सुषुप्ते हि स्थाने पार्श्वस्थैर्बोधिताः सुषुप्तास्तत्काले शब्दार्थयोः संबन्ध पूर्वविदि766 तमपि स्मरणेनाप्र767तिपद्यैव शब्दोत्थज्ञानान्निद्रां परित्यज्योत्तिष्ठन्तीत्यर्थः॥ ४ ॥

जाग्रद्वन्न यतः शब्दं सुषुप्ते वे768त्ति कश्चन।
ध्वस्तेऽतो वचसाऽज्ञाने ब्रह्मास्मीति भवेन्मतिः॥ ५ ॥

सुषुप्तिकाले संबन्धास्मरणे शब्दस्मरणं कारणमाह—जाग्रवदिति।

यथा सुषुप्तिकाले769 संबन्धस्मरणमन्तरेण फलवती शब्दार्थप्रतिपत्तिर्दृश्यत्तथाऽखण्डैकरसवाक्यार्थान्वयित्वमाद्यर्थे संबन्धग्रहणादृत एव शबले त्वमाद्यर्थे शक्तिग्रहणमात्रेण लक्षणावृत्त्या प्रत्यग्भूते ब्रह्मण्यविषये शब्दो बुद्धिं जनयति तया बुद्ध्या ध्वस्ते सत्यज्ञाने ब्रह्माहमस्मीत्यनुभवो भवतीत्याह—ध्वस्त इति॥ ५ ॥

नाभे770दः क्रिययोरत्र क्रियातत्फलभेदतः।
किं पूर्वमितिचोद्यस्य नात्रातः संभवो भवेत्॥ ६ ॥

ज्ञानस्य कारणत्वादज्ञानध्वंसस्य कार्यत्वात्कार्यकारणयोश्च पूर्वापरीभावस्य व्यवस्थितत्वाच्चोद्याभासस्य निरवकाशत्वमित्याह—नेत्यादिना॥ ६ ॥

अविद्याघातिनः शब्दादहं771 ब्रह्मेतिधीर्भवेत्।
नश्यत्यविद्यया सार्धं हत्वा रोगमिवौषधम्॥ ७ ॥

ज्ञानस्याज्ञाननिवर्तकत्वेऽपि निवर्तकान्तरं तस्य मृग्यमित्याशङ्क्याऽऽह—अविद्येति॥ ७ ॥

अवशिष्टं स्वतो बुद्धं शुद्धं मुक्तं ततो भवेत्।
नातः स्याद्भावनापेक्षा नापि मानान्तरं प्रति॥ ८ ॥

सकार्याविद्यानिवृत्तौ किमवशिष्यते तदाह—अवशिष्टमिति। यथोक्तस्य वस्तुनोऽवशिष्टत्वे तत्र नियोगभावनयोरन्यतरापेक्षा मानान्तरापेक्षा वा नावतरतीति विचारान्तरं प्रस्तौति—नात इति। भावनाशब्देन नियोगोऽपि गृह्यते नित्यत्वादुक्तस्य मुक्तिरूपस्य वस्तुनो नियोगभावनयोरपेक्षा न युक्ता बुद्धत्वान्मानान्तरं प्रत्यपि नापेक्षा तत्र सिध्यतीत्यर्थः॥ ८ ॥

अलौकिकत्वाद्बोधस्य772 स्वतश्चावगमात्मनः।
बोध्ये हि लौकिकेऽपेक्षा परतोऽवगतौ तथा॥ ९ ॥

मानान्तरायोग्यत्वा773च्चोक्ते वस्तुनि तदपेक्षा नास्तीत्याह—अलौकिकत्वादिति। तत्रैव हेत्वन्तरं पूर्वोक्तं स्मारयति—स्वतश्चेति। मानान्तरा-

पेक्षा तर्हि कुत्रेत्याशङ्क्य मानान्तरयोग्ये स्वप्रकाशत्वरहिते च तदपेक्षेत्याह—बोध्ये हीति॥ ९ ॥

नद्यास्तीरे फलानीव प्रत्यक्षाद्यनपेक्षतः774
किमिवेहान्यमानेषु तवापेक्षाऽभिधाश्रुतेः॥ १० ॥

उक्तस्य वस्तुनो मानान्तरापेक्षाभावं व्यतिरेकदृष्टान्तेन स्फोरयति—नद्या इति। यथा नद्यास्तीरे फ775लानि सन्तीति लौकिकाभिघातेश्रुतेराप्तप्रयुक्ताया मूलप्रमाणापेक्षा दृश्यते न तथा तत्त्वमस्याद्यभिधाश्रुतेरन्यमानेषु तवापेक्षा युक्ता तदर्थे प्रत्यक्षाद्यपेक्षाया वक्तुमशक्यत्वादत्तो वस्तु तन्मानं चानपेक्षमि776त्यर्थः॥ १० ॥

प्रमाता च प्रमाणं च प्रमेयो निश्चितिस्तथा।
यत्सांनिध्यात्प्रसिध्यन्ति तत्सिद्धौ किमपेक्षते॥ ११ ॥

किंच सर्वसाधकत्वात्पूर्वोक्तस्य वस्तुनो नास्ति मानान्तरापेक्षत्वमित्याह—प्रमाता चेति॥ ११ ॥

जाग्रत्स्वप्नसुषुप्तेषु घटोऽयमितिसंविदः।
व्यवधानं न चेहास्ति तद्भावाभावसाक्षितः॥ १२ ॥

यथा घटोऽयमितिसंविदो देशकालज्ञानबुद्धिवृत्तिलक्षणं व्यवधानमस्ति न तथा जागरिताद्यवस्थात्रये प्रत्यगात्मनः सिद्धौ किंचिद्व्यवधानमुपलभ्यतेऽतो व्यवधानभावाभावसाक्षित्वादात्मनः सदाभानान्न777 तत्र मानान्तरापेक्षेत्याह—जाग्रदिति॥ १२ ॥

इदमेवमिदं नैवमितिबुद्धिर्विभागभाक्।
अनात्मिकाऽऽत्मवत्यत्र येनासौ किमपेक्षते॥ १३ ॥

किंचेदं कर्तव्यमिदं न कर्तव्यमित्येवंप्रकारा बुद्धिर्भागभागिनीस्वारस्येन स्वरूपशून्या येन चिदात्मना स्वरूपवत्यालक्ष्यते नासावात्मा भावनां नियोगं मानान्तरं वा किंचिदपेक्षितुं क्षमते तस्य सर्वप्रकारबुद्धिसत्ताप्रदत्वा778दित्याह—इदमिति॥ १३ ॥

कर्त्रादिव्यापृतेः पूर्वमसंकीर्ण उपाधिभिः।
अविक्षिप्तो ह्यसंसुप्तोऽनुभवः किमपेक्षते779॥ १४ ॥

कर्त्रादिकारकव्यापारात्पूर्वमेव स्वापादावात्मनः सद्भावोपलब्धेश्चन तत्सिद्धौ नियोगभावनामानान्तरेष्वपेक्षाऽस्तीत्याह—कर्त्रादीति॥ १४ ॥

अभिधेयं न यद्वस्तु प्रत्यय780श्च न ढौकते।
नियुक्तोऽपि नियोगेन कथं तद्रष्टुमर्हति॥ १५ ॥

किंचाऽऽत्मनोनियोगापेक्षा न स्वसत्तासिद्धये युक्ता तदीयसत्ताया नित्यत्वान्न च तद्दर्श781नाय नियोगापेक्षा संभवतीत्याह—अभिधेयमिति॥ १५ ॥

अपिमानान्तरप्राप्तं वस्तुवृत्तं निवर्तयेत्।
नियोगार्थानु782रोधेन यदि वस्त्ववबोध्यते॥ १६ ॥

अपिच वधज्ञानानुरोधेन यदि वस्तुसिद्धिरिष्यते तदा तत्त्वमस्यादि वाक्यं द्रष्टव्यादिवाक्यापेक्षया783 मानान्तरं तेनावगतं यत्प्रत्यग्भूतं ब्रह्म तदयं वादी निराकुर्यान्नियोगानुरोधेन वस्तुबोधने तत्त्वमस्यादिवाक्यस्यापि नियोगसिद्धावेवो784पक्षीणत्वादन्यपरस्य785 प्रत्यक्षादिवि786रोधे वस्तुनि मानत्वानुपपत्तेरित्याह—अपि मानान्तरेति॥ १६ ॥

भाव्यतेऽसन्नपीहार्थः प्रसिद्धेर्लोकवह्निवत्।
ब्रह्मणस्त्वप्रसिद्धत्वात्तथाऽप्यत्र सुदुर्लभम्॥ १७ ॥

ब्रह्मज्ञाने विध्यसं787भवे हेत्वन्तरमाह—भाव्यत इति। यद्य788प्यन्नपि द्युलोकस्याग्नित्वलक्षणोऽर्थो व्यवहारभूमावसौ वाव लोको789 गौतमाग्निरिति श्रुत्या भाव्यते द्युलोकोऽग्निश्चेति पदार्थयोरत्र प्रसिद्धत्वात्तथाऽपि ब्रह्मणोऽभिप्रेतस्य नित्यशुद्धत्वादिलक्षणस्य लोकवदग्निवच्चाप्रसिद्धत्वादत्र ब्रह्मज्ञाने विधानमतिदुर्लभमनुपपन्नमित्यर्थः॥ १७ ॥

क्रियते लौकिकोऽप्यर्थः पदार्थान्वयरूपतः।
अवाक्यार्थात्मकं ब्रह्म तथाऽप्यत्र सुदुष्करम्॥ १८ ॥

अतश्चब्रह्मज्ञानं विधातुमशक्यमित्याह—क्रियत इति। यद्यपि नियोगो भावना वेत्य790लौकिकोऽप्यर्थः कर्तुं शक्यते पदार्थान्वयद्वारा संसृष्टरूपत्वात्तथाऽपि ब्रह्मावाक्यार्थात्मकमखण्डैकरसमतो न तज्ज्ञाने विधानं सुकरमित्यर्थः॥ १८ ॥

प्रमाणमप्रमाणं च प्रमाभासस्तथैव च।
कुर्वन्त्येव प्रमां यत्र तदसंभावना कुतः॥ १९ ॥

अवाक्यार्थात्मकं ब्रह्मेत्युयुक्तं ब्रह्मणोऽसंभावितत्वादित्याशङ्क्याऽऽह—प्रमाणमिति। प्रमाणादिसाधक-त्वेन नित्यदृष्टिस्वभावस्य ब्रह्मणः सिद्धत्वात्तदसंभावना नास्तीत्यर्थः॥ १९ ॥

प्रामाण्यमेतत्पृष्ठेन कस्मान्नैत्यभिधाश्रुतिः।
नियोगस्यापि मानत्वं नानपेक्ष्य प्रमामिमाम्॥ २० ॥

वेदान्तेषु ज्ञाननियोगानङ्गीकारे कथं प्रामाण्यमित्याशङ्क्य पूर्वोक्तकूटस्थानुभवस्थिताविद्यातत्कार्यनिवर्तकज्ञानकारणत्वेन वेदान्तप्रामाण्यं नियोगमन्तरेणाविरुद्धं सिध्यतीत्याह—प्रामाण्यमिति। किंच नियोगस्य संसर्गाक्षेपक791त्वेन तत्प्रामाण्यं त्वयेष्यते न च जडस्य नियोगस्य यथोक्तमनुभवमन्तरेण मानत्वमनुमन्तुं श792क्यते तस्मान्नियोगसाधनत्वेन प्रागुक्तानुभवस्याभ्युपगन्तव्यत्वादलं793ज्ञान794नियोगाङ्गीकारेणेत्यभिप्रेत्याऽऽह—नियोगस्येति॥ २० ॥

पश्येदात्मानमित्यादि वाक्यं यत्स्याद्विधायकम्।
ज्ञा795नकर्तव्यतायां796 तन्नियोज्यपुरुषं797 प्रति॥ २१ ॥

किंच वेदान्तेषु विध्यभ्युपगमे विधिवा798क्याद्वाक्यान्तराद्वा ब्रह्मसिद्धिरिति विकल्प्य विधायकस्य वाक्यस्य विधावेव799 चरितार्थत्वान्न वस्तुनि मानतेत्याद्यं दूषयति—पश्येदिति॥ २१ ॥

स्वव्यापारेऽनपेक्ष्यैव वस्तुवृत्तं वचो यतः।
नियुङ्क्ते पुरुषं तस्मा800द्वस्तुवृत्तं सुदुर्लभम्॥२२ ॥

पुरुषव्यापारे वस्तुवृत्तमनपेक्ष्यैव पुरुषस्य प्रवर्तकत्वाद्विधायकं वाक्यं वस्तुनः साधकं न भवतीत्येतदेव साधयति—स्वव्यापार इति॥ २२ ॥

स्वशक्त्यननुरूपं चेत्कार्यं वाक्यशतैरपि।
नियुक्तोऽपि न तत्सिद्धावलं शक्ये स हीश्वरः॥ २३ ॥

ज्ञानस्य विधेयत्वमङ्गीकृत्योक्तं तदेव नास्तीत्याह—स्वशक्तीति। यद्धि ज्ञा801नाख्यं कार्यं पुरुषस्य कर्तुमकर्तुमन्यथा802 कर्तुमशक्यं तत्र द्रष्टव्यादिवाक्यैरनेकैर्नियुक्तोऽपि पुरुषो न803 ज्ञानसिद्धौ स्वातन्त्र्यमवलम्बते। ज्ञानस्य प्रमाणवस्तुपरतन्त्रस्य पुरुषाधीनत्वाभावाद्यागादौ हि पुरुषः स्वाधीने स्वतन्त्रो भवति तस्माद्विधिघटनायोग्यत्वाज्ज्ञानस्य न तत्र विधिरस्तीत्यर्थः॥ २३ ॥

अभिधाश्रुतितत्सिद्धौ व्यापृच्छेत804 प्रयत्नतः।
विधिवाक्यानु805गामित्वान्नार्थस्पृक्स्यात्स्वत806न्त्रतः॥ २४ ॥

तत्त्वमस्यादिवाक्याद्विधिवाक्यातिरिक्ताद्वस्तुसिद्धिरिति द्वितीयं कल्पमुत्थापयति–अभिधेति। अभिधाश्रुते-रपि विध्यनुसारित्वान्न स्वातन्त्रयेण वस्तुसाधकत्वमिति दूषयति–विधीति॥ २४ ॥

स्वमांसान्यपि खादन्ति नियोगानतिलङ्घिनः॥ २५ ॥

जहत्यपि प्रियान्प्राणाञ्शक्यार्थत्वात्ततोऽपि
अशक्ये विनियुक्तोऽपि कृष्णलाञ्श्रपयेदिति॥ २६ ॥

ज्ञानस्य पुरुषतन्त्रत्वाभावात्तत्कर्तुं पुरुषो न शक्नोतीत्यत्र वैधर्म्यदृष्टान्तमाह—स्वमांसानीति। यथा कृष्णलाञ्श्रपयेदिति विक्लित्तिफलके कृष्णलपाके सर्वथैवाशक्ये नियुक्तोऽपि बुद्धिपूर्वकारी न प्रवर्तते तथा ततोऽपि कृष्णलपाकादशक्ये ज्ञाने807 नियुक्तो विवेकी तदशक्यत्वबुद्ध्या

नैव तत्र प्रवर्तितुं प्रभवति ततः स्वानधीने ज्ञाने न युक्तो विधिरिति साधर्म्यद्दष्टान्तेन स्पष्टयति—ततोऽपीति॥ २५ ॥ २६ ॥

सर्वात्मनाऽप्यसौ कुर्वन्कुर्यात्तस्करकन्दुवत्॥ २७ ॥

नचोपा808सान्तराधीनोब्रह्मज्ञानोदयो भवेत्।
तं यथा तं तमेवेतिन्यायदृब्धश्रु809तेः स्मृतेः॥ २८ ॥

यदि पुनः सर्वात्मना कर्तुमशक्यमपि ज्ञानमसौ नियोज्यो नियोगबलादेव कुर्यात्तदाऽयं810 सामर्थ्यमनपेक्ष्य नियोगमेवानुरुध्य कुर्वन्केवलक्लेशभागी भूत्वा स्वापेक्षितं पुरुषार्थं न प्रतिपद्यत इति सदृष्टान्तमाह—सर्वात्मनेति। कश्चिच्चौयं कृत्वा स्वकीयचौर्यसंवरणार्थं संनिहितं कन्दुगृहं प्रविष्टो गृहस्वामिना कन्दुना कन्दुकर्मणि नियुक्तस्तत्कर्मण्यशक्ये विनियुक्तत्वात्तत्कुर्वन्राजपुरुषैस्तस्करमन्वेषमाणैस्तत्र झटिति समागतैरुक्ते कर्मण्यकुशलतां समालोच्य तस्करोऽयमिति ज्ञात्वा गृहीतो व्यर्थक्लेशभागी यथा तस्करकन्दुः811 संवृत्तस्तथा ब्रह्मज्ञाने नियुक्तोऽपि तस्य कर्तुमशक्यत्वात्तत्कुर्वन्व्यर्थक्लेशभागी भवेदित्यर्थः॥२७ ॥

ज्ञाने विध्यभावेऽपि वैधोपासनातो812 ज्ञानं भवतीत्याशङ्क्य श्रुतिस्मृतिभ्यामुपासनस्य ज्ञानातिरिक्तफलश्रवणान्मैवमित्याह—नचेति। न्यायशब्देन तत्क्रतुन्यायो गृह्यते॥ २८ ॥

नार्थस्पृग्भावना चेत्स्याद्ब्रह्मधीजन्मने न सा।
स्वभ्यस्ता राजती नो धीः शुक्तिकाज्ञानजन्मने॥ २९ ॥

किंचोपासनस्यार्थसाधकत्वे ज्ञानानतिरेकादर्था813संस्पर्शित्वं वक्तव्यं ततश्च ज्ञानसाधनत्वासिद्धिरित्याह—नार्थेति। उपासनस्यार्थास्पर्शित्वे814ऽप्यभ्यासप्रकर्षाद्भवति सम्यग्धीहेतुतेत्याशङ्क्याऽऽह—स्वभ्यस्तेति॥२९॥

द्रष्टव्यश्चेद्भवेदात्मा स्यान्नियोगस्तदाऽऽत्मनि।
निषेधाद्दर्शनस्येह न नियोगोऽस्त्यतः परे॥ ३० ॥

द्रष्टव्यश्रुतेरात्मज्ञाने तदुपासने वा नियोगः स्यादित्याशङ्क्य न दृष्टेरित्यादिना दर्शना

दिविषयत्वनिषेधान्नाऽऽत्मज्ञाने तदुपासने वा नियोगोऽ-

स्तीत्याह—द्रष्टव्यश्चेदिति। आत्मनीत्यात्मज्ञाने तदुपासने वेत्यर्थः। दर्शनस्येत्युपासनस्याप्युपलक्षणमतः परे दर्शनादेरगोचरे वस्तुनि दर्शनादौ न नियोगोऽस्तीत्यर्थः॥ ३० ॥

नियोगानुप्रवेशेन वस्तुतत्त्वं प्रबोध्यते।
न हि विध्यनपेक्षस्य प्रामाण्यमनुवादिनः॥ ३१ ॥

नियोगानभ्युपगमे वेदान्तानामनुवादकत्वेनाप्रा815माण्यप्रसङ्गान्नियोगद्वारैव तेषां वस्तुबोधकत्वमिति श816ङ्कते—नियोगेति॥ ३१ ॥

नैवं यतः क्रियैवेह चोदनाभिर्विधीयते।
स्वव्यापारे यतस्ताभिर्नियोक्तुं शक्यते पुमान्॥

द्रव्यस्वरूपेऽसाध्यत्वात्कथं ताभिः प्रवर्त्यते॥ ३२ ॥

किं वेदान्तेष्वात्मनि तज्ज्ञाने वा विधिर्वि817वक्ष्यते नाऽऽद्य इत्याह—नैवमिति। विधिव्यवहारभूमौ क्रियाया एव कर्तव्यत्वेन विधिभिर818भिधानान्नाऽऽत्मनि विधिशङ्केत्यर्थः। साध्येऽर्थे नियोगस्य सावकाशत्वादात्मनि सिद्धेऽर्थे तस्य निरवकाशत्वमित्येतदुपपादयति—स्वव्यापार इति॥ ३२ ॥

नचापीहाऽऽत्मविज्ञानं चोदनाभिर्विधीयते।
स्वाध्यायोऽध्येतव्य इति ह्येतस्मात्तस्य सिद्धितः॥ ३३ ॥

न द्वितीय इत्याह—नचेति। किं शाब्दमात्म819ज्ञानं विधेयं किंवा ज्ञानान्तरं प्रथममपि स्वोत्पत्त्यर्थं स्वफलार्थं वा विधीयते नाऽऽद्य इत्याह—स्वाध्याय इति॥ ३३ ॥

कर्मावबोधो न यथा नियोगान्तरमीक्षते।
तथैवाऽऽत्मावबोधोऽपि न नियोगान्तराद्भवेत्॥ ३४ ॥

शाब्दस्याऽऽत्मविज्ञानस्याध्ययनविध्यनुरोधादेवोत्पत्तेरुपपत्तेस्तदर्थं नास्ति विध्यन्तरापेक्षेत्येतदेव दृष्टान्तेन साधयति—कर्मेति॥ ३४ ॥

स्यादेतदात्मबोधस्य नियोगविरहाद्य820दि।
पुमर्थकारिता पुंभिर्लभ्यते न तु लभ्यते॥३५ ॥

नियोगैकाधिगम्यत्वाज्ज्ञानकार्यस्य नान्यतः।
प्रमान्तरादिदं सिध्येन्नापि स्यादभिधानतः॥ ३६ ॥

आत्मज्ञानस्य विधेयत्वमन्तरेण फलवत्त्वं चेन्न तस्य विधेयत्वं सिध्येन्नचान्तरेण विधेयत्वं फलवत्त्वं तस्य लभ्यते तेन तस्य फलसिद्ध्यर्थं विधेयतेति कल्पान्तरमुत्थापयति—स्यादेतदिति॥ ३५ ॥ ३६ ॥

नैतदेवं यतो नेह ज्ञेयार्थव्याप्तिमात्रतः।
फलान्तरं प्रबोधस्य किंचित्संभाव्यतेऽण्वपि॥ ३७ ॥

ज्ञेयनिश्चयस्यं ज्ञानफलत्वा821त्तस्य च ज्ञानोत्पत्तिनान्तरीयकत्वान्न फलाय ज्ञाने विधिरिति परिहरति—नैतदिति॥ ३७ ॥

अन्तरेण नियोगं च स्वात्मबो822धस्य सिद्धितः।
स्वाध्यायोऽध्येतव्य इति ब्रूहि स्यात्किं नियोगतः॥ ३८ ॥

ज्ञानं चेदु823त्पद्यते तदा ज्ञेयाभिव्याप्तिरूपं फलं विधिमन्तरेण सिध्यतु तदुत्पत्तिरेव विध्यभावे कथं सिध्येदित्याशङ्क्य न चापीत्यत्रोक्तं स्मारयति—अन्तरेणेति॥ ३८ ॥

नैवं यतोऽन्यदेवेदं विज्ञानान्तरमात्मनि।
सोपायं कार्यमित्येवं चोद्यते केवलं परम्॥ ३९ ॥

न वयं शब्दज्ञा824नं विधेयं ब्रूमः किंतु ज्ञानान्तरमेव शमदमाद्युपायसहितं विधेयमितिमतान्तरमुत्थापयति—नैवमिति॥ ३९ ॥

शब्दाज्जनितविज्ञानाद्व्यति825रिक्तं परात्मगम्॥ ४० ॥

असंसृष्टापरोक्षवस्तुगोचरत्वं केवलत्वं ज्ञानान्तरमेव विशदयन्परत्वं स्फोरयति—शब्दादिति॥ ४० ॥

न हि शब्दसमुत्थेन ब्रह्म ज्ञानेन शक्यते।
तस्यावाक्यार्थरूपत्वात्परिच्छेत्तुं घटादिवत्॥ ४१ ॥

शाब्दज्ञानेनैव ब्रह्मणः सिद्धत्वादनर्थकं ज्ञानान्तरविधानमित्याशङ्क्याऽऽह—न हीति॥ ४१ ॥

नानापदार्थसंसर्गलक्षणोऽयं यतः स्मृतः।
वाक्यार्थो वाक्यविद्भिर्हि प्रसावाक्यं च नो मनम्॥
तस्य चाविषयत्वात्तु ब्रह्मावा826क्यार्थरूपभृत्॥४२ ॥

कथमवाक्यार्थरूपत्वं ब्रह्मणः स्यादित्याशङ्क्याखण्डैकरसत्वाङ्गीकारादित्याह—नान्येति। ब्रह्मणि वाक्यं प्रमाणमित्यभ्युपगमादवाक्यार्थत्वं तस्यासिद्धमित्याशङ्क्य वाक्यं ब्रह्मणि प्रमाणमित्येतदङ्गीकृत्य वाक्यार्थत्वं तस्य निरस्यति—प्रमेति॥ ४२ ॥

विज्ञानान्तरगम्यं तदभ्युपेयं बलादपि।
नचेद्वाक्योत्थविज्ञानग्राह्यं ब्र827ह्माभ्युपेयते॥
नाऽऽम्नायार्थो भवेत्तर्हि नैवं828 वेदार्थ एव च॥ ४३ ॥

अवाक्यार्थत्व ब्रह्मणः सिद्धे शाब्दज्ञानातिरिक्तज्ञानगम्यत्वं829 तस्य बलादेव प्राप्नोतीति फलितमाह— विज्ञानान्तरेति। ब्रह्मणो वाक्योत्थज्ञानाविषयत्वे वेदवाक्यं तत्र प्रमाणमित्यङ्गीकारो विरुध्येतेति शङ्कते—न चेदिति। वेदवाक्योत्थज्ञानाभ्याससाध्यसाक्षात्कारलक्षणज्ञानगम्यत्वाद्वेदार्थत्वं ब्रह्मणः सिध्यतीति परिहरति—नैवमिति॥ ४३ ॥

कथं वेदार्थतैतस्य न चेद्वाक्यार्थ इष्यते॥ ४४ ॥

पुंव्यापारानधीनत्वान्न नियोगादयं भवेत्।
पदार्थान्वयान्नापि वाक्योत्थो बोध आत्मनि॥ ४५ ॥

उक्तमेव सैद्धान्तिकं चोद्यमनुवदति—कथमिति॥ ४४ ॥

वेदोत्थज्ञानगम्यत्वेन वेदार्थत्वमिति भवन्नियोगाद्भवदाज्ञाबलान्नायमर्थः सिध्येदयमस्य वाक्यस्यार्थ इत्यस्यार्थस्य पुरुषव्यापारसाध्यत्वाभावादिति पूर्ववादी परिहरति—पुंव्यापारेति। धर्मस्य वाक्योत्थ-

ज्ञानगम्यत्वेन वाक्यार्थत्ववद्ब्रह्मणोऽपि स्यादित्याशङ्क्याऽऽह—पदार्थेति। पदस्यार्थत्वेन पदानन्वयाद्ब्रह्मणोऽपदार्थत्वाद्धर्भवैलक्षण्यान्न वाक्यजन्यज्ञानगम्यत्वमित्यर्थः॥ ४५ ॥

तदन्वयेऽपि नैवायं वाक्यार्थत्वं समश्नुते।
सामान्यमात्रवाचित्वे पदानां संक्षयो यतः॥ ४६ ॥

पदेन पदार्थतया ब्रह्मणोऽन्वयेऽपि न तस्य वाक्यगम्यत्वं पदस्य सामान्यमात्रविषयत्वाद्वाक्यस्य विशेषविषयत्वाद्ब्रह्मणश्च सामान्यत्वेऽपि विशेषत्वाभावादित्याह—तदन्वयेऽपीति। वस्तुतस्तु ब्रह्म त्वया सामान्यविशेषभावशून्यमभ्युपगतं तत्र कुतः शब्दप्रवृत्तिरित्यर्थः॥ ४६ ॥

पदार्थव्यतिरेकेण न चावाक्यार्थवाचकः।
अतोऽवाक्यार्थरूपोऽयं योऽहं ब्रह्मेति निश्चयः॥ ४७ ॥

किंच पदवाच्यादर्थाद्व्यतिरेकेण ब्रह्मणोऽपदार्थत्वादपदार्थस्य चावाक्यार्थत्वादवाक्यार्थस्य ब्रह्मणो वाचको बोधकः शब्दो नास्ति। न च लक्षणया शब्दो ब्रह्म बोधयति। सर्वथा वाच्यत्वरहितस्य लक्ष्यत्वायोगादतो न ब्रह्मणि शब्दप्रवृत्तिरित्याह—पदार्थेति। यस्मादेवं शाब्दज्ञानाविषयो ब्रह्म तस्मादवाक्यार्थरूपमशाब्दं ज्ञानान्तरमसंसृष्टाप830रोक्षाकारं विधेयं तच्च शाब्दज्ञानाभ्यासोपायसाध्यापरोक्षज्ञानलक्षणमिति तद्गम्यं831 ब्रह्म वेदप्रमाणकमुपचारादित्युपसंहरति—अत इति। योऽहं ब्रह्मास्मीत्यसंसृष्टापरोक्षाकारो निश्चयोऽभ्यासादुत्पद्यते स यद्यपि शाब्दो बोधो न भवति तथाऽपि तथाविधबोधाभ्यासप्रचयप्रसूतत्वात्तद्गम्येब्र832ह्मणि शास्त्रं प्रमाणमिति शक्यमेवं वक्तुमित्यर्थः॥ ४७ ॥

नियोगानुप्रवेशेन वस्तुतत्त्वमितीरितम्।
यत्तस्य परिहाराय श्लोकोऽस्माभिर्यथोदितः॥ ४८ ॥

नियोगानुरोधाद्वस्तुसिद्धिर्न वेदप्र833सादादिति त्वदीयचोद्यस्य यतो वाचो निवर्तन्त इत्यादिश्लोकेनोक्तं समाधानमिति सिद्धान्तमाह—नियोगेति॥ ४८ ॥

इदं ज्ञेयमिदं ज्ञानं ज्ञाताऽस्मीति विभागतः।
सर्वदा दर्शनात्तावन्नाविद्याऽस्यैषु विद्यते॥ ४९ ॥

कथमस्य श्लोकस्य यथोक्तचोद्यपरिहारहेतुत्वमित्याशङ्क्य तत्सिद्धर्थमनात्मप्रपञ्चस्य कल्पितत्वं साधयति—इदमिति। ज्ञेयादित्रितयस्यासंकीर्णत्वेन सदा भासनादस्याऽऽत्मनस्तद्विषयाज्ञानाभावात्तस्मिन्नज्ञातत्वायो834गात्तस्य प्रमाणगम्यत्वासिद्धेः सर्पादिवदविद्याविजृम्भितत्वमित्यर्थः॥ ४९ ॥

चिन्मात्रव्यतिरेकेण सर्वप्रत्ययसाक्षिणः।
रूपान्तरं न संभाव्यं प्रमाभासात्तथा ह्नुतिः॥ ५० ॥

चिदात्मनोऽपि सदासिद्धत्वाविशेषात्प्रमाणागम्यत्वादज्ञातत्वम835न्तरेण तदयोगादविद्याविजृम्भितत्वं तुल्यमित्याशङ्क्याऽऽह—चिन्मात्रेति। प्रत्यगात्मनः सर्वकल्पनाधिष्ठानत्वादविद्याकल्पितत्वं रूपान्तरमसंभाव्यमित्यर्थः। आत्मा चिद्रूपश्चेत्कथं यथावदस्फुरणमित्याशङ्क्याज्ञानादित्याह—प्रमाभासादिति। हूनुतिरित्यस्फूर्तिरुच्यते॥ ५० ॥

हानोपादानहीनोऽयं तत्साक्षित्वात्स्वतो ध्रुवः।
द्रष्ट्रादिसाक्षिताऽप्यस्य तत्कारणसमाश्रयात्॥ ५१ ॥

कल्पितत्वं जगतो वदता प्रत्यगात्मनोऽधिष्ठानत्वेनाकल्पितत्वं स्वयंप्रभवत्वं चोक्तम्। इदानीं तस्य कूटस्थत्वमाह—हानेति। कूटस्थस्य कथं साक्षित्वमित्याशङ्क्य हानोपादानाद्यात्मकस्य द्वैतस्य कारणं साभासमज्ञानं तद्वष्टम्भादस्य साक्षित्वमित्याह—द्रष्ट्रादीति॥ ५१ ॥

इदं वेद्मि न वेद्मीदमिति बुद्धिर्विवर्तते।
प्रत्यभिज्ञाश्रया सा स्याद्द्रष्टैवोभयरूपभाक्॥५२ ॥

अज्ञानादात्मनः साक्षित्वमित्युक्ते ज्ञानाज्ञानयोरेकाश्रयत्वादात्मन्यज्ञानसंबन्धवज्ज्ञानसंबन्धस्यापि वक्तव्यतया निर्विशेषत्वहानिरित्याशङ्क्याऽऽह—इदमिति। बुद्धिरहंवृत्तिः सैव ज्ञानाज्ञानरूपेण भातीति नाऽऽत्मनःसविशेषत्वप्रसिद्धिरित्यर्थः। अहंवृत्तेरात्माश्रयत्वादात्मनि सविशेषत्वं दुष्परिहरमित्याशङ्क्य प्रत्यभिज्ञावृत्तेरन्तःकरणाश्रयत्वात्प्रत्यभिज्ञाश-

ब्दितान्तःकरणाश्रयाऽहंवृत्तिरित्यङ्गीकारान्नाऽऽत्मनि सविशेषत्वशङ्केत्याह—प्रत्यभिज्ञेति। अहंवृत्तेरन्तःकरणाश्रयत्वे साभासमन्तःकरणमेव ज्ञानाज्ञानरूपभा836गभ्युपगन्तव्यमित्याह—दुष्टैवेति॥ ५२ ॥

निर्विभागात्मकत्वात्तु सर्वकोशातिवर्तिनः।
रूपं नानात्मवन्न्याय्यं प्रत्यभिज्ञासमाश्रयम्॥ ५३ ॥

ज्ञानाज्ञानयोरात्मगतत्वेन प्रतिभानादात्माश्रयत्वमेष्टव्यमित्याशङ्क्याऽऽह—निर्विभागेति। अन्तःकरण837स्येवाऽऽत्मनो नानाविधं रूपं नोपपद्यते सर्वकोशातिवर्तित्वादतो यदन्तःकरणं साभासं प्रत्यभिज्ञाशब्दितं तदेव ज्ञानाज्ञानविकल्पार्हमित्यर्थः॥ ५३ ॥

प्रतिस्मृत्यान्यतः प्राप्तं रूपं यत्पारिणामिकम्।
ज्ञाता प्रत्यभिजानाति प्रत्यक्षार्थोपसंस्कृतः॥ ५४ ॥

प्रत्यगात्मनो ज्ञानाज्ञानविकल्पाश्रयत्वं न्यायशून्यमित्युक्तं प्रकटयति—प्रतिस्मृत्येति। अहंकर्ता परिणामी सामासोज्ञातेत्युच्यते स च पूर्वप्रवृत्तप्रत्ययानुभवप्रसूतार्थसंस्कारसंस्कृतो विषयद्रष्टृत्वेन प्राप्तं पारिणामिकं रूपं प्रतिस्मृत्य तदनुस्मरणपूर्वकं सोऽयमिति वा सोऽहमिति वा प्रत्यभिजानातीतश्च सामासान्तःकर838णगतानुसंधानप्रत्ययवदज्ञानादेरपि तद्गतत्वेन कूटस्थानुभवनिष्ठत्वाभावात्तत्र कल्पनया प्रतीतिरित्यर्थः॥ ५४ ॥

बुद्धेः स्यादपराधोऽयं यद्बाह्यार्थानुकारिता।
प्रत्यक्त्वं चिन्निभत्वं च कौटस्थ्यान्नायमात्मनि॥ ५५ ॥

केचित्तु प्रत्यगात्मैव ज्ञातेत्याचक्षते तान्प्रत्याह—बुद्धेरिति। विषयाकारेणाऽऽत्माकारेण839 च परिणामो बुद्धेरेव सिध्यति। न त्वात्मनि परिणामो युज्यते। तस्य कूटस्थत्वादित्यर्थः॥ ५५ ॥

अन्वयव्यतिरेकाभ्यां जाग्रत्स्वप्नसुषुप्तिषु।
बाह्यं निरस्य धीरूपं चिन्मात्रात्मावभासया॥
धियोपल840क्ष्यावाक्यार्थं सर्वदाऽव्यभिचा841रतः॥ ५६ ॥

व्यभिचारिणश्च बाधेन तत्त्वमस्यादिरूपिणी।
दहन्त्यखिलमज्ञानं बोधयत्येव केवलम्॥ ५७ ॥

प्रत्यगात्मनो नियोगगम्यत्वनिराकरणेन केवलशब्दगम्यत्वप्रतिपादनार्थं स्वयंप्रकाशत्वं निर्विशेषत्वं कूटस्थत्वं ज्ञेयादिद्वैतस्य कल्पितत्वेनाद्वितीयत्वं चोक्तम्। इदानीं केवलशब्दगम्यत्वं प्रतीचःसाधयति—अन्वयेत्यादिना। मननशब्दितान्वयव्यतिरेकाख्यश्रौतयुक्त्यबष्टम्भाद्बुद्धिग्राह्यं बुद्ध्याकारं बाह्यं सर्वमनात्मजातमवस्थात्रये व्यभिचारित्वान्निराकृत्य चिन्मात्रस्य सदैवाव्यभिचारित्वात्केवलचिदाकारज्ञानेनावाक्यार्थात्मकं वाक्यार्थान्वयायो842ग्यं तदेव चिन्मात्रं843 त्वंपदार्थरूपं गृहीत्वा व्यवस्थितस्य मुमुक्षोस्तत्त्वमस्यादिवाक्योत्था ब्रह्माहमित्येवंरूपा बुद्धिवृत्तिरात्मगतमज्ञानं तत्कार्यं च स्वोदयनान्त844रीयकत्वेन दहन्ती त्वमर्थस्य ब्रह्मत्वं ब्रह्मणश्चाऽऽत्मत्वं सकलविशेषशून्यं बोधयत्येवेत्यङ्गीकाराद्युक्तं ब्रह्मणः शब्दैकगम्यत्वमित्यर्थः॥ ५६ ॥ ५७ ॥

सामानाधिकरण्यादेर्घटेतरखयोरिव।
व्यावृत्तेः स्यादवाक्यार्थः साक्षान्नस्तत्त्वमर्थयोः॥ ५८ ॥

ब्रह्मात्मनोरन्योन्यान्वयः शब्दबोध्यश्चेन्न शब्दादवाक्यार्थधीरित्याशङ्क्याऽऽह—सामानाधिकरण्यादेरिति। यथा घटाकाशो महाकाश इत्यत्र विरुद्धांशनिराकरणेनाऽऽकाशमात्रं बोध्यते तथा तत्त्वमसीत्यत्र तत्त्वंपदयोः सामानाधिकरण्यात्तदर्थयोश्च वाच्ययोर्विशेषणविशेष्यभावात्पदतदर्थयोश्च लक्ष्यलक्षणभावात्तत्त्वमर्थयोर्विरुद्धांशव्यावृत्तेरवाक्यार्थोऽखण्डैकरसलक्षणो वाक्यादेव साक्षात्प्रतिपन्नः स्यादित्यर्थः॥ ५८ ॥

वाक्यादेववाक्यार्थो यस्मात्साक्षात्प्रसिध्यति।
अन्यदेवेदमित्यादि सर्वं स्यात्तुषकण्डनम्॥ ५९ ॥

शब्दादेव वाक्यार्थप्रतिपत्तावित्थं संभवन्त्यां ज्ञानान्तरस्य शाब्दज्ञानातिरिक्तस्य विधेयत्ववचनमनुचितमिति फलितमाह—वाक्यादिति॥ ५९ ॥

अज्ञानमन्यथाज्ञानं संशयज्ञानमेव च।
घटादावेव तद्दृष्टं न ज्ञातृज्ञानसाक्षिषु॥ ६० ॥

शाब्दज्ञानादेवावाक्यार्थ845सिद्धावपि ज्ञानान्तरमज्ञानादिनिवृत्यर्थं विधेयमित्याशङ्क्याऽऽह—अज्ञानमिति॥ ६० ॥

अज्ञानादि त्रयं तावत्प्रत्ययेऽपि न विद्यते।
तस्य ह्यव्यवधानेन प्रत्यक्षान्नान्यमानता॥ ६१ ॥

ज्ञातुरव्यवधानेन संशयोनिश्चयोऽपि वा।
प्रत्ययः प्रथते यस्मान्न मानान्तरका846ङ्क्ष्यतः॥ ६२ ॥

अज्ञानादि त्रितयं ज्ञाने नास्तीत्येतदादौसंक्षेपविस्तरा847भ्यां वार्तिकद्वयेन दर्शयति—अज्ञानादीति। वक्ष्यमाणकैमुतिकन्यायद्योतनार्थोऽपि शब्दः॥ ६१ ॥ ६२ ॥

अज्ञानादि त्रयं तावज्ज्ञातर्यपिं न विद्यते।
किमङ्ग सर्वदाऽलुप्तचक्षुष्यात्मनि केवले॥६३ ॥

प्रमातर्यपि न त्रितयमस्ति तस्याप्यव्य848वधानेन साक्षिप्रत्यक्षत्वादित्याह—अज्ञानादि त्रयमिति। यत्तु साक्षिणि त्रयंनास्तीति प्रतिज्ञातं तदिदानीं कैमुतिकन्यायेन साधयति—किमङ्गेति। प्रमात्रादेरप्यात्मप्रसादादेवसि849द्धत्वात्तत्रापि नाज्ञानादि त्रयं संभाव्यते किमुत850 साक्षिण्यात्मनीति ततो नाज्ञानादिनिवृत्त्यर्थं ज्ञानान्तरं विधेयं शाब्दादेव प्रमाणज्ञानादात्मनि प्रातिभासिकाज्ञानादिनिवृत्तिरित्यर्थः॥ ६३ ॥

निर्धूताशेषभेदोऽयमवाक्यार्थात्मकस्तथा।
सुषुप्ते गम्यतेऽस्माभिर्नानृतं श्रुतिगौरवात्॥ ६४ ॥

निर्विशेषस्यावाक्यार्थात्मकस्य ब्रह्मात्मनः सुषुप्त्यवस्थायामनुभूयमानत्वाच्च तत्सिद्धये ज्ञानान्तरं न विधेयमित्याह—निर्धूतेति। न च सौषुप्तं यथोक्तं वस्तु प्रतिज्ञातं मिथ्येति वक्तव्यं तत्प्रतीतेर्यद्वै तन्न पश्यतीत्यादिश्रुतिमूलत्वा851दित्याह—नानृतमिति॥ ६४ ॥

सर्वदा चाऽऽत्मरूपत्वाद्व्यभिचारादरात्मनः।
ब्रह्मात्मनि स्वतः सिद्धं ज्ञानं मोहापनोदि यत्॥ ६५ ॥

यत्तु ज्ञानान्तरमज्ञानादिनिवृत्त्यर्थमात्मनि विधेयमित्याशङ्क्य निराकृतं तत्रैव हेत्वन्तरमाह—सर्वदा चेति। आत्मस्वरूपचैतन्यस्यैव852 वाक्योत्थबुद्धिवृत्त्यभिव्यक्तस्याज्ञानादिनिवर्तकत्वात्कुतो ज्ञानान्तरे विध्यपेक्षेत्यर्थः॥ ६५ ॥

ज्ञाताज्ञातविभागोऽस्मिञ्ज्ञानाज्ञानात्मता तथा।
ज्ञात्रज्ञातृ853त्वमप्येवं स्वतः सिद्धेर्न साक्षिणः॥ ६६ ॥

ननु जगतो ज्ञाताज्ञातज्ञानाज्ञानात्मकस्याऽऽत्मनि वस्तुतो विद्यमानत्वान्तन्निवृत्त्यर्थं वैधज्ञानापेक्षेति चेन्नेत्याह—ज्ञातेति। ज्ञाताज्ञातज्ञानाज्ञानात्मकस्य जगतः स्वतः साक्षिणः सकाशादेव सिद्धेः सत्त्वोपलब्ध्योः साक्ष्यधीनत्वेन तस्य कल्पितत्वान्न तत्र परमार्थतो द्वैतं सिध्यति। तथैव साक्षिणः साक्षित्वमपि वस्तुभूतं नास्ति। तथा च वस्तुतो जगतः साध्यसाधनात्मकस्य निवृत्त्यर्थं ज्ञानविधिर्न संभवतीत्यर्थः॥ ६६ ॥

स्वव्यापारे नियोगोऽपि नियुङ्क्ते पुरुषं बलात्।
यथाभूतार्थता बुद्धेर्वास्तवी न तु पौरुषी॥ ६७ ॥

प्रमाणज्ञाने नास्ति विधिरित्यत्र हेत्वन्तरमाह—स्वव्यापार इति। विधिर्हि पुरुषस्य व्यापारे स्वसामर्थ्यात्पुरुषं प्रवर्तयति। प्रमाणज्ञानं तुप्रमाणवस्तुपरतन्त्रत्वान्न विधियोग्यमतोऽपि न विधेयमित्यर्थः। ज्ञानस्य यथार्थबोधकत्वार्थं विधेयत्वमेष्टव्यमित्याशङ्क्य निराचष्टे—यथा भूतेति॥ ६७ ॥

इदमेवमदो नेति यथैवार्थमृते विधिम्।
वेत्ति तत्त्वमसीत्येवं किं न वेत्यभिधाश्रुतेः॥ ६८ ॥

किंच कर्मकाण्डाद्विधिव्यतिरेकेण कर्मवाक्यार्थज्ञानवद्ब्रह्मकाण्डादपि विधिव्यतिरेकेण ब्रह्मज्ञानं संभवत्यविशेषादित्याह—इदमिति॥ ६८ ॥

क्रियायांविधिसंपातः कर्त्रादिषु न सिद्धितः।
न चानेकार्थतैकस्य वाक्यस्य भवतेष्यते॥ ६९ ॥

आत्मतज्ज्ञा854नयोर्विधेयत्वाभावे हेत्वन्तरमाह—क्रियायामिति। किंच ज्ञानस्य विधेयत्वे वाक्यस्य ज्ञानविधि-परत्वात्तस्मादेव वस्तुसिद्धेरयोग्यत्वाद्वाक्यान्तरं वस्तुबोधकमेष्टव्यमित्याह—नं चेति॥ ६९ ॥

प्रत्यक्षादेव भेदोऽयमभिधाननियोगयोः।
तस्य चेद्व्यभिचारित्वं व्यर्थं सर्वज्ञभाषितम्॥ ७० ॥

विधायकमेव सर्वं वाक्यं न वस्तुबोधकमस्तीत्याशङ्क्याऽऽह—प्रत्यक्षादेवेति। नियोगशब्देन विधायकं वाक्यं गृह्यते। तत्त्वमस्यादेरभिधानवाक्यस्य विधायकवाक्यस्य च श्रोत्रेन्द्रियेण भेदग्रहणाद्विधायकमेव सर्वं वाक्यमिति न शक्यं वक्तुम्। केवलवस्तुबोधिनोऽपि तत्त्वमस्यादिवाक्यस्य855प्रत्यक्षत्वादित्यर्थः। प्रत्यक्षं व्यभिचारि भ्रान्तमित्याशङ्क्य सत्संप्र856योगे पुरुषस्येन्द्रियाणां बुद्धिजन्मप्रत्य857क्षमिति प्रत्यक्षलक्षणसूत्रस्य तद्भाष्यस्य च यद्व्यभिचरति न तत्प्रत्यक्षं यन्न व्यभिचरति तत्प्रत्यक्षमित्यस्य विरोधान्नैवमित्याह—तस्य चेदिति॥ ७० ॥

कर्तुः क्रियायां स्वातन्त्र्यं वस्तुवृत्ते ह्यनीश्वरः।
वस्तुवृत्तं च नो मुक्तिः क्रियाश्चेदनित्यताः॥ ७१ ॥

वस्तुनि तज्ज्ञाने च विधिर्नास्तीत्युक्तम्। इदानीं व858स्तुनि विध्यभावे हेत्वन्तरमाह—कर्तुरिति। क्रियायां पुरुषस्य स्वातन्त्र्यात्तत्र युक्तो विधिः। वस्तुस्वरूपे तु पुरुषस्यानैश्वर्यान्न तत्र विधिः संभवतीत्यर्थः। वस्तुनि विध्यभावेऽपि मुक्तेर्वैधक्रियासाध्यत्वमित्याशङ्क्य तस्या वरतुस्वरूपत्वान्नैवमित्याह—वस्तुवृत्तं चेति। वस्तुत्वेऽपि क्रियासाध्यत्वे तस्या859 विवक्षिते नित्यत्वानुपपत्तिरि860त्याह—क्रियातश्चेदिति॥ ७१ ॥

यथावस्तु हि या बुद्धिः सम्यग्ज्ञानं तदेव नः।
पौरुषायासमात्रोत्थमज्ञानं रजतादिवत्॥ ७२ ॥

वस्तु861नि विधेयत्वं निराकृत्य तज्ज्ञानस्य विधेयत्वेदूषणान्तरमाह—

यथावस्त्विति। प्रमाणवस्तुतन्त्रं ज्ञानं न विधेयम्। विधेयत्वे तु पुरुषतन्त्रत्वेन रजतादिज्ञानवदप्रमाणमेव स्यादित्यर्थः॥ ७२ ॥

वस्तुमात्रानुरोधित्वात्सम्यग्ज्ञानस्य दुष्करम्।
नियोगानुप्रवेशेन वस्तुतत्त्वावबोधनम्॥ ७३ ॥

सम्यग्ज्ञानस्य मानवस्त्वनुरोधित्वान्नियोगानुप्रवेशद्वारा वस्तुस्वरूपबोधनं वेदान्तानां दुष्करमित्युपसंहरति —वस्तुमात्रेति॥ ७३ ॥

नियोगानुप्रवेशे वा हेतोर्व्याप्तिः प्रदर्श्यताम्।
गमकत्वमृते व्याप्तिं नैव हेतोः प्रसिध्यति॥ ७४ ॥

किंच वेदान्तेषु नियोगानुप्रवे862शे वाक्यत्वं प्रमाणत्वं व हेतू कर्तुं न शक्यते। परपक्षे863 प्रत्यक्षादौ च व्याप्त्यभावादित्याह—नियोगेति। यद्यपि परपक्षरूपे वाक्ये नियोगानुप्रवेशाभावाद्वाक्यत्वस्य न व्याप्तिः प्रत्यक्षादौ च प्रमाणत्वेऽपि नियोगानुप्रवेशाभावात्प्रमाणत्वस्य न व्याप्तिरस्ति तथाऽपि हेतुद्वयस्य गमकत्वे का क्षतिरित्याशङ्क्य व्याप्तिमन्तरेण गमकत्वस्याप्रसिद्धत्वान्मैवमित्याह—गमकत्वमिति॥ ७४ ॥

विधिशून्यस्य वाक्यस्य प्रामाण्यं प्रत्यगात्मनि।
येषां प्रका864श्यत इति न तेषां मतिरीदृशी॥ ७५ ॥

वेदान्तेषु त्वयाऽपि क्वचित्क्वचिन्नियोगाङ्गीकारान्नियोगनिराकरणमस्थाने संभ्रममात्रमित्याशङ्क्याऽऽह—विधिशून्यस्येति। उपनिषद्वाक्यस्य विधिविधुरस्य प्रत्यगात्मविषये प्रकाश्यते प्रतिपाद्यते प्रामाण्यमिति येषां मतं तेषां वेदान्तेषु नियोगोऽस्तीत्ये865वंप्रकारा866 मतिर्न867 भवति। तत्र क्वचित्क्वचिन्नियोगाङ्गीकारस्तु श्रवणादिक्रियाविषयो ज्ञानविषयनियोगनिषेधाविरोधीत्यर्थः॥ ७५ ॥

प्रकाश्यत्वा868श्रयश्चायं व्यापारः सर्व एव च।
तस्मिन्नसति तन्मिथ्या यदेतद्भवतेरितम्॥ ७६ ॥

किंच शाब्दज्ञाने वा तदभ्यासे869 वा तदुत्थे ज्ञानान्तरे वा विधिव्या-

पारो ब्रह्मणो ज्ञानगम्य870त्वसापेक्षत्वात्तदभावे न संभवतीत्याह—प्रका871श्यत्वेति॥ ७६ ॥

अस्थूलाशब्दतावादिप्रकाश्यत्वा872दि कुप्यति।
नियोगानुप्रवेशेन यदि वस्तु प्रकाश्यते॥ ७७ ॥

किंचास्थूलाशब्दतावादिना873 वाक्येन ब्रह्मणः सर्वविशेषनिषेधद्वारेण प्रतिपाद्यत्वं तत्फलं च विधेयज्ञानगम्यत्वे विरुध्येत त874स्मादस्थूलादिवाक्यविरोधो ब्रह्मात्मनो विधेयज्ञानबोध्यत्वे स्यादित्याह—अस्थूलेति॥ ७७ ॥

न चाप्रमाणता तस्य नियोगोत्सङ्गसंश्रयात्।
एवमप्यप्रमाणं चेन्नियोगोऽविषयो भवेत्॥ ७८ ॥

किंचास्थूलादिवाक्ये नियोगानुप्रवेशे तस्य नियोगनिष्ठत्वेन स्वरूपे प्रामाण्यं न स्यान्न च प्रमाणस्य सतो875ऽन्यसंश्रयाद876प्रामाण्यं युक्तमित्याह—न चेति। नियोगाननुप्रवेशेऽपि वाक्यं विधिरहितवाक्यत्वादनाप्त-वाक्यवदप्रामाण्यमेवेत्याशङ्कामनूद्य दूषयति—एवमपीति। विधिरहितवाक्यस्याप्रमाणत्वे ब्रह्मणस्तद्गम्यत्वाभावादन्यस्य च तत्र प्रमाणस्यानिष्टत्वात्तदसिद्धौ तद्विषयज्ञानासिद्धेर्ज्ञाननियोगो निर्विषयों निरवकाशः स्यादिति दूषणभागस्यार्थः॥ ७८ ॥

अदृश्यं पश्य इत्येवं नियुक्तोऽपि877 न शक्नुयात्।
शक्नुयात्संनि878योगाच्चेत्कुर्यात्तस्करकन्दुवत्॥ ७९ ॥

अविषयत्वेऽपि ब्रह्मणस्तज्ज्ञाने नियोगः स्यादित्याशङ्क्य वस्त्वन्यथाकरणे पुरुषस्यासा879मर्थ्यान्नैवमित्याह—अदृश्यमिति। नियोगसामर्थ्याविषयमपि विषयीकर्तुं पुरुषः शक्ष्यतीत्याशङ्क्याशक्येऽर्थे प्रवृत्तस्य प्रयासवैफल्यमित्युक्तं स्मारयति—न शक्नुयादिति॥ ७९ ॥

विदिते880तरातिरेकित्वाद्ब्रह्म881रूपानुवादिभिः।
नियोगगर्भबचनैः पश्येदिति विरुध्यते॥ ८० ॥

यत्तु नियोगसहितवचनैर्ब्रह्म पश्येदित्युच्यते तदन्यदेव तद्विदितादित्यादिवाक्यैर्ब्रह्मणोऽविषयत्वादिभिर्विरुध्यते। ततोऽपि न ब्रह्मज्ञानस्य विधेयत्वमित्याह—विदितेति॥ ८० ॥

विज्ञातारमरे केन विजानीयादिति श्रुतिः882
न दृष्टेरितिदृश्यत्वं नियोगैरेव वार्यते॥ ८१ ॥

नियोगसहितवा883क्यैर्ब्रह्मणो विषयत्वनिषेधाच्च तज्ज्ञानस्य विधेयत्वासिद्धिरित्याह—विज्ञातारमिति॥ ८१ ॥

सदावगतिरूपस्य ज्योतिश्चकावभासिनः884
स्वयंज्योतिःस्वभावस्य न्याय्यं तस्मान्न दर्शनम्॥ ८२ ॥

इतश्चब्रह्मणो दृश्यत्वानुपपत्तेर्न तज्ज्ञानस्य विधेयत्वसिद्धिरित्याह—सदेति॥ ८२ ॥

द्रष्ट्रा चेद्दृश्यते दृश्यं प्रत्यक्षावि885षयः कथम्।
कर्मकर्तृत्वमेकस्य दोषो ब्रह्मात्मदर्शने॥ ८३ ॥

द्रष्ट्रात्मना रूपादिजगतो दृश्यत्वात्तस्य चाहमितिप्रत्यक्षविषयत्वादविषयत्वस्यैवाभावादात्मज्ञाने विधिः संभवतीति शङ्कते—द्रष्ट्रा चेदिति। ब्रह्मात्मनो दर्शनकर्मत्वे886 कर्त्रन्तराभावात्कर्मकर्तृविरोधः स्यादितिदूषयति—कर्मेति॥ ८३ ॥

अदृष्टं तदकर्मत्वात्कौटस्थ्यान्नापि दृष्टिकृत्।
जन्यादिविक्रियाषट्कनिषेधोऽप्येवमर्थवान्॥ ८४ ॥

ब्रह्मात्मनश्चेदेकस्योभयरूपत्वमयुक्तं तर्हि कर्मत्वं कर्तृत्वमेव वा स्यादित्याशङ्क्याऽऽह—अदृष्टमिति। ब्रह्मात्मनो न कर्मत्वं नापि कर्तृत्वमित्यत्र हेत्वन्तरमाह—जन्यादीति॥ ८४ ॥

प्रमातृत्वादिभेदेन यत्स्वरूपं प्रतीयते।
तत्प्रकाश्यत इत्याहुरप्रकाशस्वरूपतः॥ ८५ ॥

आत्मनो दर्शनकर्मत्वाभावे कस्य दर्शनकर्मत्वमित्याशङ्क्याऽऽह—प्रमातृत्वादिति। अप्रकाशस्वरूपत्वं जडत्वम्॥ ८५ ॥

प्रमातैव प्रमेयं चेत्प्रमाणं प्रमितिस्तथा।
स्वरूपाच्चैकरूपत्वान्न तदेभिर्निरुच्यते॥ ८६ ॥

यत्तु पूर्ववादिना प्रमेयत्वं द्रष्टुरूपदि887ष्टं तदनूद्य दूषणान्तरमाह—प्रमातैवेति। प्रमेयस्य प्रमातृत्वे प्रमाणतत्फलयोरपि साक्षिमात्रत्वं स्यादित्यर्थः। यदि साक्षिस्वरूपाच्चैतन्यमात्रान्मेयत्वादेरेकत्वं तदा मेयत्वादेश्चिन्मात्रत्वेनाद्वयत्वादेभिर्मेयत्वादिशब्दैर्मेयत्वादिर्नोच्यते। मे888यत्वादेश्चैतन्यातिरिक्तस्याभावादतो न मेयत्वादि साक्षिणो युक्तमिति फलितमाह—स्वरूपादिति॥ ८६ ॥

प्रामाण्यमनुवादानां न चेत्स्वविषये मतम्।
पयोगुणस्य संबन्धो न प्राप्नोति जुहोतिना॥ ८७ ॥

किंच पदानामर्थवादानां चानुवादशब्दितानां स्वार्थे प्रा889माण्यमेष्टव्यमन्यथा पयोद्रव्यस्य दधिद्रव्यस्य च जुहोतिना संबन्धो न सिध्येत्तत्तत्पदेन तत्तदर्थस्यासिद्धत्वात्तथा च पयसा जुहोति दध्ना जुहोतीत्यादिवाक्यमप्रमाणमापद्येतातश्च पदप्रामाण्ये वि890धिरहितवाक्यस्य किंमु वक्तव्यं प्रामाण्यमित्यभिप्रेत्याऽऽह—प्रामाण्यमिति॥ ८७ ॥

स्वर्गेणैवाभिसंबन्धः पयसश्चेदनुत्तरम्।
स्वर्गस्य सिद्धये नालं द्रव्यमात्रं पयो यतः॥ ८८ ॥

पयोद्ध्यादेर्जुहोतिना संबन्धो न भवति किंतु स्वर्गेणेति शङ्कते—स्वर्गेणैवेति। अनुवादाप्रामाण्ये दध्यादिगुणस्य जुहोतिना संबन्धो न सिध्यतीति मच्चो891द्यस्य स्वर्गेण संबन्धो दध्यादेरित्युत्त892रं893 न भवति। अनुवादाप्रामाण्ये स्वर्गेणा894पि895 दध्यादिगुणस्य संबन्धासिद्धेरित्युत्तरमाह—अनुत्तरमिति। पयोदध्यदेः स्व896र्गेण संबन्धमङ्गीकृत्यानुत्तरमित्युक्तं न च तस्य क्रियाद्वारमन्तरेण संबन्धोऽस्तीत्याह—स्वर्गस्येति॥ ८८ ॥

प्रणयः साधनत्वं च प्राप्तं तस्मादनुद्यते।
विशिष्टोपाश्रयं द्रव्यमतोऽलं पशुसिद्धये॥ ८९ ॥

पदानां पदार्थस्मारकत्वेऽपि पदार्थस्मृतीनामधिगतपदार्थासा897धारण्येन तत्र प्रामाण्योपपत्तेस्तद्धेतूनां तेषामपि प्रामाण्यं दुरपह्नवमित्यभि-

प्रेत्य द्रव्यस्य क्रियाद्वारेणैव शुमर्थसाधनत्वमित्येतत्प्रसङ्गेन चमसेनापः प्रणयेदित्यत्र विवक्षितं विशेषं दर्शयति—प्रणय इति। अतःशब्दो यस्मादर्थे। यस्माद्गोदोहनद्रव्यं स्वर्गसाधनीभूतदर्शपूर्णमासक्रत्वर्थविशिष्टमपां प्रणयनमुपाश्रित्य पशुकामस्य पशुसिद्धये समर्थी भवति तस्माद्दर्शपूर्णमासप्रकरणे चमसेनापप्रणयेदित्यत्र प्रणयस्तस्यापूर्वसाधनत्वं च प्राप्तमेव पशुकामवाक्येऽनूद्यते898। तच्चोभयमाश्रित्य899 गोदोहनद्र900व्यं पश्वर्थे विधीयते। क्रियोपरागमन्तरेण द्रव्यस्य पुमर्थसाजनत्यानुपपत्तेरित्यर्थः॥ ८९ ॥

गोदोहनस्य भिन्नत्वाद्भिन्नंचेत्साधनं मतम्।
प्राप्ता प्रणयतीत्यस्य साध्यभेदाद्विभिन्नता॥ ९० ॥

चमसात्प्रण901यतिकारकात्तथाविधस्य गोदोहनस्य भिन्नत्वात्प्रणयनाध्यमपि साधनं भिद्येतेति शङ्कते—गोदोहनस्येति। यदि गोमोहनचमसवात्प्रणयतिभेदस्तदा स्वर्गपशुसाध्यभेदादपि प्रणयतिभेदः स्याज्ज्योतिष्टोमदर्शपूर्णमासवदुमयथाऽप्याश्रित्य विधानप्रक्रियायाध्ये902तेति दूषयति—प्राप्तेति॥ ९० ॥

हानोपादानशून्यत्वादप्रामाण्यं मतं यदि।
ब्रह्मास्मीति परिज्ञानमप्रमाणं प्रसज्यते॥ ९ ॥

अनुवादप्रामाण्यं प्रसङ्गप्राप्तमेवं प903रिसमाप्याभिधाश्रुतिप्रामाण्यं प्रकृतं प्रतिपादयितुं पूर्वपक्ष904यति—हानेति। प्रवर्तकं नि905वर्तकं वाक्यं प्रमाणं दृष्टमुभयरूपत्वविरहे नास्ति प्रामाण्यं शक्यस्येत्यभ्युपगमेऽपि किं स्यादित्याशङ्क्य वेदान्तानां प्रवर्तकत्वनिवर्तकत्वविरहितत्वात्तेभ्योजातमहं ब्रह्मास्मीति ज्ञानमप्रमाणं स्या906दित्याह—ब्रह्मेति॥ ९१ ॥

आत्मत्वादनुपादेयमनन्यत्वादहेयता।
अभिधाश्रुतेश्चेदेतत्कि907मन्यत्प्रार्थ्यते विधेः॥ ९२ ॥

वेदान्तेभ्यो ब्रह्मात्मैकत्वज्ञाने सति कर्तव्यप्रवृत्तिनिवृत्त्योरभावे सर्वकर्तव्यतानिवृत्त्या कृतकृत्यत्वसिद्धेर्विध्यपेक्षामन्तरेण तत्त्वमस्यादिश्रुते-

रनतिशयपुरुषार्थहेतुज्ञानजनकत्वत्प्रामाण्यसिद्धिरित्युत्तरमाह—आत्मत्वादिति॥ ९२ ॥

अनूक्तेरपि मानत्वं नैव ध्वाङ्क्षैर्विलुप्यते।
नियोगानुप्रविष्टत्वाद्यथैवेहाभिधाश्रुतेः908॥ ९३ ॥

अभिधाश्रुतेर्विध्यपेक्षामन्तरेणेत्थं प्रामाण्येऽपि यदनुवादशब्दितानां पदानामर्थवादानां च स्वार्थे प्रामाण्यमुक्तं तन्न सिध्यति तेषां नियोगानुप्रविष्टत्वादित्याशङ्क्याऽऽह—अनूक्तेरिति। यथाऽभिधाश्रुतेः स्वार्थे प्रा909माण्यं नियोगानुप्रवेशमन्तरेण संभवतीत्युक्तं तथैवानूक्तिशब्दितानां पदानामर्थवादानां च स्वार्थे मानत्वं नियोगानुप्रविष्टत्वावष्टम्भेन काकोपमैर्मीमांसकैर्न निवारयितुं शक्यते। पदानामर्थवादानां च नियोगनिरपेक्षमेव स्वार्थं प्रतिपाद्य पश्चात्कैमर्थक्य910वशेन नियोगानुप्रवेशाभ्युपगमादित्यर्थः॥ ९३ ॥

एवं च सति दृष्टान्तो भवतां नोपपद्यते।
नियोगादेव विज्ञानमित्येवं नियमः कुतः॥ ९४ ॥

अनुवादस्यापि नियोगातिरेकेण प्रामाण्ये सिद्धे नियोगानुप्रविष्टमेव वाक्यं प्रमाणमित्यत्र दृष्टान्तो नास्तीति फलितमाह—एवं चेति। दृष्टान्ताभावे च नियोगनिष्ठादेव वाक्यात्प्रमाभवतीतिनियमासिद्धिरित्याहनियोगादिति॥ ९४ ॥

वादानुवादयोरर्थो यदि भिन्नः प्रतीयते।
अगतार्थाधिगन्तृत्वादस्त्वनूक्तेः प्रमाणता॥ ९५ ॥

किंच वादानुवादयोरर्थैक्ये वादवदनुवादस्यापि प्रामाण्याभ्युपगमध्रौव्यादर्थभेदे वक्तव्ये प्रामाण्यमवि911-शिष्टमेष्टुं शक्यमित्याह—वादेति॥ ९५ ॥

अन्वक्षं भिन्नरूपा धीरिह वादानुवादयोः।
अपूर्वाधिगतिः पूर्वमिह बुद्धावबोधनम्॥ ९६ ॥

अनूक्तिशब्देन पदान्यर्थवादवाक्यानि च गृहीतानीत्यङ्गीकृत्योक्तमेव प्रपञ्चयति—अन्वक्षमिति॥ ९६ ॥

मृगतोयादिवन्मिथ्या यद्यनूक्तेर्भवेन्मतिः।
विधेर्निर्विषयत्वं वः सर्वत्रैव प्रसज्यते॥ ९७ ॥

किंच पदोत्था बुद्धिर्मिथ्या चेन्नियोगस्य निर्विषयत्वं स्याद्यागाद्यनुवादेन तस्मिन्नियोगाभ्युपगमात्पदजन्यबुद्धेर्मिथ्यात्वे च तदयोगादित्याह—मृगतोयेति॥ ९७ ॥

स्वाभिधेयं निराकाङ्क्षो ह्यनुवादः प्रबोधयेत्।
तत्र चेदप्रमाणं स्यात्स्यात्तदुच्चारणं वृथा॥ ९८ ॥

अन्यापेक्षामन्तरेण स्वार्थबोधकत्वाच्च पदस्य प्रामाण्यमप्रत्याख्येयमित्याह—स्वाभिधेयमिति। विपक्षे दोषमाह—तत्र चेदिति॥ ९८ ॥

साकाङ्क्षत्वानुवादत्वे कुतश्चावगते त्वया।
अप्रामाण्यान्न चेताभ्यां विधेयप्रक्षयाद्विधेः912॥ ९९ ॥

किंच पदस्य साकाङ्क्षत्वमनुवादत्वं चेष्यते तच्चोभयं पदाद्वा विधेर्वा ज्ञातव्यमिति पृच्छति—साकाङ्क्षत्वेति। ताभ्यां साकाङ्क्षत्वानुवादत्वाभ्यां913 विशिष्टात्पदादेव तद्गतमुभयं ज्ञायते चेत्तन्न युक्तं पदप्रामाण्यानङ्गीकारादन्यथा तत्प्रामाण्यप्रसङ्गादित्याह—अप्रामाण्यादिति। न च विधिवशादेव साकाङ्क्षत्वमनुवादत्वं914 च पदगतं ज्ञातव्यं त915स्य विधेयार्थप्रतिपादनोपक्षीणत्वादित्याह—विधेयेति। नञ्पदमत्राप्यनुषज्यते॥ ९९ ॥

स्वशब्दानभिधेयं यत्तदेवापेक्षते पदम्।
स्वार्थे तदप्रमाणं चेद्वाक्यार्थस्यान्वयः कुतः॥ ७०० ॥

स्वाभिधेयं निराकाङ्क्षो ह्यनुवादः प्रबोधयेदित्यत्र पदस्य निराकाङ्क्षत्वमुक्तं साधयति—स्वशब्देति। वाक्यार्थप्रतिपत्तिजननार्थं पदं स्वशब्दानभिधेयं पदार्थान्तरमपेक्षते। स्वार्थे तु पदं निराकाङ्क्षमेवेत्यतः स्वाभिधेयं निराकाङ्क्षो बोधयेदिति युक्तमेवेत्यर्थः। पदस्य पदार्थे निरा916काङ्क्षप्रामाण्याभावे वाक्यार्थप्रतिपत्तिरयुक्ता स्यादित्याह—स्वार्थ इति॥ ७०० ॥

अप्रमाणमिति ज्ञानं कस्मादज्ञायि कथ्यताम्।
विद्यमानोपलम्भानि917 न ह्यभावं प्रमिण्वते॥ १ ॥

प्रमाणमिति पदस्य प्रमाणत्वाभावज्ञानं प्रत्यक्षादिभ्यो वा पदादेव वा सिध्यतीति पृच्छति—अप्रमाणमिति918। प्रथमं प्रत्याह—विद्यमानेति॥ २ ॥

परस्वभावविध्वंसवर्त्मनैवाऽऽत्मवस्तुनः।
वक्ष्यत्यव919गतिं चोर्ध्वं विधिनैवेति दुस्थितम्920॥ २ ॥

द्वितीये पदप्रामाण्यमप्र921तिहतमित्यभिप्रेत्याभिधाश्रुतेर्विध्यनपेक्षं प्रामाण्यमित्यत्र हेत्वन्तरमाह— परस्वभावेति। अन्नप्राणमनोविज्ञानानामनात्मस्वभावानां प्रतिषेधद्वारेणैवाऽऽत्मवस्तुनो ब्रह्मणोऽवगतिमुत्तरत्र भृगुवल्ल्यांश्रुतिर्वक्ष्यति। अतोऽपि विधिं विनैवावगतिरित्यस्यार्थस्य स्थितत्वादभिधावाक्यमेवात्र प्रमाणमित्यर्थः॥ २ ॥

व्यावृ922त्तिः परतोऽभावो न च तस्येन्द्रियेण हि।
संबन्धोऽस्ति ततो भेदः प्रमाणैर्नोपलभ्यते॥ ३ ॥

अन्नप्राणादिनिराकरणेन वस्तुसिद्धिर्विधिवादिना नेष्यते किंतु ततो भिन्नत्वेन तत्सिद्धिरिष्टेति चेत्तत्रान्नादेर्वस्तुनो भेदो व्यावृत्तिर्भावोऽभावो वा। मावश्चेत्पृथक्त्वादिरूपस्य तस्य परस्पराश्रयत्वादिदुष्टत्वादप्रामाणिकत्वमित्यभिप्रेत्य द्वितीयं प्रत्याह—व्यावृत्तिरिति। अमावस्येन्द्रियसंयोगाभावे तत्पूर्वकस्य प्रमाणान्तरस्यापि तत्र न प्रवृत्तिरित्याह—ततइति॥ ३ ॥

प्रमाभावस्वरूपत्वान्नाप्यभावाद्भिदेष्यते।
संवित्त्यभावो नैवेह प्रकाशयति किंचन॥ ४ ॥

अभावात्मनो भेदस्याभावप्रमाणादे923व सिद्धिरित्याशङ्क्य प्रमाणाभावाद्वा संविदमावाद्वा तत्सि924द्धिरिति विकल्प्याऽऽद्यं दूषयति—प्रमेति।

प्रमाणाभावस्य प्रमाणत्वं व्याहृतमित्यर्थः। न द्वितीयः। प्रकाशाभावस्य प्रकाशकत्वविरोधादित्याह— संवित्तीति॥ ४ ॥

इति स्वाभिमतं सर्वं तेन चास्य विरुद्धता।
वस्तुवृत्तानुरोधेन व्यापारः फलवानिह॥ ५ ॥

किंच प्रमाणाभावः संविदभावो भेयाभावश्चेत्यभावमात्रमेव प्राभाकरैर्नाभ्युपगम्यते। तथा चाभावादभावात्मनो भेदस्य सिद्धिरिति स्वोक्तविरुद्धमित्याह—इति स्वाभिमतमिति। अन्नप्राणादिभ्यो भिन्नत्वेना925ऽऽत्मवस्तुनो बोधनं यतः श्रुत्या नोपपद्यतेऽत926स्तन्निषेधेनैवाभिधा927यकवाक्यस्या928ऽऽत्मबोधने व्या929पारः स्यादित्याह—वस्तुवृत्तेति॥ ५ ॥

न कुलालवशाद्व्योम शरावायाप्यलं यतः।
आत्मज्ञानं प्रसिद्धं चेद्विधेरेव930 विधिः कुतः॥
अथाप्रसिद्धं नितरां विधिर्नैवोपपद्यते॥ ६ ॥

अभिधाश्रुतिजनितस्य ज्ञानस्य स्वतोऽप्रमाणत्वात्तत्प्रामाण्याय ज्ञाने विधिरित्याशङ्क्याऽऽकाशं स्वतः शरावभवनायोग्यं कुलालवशान्न शरावो भवति तथा स्वतोऽप्रमाणस्य931 विधिवशात्प्रामाण्यायोगान्नैवमित्याह—नेत्यादिना। किंचाऽऽत्मज्ञानस्य प्रसिद्धत्वेऽप्रसिद्धत्वे च न तत्र विधिःसंभवतीत्याह—आत्मज्ञानमिति॥ ६ ॥

कैवल्यकारिता बुद्धेर्नियोगादेव चेद्भवेत्।
नियोगार्थावगतये नियोगोऽन्योऽपि मृग्यताम्॥ ७ ॥

ज्ञानस्य मोक्षसाधनत्वसिद्धये ज्ञाने विधिः स्यादिति शङ्कते—कैवल्येति। तर्हि नियोगस्यापि पुमर्थसाधनत्वाभ्युपगमान्नियोगात्पुमर्थसिद्धये नियोगे नियोगान्तरमन्वेष्टव्यमिति निराचष्टे—नियोगार्थेति॥ ७ ॥

तत्त्वमस्यादिवाक्योत्थं विज्ञानं स्वफलं स्वतः।
अतोऽवगम्यतेऽस्माभिस्तृप्त्याख्यफलवद्भुजेः॥ ८ ॥

अतिप्रसङ्गपरिहारार्थं वाक्योत्थं ज्ञानं स्वारस्येनैवपुमर्थं साधयतीति फलितमाह—तत्त्वमस्यादीति॥ ८ ॥

स्वाध्यायोऽध्येतव्य इति विध्यन्तरमृते यथा।
विध्यर्थावगमस्तद्वदस्त्विहाप्यभिधाश्रुतेः॥ ९ ॥

अभिधाश्रुतेः स्वार्थबो932धकत्वं विधिव्यतिरेकेण नास्तीत्याशङ्क्याध्ययनविधिदृष्टान्तेन परिहरति—स्वाध्याय इति॥ ९ ॥

नियोगविरहादस्य यद्यर्थावगमो मृषा।
इहापि तदमानत्वमभिधानश्रुतेरिव॥ १० ॥

नियोगमन्तरेणाभिधावाक्यादर्थावगमो मिथ्येत्याशङ्क्याध्ययनविधिवाक्यादपि तर्हि विध्यन्तरमन्तरेण वाक्यार्थप्रतिपत्तिर्मिथ्या स्यादित्याह—नियोगेति॥ १० ॥

भवेद्विध्यनुकूला वा अभिधा यदि वा विधिः।
अभिधावर्त्मयायी स्यात्तत्र दोषगुणाविमौ॥ ११ ॥

वेदान्तवाक्ये विध्य933भ्युपगमेऽपि किं विधेरभिधानगुणत्वं किं वाऽभिधाया विध्यनुगुणत्वमिति विकल्पयति—भवेदिति। तत्राभिधाश्रुतेर्बिध्यनुगुणत्वे त्वत्पक्षसिद्धिर्मत्पक्षासिद्धिश्च विधेरभिधाश्रुत्यनुगुणत्वे त्वत्पक्षासिद्धिर्मत्पक्षसिद्धिश्चेत्यभिप्रेत्याऽऽह—तत्रेति॥ ११ ॥

स्याद्द्युलोकाग्निवज्ज्ञानं यदि विध्यनुरोधिनी।
अभिधाश्रुतिरदृ934ष्टार्था सम्यग्ज्ञानं तु दुर्लभम्॥ १२ ॥

अभिधाया विध्यनुगुणत्वे सूचितं दोषं विशदयति—स्यादिति॥ १२ ॥

अथाभिधानुरोधी स्या935न्नियोगोऽयं तथाऽपि च।
अभिधानुविधायित्वाद्विध्यर्थोऽत्र सुदुर्लभः॥ १३ ॥

विधेरभिधानुरोधित्वेऽपि सूचितं दोषे प्रकटयति—अथेति॥ १३ ॥

प्राक् वाक्यार्थविज्ञानात्तन्निविष्टपदार्थयोः।
अन्वयव्यतिरेका936ख्यविवेकाय विधिर्भवेत्॥ १४ ॥

आत्मज्ञाने विध्यभावेऽपि वेदान्तेषु विध्यभावे मुमुक्षूणां प्रवृत्तिर्यादृच्छिकी स्यादित्याशङ्क्य पदार्थविवेके विध्यभ्युपगमान्मैवमित्याह—प्राक्त्विति॥ १४ ॥

वाक्यार्थप्र937तिपत्तौ हि पदार्थाज्ञा938नमेव च।
प्रतिबन्धो यतस्तस्मादन्वद्यावलोकन939म् ॥ १५ ॥

वाक्यार्थज्ञानस्यापेक्षितत्वात्तत्प्र940तिबन्धनिवृत्त्यर्थे विधावर्थ्यमाने किमिति पदार्थपरिशोधने विधिरित्याशङ्क्याऽऽह—वाक्यार्थेति ॥१५॥

वाक्यार्थज्ञानकाले यः पदार्थो नैव विद्यते।

कर्तव्यः कारकापेक्षो विधेयः स न संशयः॥ १६ ॥

कर्मकाण्डे विधेयमंशं यागादिकं दर्शयति—वाक्यार्थज्ञानेति॥ १६ ॥

विपरीतस्ततो यस्तु वाक्यादेवावगम्यते।
नित्योऽकर्मविमुक्तः सन्न विधेयः कथंचन॥ १७ ॥

कर्मकाण्डवज्ज्ञानकाण्डेऽपि किंचिद्विधेयं भविष्यतीत्याशङ्क्य ज्ञानं वा त941द्विषयो वा निदिध्यासनं वाऽत्र विधेयमिति विकल्प्य ज्ञाने विधेर्निरस्तत्वात्तद्विषये च ब्रह्मात्मभावे नित्यसिद्धे विधेरसंभवान्न कल्पद्वयमित्याह—विपरीत इति॥ १७ ॥

स्वसिद्धेः कारणं नान्यज्ज्ञानमज्ञानहानये।
यस्मादपेक्षते तस्मान्न निदिध्यासनाय तत्॥ १८ ॥

ज्ञानस्य निदिध्यासनापेक्षस्याज्ञाननिर्तकत्वात्तस्य तच्छेषत्वान्निदिध्यासनं विधेयमितिकल्पान्तरं प्रत्याह—स्वसिद्धेरिति। ज्ञानस्य स्वोत्पत्तिमात्रेणाज्ञाननिवर्तकत्वान्निदिध्यासनशेषत्वाभावान्न तस्य विधेयत्वमित्यर्थः॥ १८ ॥

सिद्धमप्यात्मकार्यस्य कारणं सि942द्धये न चेत्।
विध्यपेक्षं तदेव स्यान्न स्वसिद्धिप्रकाशकम्॥ १९ ॥

उक्तमेव प्रपञ्चयति—सिद्धमपीति। कारणमज्ञाननिवृत्तौ ज्ञानं तद्यदि लब्धात्मकमपि स्वफलस्याज्ञाननिवृत्तिलक्षणस्य प्राप्तये न943 भवति तर्हि तदेव निदिध्यासनविध्यपेक्षं स्वसिद्धेः स्वफलस्य प्रागुक्तस्य प्रकाशकं साधकमित्येतन्न स्यात्। न हि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यत इतिन्यायादित्यर्थः॥ १९ ॥

तस्मात्कूटस्थविज्ञानं प्रत्याख्याताखिलद्वयम्।
आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन॥ २० ॥

विधेयज्ञानात्पुरुषार्थसिद्धिरिति वक्तुमशक्यत्वाद्वाक्योत्थज्ञानादेव परिपूर्ण944पुरुषार्थसिद्धिरिति वाक्यद्व945योपादानपूर्वकं विचारफलमुप946संहरति—तस्मादिति॥ २० ॥

ब्रह्मणो ब्राह्मणस्येति भेदश्चात्रौपचारिकः।
राहोः शिरोवन्मुख्यस्तु नैव स्यान्निर्गुणत्वतः॥ २१ ॥

आनन्दं ब्रह्मणो विद्वानितिभेदनिर्देशादानन्दब्रह्मणोर्गुणगुणीभावः स्यादित्याशङ्क्याऽऽह—ब्रह्मण इति। ब्रह्मविदो ब्राह्मणस्य ब्रह्मीभुतस्य स्वरूपभूतमानन्दं साक्षात्कुर्वतो भयहेत्वभावान्नास्ति भयमित्यस्यार्थस्यात्र विवक्षितत्वाद्ब्रह्मणि गुणगुणिभावस्याभावाद्भेदस्यात्र राहोः शिरोवत्कल्पितत्वाद्वस्तुतोऽभावादर्थशून्या षष्ठीत्यर्थः॥ २१ ॥

महिमा ब्राह्मणस्यैष हा947निवृद्धिविवर्जितः।
स्वतः सिद्धेर्विजानंस्तं न बिभेति कुतश्चन॥ २२ ॥

विद्वानित्यादेरर्थं विवृणोति—महिमेति॥ २२ ॥

विद्वान्सन्न विभेतीति विद्याकालं भवेत्फ948लम्।
न तु स्वर्गादिवत्प्राप्यं भु949ञ्जानस्तृप्यतीतिवत्॥ २३ ॥

विद्वान्न बिभेतीति विद्यातत्फलयोः समानकालत्वनिर्देशस्य तात्पर्यमाह—विद्वानिति॥ २३ ॥

यतोऽविद्यातिरेकेण प्रतिबन्धो न विद्यते।
तन्नाशानन्तरां मु950क्तिं विद्वानिति ततोऽवदत्॥ २४ ॥

ज्ञानोदयना951न्तरीयकत्वेन मुक्तिव्यवधानस्याज्ञानस्य निवृत्तेश्चज्ञानसमानकाला मु952क्तिर्वक्तव्येत्याह—यत इति॥ २४ ॥

भयहेतुर्द्वयं यस्मातच्चाविद्यासमुद्भवम्953
प्लुष्टायां विद्यया तस्यां न कुतश्चन भीर्भवेत्॥ २५ ॥

इतोऽपि ज्ञा954नतत्फलयोरेककालत्वं युक्त955मित्याह—भयेति॥ २५ ॥

परमात्मधियैतस्मिन्प्रत्यगात्मनि केवले।
निरस्तायामविद्यायां भयं नास्ति कुतश्चन॥ २६ ॥

उक्तमेवार्थं विवृणोति—परमात्मेति॥ २६ ॥

निर्धूतपदवाक्यार्थमित्येवं प्रतिपत्तये।
यतो वाचो निवर्तन्त इत्येवं वचनं श्रुतेः॥ २७ ॥

तथा मनोविकल्पानां निषेधाय परात्मनि।
धिया सहेत्यतो वक्ति श्रुतिर्याथात्म्यबोधिनी॥ २८ ॥

एवं मन्त्रं व्याख्याय तदीयपूर्वार्धस्य तात्पर्यार्थमा956ह—निर्धूतेति॥२७ ॥२८ ॥

निषिध्य नायमात्मेति भिन्नमात्मोपलम्भनम्।
अनन्यानुभवं ब्रह्म यमेवेत्याह नः श्रुतिः॥ २९ ॥

प्रत्यगात्मा न पदार्थो न वाक्यार्थो नापि विकल्पज्ञानानां विषयो भवतीत्यस्मिन्नेवार्थे नायमात्मा प्रवचनेन लभ्य इत्यादिश्रुत्यन्तरसंवादं दर्शयति–निषिध्येति॥ २९ ॥

प्रत्यग्ब्रह्मावसायित्वाद्भेदानां रज्जुसर्पवत्।
उदाहार ततः श्रुत्या ह्ययं श्लोको मनोमये॥ ३० ॥

यदि कोशपञ्चकातिरिक्तप्रत्यग्ब्रह्मविषयोऽयं श्लोकस्तर्हि किमिति मनोमयकोशे यथोक्तश्लोकस्योदाह-रणमित्याशङ्क्य कोशपञ्चकस्य प्रत्यगात्मातिरेको नास्तीति प्रतिपादनायेत्याह–प्रत्यगिति॥ ३० ॥

विद्वानेव परं ब्रह्म आत्मनाऽऽत्मानमद्बयम्।
न बिभेत्यकलोऽद्वन्दो भयहेतोरसंभवात्॥ ३१ ॥

द्वैतस्य भयकारणत्वात्तस्य चाविद्याकार्यत्वाद्विद्ययाऽविद्यानिवृत्तौ

भयहेतोरभावाद्विद्वानमयं ब्रह्मैव भवतीति मन्त्रार्थमुपसंहरति—विद्वानिति।अद्वयमात्मानमवगच्छतीति शेषः॥ ३१ ॥

ननु साध्वक्रियाहेतुः पापानुष्ठानमेव च।
इत्येतस्य निषेधार्थमेतं हेत्युच्यतेऽधुना॥ ३२ ॥

एतं हेत्यादिवाक्यस्य व्यावर्त्यमाशङ्कामाह—नन्विति। हेतुर्विदुषोऽपि भवस्येति शेषः। तत्रोत्तरत्वेन वाक्यमवतारयति—इत्येतस्येति॥ ३२ ॥

नैतमेवंविदं यस्माद्वावेतीहावधारणे।
न तपत्यन्तकाले तमकर्तृत्वात्मवेदिनम्॥ ३३ ॥

अवतारितस्य वाक्यस्यार्थमाह—नैतमिति। यस्मादेवंविदमकर्तृत्वाभोक्तृत्वोपलक्षितब्रह्मात्मवेदिनं निषिद्धसेवनं विहिताकरणं चान्तकाले नैव तपति प्रकृते वाक्ये वावेतिनिपातस्यावधारणे प्रयुक्तत्वात्तस्मान्निषिद्धसेवनादि विदुषोऽपि भयकारणमस्तीत्येवं न शङ्कितव्यमित्यर्थः॥ ३३ ॥

क्रियाफलस्य सर्वस्य कर्तृगामित्वकारणात्॥ ३४ ॥

धिङ्मां योऽहं शुभं कर्म जीवन्नाकरवं क्वचित्।
अकार्षं च सदा पापं ह्यतो भयमुपस्थितम्॥३५ ॥

विहिताननुष्ठानं निषिद्धानुष्ठानं च विदुषोऽकर्तुरपि किमिति भयकारणं न भवतीत्याशङ्क्याऽऽह—क्रियेति। किमहमित्यादिवाक्यद्वयं योजयति—धिगिति॥ ३४ ॥ ३५ ॥

अस्माद्धेतोर्महांस्तापोऽविद्यासंवीतचेतसाम्।
जायते मृतिकाले हि हिक्किकावशवर्तिनाम्॥ ३६ ॥

पुण्यस्याकरणात्पापस्य करणाच्च महद्भयं कदा केषां चेत्यपेक्षायामाह—अस्मादिति॥ ३६ ॥

फलस्यायं स्वभावो हि यत्स्वकर्त्रनुगामिता।
अतो न तपतो ज्ञोत्थावकर्तारं शुभाशुभौ॥ ३७ ॥

पुण्यपापयोर्मरणकाले तापकत्वं विशेषाभावाद्विदुषोऽपि भविष्यती त्याशङ्क्याऽऽह—फलस्येति॥ ३७ ॥

कस्मान्न तपतस्तौ चेद्धर्माधर्मौ विपश्चितम्।
कौटस्थ्यादद्वयत्वाच्च प्लुष्यत्ये957व शुभाशुभे॥ ३८ ॥

विदुषोऽपि958 पुण्यपापयोरतापकत्वे हेत्वन्तरं वक्तुं पृच्छति—कस्मादिति। विवक्षितं हे959त्वन्तरमुदाहरति—कौटस्थ्यादिति। वस्तुसामर्थ्यादेव सर्वप्रकारविक्रियाविर960हितत्वाद्द्वैताभावोपलक्षितपूर्णस्वभावत्वाच्च विद्योदयनान्तरीयकत्वेन विद्वानविद्यया सह पुण्यपापे दग्ध्वा स्वस्थोऽवतिष्ठते। तथा च पुण्यपापयोर्नास्ति विदुषि तापकत्वमित्यर्थः॥ ३८ ॥

स य एवं यथोक्तार्थं विद्वानेते शुभाशुभे॥ ३९ ॥

साधुकर्माक्रिया या च पापानुष्ठानमेव च।
अकर्ताऽस्मीतिविज्ञानहुताशेनाञ्जसाद्रुतम्961॥ ४० ॥

दग्ध्वा निरन्वये कृत्वा ह्यात्मानं स्पृणुते यतः।
स्पृणोतिर्बलकर्माऽयमात्मानं बलयत्यतः॥ ४१ ॥

उक्तेऽर्थे स य इत्यादिवाक्यं योजयति—स य इति। यथोक्तार्थं सत्यज्ञानादिलक्षणमेवमुक्तेन प्रकारेण प्रत्यगात्मतया यो विद्वानवतिष्ठते स पुनरविद्याकार्ये शुभाशुभे दग्ध्वाऽऽत्मानं स्पृणुते बलयतीत्यर्थः। शुभाशुभे दग्ध्वेत्युक्त962मेव व्यनक्ति—साधुकर्मेति। यस्मादात्मानं विद्वानुक्तरीत्या स्पृणुते तस्मान्नास्ति963 तस्मिन्धर्मादेस्तापकत्वमिति शेषः। स्पृणुत इति क्रियापदस्य विवक्षितमर्थमाह—स्पृणोतिरिति। अत इत्यहं ब्रह्मेतिज्ञानादित्यर्थः॥ ३९ ॥ ४० ॥ ४१ ॥

अविद्यासंश्रयादात्मा बलीयानपि दुर्बलः।
अविद्या राजयक्ष्माऽस्य कार्श्यमेति तया यतः॥
ध्वस्तायां विद्यया तस्यामात्मानं बलयत्यतः॥ ४२ ॥

आत्मनो बलस्य स्वाभाविकत्वात्किं विद्याकृतेन बलेनेत्याशङ्क्याऽऽह—अविद्येति। आत्मबलस्य स्वाभाविकत्वेऽप्यविद्याकृ964तदौर्बल्यस्य विद्यया निरसने स्वाभाविकबलाभिव्यक्तेर्विद्याधीनमस्य बलमभीष्टमित्यर्थः॥ ४२ ॥

बोधेनैव965 निरस्तायां निद्रायां स्वप्नदर्शनम्।
बुद्धात्मशेषतामेति तथेहैकलशेषताम्॥ ४३ ॥

अविद्यातत्कार्ययोर्विद्यया निरस्तयोरात्मनः सकाशाद्भेदेनावस्थानमाशङ्क्य दृष्टान्तेन निराचष्टे—बोधेनेति॥ ४३ ॥

अथवा एष एवोभे सत्यादृश्यादिलक्षणः।
शुभाशुभे यतस्तस्मादात्मानं बलयत्ययम्॥ ४४ ॥

एते पुण्यपापे विद्यया दग्ध्वाऽऽत्मानं बलयतीतिपूर्ववाक्यस्यार्थो व्याख्यातः। संप्रत्युभे हीत्यादिसमनन्तरवाक्यस्यार्थं कथयति—अथवेति। उक्तलक्षणो विद्वान्विद्याबलादुभे पुण्यपापे स्वात्मानमेव करोतीति कुतस्तयोस्तापकत्वाशङ्केत्यर्थः॥ ४४ ॥

लिङ्गदेहाश्रितं कार्श्यंतच्च कर्मनिबन्धनम्।
कर्म कर्त्रादिसंभूतं कर्त्राद्यज्ञानहेतुकम्॥ ४५ ॥

अहं ब्रह्मेत्यतो ज्ञानाद्ध्वस्तायां प्रत्यगात्मनि।
कार्श्यहेतावविद्यायामेकत्त्वाद्बलयत्ययम्॥ ४६ ॥

वाक्यद्वयार्थमुपसंहरति—लिङ्गदेहेति॥ ४५ ॥ ४६ ॥

स्वतो बुद्धं स्व966तः शुद्धं स्वतो मुक्तं यथोदितम्।
वेदैवं यः स्वमात्मानं फलं तस्येदृशं स्मृतम्॥ ४७ ॥

य एवं वेदेत्यस्यार्थमाह—स्वत इति। ईदृशमविद्यानिरासद्वा967रेण बलात्मकमिति यावत्॥ ४७ ॥

इतीत्युक्तप968रामर्शो ब्रह्मणोऽद्वयरूपिणः।
साक्षात्तद्बोधहेतुत्वाद्वल्ली ह्युपनिषद्भवेत्॥ ४८ ॥

इत्युपनिषदित्यत्रेतिशब्दार्थमाह—इतीत्युक्तेति। उपनिषच्छब्दस्यौपचारिकमर्थं कथयति—साक्षादिति॥ ४८ ॥

विद्यैवोपनिषज्ज्ञेया तयैवोपेत्य निर्द्वयम्।
विन्दते निर्भयात्मानं तस्मादुपनिषत्स्मृता॥ ४९ ॥

मुख्यमुपनिषच्छब्दार्थं कथयति—विद्यैवेति॥ ४९ ॥

इमां वल्लीं तु तादर्थ्यात्परब्रह्मविदो गुणात्।
सदोपनिषदित्यृचुस्त्यक्तसर्वैष969णाः शुभाम्970॥ ७५० ॥

इति ब्रह्मवल्ल्यावार्तिकानि समाप्तानि॥

वल्ल्यामुपनिषच्छब्दप्रवृत्तिमौपचारिकीमुक्तामुपसंहरति—इमामिति॥ ७५० ॥

॥ इति ब्रह्मवल्लीवार्तिकटीका समाप्ता॥

————

अथ भृगुवल्ली।

————

सत्यं ज्ञानमनन्तं यद्ब्रह्मोक्तं प्रत्यगात्मनि।
तदभिन्नं परं ज्ञानमुक्तं मोहापनोदि यत्॥ १ ॥

पूर्वोत्तरवल्ल्योःसंगतिकीर्तनार्थं वृत्तं संकीर्तयति—सत्यमिति। यद्ब्रह्म सत्यज्ञानाद्यात्मकं तत्प्रत्यगात्मनि स्वरूपभूतं यो वेद निहितं गुहायामित्यत्रोक्तं तेन च ब्र971ह्मणा प्रत्यग्भूते972नाभिन्नमेकीभूतं यत्परं ज्ञानं तदेव मोहनिवर्तकमिति चोक्तम्। स्वरूपज्ञानस्यैव वाक्योत्थबुद्धिवृत्त्यवच्छिन्नस्याज्ञाननिवर्तकत्वादित्यर्थः॥ १ ॥

अभिधित्सुरथेदानीं यथोक्तज्ञानसिद्ध्ये।
यत्साधकतमं तस्य प्राप्त्यै प्रववृ973ते श्रुतिः॥२ ॥

आनन्दवल्लीतात्पर्यार्थमनूद्य भृगुवल्लीतात्पर्यार्थमाह—अभिधित्सुरिति। सकार्याज्ञाननिवर्तकस्य ब्रह्मात्मैकत्वज्ञानस्य साधनोपन्यासार्थं भृगुवल्लीप्रवृत्तिरित्यर्थः॥ २ ॥

गुरुद्वारैव विद्येयमाचार्याद्धेति नः श्रुतिः।
शिष्योपाध्यायरूपेयमत आख्यायिकोच्यते॥ ३ ॥

किमित्येषा वल्ली शिष्याचार्यक्रमेणोपन्यस्यतेतत्राऽऽह

गुरुद्वारेति॥ ३ ॥

अधीहि भगवो ब्रह्मेत्येतन्मन्त्राभिशब्दितम्।
अन्तर्णीतणिजर्थस्य ह्यधी974हीति भवेद्यतः॥ ४ ॥

आख्यायिकातात्पर्यं दर्शयित्वा वाक्यद्वयाभिप्रायमुक्त्वा तृतीयं वाक्यमुपसदनमन्त्रप्रदर्शनार्थमित्याह— अधीहीति। अध्यापयेत्यस्मिन्नर्थे भवत्यधीहीति पदम्। यथाश्रुतार्थस्यात्रासंभवादित्याह—अन्तर्णीतेति॥ ४ ॥

जिज्ञासुः परमं ब्रह्म श्रद्धाभक्तिपुरःसरः।
उपसीदेद्गरीयांसं मन्त्रेणानेन शुद्धधीः975॥ ५ ॥

उक्तार्थे म976न्त्रस्य विनियोगं दर्शयति—जिज्ञासुरिति॥ ५ ॥

मोक्षादर्वाक्षु भोगेषु व्यावृत्तकरणो भृगुः।
अध्यापय परं ब्रह्मेत्यपृच्छद्बरुणं गुरुम्॥६ ॥

यथोपसदने बुद्धिशुद्धिर977धिकारिविशेषणं तथा वैराग्यमपीत्याह—मोक्षादिति। अध्यापय स्मारय ज्ञापयेति यावत्॥ ६ ॥

अन्नं प्राणमितीत्यादि वरुणो भृगवेऽवदत्।
देहकारणमन्नं स्यात्प्राणः प्राणादिकारणम्978
चक्षुः श्रोत्रं मनो वाक्च करणान्युपलब्धये॥ ७ ॥

तस्मा एतदित्यादिवाक्यद्वयमुत्थापयति—अन्नमिति। अन्नप्राणचक्षुरादिशब्दानामसंकीर्णमर्थं कथयति— देहेति। प्राणादीन्पञ्च वृत्तिभेदान्करोतीति प्राणादिकारणो वृ979त्तिमान्वायुरेवेत्यर्थः॥ ७ ॥

अन्वयव्यतिरेकोक्तिर्ब्रह्मणो वोपलब्धये॥ ८ ॥

अनिर्देश्यस्य वा भूम्नो लक्षणस्य प्रवृत्तये।
अन्नं प्राणमितीत्यादि प्रत्यग्धर्मोपदिश्यते॥ ९ ॥

ब्रह्म मां ज्ञापयेति प्रष्ट्रे भृगवे किमित्यन्नादिसंकी980र्तनमित्याशङ्क्यान्नाणादिव्यभिचारित्वादनात्मा स्रगादिवदात्मा त्वव्यभिचारीत्येवंविधान्वयव्यतिरेकयोर्ब्रह्मज्ञानोपायत्वेन कथनार्थमन्नादिसंकीर्तनं क्रियते।

न हि तदन्नादिना विनाऽन्वयव्यतिरेकवचनमुचितमित्याह—अन्वयेति। वाशब्दो वक्ष्यमाणविवक्षया प्रयुज्यते॥ ८ ॥

अन्नप्राणादिसंकीर्तनं ब्रह्मस्वरूपविवक्षयेति पक्षान्तरमाह—अनिर्देश्यस्येति॥ ९ ॥

प्राणस्य प्राणमित्येवं श्रुतिरप्याश्रिता भवेत्।
कर्मश्रुतिश्चब्रह्मत्वे वाचमित्यादि युज्यते॥१० ॥

प्रत्यगात्मस्वरूपलक्षणार्थत्वेन प्राणादिसंकीर्तने श्रुत्यन्तरमपि संगृहीतं भवतीत्याह—प्राणस्येति। प्राणादिशब्देन प्रत्यग्भूतब्रह्मग्रहणे प्राणं वाचमित्यादिद्वितीयाश्रयण981मन्य982शेषत्वमन्तरेण मुख्यार्थं सिध्यतीति द्वितीयपक्षस्य गमकमाह—कर्मेति॥ १० ॥

अन्नादयः पदार्था वा अन्वयव्यतिरेकयोः।
इहोच्यन्ते प्रवृत्त्यर्थं सौकर्यं स्यात्कथं न्विति983॥ ११ ॥

प्रथमपक्षमुपसंहरति—अन्नादय इति॥ ११ ॥

उत्पत्तिस्थितिनाशेषु ब्रह्मादिस्थावरावधि।
नात्येति ब्रह्मरूपं यत्तद्ब्रह्मेति प्रतीयताम्॥ १२ ॥

तं होवाचेत्यादिवाक्यतात्पर्यमाह—उत्पत्तीति। यत्पृष्टं ब्रह्म तस्य लक्षणं यतो वा इत्यादिनोच्यते। जगदुत्पत्तिस्थितिलयकारणं ब्रह्मेति ब्रह्मणस्तटस्थल984क्षणमित्यर्थः॥ १२ ॥

विजिज्ञासस्व तद्ब्रह्म यदेवंलक्षणं भवेत्।
अनुत्पन्नमहीनं च जगदुत्पत्तिहानिभिः॥ १३ ॥

तद्विजिज्ञासस्वेत्यादेर्विवक्षितमाह—विजिज्ञासस्वेति॥ १३ ॥

तपश्चचार तच्छ्रुत्वा भृगुर्ब्रह्मोपलब्धये।
प्रतिपेदे तपोऽनुक्तं सावशेषोक्तिकारणात्॥ १४ ॥

स तपोऽतप्यतेत्यस्यार्थमाह—तप इति। पित्राऽनुक्तस्य तपसो ज्ञानसाधनत्वे985न ग्रहणे कारणमाह—प्रतिपेद इति॥ १४ ॥

शृङ्गग्राहिकयोक्त्वाऽपि ह्यन्नं ब्रह्मेति लक्षणम्।
पितोवाच यतस्तस्मात्तपो भेजे स्वयं भृगुः॥ १५ ॥

सावशेषोक्तिकारणादित्युक्तं प्रकटयति—शृङ्गेति। अन्नं प्राणमित्यादिना ब्रह्म प्रत्यक्त्वेन साक्षादुक्त्वाऽपि यतो वा इमानीति ब्रह्मलक्षणं तटस्थत्वेन986 द्योतकमुक्तवान्। अतस्तस्य987 प्रत्यक्तया प्रतिपत्तिसाधनमनुक्तमपि तपः स्वयमेव भृगुरवगतवानित्यर्थः॥ १५ ॥

ब्रह्म साक्षान्न निर्दिष्टं लक्षणोक्तेरतो भृगुः।
नूनमाकाङ्क्षते योग्यं साधनं ब्रह्मवित्तये॥ १६ ॥

यद्यन्नं प्राणमित्यादिना साक्षादेव ब्रह्म प्रत्यक्त्वेन पित्रा निर्दिष्टं तर्हि यतो वा इमानीत्यादिना लक्षणोक्तिरविवक्षिता स्यात्। अतो ब्रह्मणः प्रत्यक्त्वेन साक्षात्प्रतिपत्तिसिद्धये योग्यं साधनं प्रायेणा988ऽऽकाङ्क्षते पितेति तपश्चरणकाले कल्पितवान्भृगुरित्याह—ब्रह्मेति॥ १६ ॥

तपोविशेषादित्सा स्यात्तत्साधनमतत्त्वतः।
यद्दुस्तरं यद्दुरापमितिस्मृत्यनुशासनात्॥ १७ ॥

ब्रह्मप्रतिपत्तौ योग्यं साधनं पितुराकाङ्क्षितमस्तु तथाऽपि भृगोस्तपोविशेषान्वषणा कु989तः स्यादित्याश990ङ्क्याऽऽह—तपोविशेषेति। तपसः साधकत991मत्वं सप्रमाणं प्रकटयति—यदुस्तरमिति॥ १७ ॥

मनसश्चेन्द्रियाणां चेत्येवमाध्यात्मिकं तपः।
इह न्याय्यं प्रसिद्धं तु ह्यारादुपकरोति नः॥ १८ ॥

तपःशब्दार्थमाह—मनसश्चेति। इहेत्यध्यात्माधिकारो गृह्यते। कृच्छ्रचान्द्रायणादेरनुपयोगं व्यावर्तयति— प्रसिद्धं त्विति॥ १८ ॥

अन्वयव्यतिरेकादिचिन्तनं वा तपो भवेत्।
अहं ब्रह्मेतिवाक्यार्थबोधायालमिदं यतः॥ १९ ॥

तपःशब्दस्य प्रकृतोपयोगित्वेनार्थान्तरमाह—अन्वयेति। वाक्यतात्पर्यपर्यालोचनं साधनविशेषानुसंधानं फलविशेषचिन्तनं चाऽऽदिशब्देन गृह्यते॥ १९ ॥

कोऽहं कस्य कुतो वेति कः कथं वा भवेदिति।
प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत्॥
व्यासः प्राहात एवेदं मुमुक्षोर्मुक्तये तपः॥ २० ॥

अन्वयव्यतिरेकव्यापारस्य वाक्यार्थबोधं प्रत्यन्तरङ्गसाधनत्वे प्रमाणमाह—कोऽहमिति॥ २० ॥

यतो वा इति चैवं स्यादुक्तमेव परं तपः॥ २१ ॥

उक्तलक्षणसंपन्नं992 तपस्तप्त्वा प्रयत्नवान्।
अन्नं ब्रह्मेति भूतानामुत्पत्त्यादिसमन्वयात्॥ २२ ॥

उत्पत्त्यादिभाक्त्वाद्भूतानामनात्मत्यं ब्रह्मणस्तु तद्राहित्यादात्मत्वमित्येवमन्वयव्यतिरेकरूपं तपो993 विवक्षितत्वाल्लक्षणवाक्यमपि प्रवृत्तमित्याह—यत इति॥ २१ ॥

स तपस्तप्त्वेत्यादेरर्थं कथयति—उत्तेति।

इति प्रथमः खण्डः॥ १ ॥

अन्वयव्यतिरेकाख्यं तपो ब्रह्मज्ञानसाधनत्वेन निर्धार्य गुरुणोक्तं ल994क्षणमन्नस्यास्तीति संभाव्यान्नं ब्रह्मेति प्रतिपन्नवान्भृगुरित्यर्थः। अन्ने ब्रह्मलक्षणसंपत्तिमेव साधयति—भूतानामिति॥ २२ ॥

उक्तान्यन्नमयादीनि यानि तेषां तु कारणम्।
अन्नादि प्रतिपत्तव्यं न हि कार्येऽस्ति लक्षणम्॥ २३ ॥

आनन्दवल्ल्यामुक्तानां भयडर्थानां कारणान्यन्नादिशब्दवाच्यानीत्याह—उक्तानीति। कार्यत्वादन्नमयादेः सर्वभूतोत्पत्त्यादिहेतुत्वासंभवादित्युक्तेऽर्थे हेतुमाह—न हीति॥ २३ ॥

शुद्धं ह्यन्नमयाद्येतदन्नादेरुपजायते।
कार्यप्रविलयश्रुत्या995 कारणानन्दमेत्यतः॥ २४ ॥

कार्यत्वमन्नमयादेरुपपादयति—शुङ्गमिति। अग्रं996 कार्यं शुङ्गमिति पर्यायाः997। अन्नमयादेरुक्तका998र्यत्वे फलितमाह—कार्येति॥ २४ ॥

कार्याणि कारणेष्वेवं तानि चैवोत्तरोत्तरम्।
प्रविलाप्य परानन्दं यायाद्वाचामगोचरम्॥ २५ ॥

कार्याणां प्रविलयद्वारेण कारणभूतमानन्दमेति विद्वानिति वदता कार्यकारणविलक्षणं त वं भुक्तोपसृप्यमित्येतदुपेक्षितमित्याशङ्क्याऽऽह—कार्याणीति। अन्नमयादान्मयडथानन्नादिषु प्रकृतिषु प्रावलाप्यान्नं प्राणे प्राणं मनसि मनो विज्ञाने विज्ञानं समस्तजगत्कारणे ब्रह्मण्यानन्दे तच्चाज्ञातं का999रण कार्यकारणविलक्षणे नित्यशुद्धत्वादिलक्षणे ब्रह्मणि प्रत्यगात्मनि ज्ञानबलात्प्रविलाप्य तद्रूपण विद्वान्पर्यवस्यतीत्यर्थः॥ २५ ॥

अन्नं ब्रह्मेति विज्ञाय कार्यत्वं तस्य वीक्ष्य सः।
संशयोच्छित्तये भूयो गत्वाऽपृच्छद्गुरुं भृगुः॥ २६ ॥

तद्विज्ञायेत्यादेस्तात्पर्यमाह—अन्नमिति॥ २६ ॥

अन्नदेर्ब्रह्मणश्चैवं दोषं दृष्ट्वा सकार्यताम्।
भूयो भूयः परं ब्रह्म पप्रच्छाऽऽतृण्णिवर्तनात्॥ २७ ॥

यथाऽन्नस्य ब्रह्मत्वविज्ञानानन्तरमपि तस्य कायत्वोपलम्भान्नैराकाङ्क्ष्याभावात्पुनरपि वरुणं प्राप्याधीहि भगवा ब्रह्मेति भगुरप्राक्षीत्तथैव प्राणस्य मनसो विज्ञानस्य च ब्रह्मत्वं ज्ञात्वाऽपि तत्र तत्र कार्यत्वप्रतीत्या निराकाङ्क्षत्वासंभवात्पुनरपि गुरुं गत्वा भृगराकाङ्क्षाशान्त्यर्थं पृष्टवानेव ब्रह्मेत्याह—अन्नादेरिति। प्राणादेरित्यर्थः। एवमित्याद्यं पर्यायं दृष्टान्तयति॥ २७ ॥

यावत्साक्षात्परं ब्रह्म करविन्यस्तबिल्ववत्।
न वेत्ति निर्बुभुत्सुः सन्न तावद्विनिवर्तते॥ २८ ॥

तर्हि प्रश्नस्यापर्यवसानमित्याशङ्क्य तत्त्वसाक्षात्कारान1000न्तरमाकाङ्क्षोपरमात्प्रश्नपरिसमाप्तिरित्याह—यावदिति॥ २८ ॥

विजिज्ञासस्व तद्ब्रह्म तपसेति पुनः पुनः।
ब्रुवञ्ज्ञापयतीहास्मांस्तपसैवाऽऽत्मवीक्षणम्॥ २९ ॥

भृगोराकाङ्क्षोपशान्तिपर्यन्त प्रश्नाभ्यासेऽपि तपसा ब्रह्म विजिज्ञा-

सस्वति पुनः पुनर्वचनं वरुणस्य केनाभिप्रायेणेत्याश1001ङ्क्याऽऽह—विजिज्ञासस्वेति॥ २९ ॥

इति द्वितीयतृतीयचतुर्थपञ्चमखण्डाः॥ २ ॥ ३ ॥ ४ ॥ ५ ॥

अन्वयव्यतिरेकाभ्यामेवं स शनकैर्भृगुः।
तपसैव परं ब्रह्म विजज्ञौ प्रत्यगात्मनि॥ ३० ॥

आनन्दो ब्रह्मेति व्यजानादित्पादेस्तात्पर्यमाह—अन्वयेति॥ ३० ॥

यस्मादेवमतः कार्यं संसारं प्रजिहासुभिः।
प्रत्यग्ब्रह्मावबोधाय सदा निष्कल्मषं तपः॥ ३१ ॥

अन्वयव्यतिरेकाख्येन तपसा प्रत्यगात्मनि प्रतिष्ठितं ब्रह्म वाक्येन ज्ञातुं शक्यमिति स्थिते फलितमाह—यस्मादिति॥ ३१ ॥

व्युत्थायाऽऽख्यायिकारूपात्तन्निर्वृत्तमथाधुना।
श्रुतिः स्वेनैव रूपेण व्याचष्टेऽर्थं प्रयत्नतः॥ ३२ ॥

सैषत्यादि वाक्यद्वयमवतारयति—व्युत्थायेति॥ ३२ ॥

भृगुणा विदिता यस्माद्भार्गवीयं भवेदतः।
वारुणी वरुणोक्तत्वाद्विद्या स्याद्ब्रह्मवेदनात्॥३३ ॥

भार्गवीत्यादि पदत्रयं व्याचष्टे—भृगुणेति॥ ३३ ॥

युष्मदस्मद्विभागोऽयं यत्र व्या1002वर्ततेऽञ्जसा।
स आत्मा तत्परं व्योम तत्र विद्या प्रतिष्ठिता॥ ३४ ॥

आनन्दाद्ध्येवेत्यादिदर्शनादानन्दशब्दस्य कारणविषयत्वात्कार्यकारणविलक्षणब्रह्मविषयत्वासिद्धिरित्याशङ्क्य परमे व्योमन्प्रतिष्ठितेत्यत्र व्योमशब्दस्य कार्यकारणविनिर्मुक्तप्रत्यगात्मविषयत्वान्मैवमित्याह—युष्मदति॥ ३४ ॥

आत्मता ब्रह्मणो यत्र आत्मनो ब्रह्मता तथा।
अहं ब्रह्मेत्यवाक्यार्थमेवं वाक्यात्प्रपद्यते॥ ३५ ॥

यथोक्तस्य ब्रह्मात्मैकत्वस्यालौकिकत्वादसिद्धिरित्याशङ्क्याऽऽत्मनो ब्रह्मत्वं ब्रह्मणश्चाऽऽत्मत्वं वेदान्त-वाक्यादेव सिध्यतीत्याह—आत्मतेति॥ ३५ ॥

अन्योऽपि भृगुवत्तप्त्वा तप ऐका1003ग्र्यलक्षणम्।
कोशान्निरस्य पञ्चापि प्रतिष्ठां लभते पराम्॥३६ ॥

य एवं वेद प्रतितिष्ठतीत्यस्यार्थमाह—अन्योऽपीति॥ ३६ ॥

ब्रह्मपुच्छं प्रतिष्ठेति वल्ल्योक्तं पूर्वया तु यत्।
तस्यामेव प्रतिष्ठायां विद्वान्संप्र1004तितिष्ठति॥ ३७ ॥

कार्यकारणविलक्षणब्रह्मत्वेन परां प्रतिष्ठामेव प्रकटय1005ति—ब्रह्मेति॥ ३७ ॥

अन्नाद्युपासकानां1006 वा फलमेतदिहोच्यते।
न्याय्यं नावाप्तकामानामन्नादिफलकीर्तनम्॥ ३८ ॥

अन्नवानित्यादिना प्रकृतस्यैव विज्ञानस्य स्तुत्यर्थं सगुणविद्याफलकीर्तनमङ्गी1007कृत्य फलान्तरमाह—अन्नादीति। यदेतदन्नाद्युपासकानामन्नवत्त्वादिफलं तदिह ब्रह्मविद्यायाःस्तुत्यर्थमुच्यते। सगुणविद्याफलेन निर्गुणविद्यायाःस्तुतिसंभवादित्यर्थः। मुख्यमेव ब्रह्मविदोऽन्नादिफलकीर्तनं किं न स्यादित्याशङ्क्याऽऽह— न्याय्यमिति॥ ३८ ॥

भूयोऽन्नवान्दीप्तवह्निर्महांश्च स्यात्प्रजादिभिः।
शान्तिदान्त्यादिहेतुस्त्विड्ब्रह्मवर्चसमुच्यते॥ ३९ ॥

अन्नवानित्यादि व्या1008चष्टे—भुयोऽन्नवानिति॥ ३९ ॥

इति षष्ठः खण्डः॥ ६ ॥

अन्नमेव गुरुर्न्याय्यमुत्तरज्ञानहेतुतः।
अन्नं न निन्द्यात्तेनाऽऽदौ व्रतं स्यात्तदुपासितुः॥ ४० ॥

अन्नं न निन्द्यादित्यादेरर्थमाह—अन्नमिति। अन्नस्योपभुक्तस्योक्तवक्ष्यमाणज्ञानहेतुत्वेन गुरुवदनिन्दनमन्नोपासकस्याऽऽवश्यकमित्यर्थः॥ ४० ॥

अन्योन्यस्थितिहेतुत्वादन्नान्नादत्वमुच्यते।
शरीरप्राणयोरेवमुत्तरेष्वपि निर्णयः॥ ४१ ॥

प्राणो वा अन्नमित्यादेरर्थं सक्षिपति—अन्योन्येति। प्राणो वा अन्नम्। शरीरमन्नादमिति प्राणशरीरयोरन्नान्नादत्वमुक्तम्। तत्र प्राणे

शरीरं प्रतिष्ठितमित्यादिना हेतुरुच्यते। अन्नवत्त्वादिसंकीर्तनं तु स1009र्वत्र पूर्ववन्नेतव्यमित्यर्थः। आपो वा अन्नम्। ज्योतिरन्नादम्। पृथिवी वा अन्नम्। आकाशोऽन्नादः। इति पर्यायद्वयेऽपि यथोक्तन्यायमतिदिशति—एवमिति। अब्ज्योतिःपृथिव्याकाशेष्वन्नान्नादत्वमन्योन्यस्थितिहेतुत्वादिति निर्णेतव्यम्। अन्नवत्त्वादिफलसंकीर्तनं तु पूर्ववदेव1010 तत्रापि नेतव्यमित्यर्थः॥ ४१ ॥

इति सप्तमः खण्डः॥ ७ ॥

प्राप्तं न परिचक्षीत वन्नव्र1011तमिदं भ1012वेत्।
अन्नं सुब1013हु कुर्वीत तथैवेहोत्तरं व्र1014तम्॥ ४२ ॥

शरीरप्राणयोरन्नान्नादत्त्वोपासकस्य प्राप्तान्नाप्रत्याख्यानं व्रतमित्यन्नं न परिचक्षीतेत्यादिवाक्यद्वयस्यार्थमाह—प्राप्तमिति॥

इत्यष्टमः खण्डः॥ ८ ॥

अपां ज्योतिषश्चान्नान्नादत्वोपासकस्यान्नबहुकरणं व्रतमित्यन्नं बहु कुर्वीतेत्यादेरर्थमाह—अन्नमिति॥ ४२ ॥

इति नवमः खण्डः॥ ९ ॥

वसत्यर्थं तथाऽऽयातं प्रत्याचक्षीत नैव तम्।
वसते चान्नदानार्थं कुर्यादन्नं गृही बहु॥ ४३ ॥

पृथिव्याकाशयोरन्नान्नादत्वोपासकस्य वसत्यर्थमागतस्याप्रत्याख्यानं व्रतमिति न कंचन वसतावित्यादेरर्थमाह—वसत्यर्थमिति। तस्मादित्यादिवाक्यस्य तात्पर्यार्थमाह—वसते चेति॥ ४३ ॥

एतद्वै मुखत इति सत्कारोक्तिस्त्रिधा भवेत्।
वयोवस्था त्रिधा वा स्यादन्नदानविवक्षया॥ ४४ ॥

उत्तममध्यमाधमभेदेनान्नसत्कारोक्तिस्त्रिधा1015 भवति। तत्कथनार्थमेतद्वै मुखतोऽन्नमित्यादिवाक्यमित्याह1016—एतदिति। अन्नदानविवक्षया सत्कारोक्तेस्त्रैविध्यमुक्त्वा तद्विवक्षयैव बाल्ययौवनवार्धकरूपा वयसोऽवस्था त्रिविधा विवक्षितेति पक्षान्तरमाह—वयोवस्थेति॥ ४४ ॥

राद्धं सिद्धं भवेदन्नं पात्रेभ्यो यस्य तस्य तु।
यथासत्कारवयसी अन्नदानफलं भवेत्॥ ४५ ॥

तेष्वेव वाक्येष्वक्षरार्थं संगृह्णाति—राद्धमिति॥ ४५ ॥

गृहिणो ह्यन्नवन्तोऽपि यत आचक्षते सदा।
अराधि सिद्धमेवान्नमतिथ्यर्थं न संशयः॥
यत एवमतः कार्यं बह्वन्नं यत्नतः सदा॥ ४६ ॥

तस्मादित्यादिवाक्येनान्नस्य बहुकरणमित्युक्तम्। तत्र हेतुत्वेनाराधीत्यादिवाक्यं संबध्यते। तथा च हेतुहेतुमद्भावेन वाक्यद्वयं नेतव्यमित्याह—गृहिणो हीति॥ ४६ ॥

अपि चान्नस्य माहात्म्यमिदमन्यद्यथावयः॥ ४७ ॥

यथाश्रद्धं यथाकालं यथासत्कारमेव च।
अन्नं दददवाप्नोति तत्तथैव न सं1017शयः॥ ४८ ॥

एतद्वै मुखतोऽन्नमित्यादिवाक्यषट्कस्य पूर्वोक्तमेवार्थं संक्षिप्यानुवदति—अपि चेति॥ ४७ ॥ ४८ ॥

उपात्तरक्षणं क्षेमो ब्रह्मैतद्वाचि संश्रितम्।
क्षेमहेतुर्यतो1018 वाक्यं तदुपासीत वाच्यतः॥ ४९ ॥

क्षेम इति वाचीत्यस्यार्थमाह—उपात्तेति॥ ४९ ॥

अप्रातप्रापणं योगः क्षेमश्चोभयरूपभृत्।
प्राणापानाश्रयं ब्रह्म तदुपासीत तौ ह्यतः॥ ५० ॥

योगक्षेम इति प्राणापानयोरित्यस्यार्थमाह—अप्राप्तेति॥ ५० ॥

योगक्षेमात्मकं ब्रह्म प्राणापानसमाश्रयम्।
कर्मेति हस्तयोस्तद्वदुपासीताप्रमादवान्॥ ५१ ॥

कथं प्राणापानाश्रयत्वं यथोक्तस्य ब्रह्मणः सिद्धमित्याशङ्क्याऽऽह—योगेति। जीवतो योगक्षेमाविति कृत्वा प्राणापानाश्रयौ योगक्षेमौ

विवक्ष्येते1019। तस्मात्प्राणापानात्मना व्य1020वस्थितब्रह्मदृष्ट्या योगक्षेमावुपास्यावित्यर्थः। कर्मेति हस्तयोरित्यस्यार्थ सूचयति—कर्मेति॥ ५१ ॥

तथा ग1021तिरिति ध्येयं पादयोर्ब्रह्मसर्वदा।
विमुक्तिरिति पायौ च समाज्ञा मानुषीः स्मृताः॥५२ ॥

गतिरिति पादयोरित्यस्यार्थमाह—तथेति। विमुक्तिरिति पायावित्यस्यार्थं सूचयति—विमुक्तिरिति। मूत्रपुरीषविसर्गो विमुक्तिः। तद्रूपेण ब्रह्म पायौ व्यवस्थितमिति ध्येयामेत्यर्थः। इति मानुषीरित्यादेरर्थं वक्तुं वाक्यमुपादत्ते—समाज्ञा इति॥ ५२ ॥

मनुष्यविषया यस्मादाज्ञा विष्णोरियं ततः1022
समाज्ञा मानुषीस्त्वेवं सदैवाऽऽचक्षते बुधाः॥ ५३ ॥

तदेव व्याचष्टे—मनुष्येति॥ ५३ ॥

अथ दैवीः समाज्ञास्तु उपासीत यथाक्रमम्।
वृष्टौ तृप्तिरिति ध्येयं तृप्तेर्वृष्टिसमन्वयात्॥ ५४ ॥

अथ दैवीरित्यस्याथमाह—अथेति। तृप्तिरिति वृष्टावित्यस्यार्थमाह—वृष्टाविति॥ ५४ ॥

तेन तेनाऽऽत्मना तद्वदुत्तरेष्वपि चिन्तयेत्।
ब्रह्मापस्थ उपासीत प्रजात्यादिगुणात्मकम्॥ ५५ ॥

बलमिति विद्युतीत्यादिवाक्येषूक्तन्यायमतिदिशति—तेनेति। बलरूपेण विद्युति यशोरूपेण पशुषु ज्योतीरूपेण नक्षत्रेषु व्यवस्थितं ब्रह्मेत्युपासनानि कर्तव्यानीत्यर्थः। प्रजातिरित्यादि व्याचष्टे—ब्रह्मेति॥ ५५ ॥

प्रजातिः पुत्रपौत्रादिरमृतत्वं ततः पितुः।
आनन्दः पुरुषार्थोऽत्र सोऽप्युपस्थाश्रयो भवेत्॥ ५६ ॥

आदिशब्दार्थं कथयति—प्रजातिरिति। संतानाविच्छित्त्या शुद्ध्यादिद्वारेण पितुर्ज्ञानोत्पत्त्या भ1023वत्यमृतत्वम्। आनन्दश्च वैषयिकं सुखमुपस्थबलादिति प्रसिद्धम्। तथा च प्रजात्यादिगुणविशिष्टं ब्रह्मोपस्थे व्यवस्थितमिति ध्यातव्यमित्यर्थः॥ ५६ ॥

आकाशे सर्वमित्येवं ब्रह्मोपास्यं समाहितैः।
सर्वाश्रयं तदाकाश उपासीनस्य शिष्यते॥ ५७ ॥

सर्वमित्याकाश इत्यस्यार्थमाह—आकाश इति। सर्वाश्रयत्वादाकाशस्य सर्वप्रपञ्चात्मना ब्रह्माऽऽकाशे व्यवस्थितमित्युपा1024सीनस्य सर्वात्मत्वमेव फलं तं यथा यथेत्यादिश्रुतिसिद्धमित्याह—सर्वाश्रयमिति॥ ५७ ॥

तत्प्रतिष्ठेत्युपासीत प्रतिष्ठावानसौ भवेत्।
उपासनानुरूपं स्यात्फलं यादृगिदं तथा॥५८ ॥

आकाशात्मना व्यवस्थितं ब्रह्म प्रतिष्ठागुणविशिष्टमित्युपासकस्य प्रतिष्ठैव फलमिति तत्प्रतिष्ठेत्यादेरर्थमा— तत्प्रतिष्ठेतीति। प्रतिष्ठागुणकब्रह्मोपासने दर्शितन्यायंसर्वोपासकेषु1025 दर्शयति—उपासनेति॥ ५८ ॥

तद्ब्रह्म मह इत्येवमुपासीत ततः फलम्।
प्रजादिभिर्महान्स स्यात्तं यथे1026ति श्रुतिस्तथा॥ ५९ ॥

तन्मह इत्यादेरर्थं कथयति—तद्ब्रह्मेति॥ ५९ ॥

तन्मन इत्युपासीत मनस्वी मानवान्भवेत्।
प्रह्वीभावो नमोर्थः स्यात्फलं तस्येदमुच्यते॥
नम्यन्तेऽस्य यथाकामं विषया भोगकारिणः॥ ६० ॥

तन्मन इत्यादेरर्थमाह—तन्मन इति। आकाशात्मकं ब्रह्म मनोगुणविशिष्टमित्युपासकस्य मनस्वित्वं फलमित्यर्थः। तन्नम इत्यादेरर्थमाह—प्रह्वीभाव इति॥ ६० ॥

यस्तु ब्र1027ह्मेति तद्ब्रह्म ह्युपासीत यथोदितम्॥ ६१ ॥

फलं तस्य तदेव स्यादिति पूर्वमवादिषम्।
ब्रह्मणो ब्राह्मणस्यैव प1028रिमरं ब्रह्म तत्तदा॥ ६२ ॥

तद्ब्रह्मेत्यादेरर्थमाह—यस्त्विति1029॥ ६१ ॥

यथोदितमित्याकाशात्मत्वं ब्रह्मणो निर्दिश्यते। तं यथा यथेति श्रुतिमाश्रित्य फलश्रुतिं व्याचष्टे— फलमिति। पूर्वत्र महत्त्वं प्रजादिभिरुक्तम्।

इह तु विद्ययेति विशेषः। तद्ब्रह्मण इत्यादिवाक्यस्यार्थं दर्शयति—ब्रह्मण इति1030। तदाकाशात्मकं ब्रह्मणो ब्राह्मणस्य परिमरगु1031णविशिष्टमुपा1032सकस्य तस्यामुपासनायां वक्ष्यमाणं सि1033ध्यतीत्यर्थः॥ ६२ ॥

विद्युद्दृष्टिः शशी भानुरग्निश्चेति यतः श्रुतिः।
वायौ म्रियन्त इत्याह परिमरस्तेन कीर्त्यते॥ ६३॥

कथमाकाशस्य परिमरत्वमित्याशङ्क्य वायोरादौ संवर्गश्रुत्यवष्टम्मेव परिमरत्वं दर्शयति—विद्युदिति॥ ६३ ॥

अनन्यश्चायमाकाशो वायुना ब्रह्मणाच ख1034म्।
द्विषन्तश्चाद्विषन्तश्च म्रियन्ते तस्य शत्रवः॥ ६४ ॥

वायोरेव परिमरत्वेऽपि किमायातमाकाशस्येत्याशङ्क्याऽऽह—अनन्यश्चेति। अयमाकाशो वायुना सहानन्यो भवति। तत्कारणत्वेन तदात्मत्वात्। आकाशश्च ब्रह्मणो न भि1035द्यते तत्कार्यत्वेन ततोऽतिरेकाभावात्1036। तेनाऽऽकाशो ब्रह्मणः परिमर इति ब्रह्म परिमरगुणकमित्यर्थः। तथागुणकं ब्रह्मेत्युपासकस्य फलमाह—द्विषन्तश्चेति॥ ६४ ॥

प्राणो वा अन्नमित्यादिवियदन्तस्य पूर्वया।
अन्नान्नादत्वं श्रुत्योक्तं कार्यत्वात्संहतस्य हि॥
अन्नान्नादत्वमस्यैव कथं नाम प्रतीय1037ते॥ ६५ ॥

पर्येणमित्यादिवाक्यद्वयस्यार्थमुक्त्वा प्राणो वा अन्नमित्यारभ्याऽऽकाशोऽन्नादइत्यन्तेन ग्रन्थेनान्नान्नादव्यवहारस्य प्राणादिगतत्वद1038र्शनस्याभिप्रायं प्रकटयति—प्राणो वा इति॥ ६५ ॥

मा भूद्ब्रह्मणि तत्सक्तिर्मनोवाचामगोचरे॥ ६६ ॥

अविद्याविषयस्तस्माद्भोक्तृभोज्यादिलक्षणः।
व्यवहारोऽवसेयः स्यान्न तु सत्यादिलक्षणे॥ ६७ ॥

अस्यैवेत्यवधारणार्थं कथयति—मा भूदिति॥ ६६ ॥

व्यवहारविशेषस्याविद्याकृतत्वं न वास्तवत्वमि1039त्युपसंहरति—अविद्येति।

प्रत्यगविद्याविलसितत्वेनानात्मगतः संसारो नाऽऽत्मनि संभवति। आत्मन्यविद्ययाऽध्यस्तो भातीत्यर्थः॥ ६७॥

अविद्योत्थं द्वयाभासं भोज्यभोक्तृत्वलक्षणम्।
यत्र हि द्वैतमित्याद्या श्रुतिर्नः प्रत्यपीपदत्॥ ६८ ॥

यदविद्योत्थत्वं संसारस्योक्तं तत्र प्रमाणमाह—अविद्योत्थमिति॥ ६८ ॥

यत्र त्वस्येति विध्वस्तसर्वाविद्यातिलक्षणे।
निषेधति सदाऽविद्याध्यस्तं द्वैतमिहाऽऽत्मनि॥ ६९ ॥

अविद्यामन्तरेण वस्तुतस्त्वात्मनि संसारो नास्तीत्यत्रापि श्रुतिमुदाहरति—यत्र त्विति॥ ६९ ॥

एकत्वाच्च न संसारः क्रियाकारकलक्षणः।
कुतस्तदिति चेत्तत्र स यश्चायभितीर्यते॥ ७० ॥

आत्मनि संसारस्याविद्याकल्पितत्वे श्रुतिमुक्त्वा तत्रैवोपपत्तिमुपन्यस्यति—एकत्वाच्चेति। आत्मनो ब्रह्माभिन्नत्वेन तत्र भातसंसारस्य स्यादेव कल्पितत्वं न1040चाऽऽत्मनो ब्रह्माभिन्नत्वं मानाभावादिति शङ्कते—कुत इति। आत्मनो ब्रह्मणा सहैकत्वे प्रमाणत्वेन वाक्यमवतारयति—तत्रेति॥ ७० ॥

सह ब्रह्मणेति यच्चोक्तं निर्णयस्तस्य सांप्रतम्।
कथं नु सकलान्कामानश्नुते युगपद्बुधः।
प्रतिपत्तयेऽस्यार्थस्य श्रुतिः प्रववृते परा॥ ७१ ॥

वाक्यत्रयमात्रस्य तात्पर्यमुक्त्वा समनन्तरसंदर्भस्य समस्तस्यैव तात्पर्यमाह—सहेति। सोऽश्नुते सर्वान्कामान्सहेति यदुक्तं तन्निर्णयार्थं स यश्चायमित्यादिरुत्तरो ग्रन्थः सर्वोऽपीत्यर्थः। तदेव प्रश्नद्वारा प्रकटयति—कथमिति ॥ ७१ ॥

न सहार्थे तृतीयेयं न्यायोऽत्र प्राक्समीरितः।
यतोऽतोऽत्र तृतीयेयं ग्राह्येत्थंभूतलक्षणा॥ ७२ ॥

सर्वकामावाति1041र्विदुषो ब्रह्मरूपेणोक्ता तत्प्रपञ्चनार्थः स यश्चायमित्यादिरुत्तरो ग्रन्थ इत्युक्तमेव व्यक्तीकर्तुं ब्रह्मणा विपश्चितेति तृतीयार्थ

मविवक्षितमपाकृत्य विवक्षितं कथयति—नेत्यादिना। विदुषो ब्रह्मणश्च भेदासंभवो न्यायः1042॥ ७२ ॥

हेत्वर्था वा भवेदेषा तृतीया ब्रह्मणेति या।
सर्वकामाशनं यस्माद्ब्रह्मणैवोपपद्यते॥ ७३ ॥

अर्थान्तरं तृतीयाया दर्शयति—हेत्वर्थेति। तमेव हेतुरूपमर्थं स्फोरय1043ति—सर्वकामेति। सर्वस्य ब्रह्ममात्रत्वाद्ब्रह्मणा हेतुना ब्रह्मविदः सर्वकामाशनमुपपन्नमित्यर्थः॥ ७३ ॥

निरात्मकस्य सर्वस्य ब्रह्माऽऽत्मा येन तत्परम्।
सत्यज्ञानादिरूपत्वात्तदेतदधुनोच्यते॥ ७४॥

सर्वस्य ब्रह्ममात्रत्वं साधयति—निरात्मकस्येति। सर्वस्य प्रपञ्चस्य ब्रह्माऽऽत्मा स्वरूपं यस्मादिष्यते तस्मात्तस्य स्वतो रूपहीनस्य ब्रह्ममात्रत्वं युक्तमित्यर्थः। सत्यज्ञानानन्तानन्दात्मकत्वेन परमार्थत्वं ब्रह्मणो यस्मादिष्टं तस्माद्ब्रह्माऽऽत्मा सर्वस्य प्रपञ्चस्येत्येतदुपपादयति—सत्येति। सर्वस्य प्रपञ्चस्याऽऽत्मा ब्रह्मेत्यत्र वा1044क्यमवतारयति—तदेतदिति॥ ७४ ॥

स यश्चायमिति ह्युक्ति1045रन्नान्नादादिकस्य हि।
ग्रन्थस्य ग्रसनार्थाय ब्रह्मविद्यापरस्य तु॥७५ ॥

स यश्चायमित्यादेरुत्तरस्य ग्रन्थस्य तात्पर्यान्तरमाह—स यश्चेति। अन्नान्नादत्वेन प्रस्तुतस्य समस्तस्य प्रपञ्चस्य ग्रसनं ज्ञानबलेन बाधनम्। तदर्थं च स यश्चायमित्यादिकस्योत्तरग्रन्थस्य ब्रह्मविद्यापरस्योक्तिरब्रक्रियते तस्माज्ज्ञानबाध्यं द्वैतमद्वैतं पारमार्थिकमित्यर्थः॥ ७५ ॥

संक्रम्य विद्यया सर्वानविद्योत्थाननात्मनः।
आत्मनाऽऽत्मानमापन्नः सत्यादृश्यादिलक्षणम्॥ ७६ ॥

एवं तात्पर्यं प्रदर्श्याक्षरार्थं कथयति—संक्रम्येति। स यश्चायमित्यादिवाक्योत्थब्रह्मात्मैकत्वज्ञानात्कोशपञ्चकमनात्मभूतमुपमृद्याऽऽत्मनाऽऽत्मानमद्वितीयं1046सत्यज्ञनादिरूपमप्रपञ्चं ब्रह्म प्रतिपन्नो विद्वानास्ते कृतार्थतयेत्यर्थः॥ ७६ ॥

उत्कृष्टीतरहीनः सन्निमाल्ँ लोकान्क्रियोद्भवान्।
कामान्नी कामरूपी सन्नुपाधीननुसंचरन्॥ ७७ ॥

इमाल्ँ लोकान्कामान्नीत्यादेरक्षरार्थमाह—उत्कृष्टीति। प्रकृतो हि विद्वाब्रह्मभूतः सन्नुत्कर्षापकर्षहीनो बाधितानुवृत्त्या प्रतिभासमानानुपाधीननुसंचरन्नास्त इति संबन्धः॥ ७७ ॥

न हि संचरणं साक्षाद्ब्रह्मणोऽस्त्यविकारिणः।
यत्र हि ध्यायतीवेति तथा च श्रुतिशासनम्॥ ७८ ॥

परमार्थतोऽनुसंचरणमित्याश1047ङ्क्य श्रुतियुक्तिविरोधान्मैवमित्याह—न हीति॥ ७८ ॥

सर्वात्मत्वादिमाल्ँ लोकान्पश्यन्नात्मतया बुधः।
एतद्ब्रह्म समं साम गायन्नास्ते कृतार्थतः॥ ७९ ॥

विदुषोऽक्रियस्य कथं लोकानुसंचरणमित्याशङ्क्य गत्यर्था बुद्ध्यर्था इतिन्यायादनुसंचरणमनुभवमात्र-मित्यङ्गीकृत्यैतत्सामेत्यादि व्या1048चष्टे—सर्वात्मत्वादिति॥ ७९ ॥

द्वेधा भिन्नमिदं सर्वमन्नमन्नाद एव च।
सत्यादृश्यादिरूपात्मा अहमेवैतदीक्ष्यता1049म्॥ ८० ॥

अहमन्नमहमन्नाद इत्यादि सामद्वयं तस्यार्थमाह—द्वेधेति। अन्नान्नादविभक्तं समस्तं जगत्सत्यादृश्याद्यात्मकमात्मरूपमेवेति द्रष्टव्यमिति विदुषो वचनमित्यर्थः॥ ८० ॥

तयोः श्लोकश्च संबन्धो भोज्यभोक्तृत्वलक्षणः।
अहमेव यथोक्तात्मा न मत्तोऽन्यस्ततोऽस्ति हि॥ ८१ ॥

अहं श्लोककृदिति सामान्तरं व्याकरोति—तयोरिति। भोक्ता भोज्यं तयोः संबन्धश्चाहमेवेत्यर्थः॥ ८१ ॥

क्रियाकारकनिर्मुक्तं पश्यन्नात्मानमात्मनि।
त्रिरहो इति भवेत्स्तोभो विस्मयार्थश्चस स्मृतः॥ ८२ ॥

यथोक्तं ज1050गदात्मत्वेन कोऽनुभवतीत्यपेक्षायां विद्वानेवेति वक्तुं तं विशिनष्टि—क्रियेति। हा ३ वु हा ३ वु हा ३ वु। इति स्तोभत्रयम्। तस्यार्थमाह—त्रिरिति॥ ८२ ॥

त्रिरुक्तिश्चाऽऽदरार्थेयमहमन्नमितीष्यते।
अश्रद्दधानलोकस्य प्रतिपत्त्यर्थमुच्यते॥ ८३ ॥

अहमन्नमित्यादावभ्यासत्रितयमस्ति तस्य तात्पर्यमाह—त्रिरुक्तिरिति। अन्नग्रहणमन्नादश्लोककृतोरुपलक्षणम्॥ ८३ ॥

मूर्तामूर्तात्मकस्यास्य ह्यन्नान्नादत्वरूपिणः।
अतद्वानग्रजोऽहं वै न तदश्नाति हि श्रुतिः॥ ८४ ॥

अहमस्मीत्यादिवाक्यस्यार्थ1051माह—मूर्तेति। ऋतं सत्यं भूतपञ्चकं तस्य मूर्तामूर्तरूपस्यान्नान्नादात्मकस्य प्रसिद्धस्य समस्तस्य प्रपञ्चस्य प्रथमजोऽग्रे विद्यमानोऽहं वस्तुतस्तद्विलक्षणोऽस्मीत्यत्र प्रमाणमाह—न तदिति। कार्यात्कारणाच्चब्रह्मभूतस्य विदुषो विलक्षणत्वात्तद्रूपस्य च तद्व्यतिरेकेणाभावाद्युक्तं विदुषो द्विधाभूतात्प्रपञ्चात्तदस्पर्शित्वेनाग्रे स्थितत्वमित्यर्थः॥ ८४ ॥

देवेभ्यः पूर्वमेवाहं नाभिरस्म्यमृतस्य च।
कारणत्वाद्भवेन्नाभिर्मनिष्ठावा1052ऽमृतात्मता॥ ८५ ॥

पूर्वं देवेभ्य इत्यस्यार्थं कथयति—देवेभ्य इति। ऋतशब्देनोपाधीनां गृहीतत्वाद्देवशब्देन चैतन्यामासानां जीवानां ग्रहणात्तेभ्योऽहमामासामासिविभागविकलः शुद्धः सन्नग्रे स्थितोऽस्मीत्यर्थः। अमृतस्येत्यादेरर्थमाह—नाभिरिति। प्रसिद्धममृतं गृहीत्वा प्रत्यगात्मनस्तदाश्रयत्वं नाभित्वं साधयति—कारणत्वादिति। अमृतशब्दस्य कैवल्यार्थत्वं गृ1053हीत्वा कैवल्यस्य ब्रह्मणः स्वरूपं प्रत्यगात्मैवेत्य1054र्थान्तरमाह—मन्निष्ठेति॥ ८६ ॥

अदत्त्वाऽन्न तु पात्रेभ्यो यो मामश्नाति घस्मरः।
अहमन्नमदन्तं तं प्रत्यद्मीहान्नवन्नरम्॥ ८६ ॥

अहमन्नमन्नमदन्तमित्यादेरर्थं कथयति—अदत्त्वेति॥ ८६ ॥

यो मां ददाति पात्रेभ्यो देशकालसमन्वितम्।
दददित्थमसावन्नं मामवत्येव सर्वदा॥ ८७ ॥

देशकालपात्रानुरूपमन्नदानमकुर्वन्प्रत्यवायीत्युक्त्वा तदनुसारेणान्नदानं कुर्वन्नभ्युदयभागी भवतीत्येतदाह—यो मामिति॥ ८७ ॥

सत्यज्ञानादिरूपोऽहमविद्योत्थमशेषतः।
अहं ह्यभिभवाम्येको दिनकृच्छार्वरं यथा॥ ८८ ॥

यो मां ददातीत्यादिना सविशेषरूपस्योक्तत्वाद्ब्रह्म सप्रपञ्चं प्राप्तमित्याशङ्क्य तन्निवृत्त्यर्थमहं विश्वमित्यादेरर्थमाह—सत्येति। कार्यकारणविरही प्रत्यगात्माऽहमित्युच्यते। स चाविद्यामविद्याकार्यं च सर्वं वाक्योत्थबुद्धिवृत्त्यभिव्यक्तः सन्नभिभवति बाधत इत्यर्थः। वाक्योत्थबुद्धिवृत्त्यभिव्यक्तोऽपि प्रत्यगात्मा कर्म ज्ञानाभ्यासं वासहकारित्वेनोपादायाज्ञानमज्ञानकार्यं1055 वा1056परिहरिष्यति न स्वातन्त्र्येणेत्याशङ्क्य सुवरित्यादिवाक्यस्य तात्पर्यमाह—अहं हीति। एषा तावदुपनिषदेवं प्रवृत्ता। यश्चैतामुपनिषदमुक्तेन प्रकारेण प्रतिपद्यते स विद्वान्यथोक्ते परमानन्दे निर्भये ब्रह्मणि तन्मात्रत्वेन प्रतिष्ठितो निर्वृणोतीत्यर्थः॥ ८८ ॥

इति दशमः खण्डः॥ १० ॥

ध्यानैकताननिबिडाहितचेतसोऽजं
प्रध्वस्तकृत्स्ननिजमोहसमस्तदोषम्।
प्रत्यक्तया शुभधियो यतयोऽभ्युपेत्य
यं देवमेकममलं प्रविशन्ति सोऽव्यात्॥ ८९ ॥

इदानीं वल्लीद्वयस्यार्थं संक्षिप्य रक्षणव्याजेन दर्शयन्नुपसंहरति—ध्यानेति। परमात्मनि प्रत्यग्भूते प्रत्ययप्रवाहो ध्यानं तस्यैकतानं ना1057मैकविस्तारः1058 सजातीयप्रत्ययनिष्ठत्वं तस्य च निबिडत्वं विजातीयप्रत्ययानन्तरितत्वेन नैरन्तर्यं तत्र ध्या1059नस्यैकताने निबिडे विशेषणत्रयवति विषयेभ्यः सर्वेभ्यो व्यावर्त्याऽऽहितं तदेकनिष्ठमापादितं चेतो येषां ते ध्यानैकताननिबिडाहितचेतसः श्रवणमनननिदिध्यासनाभ्यासवन्तो यतयो मुख्याः संन्यासिनो यं प्रविशन्ति सोऽव्यादिति संबन्धः। मुक्तोपसृष्येपरमात्मा1060नं जन्मादिसमस्तविक्रियाशून्यत्वेन कूटस्थं दर्शयति—अजमिति। तस्यैव निराकृतस्वाविद्यातत्कार्यत्वेन नित्यशुद्धत्वमाह—प्रध्वस्तेति। पुनरुन्मज्जनायोग्यत्वेन ध्वंसगतो विशेषो1061 वाक्योत्थबुद्धिवृत्तिवशादखण्डो दण्डायमानो निजे स्वात्मन्याश्रयविषये च वर्तमानो मोहो नैसर्गिकस्तज्जन्यदोषश्च कर्तृत्वादिः समस्तः संसारो यत्र तं परमात्मानमिति योजना। तस्यैव शास्त्रयुक्तिसिद्धं स्वयंप्र1062भत्व1063माह—देवमिति।

तस्यैव सर्वप्रकारभेदशून्यत्वेनाद्वितीयत्वमाह—एकमिति। प्रध्वस्तेत्या दिना नित्यशुद्धत्वस्योक्तत्वान्नित्यमुक्तत्वं कथयति—अमलमिति। केन मार्गेण संन्यासिनो यथोक्तं परमात्मानं प्रविशन्तीत्यपेक्षायां पदार्थपरिशोधनद्वारेण प्रकृतपरमात्मानमभ्युपेत्याऽऽभिमुख्येन प्रत्यगात्मत्वेन वाक्यज्ज्ञात्वा तेन ज्ञानमार्गेणतं प्र1064विशन्तीत्याह—प्रत्यगिति। येषां यतीनां ज्ञानप्राप्तिद्वारा परमात्मप्रवेशस्तान्यथोक्तज्ञानप्राप्ति-योग्यान्विशिनष्टि—शुभेति। वर्णाश्रमानुरोधिशुभकर्मानुष्ठानापेक्षया निर्मलान्तःकरणविवेकवैराग्यद्वारेण सर्वकर्मसंन्यासिनो भूत्वा शमदमादिसाधनसामग्रीसंपन्ना मोक्षमेवापेक्षमाणा यथोक्ततत्त्वज्ञानद्वारा यं प्रविशन्ति सोऽव्यात्। आत्मप्रदानेन मुमुक्षून्ब्रह्मनिष्ठान्परिरक्षतादित्यर्थः॥ ८९ ॥

तैत्तिरीयकसारस्य वार्तिकामृतमुत्तमम्।
मस्करीन्द्रप्रणीतस्य भाष्यस्यैतद्विवेच1065नम्॥ ९० ॥

आशीर्वादव्याजेन वल्लीद्वयार्थं संक्षिप्योपसंहृत्य प्रकृतं वार्तिकमिदानीमुपसंहरति—तैत्तिरीयकेति। मस्करो वैणवो दण्डः। तदुपेतानां संन्यासिनां श्रेष्ठो भगवान्माष्यकारः। तेन प्रणीतं यत्तैत्तिरीयकशाखासारस्योपनिषद भाष्यं तस्यैतद्विवेचनम्। वार्तिकामृतं सर्वदोषरहितं निरतिशयपुरुषार्थसाधनम्। सुरेशाख्यो1066 यतिश्चकारेति संबन्धः॥ ९० ॥

मुमुक्षुसार्थवाहस्य भवनामभृतो1067 यतेः।
शिष्यश्चकार तद्भक्त्या सुरेशाख्यो1066 महार्थवित्॥ ९१ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवत्पादपूज्यशिष्यस्यश्रीमत्सुरेश्वराचार्यस्य कृतिषु तैत्तिरीयकोपनिषद्भाष्यवार्तिकं संपूर्णम्॥

संप्रदाय पूर्वकत्वेनास्य वार्तिकस्य विद्वदुपादेयत्वं सूचयति—मुमुक्षुसार्थवाहस्येति। मुमुक्षवो मोक्षमेवापेक्षमाणाः साधनचतुष्टयविशिष्टाः संन्यासिनस्तेषां सार्थः समूहस्तं वहति तत्र निर्वाहकत्वेन वर्तते भगवा-

न्माष्यकारस्तस्य यतीनामग्रेसरस्य भवस्य भगवतो महादेवस्य नाम शंकराख्यं विभ्रतस्तेनैव नाम्ना सर्वत्र प्रख्यातस्य सुरेश्वरसंज्ञया लोके विख्यातो यतिः शिष्योऽभूत्। स च तस्यैवाऽऽचार्यस्याऽऽज्ञां परिपालयन्नाचार्यभक्तिमेव पुरस्कृत्य यथोक्तं वार्तिकं चकारेति योजना। भक्तिमात्रेण कृतस्य वार्तिकस्य कथं विद्वद्भिरुपादेयत्वं तत्राऽऽह—महार्थविदिति। महान्तं बहुप्रकारमबाधितं चार्थं वेत्तीति तथोच्यते। तथा च तेन प्रणीतमिदं वार्तिकामृतं वृद्धैः श्रद्धेयमेवेत्यर्थः॥ ९१ ॥

परापरगुरून्नत्वा संप्रदायानुसारतः।
व्याकृतं संग्रहेणैव तैत्तिरीयकवार्तिकम्॥ १ ॥

सा चेयं व्याक्रिया प्रीतिं भगवत्येव कुर्वती।
चिराय वर्ततां कृष्णे तृष्णां त्यक्त्वाऽन्यगामिनीम्॥ २ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानविरचिता तैत्तिरीयकवार्तिकटीका समाप्ता॥

———

]


  1. “ख. ङ.कमकलं। ग. घ. कसकलं” ↩︎

  2. “क. मि तद्वा।” ↩︎

  3. “ग. घ. य. शा।” ↩︎

  4. “क. मुख्यतः।” ↩︎

  5. “ग. घ. क्तभ्रा।” ↩︎

  6. “ग. घ. तत्सिद्धि।” ↩︎

  7. “ग, घ, ङ. च. एकेति।” ↩︎

  8. “म. षयमाह। " ↩︎

  9. “ग. घ, ङ. च. तो बो।” ↩︎

  10. “ग, घ, ङ, च. भिवदति।” ↩︎

  11. “ग, घ, व स्व।” ↩︎

  12. “ग. घ. चन्ते।” ↩︎

  13. “च,निवार।” ↩︎

  14. “ङ. कामाः।” ↩︎

  15. “च. ‘नकर’।” ↩︎

  16. “ग. घ. ‘जिघांस’।” ↩︎

  17. “ग, घ, च, ‘कक’।” ↩︎

  18. “घ. देहहे।” ↩︎

  19. “ङ. वात्प्रा।” ↩︎

  20. “ग.भवरूपप्रमाणस।” ↩︎

  21. “ग.थ. ‘तिषिद्ध’।” ↩︎

  22. “च. म्भकरणेन निब।” ↩︎

  23. “ग. घ. ‘देहभो’।” ↩︎

  24. " क. ख. त्यनुवा।” ↩︎

  25. “ग, घ, ङ,‘हेतुर्नस्त’।” ↩︎

  26. “ग. घ. ये स्वतः।” ↩︎

  27. “ग. घ. भाष्योत्त।” ↩︎

  28. “ग. घ. त्यानां चाक्त्रि।” ↩︎

  29. " ङ. त्वौति स।" ↩︎

  30. “ग. घ. ङ. च. त्यानां चेति।” ↩︎

  31. “ग. घ.क्षेक।” ↩︎

  32. “ग. घ. कत्वान्नच। च. कत्वंभवम्भतेज्ञा।” ↩︎

  33. “ग. घ. लकारित्वं।” ↩︎

  34. “ग. घ. ति नावि।” ↩︎

  35. “घ.क °मध्युप°” ↩︎

  36. " घ. च. °वत्त्वा°।" ↩︎

  37. “ङ. व. °त्वमपीति।” ↩︎

  38. “ग. घ. °वत्त्वं ना°” ↩︎

  39. “ग °कार्ये वा°। " ↩︎

  40. “ग अ °बाणादिव°।” ↩︎

  41. “क °र इत्य°।” ↩︎

  42. “ग. घ. °द्याविच्छिं°। ङ. °द्याद्युच्छि°।” ↩︎

  43. “ग. ध. °न्यप्यव°।” ↩︎

  44. " ग. भ. °द्या यैवा।” ↩︎

  45. “ग.घ. °मित्युपप्रे।” ↩︎

  46. “क. च. °दि वि°।” ↩︎

  47. “घ. च. कं परं ब्रं।” ↩︎

  48. “ड. र्थ्यत इहेति स।” ↩︎

  49. “ग. घ. षयीभू। " ↩︎

  50. “क. स्तीणोक।” ↩︎

  51. “च. न्दते कियत्।” ↩︎

  52. “ग. घ. स्कृत्वा प्र।” ↩︎

  53. “ड. संवृत्तेना। च. णकृताश। " ↩︎

  54. “ङ. व मे रा। " ↩︎

  55. “क. ख.कियया।” ↩︎

  56. “ग. घ. ङ. च. त्यस्यार्थ। " ↩︎

  57. “ग. घ. च. त्वात्वामे।” ↩︎

  58. “क. वाक्यार्थ।” ↩︎

  59. “क. ख. ङ. ºक्षतीतिº। " ↩︎

  60. “घ ङ. ºको व।” ↩︎

  61. “ग.घ. ङ.च. ºङ्का परिहरति विº।” ↩︎

  62. “ग.घ. च. ºस्य क°” ↩︎

  63. “क.ख . म्मात्राः प्रº।” ↩︎

  64. “क. ख. विसर्जº।” ↩︎

  65. “क. ख. ङ. ºदि गृह्यº।” ↩︎

  66. “ग. घ. ङ. च. ‘दि व।” ↩︎

  67. “ग. घ. ङ. च. ºदि वº।” ↩︎

  68. " च. श्यं विधिक्रमेण हूº। " ↩︎

  69. “ग. प. ºविना क्रमेण हृº। " ↩︎

  70. “ग. घ. ङ. च. ºत्वमित्याह।” ↩︎

  71. “ग. घ. °ते स स्व°। " ↩︎

  72. “ग. घ. °नाऽनु°। " ↩︎

  73. “गः घ. °स्येति लि°।” ↩︎

  74. “ग.घ. ‘शब्दस्त्र’।” ↩︎

  75. “ग, घ, च. शब्द ।” ↩︎

  76. “ग.घ.च. ‘नसि।” ↩︎

  77. “क.ख.‘किक्या प्र° " ↩︎

  78. “ग.घ.‘धादा’। " ↩︎

  79. “क. ख. ‘किक्येति।” ↩︎

  80. “क. ख. ग.घ.विस्तरा।” ↩︎

  81. “ग. घ. मन्नान्तेषु। " ↩︎

  82. “क. स्व. कृष्टार्थे।” ↩︎

  83. “क. ख. कृष्टार्थ।” ↩︎

  84. “ड. क्षित्वा। " ↩︎

  85. " ग. घ. यः। शीलेऽर्थे सुवेश्मसु वस। च यः। शीलेऽर्थे सुस्तेन वसु’बेस’। " ↩︎

  86. “ख. ‘यें वेश्मसु वस°। ङ. ’ स्ववेश्मसु बस।” ↩︎

  87. “क. ख. ग. घ. ‘बायान्तु।” ↩︎

  88. “घ. च. त्यर्यार्थमा।” ↩︎

  89. “क. ख. ग. घ. तुथीं तु।” ↩︎

  90. “क. ङ. लोका दे ।” ↩︎

  91. “ङ. ‘नोक्तं म’ ।” ↩︎

  92. " ग कल्पन्ते ।” ↩︎

  93. “. क्षणसि” ↩︎

  94. " प. " ↩︎ ↩︎

  95. “क. ज. ति बोच्य० ।” ↩︎

  96. " ग. घ. ङ. हवैवं पु।” ↩︎

  97. “ग. घ च. °वान्येत्या°।” ↩︎

  98. “क. °तुर्धा।” ↩︎

  99. “ग. घ. ङ. राज्ये प्रा०” ↩︎

  100. “च. त्वेनैकस्य ब्र०” ↩︎

  101. “ग. घ. न्द्रस्य प” ↩︎

  102. “क. ख. त्मनो भ०” ↩︎

  103. “च. स्य वि०।” ↩︎

  104. “ग. घ. मिदं व” ↩︎

  105. " क. ख. ‘यव” ↩︎

  106. " ग. घ. न्तरव्या०” ↩︎

  107. “ङ. मेत०” ↩︎

  108. “ग. घ. ङ. स्यैव भौ०” ↩︎

  109. “च. ºद्ध्यर्थेतिº।” ↩︎

  110. “ख. ड. त्यं नैव व।” ↩︎

  111. “ख. माना ही०” ↩︎

  112. “ग. घ. ‘दित्युच्य०” ↩︎

  113. “च. तन्त्र्यं प०” ↩︎

  114. “क. ख. भिप्रयु०” ↩︎

  115. “क. ख. लक्ष०” ↩︎

  116. “ग, घ, ङ. ‘वर्त्यते।” ↩︎

  117. “ङ. च. ‘स्य च च’। " ↩︎

  118. " ग.घ.ङ.च. वर्त्यते।” ↩︎

  119. “ग. घ. क्षणं प्राप्तुं।” ↩︎

  120. " ग.घ. तथाचे’।” ↩︎

  121. " च सूचनमु। " ↩︎

  122. “ङ. च. शयं फ।” ↩︎

  123. " क. ख. ०ल्यति०।” ↩︎

  124. " क. ख. ग. घ. ङ. व दृष्टा " ↩︎

  125. " ग. घ. ङ. ‘चैवं रु।” ↩︎

  126. " क. ख. प्रवृत्तये। अ°” ↩︎

  127. " ङ. अयं यं।” ↩︎

  128. “क. ख. हेतुः संभ’।” ↩︎

  129. " क. ख. ‘त्यादिश्रु°।” ↩︎

  130. " क. ख. ‘रेव श्र°” ↩︎

  131. " ग. घ. की वाथ।” ↩︎

  132. " ग. घ. तीह यः।" ↩︎

  133. " घ. ‘प्रोति आप्ता’।" ↩︎

  134. " ग घ ‘विद्वा। य वित्परं।" ↩︎

  135. “ग. घ. परस्याप्ति।” ↩︎

  136. " ग. घ. च. ‘थं वि° ।" ↩︎

  137. “ङ. यद्यौपि ।” ↩︎

  138. " ग घ च मात्सिद्धा । " ↩︎

  139. " घ ङ. ख्यावाप्ति ।" ↩︎

  140. “क. ख. ‘तौ शब्दार्थत’। " ↩︎

  141. " ग. घ. च. ‘त्वाज्ज्ञाना। " ↩︎

  142. “ग. घ. सोऽन्वेति।” ↩︎

  143. " ग. घ. ङ. च. ‘मीतीति।” ↩︎

  144. " ग, घ, °स्यैव त।" ↩︎

  145. " ग. ड. ‘कर्तृभो।" ↩︎

  146. “क. ख. तृत्वज्ञा।” ↩︎

  147. “क. ख. “र्तृत्वज्ञा।” ↩︎

  148. " ग. घ. ‘लक्ष्यते।" ↩︎

  149. " च. षसंश्रया द्द।" ↩︎

  150. “ग ‘ष्टिस्वरूपे।” ↩︎

  151. " ग. क ‘परब्र’। " ↩︎

  152. " ग. घ. ‘ल्ल्यर्थे सू.।" ↩︎

  153. " क. ॰न्येव स°।" ↩︎

  154. " ङ. ‘ज्ज्ञानं य’। " ↩︎

  155. " ग. घ. व्यक्तभित।" ↩︎

  156. “प ‘तानन्दप°। च " ↩︎

  157. " क. ग. ०दाज्ञातं स्या०।” ↩︎

  158. " ग, घ, ङ. च ०दिगु०।" ↩︎

  159. " ग. घ. ०पि च न।" ↩︎

  160. “ख ग घ ०बन्धल०।” ↩︎

  161. " ग. घ. ०वत्तिव०।" ↩︎

  162. " ग, घ, पत्तेर्यत्र ल°।" ↩︎

  163. " ग, घ, तथा चान्य०।" ↩︎

  164. “ग, घ, ०क्ष्यस्य ल०।” ↩︎

  165. “क. ख, ‘वर्तते।” ↩︎

  166. “ग घ.वावका” ↩︎

  167. “ख. ङ. ०तत्स्यात्का०।” ↩︎

  168. " क. ख. ‘षये ज्ञा°।" ↩︎

  169. " क, ख, ‘टस्थचै’।" ↩︎

  170. “ग. घ. “थाभा।” ↩︎

  171. " ग. घ. ङ. च. ‘न प’।" ↩︎

  172. “ख. घ ङ ङ. च मूषिका°।” ↩︎

  173. “ग घ. ॰दात्पर॰। " ↩︎

  174. “च. ॰तीत्या परमार्थत्वासत्यादेर॰। " ↩︎

  175. “क. ख. ॰र्थसत्यादि॰। " ↩︎

  176. “घ. ॰सत्त्वादे॰। " ↩︎

  177. “ग. ॰त्यात्सत्या॰।” ↩︎

  178. " ग. “थोवबोध्यत्वा°।” ↩︎

  179. “ग. ‘थोवबोध्यत्वा’।” ↩︎

  180. “ख ग घ ‘तिवाका।” ↩︎

  181. “क. ख. त्वेव नी।” ↩︎

  182. “ङ. त्राशात्पूर्वोत्तरकालविषो घटे न स्या।” ↩︎

  183. " क. ख. ‘पक्षे क्ष ।” ↩︎

  184. " ग. घ. द्धिकथं सतम्।” ↩︎

  185. " ग. ‘त्वं वा क्ष°।” ↩︎

  186. “ङ क्यस्य श।” ↩︎

  187. “क.ग.कत्वोप।” ↩︎

  188. “ग. घ.शुन्यते।” ↩︎

  189. “ष. ॰र्थत्वनि ।” ↩︎

  190. " ग. घ. ङ.नाङ्या च प।" ↩︎

  191. “क. शिष्टैर्विशे। " ↩︎

  192. " ग घ ‘वाल्लक्ष्य।” ↩︎

  193. " ङ. ॰त्यादिप°।" ↩︎

  194. " क॰ ख. पूर्वत्वे। " ↩︎

  195. “ख ग घ ‘योरेक्यार्था।” ↩︎

  196. " क. म्यः। संभेदो।" ↩︎

  197. “ग थ. मोर्भेदे।” ↩︎

  198. “च कृत्य त्वयोक्तं।” ↩︎

  199. “ग. घ. व नेत्या’।” ↩︎

  200. " ग. घ. ‘कृतस्याना। " ↩︎

  201. “ग घ. च. “त्मा च ब्र°। " ↩︎

  202. “ग, घ, ङ. स्थूलादि।” ↩︎

  203. " ग घ र्थात्म’।” ↩︎

  204. “म. घ. ‘शब्दस्यार्थ” ↩︎

  205. " ग. त्परत्र ।" ↩︎

  206. " ग. घ. ‘नस्तुतत्क ।" ↩︎

  207. “ग.च. कल्पन्ते ।” ↩︎

  208. " ग. ङ. ॰न्दयता°। " ↩︎

  209. “ग. घ. च. °तो वृ°। " ↩︎

  210. “च. न्यं कर्तृत्वे°।” ↩︎

  211. “ग.घ बुद्धयभा” ↩︎

  212. “ग. घ. ‘स्तदभा°। " ↩︎

  213. “क. ‘मेकं चै’ च. ‘मेकचे’। " ↩︎

  214. " ङ, च, ‘र्वविकि°।” ↩︎

  215. “गु. घ.ह्म कर्तृ। " ↩︎

  216. “ग. घ.°तोऽवाच्यत्वं ब्रह्मणः सि°।” ↩︎

  217. “ग. घ. °न सूच्य°।” ↩︎

  218. “ग घ. च. “त्मबर्गोऽनृ ।” ↩︎

  219. “क. ३ ग. घ. °वृत्यज्ञा°।” ↩︎

  220. “ङ. °डस्य दुः°।” ↩︎

  221. " घ. ङ च °दलक्षणस्य नि°। " ↩︎

  222. “क. ख . °द्भिन्नार्थो°।” ↩︎

  223. “पदार्थानां परस्परसंसर्गः संबन्धः स एव वाक्यार्थ इत्यभिधानवादिनो भट्टः। परस्परं संबद्धाः संसृष्टाः पदार्था एव संसृष्टसंज्ञको वाक्यार्थ इत्यभिहितान्वयवादिनः प्रभाकराः। इति मीमांसकमते द्विविधो वाक्यार्थः।” ↩︎

  224. " क. ख °द्भित्रार्थो°।” ↩︎

  225. “क. ख. द्धार्थष। " ↩︎

  226. “ग घ च °यत्तु प्रत्य°।” ↩︎

  227. “क ख दकषा।” ↩︎

  228. “८ ग घ °स्य त°।” ↩︎

  229. “ङ. ०ह्म ज्ञेयत्वेन न व०।” ↩︎

  230. “ग घ ङ च ०कर्तृस०।” ↩︎

  231. “ग. घ. ०रादत्र०।” ↩︎

  232. " ख ०ते तत्र।” ↩︎

  233. “च ‘तिभावः।” ↩︎

  234. “ग, घ, ‘श्च मु।” ↩︎

  235. " ङ. विस्फारि०।” ↩︎

  236. “ख. ०तवत्कृत्वा०।” ↩︎

  237. “ग घ ङ च ०स्या ब्र०। " ↩︎

  238. " ग घ च०च्छिन्नमू०।” ↩︎

  239. “ग. घ. ०यावका०।” ↩︎

  240. “ग. घ. ‘तात्प्रमाणान्त।” ↩︎

  241. " ग घ ‘त्मकत्वात्प।” ↩︎

  242. " ग. य. कत्वम " ↩︎

  243. “म धिकस्य।” ↩︎

  244. “ग घ.ङ . क्षणं ब्र°।” ↩︎

  245. “ग. ब.°प्तं ह्यापे°।” ↩︎

  246. “ख. ङ. च भेदाश’।” ↩︎

  247. “ग .च ०प्तं संभ०।” ↩︎

  248. " क. स. द्धिरित्वषि" ↩︎

  249. “ग घ. तं दृश्यं मिथ्या व रुत्यवत्॥१७॥” ↩︎

  250. “°भूते म्र°। " ↩︎

  251. “च. °क्षाद्ब्रह्म°। " ↩︎

  252. " घ. °ब्रह्मवि°। " ↩︎

  253. “क. ख. °र्हार्दगु°।” ↩︎

  254. “क.ख °लभ्यते।” ↩︎

  255. “क. °णा हि वि°।” ↩︎

  256. “ङ, °विपश्चिद्ब्र°।” ↩︎

  257. “ग घ. दो ॰ब्रह्मवि॰।” ↩︎

  258. " क. ख. ‘सूचितः।” ↩︎

  259. “क. ख. त्वात्तहं।” ↩︎

  260. " च. ॰त्वमित्या॰।” ↩︎

  261. “ङ.॰मुख्यार्थः।” ↩︎

  262. “ग घ. प्रसक्तेन। " ↩︎

  263. “ग, घ, ॰णलि°।” ↩︎

  264. " ग, घ, ॰रुत्पद्यते।” ↩︎

  265. “ग. घ. ‘तीयपं।” ↩︎

  266. " ग. घं. ‘तत्येन ब्रह्म।" ↩︎

  267. “ग. घ. नाद्यः स्त्र।” ↩︎

  268. " ग, घ, च. ॰रणसं॰।" ↩︎

  269. “ग, घ, ङ. च. सज्जन्यते।” ↩︎

  270. “च. ॰वमेते॰।” ↩︎

  271. " ग, घ, ॰दिरु॰।" ↩︎

  272. “ग. घ. °द्योत्थो मू°। " ↩︎

  273. “ग. घ. शाद्ध्रुव। " ↩︎

  274. “ग. घ. ‘मुद्भेदा।” ↩︎

  275. “ग घ च. ‘कीयगुणैः” ↩︎

  276. “क म. ये। का।” ↩︎

  277. “च॰ ॰थिव्यां स°।” ↩︎

  278. “क. च. इत्युक्तं। ख. इति यु’।” ↩︎

  279. “घ. ॰ह्मत्कव्यं॰।” ↩︎

  280. “ख. ग. घ. ॰दिकर॰। " ↩︎

  281. " ग घ च ॰तम॰।” ↩︎

  282. “ग. °न्नुब्र°।” ↩︎

  283. “ङ, ॰गतः। का॰।” ↩︎

  284. “ग. घ. ॰र्यताव्य॰ ।” ↩︎

  285. “क. ख. ॰त्येवंवि॰। " ↩︎

  286. “च यव्यं। " ↩︎

  287. “ग. ‘हारप’। " ↩︎

  288. “क. ख. च्छिन्नसू°।” ↩︎

  289. “च. ‘यव्य ।” ↩︎

  290. “तदन्नं।” ↩︎

  291. “ग, घ, ङ. च. ‘रूपप°।” ↩︎

  292. “क. ख.°पहता°।” ↩︎

  293. " ग घ ‘जमुक्त्वा। " ↩︎

  294. “ग. घ.°जमूक्त्वा°।” ↩︎

  295. “ग. घ.°त्मानोऽना°।” ↩︎

  296. “च.°नाद्यनि°।” ↩︎

  297. “ग. घ. च.°विशिष्य°।” ↩︎

  298. “क. ख.°जने°।” ↩︎

  299. “क. °नं कार°। " ↩︎

  300. " च. °रित्यन्तम°।” ↩︎

  301. " ग. ङ. °शकलि°। ग. घ. °शकललि°।” ↩︎

  302. “च. च्छेदकः स्या°।” ↩︎

  303. " च. °यहे°।” ↩︎

  304. “च रीराव’। " ↩︎

  305. “क. ख. परमात्म°।” ↩︎

  306. “क. ख. परमात्म°।.” ↩︎

  307. “कः ख. स्वप्नसि°।” ↩︎

  308. " ख. °क्ताव°।” ↩︎

  309. " क. ख. स्वप्नसि°।” ↩︎

  310. “ग. घ. °देव सि°। " ↩︎

  311. “क.°वसोऽन्ध°।” ↩︎

  312. " ङ. च. °वधार्य°। " ↩︎

  313. " ग. घ. सा युक्ताः।” ↩︎

  314. “क. ख. °मित्रादिव°।” ↩︎

  315. " च. °द्यारू° ।” ↩︎

  316. “ग. घ. ०त्वं च न०।” ↩︎

  317. " ग. घ. त्वं च न ।” ↩︎

  318. “क. ख. ङ. च. ‘मित्रादिव। " ↩︎

  319. “क. ख.०त्मा प्रवि०।” ↩︎

  320. " ख. च. ‘द्योनिप्र’ ।” ↩︎

  321. " ग. घ. निषेध्या भ ।" ↩︎

  322. “ङ, ‘स्याप्यभिजा। " ↩︎

  323. " क. ख ‘तजी।” ↩︎

  324. " ग.घ.च. कथयति।" ↩︎

  325. " ग.. घ. भूता मयाऽसया पुरा मर्म।" ↩︎

  326. “क. ख . ॰सस्य दुःखादि॰। " ↩︎

  327. “.ग. घ. ‘चौ कृमिभा।” ↩︎

  328. “ङ हत्कृष्टं। श्च ‘हदनिष्टं। " ↩︎

  329. “क. ख. घ. °परितः।” ↩︎

  330. " क. ख. ड. ॰मरुजा। " ↩︎

  331. “ग. घ. च. प्राप्य दुः।” ↩︎

  332. " क. ख. ॰स्फोरयति।” ↩︎

  333. “घ.घर्षा चल।” ↩︎

  334. " क. ख. प्रकर्षे॰।” ↩︎

  335. “ग. घ. त्युनाऽवरः। " ↩︎

  336. “क. ख. ‘लभ्यते॥१४॥ घ. लप्स्यते॥१४॥” ↩︎

  337. “क. ख.ºत्साशङ्क्याह।” ↩︎

  338. " क. ग. स्थूलदेहा°।” ↩︎

  339. " ग. घ. व. ॰वस्य।" ↩︎

  340. " ग, घ. ॰सु वै॰।" ↩︎

  341. “क. ख. पुंवाचो . जा॰।” ↩︎

  342. " क. खं. ॰न्नं भ°।" ↩︎

  343. “क. ख. ॰क्ये पु॰।” ↩︎

  344. “ग घ ङ. च. ॰गुक्तग॰।” ↩︎

  345. " च ॰निष्टास्तथा॰।" ↩︎

  346. “ग घ. र्मणि।” ↩︎

  347. " ग. घ. ॰मविवेककृ॰।" ↩︎

  348. “क. ख. ॰त्यात्म्याभि°।” ↩︎

  349. “क. ख. स्थूलदे°। " ↩︎

  350. “ग. घ. च. ॰विद्यावि॰।” ↩︎

  351. “ग. घ. ॰योरिव॰।” ↩︎

  352. " ङ. ॰दर्श्यते।” ↩︎

  353. " क. ख. ॰ह्म दृश्यते। " ↩︎

  354. “ग. घ. थेत्यत आह।” ↩︎

  355. “क. ख. ॰कोक्त्युप॰।” ↩︎

  356. “ग घ. ॰स्पर्शो न।” ↩︎

  357. " घ. ‘त्युक्त्वाऽत्रा०’। " ↩︎

  358. “ङ. क्तिविभा’।” ↩︎

  359. " क. ख. ॰यात्मिका।.." ↩︎

  360. “ग घ. ङ. ॰त्यादेस्तात्प॰।” ↩︎

  361. “ग घ. ॰नार्थे शि॰। " ↩︎

  362. “क.॰क्षरार्थे।” ↩︎

  363. " ग. घ. °येन वि°।” ↩︎

  364. " ग.घ.°बं सति स°।" ↩︎

  365. " क. ख. °षु कार°।" ↩︎

  366. “ग. घ. ङ. च. °रेण घ्र°।” ↩︎

  367. “घ. ङ. च. °त्वज्ञा°।” ↩︎

  368. “क. ख. °नैवं को°।” ↩︎

  369. “ग. घ.°त्मत्वं।” ↩︎

  370. “ग. घ. °तीह वै।” ↩︎

  371. “ग. घ. °त्याह।” ↩︎

  372. " ख. ङ. °रार्थोनि°।" ↩︎

  373. “ङ. °क्तमस्यप्र°।” ↩︎

  374. “च. °रः स्पर्शशुन्यस्य प्र°।” ↩︎

  375. “क. ख. ॰त्वाच्च यत्र।” ↩︎

  376. “ङ. ॰दिकं प्रा॰।” ↩︎

  377. “ङ. ॰रं जायते।” ↩︎

  378. “ग. घ ॰न्ते तेन बृं॰।” ↩︎

  379. “ङ. ॰स्यान्नं ते॰।” ↩︎

  380. “ख. ॰ठराग्नि॰।” ↩︎

  381. “ग.घ.ङ. ॰त्मं देव॰।” ↩︎

  382. “ग.घ. ङ. °ण्डिके।” ↩︎

  383. “ग. घ. ङ. °य त्वन्नं।” ↩︎

  384. “ङ. च. °नैनोच्य°।” ↩︎

  385. " ग. च. °चान्नरू°।" ↩︎

  386. “घ. ङ. °रूपिणा वि°।” ↩︎

  387. " ग. घ. ददनाच्च तथा°।" ↩︎

  388. “ग.°त्ति चाद्य वा°।” ↩︎

  389. “ग. घ. °वितवाक्यत्र°।” ↩︎

  390. “ग. घ. °न स्मा°।” ↩︎

  391. “क. ख. °ज्येत ते°।” ↩︎

  392. “क. ङ. °राजास्मा°।” ↩︎

  393. “ग. घ. डं. °णत्द्यात्म°।” ↩︎

  394. “ग. घ. °यथोक्तोऽथः।” ↩︎

  395. “च. र्पइव पूर्व॰।” ↩︎

  396. “ग. ॰त्याशङ्कामाह।” ↩︎

  397. “ग. घ. ॰तप्रा॰। " ↩︎

  398. “क. ख. ॰क्तगतद्रु॰।” ↩︎

  399. " ख. च. ॰कल्पते।” ↩︎

  400. “ग.घ. ॰था ध°।” ↩︎

  401. “ख. ङ. °र्तिता।” ↩︎

  402. “ग. घ. °ष्ठादिस्थि°।” ↩︎

  403. “ग. घ. °रिति श्रु°।” ↩︎

  404. “ग.घ.ङ. °धि देव°।” ↩︎

  405. “ङ. °बता। प्रा°।” ↩︎

  406. “क. ख. °मापाद्य।” ↩︎

  407. “ङ. °थैनां मृ°।” ↩︎

  408. " क. ख. °सर्वैः प°। " ↩︎

  409. “क. ख. °य्यैव यः।” ↩︎

  410. " ग. घ. °बात्म°।" ↩︎

  411. “क. मुख्यत्वा°।” ↩︎

  412. “ग. घ. °त्मता तस्य।” ↩︎

  413. “ङ. °त्मत्वमात्मत्वं तु।” ↩︎

  414. “ग. घ. व. °जुः शि°।” ↩︎

  415. “ग. °षा प्र°।” ↩︎

  416. “ख. घ. ङ. °त्नोत्था मा°।” ↩︎

  417. “ग. घ. °न्तरम°।” ↩︎

  418. “ग. घ. °मयत्वं प्र°।” ↩︎

  419. “ग.घ.श्रोत्रस्य मनसश्चै°।” ↩︎

  420. “क. ख. °नरू°।” ↩︎

  421. “च. °नसज°।” ↩︎

  422. " ङ. न चावत्तिरिति।" ↩︎

  423. “ग. घ.°धाग्नैव°।” ↩︎

  424. “ङ.च. ॰वृत्या न्यायवृत्ति॰।” ↩︎

  425. “ग. घ. ॰लकत्वं।” ↩︎

  426. “ङ. च. ॰सज॰।” ↩︎

  427. “च. ॰मिच्यत आ॰।” ↩︎

  428. “ख. ङ. ॰जुः स्याद्बुद्ध्युपा॰।” ↩︎

  429. “ङ. ॰त्मत्वव्य॰’।” ↩︎

  430. “ग. घ. ॰व्याप्यत्वे॰।” ↩︎

  431. “क. ख. ॰त्वमभीष्टमि॰।” ↩︎

  432. “क. ख. ॰जडश॰।” ↩︎

  433. “क. ख. ॰त्मस्वरू॰।” ↩︎

  434. “ग. घ. वाऽऽस्थि॰।” ↩︎

  435. “ग. घ. ॰ब्दबो॰” ↩︎

  436. “क. ख. °ध्यतीति°।” ↩︎

  437. “ग. घ. °त्वान्नैव°।” ↩︎

  438. " ग. घ. °रसो दृष्टाःशान्ति पु°।" ↩︎

  439. “ग. घ.श्लोकेऽपि।” ↩︎

  440. “ग. घ. ङ. °नोऽप्यस्मा°।” ↩︎

  441. “ङ. च. °यत्वं मनो°।” ↩︎

  442. “ग. घ. °स्मात्तस्मा°।” ↩︎

  443. “क. ख. न गो॰।” ↩︎

  444. “ग.घ. ॰ते वा॰।” ↩︎

  445. " ग. घ. ॰ङ्कय प्र॰। " ↩︎

  446. “ग. घ. ॰भेति।” ↩︎

  447. " ग.घ. ङ. ॰धान्नैव॰।" ↩︎

  448. “ग.घ.°स्मृतेर°।” ↩︎

  449. “ग. घ. °धीरसौ।” ↩︎

  450. " ख. ग. घ. ङ. °णि हि°॥ ११ ॥" ↩︎

  451. “ग. घ. ॰मानतः॰। " ↩︎

  452. “क. ख. ॰रूपाप॰।” ↩︎

  453. “ख. ॰स्य पूर्व॰।” ↩︎

  454. “ग. घ.॰र्वकामफ॰।” ↩︎

  455. “ग. घ. ॰स्य का॰।” ↩︎

  456. “ङ. च. ॰त्पर्यमा॰।” ↩︎

  457. “क.ख.॰ह्यत्वप्रा॰।” ↩︎

  458. “क. रार्थं य॰।” ↩︎

  459. “ग. घ. °त्वे म°।” ↩︎

  460. “क. °त्मनो हि°।” ↩︎

  461. “क. ग. घ. °मात्माभा°।” ↩︎

  462. “ग. घ. क्रमणं वा।” ↩︎

  463. “ग.घ. °कृतेः क्ऌप्तेरत्र मू°।” ↩︎

  464. “क. ख. °र्तामूर्ताद्य।” ↩︎

  465. “ग. घ. °यसंभवात्। " ↩︎

  466. “क. ख. °वल्ल्या व्र°।” ↩︎

  467. “घ. °तैस्तत्प्रप°।” ↩︎

  468. “ग. घ. ङ.च. °काख्यो व्या°।” ↩︎

  469. “ग. घ. शस्यते। ङ. शब्द्यते।” ↩︎

  470. “ग. घ. च. ॰तिपद्या॰।” ↩︎

  471. “ग. ॰नित्यर्थमुप॰।” ↩︎

  472. “क. ग. ॰दित्यान॰।” ↩︎

  473. “क. ख. ॰त्वे ना॰।” ↩︎

  474. “घ.ङ. ॰स्यान॰। " ↩︎

  475. “ग. घ. ॰ह्यविषत्यवा॰।” ↩︎

  476. “ग. घ. ॰ये सन्तं त॰।” ↩︎

  477. “क. ग. घ. ॰र्यात्मतो॰।” ↩︎

  478. “ग. घ. इत्यादिवाक्यस्याव॰।” ↩︎

  479. " ख. ग. घ. ॰र्यात्मनो॰” ↩︎

  480. “ग. घ. ॰परमान॰।” ↩︎

  481. “ग. घ. ॰वाद्धे॰।” ↩︎

  482. “ग. घ. इष्यते।” ↩︎

  483. “ग. घ. यत्र निग॰।” ↩︎

  484. “ग. घ. ॰देतत्सक॰।” ↩︎

  485. “ङ. ॰त्र्याद्युप॰।” ↩︎

  486. “ङ.॰त्याशङ्क्याह।” ↩︎

  487. “क.ख.॰मात्मनाभे॰।” ↩︎

  488. “च. ॰र्वात्माभि॰।” ↩︎

  489. “क. ख. ॰सत्त्वान्न को॰।” ↩︎

  490. “ग. घ. ॰तमाको॰।” ↩︎

  491. “क. ख. ॰दिद्युक्त॰।” ↩︎

  492. “ग. घ. च. ॰रणरु॰” ↩︎

  493. “क. ख. ग. घ. ॰यसाधना॰।” ↩︎

  494. “ग. ङ. ॰र्थिने। अ॰।” ↩︎

  495. “ङ. च. ॰द्वानेव क॰।” ↩︎

  496. “ख. ग. घ. ङ. ॰प्नोतिचे॰।” ↩︎

  497. “क. ख. ग. घ. च. ॰रनेति।” ↩︎

  498. “क. ख. ॰तेत्युत॰।” ↩︎

  499. “क. दिवत्का॰।” ↩︎

  500. " ङ.च. च मत्कार्यं। " ↩︎

  501. “ग. घ. च. णत्वं दे॰।” ↩︎

  502. “ङ. ॰ध्रुवं सत्कुरु॰।” ↩︎

  503. “च. ॰ध्रुवं सदिति।” ↩︎

  504. “च. ॰त्रैव वाक्ये स॰।” ↩︎

  505. “ख. °पि यथैवे°। " ↩︎

  506. “ग. घ.°स्थे ये नामरूपे वे°।” ↩︎

  507. “ग. घ. °भवाद्भवे°।” ↩︎

  508. “ङ. ॰त्मनाऽति°।” ↩︎

  509. “क. ख. ॰चान्यत्प्रावि॰।” ↩︎

  510. “क. च. ॰र्तत्वश्रु॰।” ↩︎

  511. “ग. घ. ॰कल्प्यता॰।” ↩︎

  512. “क. ख. ॰स्फोटय॰।” ↩︎

  513. “ग. घ. ॰कार्यप्र॰।” ↩︎

  514. “ग. घ. ॰दका॰।” ↩︎

  515. “ग. घ. ॰थापि सृ॰।” ↩︎

  516. “ङ. च. ॰ना तस्यः।” ↩︎

  517. “क. ख. कार्यप्र॰।” ↩︎

  518. “ख. ॰रात्म॰।” ↩︎

  519. “ग. ॰त्मकमि॰। घ. ॰त्मकत्व॰।” ↩︎

  520. " ग. ॰थमेकमेकत्व॰। घ. ॰थमेकमेव त्व॰।” ↩︎

  521. “ग. घ. ॰नमत्र॰।” ↩︎

  522. “ग. घ. ॰ञ्चकं च तस्य॰।” ↩︎

  523. “ग. घ. ॰दिकरणत्वा॰।” ↩︎

  524. “क. च. ॰केन नि॰।” ↩︎

  525. “क. ङ. ॰रामृष्टं श°।” ↩︎

  526. “ग. घ. ॰त्कथन्विति।” ↩︎

  527. “घ. रेकान्तेनैक॰।” ↩︎

  528. “ग.घ.॰पि नातः सं॰। च. ॰पि भ्रान्तेः सं॰।” ↩︎

  529. “ग. घ. त्किकेवा॰।” ↩︎

  530. “ङ. ॰त्पर्यमा॰।” ↩︎

  531. “ग. घ. ॰कं पञ्च॰।” ↩︎

  532. " क. ख. मूर्तभू॰।” ↩︎

  533. “ग. घ. ॰थिव्यप्तेज॰।” ↩︎

  534. “ग. घ. ङ. ॰त्मत्व॰।” ↩︎

  535. “ग. घ. ॰ष्टमित्या॰।” ↩︎

  536. “ग. घ. ॰क्तमतोऽ॰।” ↩︎

  537. “ग. घ. ॰याभ्यां व्या॰।” ↩︎

  538. “ग.घ. च. ॰शेषोऽनि°।” ↩︎

  539. “ग. घ. ॰पेण मू॰।” ↩︎

  540. “ख. ॰ष्टा त्ववि॰।” ↩︎

  541. “च. ॰विषयनि॰।” ↩︎

  542. “ग. घ. ॰णे स°।” ↩︎

  543. “क. ख. ॰समुत्पन्नं।” ↩︎

  544. “ङ. ॰सत्यं नास॰।” ↩︎

  545. “क. ॰ज्ञानका॰। " ↩︎

  546. " क. ख. ॰द्याप्रक°।” ↩︎

  547. “च. ॰त्मत्वा॰।” ↩︎

  548. “ग.घ.सत्यं तु।” ↩︎

  549. “अत्र यद्यपि सर्वेष्वप्यादर्शपुस्तकेष्वितिकारद्वयं नास्ति तथाऽपि—तस्मात्तत्सुकृतमुच्यत इतीतिवाक्यस्यार्थमाह—इत्यपेक्षितम्। श्रुतौ–तस्मात्तत्सुकृतमुच्यत इति—एतादृशवाक्यस्य स्थितस्वादनुकरणार्थंद्वितीयेतिशब्दस्वापेक्षितत्वात्।” ↩︎

  550. “ग. ॰देवं सु॰।” ↩︎

  551. “क. ख. ॰व दर्शय॰।” ↩︎

  552. “ग.घ.°तु र°।” ↩︎

  553. “क. ख.°सुखं सं°।” ↩︎

  554. “ङ.°यास्यात्म।” ↩︎

  555. “ग. घ. ॰वाय्विन्द्रि॰।” ↩︎

  556. “ग. घ. च. °ति। वाय्विन्द्रि॰।” ↩︎ ↩︎

  557. “ग. घ. ॰नाशना॰।” ↩︎

  558. “ग. घ. ॰श्चात्मश॰।” ↩︎

  559. “ग. घ. ॰सिद्धेत्य॰।” ↩︎

  560. “ग. घ. ॰देवं प्र॰।” ↩︎

  561. “ग. घ. ॰वबद्ध॰। " ↩︎

  562. “ग.घ.॰त्यस्य॰।” ↩︎

  563. “ग. घ. ॰क्षाप्त्यै व्यव॰।” ↩︎

  564. “ग. च. ॰काशावि॰।” ↩︎

  565. “ङ. ॰चोद्येत। ज्ञा°।” ↩︎

  566. “ग. घ. ॰बाप्तरू॰।” ↩︎

  567. “ग. घ. ॰न्यं त°।” ↩︎

  568. “ग. घ. ॰र्शनायो॰।” ↩︎

  569. " ग. घ. ॰त्वादि॰।” ↩︎

  570. “ग. ङ.॰स्तु तादा॰।” ↩︎

  571. “ग. ॰ह्यस्वात्म॰।” ↩︎

  572. “ङ. ॰स्यात्मादा॰।” ↩︎

  573. “ग. घ. च. ॰के स्व॰।” ↩︎

  574. “ग. घ. ॰तम॰।” ↩︎

  575. “ग. घ. ॰त्मषिशे॰।” ↩︎

  576. “ग. घ. ॰निलीयन्तं वयं ब्रू॰।” ↩︎

  577. “ङ. ॰यं तं वयं ब्रू॰।” ↩︎

  578. “क. ग. घ. ॰यश॰।” ↩︎

  579. “क. ग.घ. ॰यश॰।” ↩︎

  580. “क. ख. ॰त्प्राप्तिनि॰।” ↩︎

  581. “ग. घ. ॰यश॰।” ↩︎

  582. “ग.घ. च. ॰यश॰।” ↩︎

  583. “क. ख. ॰यश॰।” ↩︎

  584. “ग. घ. ॰क्षत्वव्र॰।” ↩︎

  585. “ग. घ. ॰र्वत्र प्र॰।” ↩︎

  586. “ख. ॰आत्मोप॰।” ↩︎

  587. “ग. घ. च. ॰व्यावृत्यात्म॰।” ↩︎

  588. “च. ते ततो॰।” ↩︎

  589. “ग. घ. ॰लब्धेर॰।” ↩︎

  590. “ग. घ. इत्येतयो॰।” ↩︎

  591. “ग. ॰रवद्यो॰।” ↩︎

  592. “क. ख. ॰र्शनार्थम॰।” ↩︎

  593. “क. च. ॰संहत॰।” ↩︎

  594. “क. ख. ॰वाक्यार्था॰।” ↩︎

  595. “.ग. घ.॰स्य च ब्र॰।” ↩︎

  596. “ग.घ. रज्ज्वां र°।” ↩︎

  597. “क. ख. ॰यमात्मा।” ↩︎

  598. “क. ख. ॰या स्वात्मा°।” ↩︎

  599. “ङ. च. ॰क्तुरू॰।” ↩︎

  600. “क. ख. ॰वेदितृल॰।” ↩︎

  601. “क. ख. ॰च्छिद्रं य॰।” ↩︎

  602. “ङ. ॰श्यं भवतीत्ये॰। च. ॰श्यं भवत्ये॰।” ↩︎

  603. “क. ख. ॰देतच्छ्रुत्य°।” ↩︎

  604. “ग. घ. °रे द°।” ↩︎

  605. “क. ख. °तीये भ°।” ↩︎

  606. “क. ग. घ. क्तोमद्य॰।” ↩︎

  607. “ङ.॰न्मच्छब्दितादी॰।” ↩︎

  608. “च. रोति।” ↩︎

  609. " ग. घ.॰नोर्वेद्य॰।” ↩︎

  610. “ङ.॰वेदितृत्व॰।” ↩︎

  611. “ग. घ. °त्वेन म°।” ↩︎

  612. “ग. घ. °ता या स्यात्सा शब्दार्था°।” ↩︎

  613. “ग. घ. °त्मनोर्वेद्य°।” ↩︎

  614. “क. ख. ॰त्वं च।” ↩︎

  615. “क.ख. च. °ब्दाद्यर्थे°।” ↩︎

  616. “ग. घ. °मविद्या°।” ↩︎

  617. “ग. घ. °त्मकं ते°।” ↩︎

  618. “क. ख. °षणवि°।” ↩︎

  619. “ङ. ॰याय भ°।” ↩︎

  620. “ङ. ॰दितिश्लो॰।” ↩︎

  621. “ङ. ॰न्त्रा बहु॰।” ↩︎

  622. “ग. घ. ॰न्दस्व॰।” ↩︎

  623. “ग. घ. ङ. च. ॰णिध्वान॰।” ↩︎

  624. “ख. ङ. विप्लुष°।” ↩︎

  625. “ग. घ. ङ. च. °शयमान°।” ↩︎

  626. “क. ख. °तं स्वस्व°।” ↩︎ ↩︎

  627. “ग. घ. च. ॰पत्तिरे॰।” ↩︎

  628. “ङ. ॰शयस्याऽऽन॰।” ↩︎

  629. “ग. ॰शात्मकः।” ↩︎

  630. “क. ख. ग. प्रथमव॰।” ↩︎

  631. " ग. घ. च. प्रश्नोत्त°।" ↩︎

  632. " ङ. च. °धूय चोन्मा°।" ↩︎

  633. " क. °धुत्वयौ°।" ↩︎

  634. “ग.घ. °यर्थ्यं चो°।” ↩︎

  635. " क. ङ. °कार्याति°।" ↩︎

  636. “ङ. °न तद्विद्भिः।” ↩︎

  637. “ग. घ. च. °संपूर्तिरि°।” ↩︎

  638. “ख. ङ. °श्चैवं सं°।” ↩︎

  639. “ग. घ. °न्दा मनुष्याणां°।” ↩︎

  640. “ङ. °क्यत्या°।” ↩︎

  641. " ङ. °रगान्ध°।" ↩︎

  642. “ग. घ. °नि ते°।” ↩︎

  643. “क. ख. °मेव हि°।” ↩︎

  644. “ख. ङ. °पहृता°।” ↩︎

  645. “ग. घ. °द्रुणितो°।” ↩︎

  646. " ग. घ. ङ. °व विर°।" ↩︎

  647. “ग.घ. °णात्र प्रा°।” ↩︎ ↩︎

  648. " ग. घ. °थमे प°।" ↩︎

  649. “क. ख. °तत्वेस्या°।” ↩︎

  650. " ग. घ. ॰न्तरं सि॰।" ↩︎

  651. " क. ख. च. ॰नजश॰।" ↩︎

  652. “क. ङ. ॰देवास्तु।” ↩︎

  653. “ग. घ. ॰दित्याऽऽ॰।” ↩︎

  654. “च. ॰त्पर्यमा॰।” ↩︎

  655. “क. ॰नेन फ॰।” ↩︎

  656. “क. ख. ॰ष्टं स्वबु॰।” ↩︎

  657. " ग. घ. च. ॰रमात्रा॰।" ↩︎

  658. “ग. च. ॰स्तथाऽऽत्म॰।” ↩︎

  659. “ग. घ. ॰मुत्कृष्टात्॰।” ↩︎

  660. “ग. घ. ॰त्कृंष्टादे॰।” ↩︎

  661. “क. ख. ॰यं यज्ज्ञा॰। " ↩︎ ↩︎

  662. “ग. घ. च. ॰शयं सु°।” ↩︎

  663. “क. ख. ॰ति यस्मा॰।” ↩︎

  664. “ङ. ॰ह्यात्मीत्य॰।” ↩︎

  665. “च. ॰योर्ह्यपा॰।” ↩︎

  666. “ग. घ. ॰र्याऽपक्रि॰।” ↩︎

  667. “ग. घ. ॰त्यादिविनि॰।” ↩︎

  668. “ग. घ. °वृत्तिः साति°।” ↩︎

  669. “ग. घ. ङ. च. °भेदाश°।” ↩︎

  670. “क. ख. °तिकात्°।” ↩︎

  671. “ग. °क्षयाः॥ ४५ ॥” ↩︎

  672. " ग. घ. °क्तार्थस°।” ↩︎

  673. “च.°तिष्ठामाप्नो°।” ↩︎

  674. " ग. घ. ॰दितिश॰।" ↩︎

  675. “क. ख. ॰हाभि॰।” ↩︎

  676. “क. ख. ॰ख्यार्थ॰।” ↩︎

  677. “ग. घ. ॰ञ्चकाभि॰।” ↩︎

  678. “च. ॰त्रयोषादि॰।” ↩︎

  679. “ग. घ. ॰त्यत्राव॰।” ↩︎

  680. “ग. घ. तथान्न॰।” ↩︎

  681. “ग.घ. ॰ल्पितस॰।” ↩︎

  682. “ग. घ. ॰ज्ञानात्म॰।” ↩︎

  683. “ग.घ. ॰र्वस्य चाऽऽन॰।” ↩︎

  684. “ग.घ.॰स्य च पु॰।” ↩︎

  685. “ग. ग. °मये॥ ४९ ॥” ↩︎

  686. “ग. घ. च. °नफलमु°।” ↩︎

  687. “ग. ग. °मथमा°।” ↩︎

  688. “च. °मित्यर्थः। अमे°।” ↩︎

  689. “ग. घ. °मात्रं गृ°।” ↩︎

  690. “क. ख. °पक्षे नि°।” ↩︎

  691. “ग. घ. प्राप्तप°।” ↩︎

  692. “क. ख. °स्यान्यो भा°।” ↩︎

  693. " ग. घ. °कः स्वरू°।" ↩︎

  694. “ग. °षयज्ञा°।” ↩︎

  695. “च॰ °त्यग्रूपत्वा°।” ↩︎

  696. “ग. घ. °प्राप्यब्र°।” ↩︎ ↩︎

  697. “क. ख. कर्मकार्यापे॰।” ↩︎

  698. “क. ॰ति। मुक्ताविति॥ ५९ ॥” ↩︎

  699. “ग. घ. ॰ष्ट्रोरेक°।” ↩︎

  700. “ग. भयं श्रु॰।” ↩︎

  701. “ग. घ. ॰तिभे॰।” ↩︎

  702. “च. ॰र्शनं त॰।” ↩︎

  703. “क. ख. ॰विद्यया कृ॰।” ↩︎

  704. “ङ. च. ॰पद्येतातो।” ↩︎

  705. “ख. ङ. नेक्षते।” ↩︎

  706. “ङ. °म्। न गृह्य°।” ↩︎

  707. “ग. घ. सति द°।” ↩︎

  708. “च. °द्वितीयस्य। " ↩︎

  709. “च. °द्धत्वे त°।” ↩︎

  710. “ङ. °यचन्द्रो।” ↩︎

  711. “ग. घ. °यद्वारा द्वि°।” ↩︎

  712. “ङ. °यचन्द्रो°।” ↩︎

  713. “ग. घ. °षज°।” ↩︎

  714. “ग. घ. °भानात्तद्वै°।” ↩︎

  715. “ग. ॰प्तस्य प्र॰।” ↩︎

  716. “ग. घ. ॰क्रियत्वं स्यात्तत्वम॰।” ↩︎

  717. “ङ. ॰यावत्वेन।” ↩︎

  718. “च. ॰व कल्पि॰।” ↩︎

  719. “क. च. ॰दविक्रि॰।” ↩︎

  720. “ग. ॰मेव श्रु॰।” ↩︎

  721. “ग. घ. ॰त्वाद्विशे॰।” ↩︎

  722. “च. ॰त्मस्वरू°।” ↩︎

  723. “ग. घ. ॰तीतिश्रु॰।” ↩︎

  724. “ग. घ. ॰त्। नैवं॰।” ↩︎

  725. “क. ख. ड. ॰हायभू॰।” ↩︎

  726. “ग. च. ॰त्येवं नो°।” ↩︎

  727. “ग. घ. ॰ति। नैव॰।” ↩︎

  728. “क. ख. ङ. ॰च. ॰ङ्कयति। नि॰।” ↩︎ ↩︎

  729. “ग. ॰स्यात्तवात्म॰।” ↩︎

  730. “च. ॰ते यस्मा°।” ↩︎ ↩︎

  731. “ग.घ.ङ. च. ॰सेनेवे॰।” ↩︎ ↩︎

  732. “क. ख. ङ. ॰हेतुः स्व॰।” ↩︎ ↩︎

  733. “ख. ग. घ. च. ॰यानिवृ॰।” ↩︎

  734. “ख. ग. घ. ॰भाव्येतेत्या॰।” ↩︎

  735. “ग. घ. च. ॰त्मनि॰।” ↩︎

  736. “ख. ग. घ. ॰लित्वायो॰।” ↩︎

  737. “ग. घ. ॰ह्यगतं।” ↩︎ ↩︎

  738. “ग. घ. ॰गोर्भेद॰।” ↩︎

  739. “च. °ति विज्ञा॰।” ↩︎

  740. “क. ॰रोधश॰।” ↩︎

  741. “क. ख. संबन्धमा॰।” ↩︎

  742. “क. ख. ॰द्विश्रम्मा॰।” ↩︎

  743. " ख. ग. घ. ङ. वोखरे।” ↩︎

  744. " ग. घ. ॰स्थत्वस्या॰।" ↩︎

  745. “ग. घ. ॰निवृत्ते॰।” ↩︎

  746. “ग. घ. °त्म स्वरू॰।” ↩︎

  747. “क.ख.॰स्थत्वक्रि॰।” ↩︎

  748. “ख.॰मुत्पाद्यादिरू॰।” ↩︎

  749. “क. ख. जलौका॰।” ↩︎

  750. “ङ. मुख्य संक्रामतिर॰।” ↩︎

  751. “क. ख. °र्तृत्वभा°।” ↩︎

  752. “ख. ग. °शङ्क्याङ्गी°। घ. च. °शङ्क्यम°।” ↩︎

  753. “ग. घ. °त्वमज्ञा°।” ↩︎

  754. “ग.घ.°मेवात्म।” ↩︎

  755. “ग. घ. गीयते॥ ९१ ॥” ↩︎

  756. “क. च. °द्वत्तामा।” ↩︎

  757. " ग. घ. ॰नर्नावाक्यो॰।" ↩︎

  758. “ख.ङ.कल्पते॥९२ ॥” ↩︎

  759. “ख. ॰र्त्यात्मज्ञा॰।” ↩︎

  760. “ग.घ.ङ. ॰कव॰। " ↩︎

  761. “ग. घ. ॰तद्वति स्म॰। " ↩︎

  762. " ग. घ. ॰ततज्ज॰।” ↩︎

  763. “ङ. च. ॰णत्व॰।” ↩︎

  764. “ग.घ.॰न्यवि॰।” ↩︎

  765. “ग. घ. च. ॰ब्दोत्थावि॰।” ↩︎

  766. “ग. घ. पूर्वं विहित॰। च. पूर्वावहित।” ↩︎

  767. “ग. घ.॰रणमप्र॰।” ↩︎

  768. “ङ. ॰षप्तो वे॰।” ↩︎

  769. “ग. घ. °ले शब्दस्य°।” ↩︎

  770. “ङ. न भे°।” ↩︎

  771. “ग.घ.°ब्दाद्याहं°।” ↩︎

  772. “ख. ग. घ. °द्बोध्यस्य।” ↩︎

  773. “ग. घ. °रानपेक्षत्वा°।” ↩︎

  774. “ङ. ॰क्षकः। कि°।” ↩︎

  775. " क. ख. °रे पञ्च फ°।” ↩︎

  776. “क. ॰पेक्षितभि॰।” ↩︎

  777. “क. ख. ॰भावान्न।” ↩︎

  778. “ग. घ. ॰प्रमातृत्वा॰। च. प्रदातृत्वा।” ↩︎

  779. “ग.॰पेक्ष्येत।” ↩︎

  780. “ग.घ. ॰यस्तु न।” ↩︎

  781. “च. च दर्श॰।” ↩︎

  782. “ग. घ. ङ. ॰गानुप्रवेशेन।” ↩︎

  783. “ग. घ. ॰पेक्षाया।” ↩︎

  784. “ग. घ. द्धाविवो॰।” ↩︎

  785. “क. ख. ॰न्यतरस्य।” ↩︎

  786. “क. ख. ॰क्षावि॰।” ↩︎

  787. “ग. घ. विद्यासं” ↩︎

  788. “घ. च. द्यस॰।” ↩︎

  789. “ग. घ. ॰को गोत॰।” ↩︎

  790. “ग. घ. च. ॰नाचेत्य॰।” ↩︎

  791. “क. ख. ॰र्गापेक्षक॰।” ↩︎

  792. “ग. घ.°नुमातुं श°।” ↩︎

  793. “च. °लं विज्ञा°।” ↩︎

  794. “ग. घ. °ज्ञानं नि°।” ↩︎

  795. “क. ख. ॰ज्ञानं क°।” ↩︎

  796. “क. ख.°व्यतां यां।” ↩︎

  797. “ग. घ. °षकृति।ङ. °षं कृता।” ↩︎

  798. “ग. घ. °घिश्चवा°।” ↩︎

  799. “ग.°धायैव।” ↩︎

  800. “क. ख. °षं यस्मा°।” ↩︎

  801. “ग.घ.ङ. °यद्विज्ञा°।” ↩︎

  802. “ग. घ. च. °था वा क°।” ↩︎

  803. “ग.घ. °न सि°।” ↩︎

  804. “ग.घ.ङ. °व्यायच्छेत। व्यापारं कुर्यादित्यर्थः।” ↩︎

  805. “ग. घ. ङ. °धिवर्त्मानु°।” ↩︎

  806. “ङ. °स्पृक्सास्वत°।” ↩︎

  807. “ग. घ. °ने तेन नि°।” ↩︎

  808. “गः घ. नभोषां°।” ↩︎

  809. “ग. घ. ङ. °गवत्त्वादे°।” ↩︎

  810. “घ. च. °यं स्वसा।” ↩︎

  811. “ग. घ. न्दुः स सं°।” ↩︎

  812. “ग. घ. °सनतो।” ↩︎

  813. “क. ख. °कार्था°।” ↩︎

  814. “ग. ग. घ. °त्वेत्वभ्या°।” ↩︎

  815. “ग. घ. ॰त्वेन प्रा॰।” ↩︎

  816. “ग. घ. ॰व्यस्य रू॰।” ↩︎

  817. “च. ॰धिर्व॰।” ↩︎

  818. “ग. विधेर॰।” ↩︎

  819. “ङ. श’ब्दात्म॰।” ↩︎

  820. “ङ. ॰विहराद्य॰।” ↩︎

  821. " ग. घ. च. ॰ल्वत्वा॰।" ↩︎

  822. " ङ. स्वात्माबो॰।" ↩︎

  823. “ग. घ. ङ. ॰नं चैतदु॰।” ↩︎

  824. “ङ. च. शाब्दं ज्ञा॰।” ↩︎

  825. “ङ. ॰नादति॰।” ↩︎

  826. “ग. ब्रह्म वा॰।” ↩︎

  827. “क. ख.॰ग्रह्मब्र॰।” ↩︎

  828. “ग. ॰नै। वे॰।” ↩︎

  829. “ग. घ. त्वं ब्र॰।” ↩︎

  830. “ग.घ.॰सृष्ट्यप॰।” ↩︎

  831. “ग. घ. ॰द्गम्यब्र॰।” ↩︎

  832. “ग. घ. ॰द्गम्यत्वे ब्र॰।” ↩︎

  833. “ग. घ. ॰वेदे प्र॰।” ↩︎

  834. “ग. घ. ॰ज्ञानायो॰।” ↩︎

  835. “ग. घ. ॰त तत्त्वम॰।” ↩︎

  836. “च. ॰भागित्यभ्यु॰।” ↩︎

  837. “क. ङ. ॰णस्यैवा॰।” ↩︎

  838. “ग. घ. च ॰रणे ग॰।” ↩︎

  839. “ग. घ. ॰ण वा प॰।” ↩︎

  840. “क. ग. ॰लक्ष्य वा॰। " ↩︎

  841. “ङ. ॰चारितः।” ↩︎

  842. “ग. ङ. ॰न्वययो॰।” ↩︎

  843. “क. ख. ङ. ॰न्मात्रत्वं।” ↩︎

  844. " ङ. ॰दयान्त॰। न. दयेना॰।” ↩︎

  845. “ग. घ. च. °र्थब्रह्मासि°।” ↩︎

  846. “ङ. °काङ्क्षतः।” ↩︎

  847. “क. ङ. च. °विस्तारा°ı” ↩︎

  848. “ग. घ. °प्यव°ı” ↩︎

  849. “ग. घ. च. °व संदा सि°।” ↩︎

  850. “क. ख. ङ. °तत्साक्षि°।” ↩︎

  851. “ग.घ. °लकत्वा°।” ↩︎

  852. " ग. घ. ॰स्यैवावा॰।" ↩︎

  853. “ग. घ. ज्ञातुर्ज्ञातृ॰।” ↩︎

  854. “ङ. °त्मत्वज्ञा°।” ↩︎

  855. “ग. घ. ॰क्यस्याप्र॰।” ↩︎

  856. “क. ख. ॰सत्यं प्र॰।” ↩︎

  857. “ग. घ. च. ॰न्य तप्रत्य॰।” ↩︎

  858. “ग.घ.°नी वि॰।” ↩︎

  859. “क. ग. घ. तस्य वि॰।” ↩︎

  860. “ग.घ.॰पत्तेरि॰।” ↩︎

  861. “ङ.॰स्तुविषय॰।” ↩︎

  862. “ग. घ. वेशाद्वाक्य॰।” ↩︎

  863. “घ. च. °पक्षरूपे वाक्ये प्र°।” ↩︎

  864. “ङ. °काशत°।” ↩︎

  865. “ग. घ. °त्ये प्र°।” ↩︎

  866. “क. ग. घ.°कारम°।” ↩︎

  867. “ग.घ.°र्न संभ°।” ↩︎

  868. “ङ. °काशत्वा°।” ↩︎

  869. “क. ख. °दभासे।” ↩︎

  870. “क. ख. ॰स्यत्वे सा॰।” ↩︎

  871. “॰काशत्वे॰।” ↩︎

  872. “ङ. ॰काशत्वा॰।” ↩︎

  873. “क. ख. ॰दिवा॰।” ↩︎

  874. “च. ॰रुध्यतेत॰।” ↩︎

  875. “क. ॰स्य स्वतो॰।” ↩︎

  876. “च. ॰श्रयणाद॰।” ↩︎

  877. “ङ. नियोक्ताऽपि।” ↩︎

  878. “ग. घ. ङ. यात्सनिचो॰।” ↩︎

  879. “क. ॰षस्य सा॰।” ↩︎

  880. “ग. घ. ॰दितव्यतिरेकित्वं ब्रह्म॰।” ↩︎

  881. “ख. ङ. ॰कित्वब्रह्म॰।” ↩︎

  882. “ग. घ. ॰श्रुतेः। न।” ↩︎

  883. “ग. घ. ॰हितैर्वा॰।” ↩︎

  884. “क. ख.भासनः।” ↩︎

  885. “क. ॰त्यक्षवि॰।” ↩︎

  886. “ग. घ. ॰कर्तुत्वे।” ↩︎

  887. “ग. घ. च. °रुपादि°।” ↩︎

  888. “क. ख. °र्नोच्येत। मे°।” ↩︎

  889. “क. ग. घ. °स्वार्थप्रा°।” ↩︎

  890. “ग. ग. ॰माण्यवि॰।” ↩︎

  891. “ङ. °ति तच्चो°।” ↩︎

  892. “च. °रित्येतदुत्त°।” ↩︎

  893. “ग. °रं भ°।” ↩︎

  894. “क. ख. र्गेणद°।” ↩︎

  895. “ग. घ. च. °पि गु°।” ↩︎

  896. “ग. घ. °देः सं°।” ↩︎

  897. " ग. घ. °दार्थसा°।" ↩︎

  898. “च. °द्य नचोभ°।” ↩︎

  899. “ग. घ. °श्रित्यानो°।” ↩︎

  900. “ग. घ. च. °हनं द्र°।” ↩︎

  901. " क. ख. °सा पण°।" ↩︎

  902. “घ. च. °या बोध्ये°।” ↩︎

  903. “ग. घ. प्राप्तं मेयं प°।” ↩︎

  904. “च. पक्षं स्मारय°।” ↩︎

  905. “ग.घ.°र्तकनि°।” ↩︎

  906. “ग. घ.°मप्रामाण्यं स्या°।” ↩︎

  907. “ग.घ.ङ. °तत्स्यात्कि°।” ↩︎

  908. “ग. ॰श्रुतिः॥ ९३ ॥” ↩︎

  909. “ग. घ. ङ. ॰स्वार्थप्रा॰।” ↩︎

  910. “च. ॰र्थवाक्य॰।” ↩︎

  911. “च. ॰ण्यवि॰।” ↩︎

  912. “ङ. ॰याविधेः॥ ९९ ॥ " ↩︎

  913. “क. ङ. ॰वादाभ्या॰।” ↩︎

  914. “ग. घ. च. ॰दकत्वं॰।” ↩︎

  915. “ग. ज्ञानं त॰।” ↩︎

  916. “ग. च. ॰निरपेक्षप्रा॰।” ↩︎

  917. “ग. घ. °लम्भीनि।” ↩︎

  918. “च. °मितीति।” ↩︎

  919. “क. ख. °क्षत्याव°।” ↩︎

  920. “ग. °स्थितः॥ २ ॥” ↩︎

  921. “ग. °ण्यप्र°। " ↩︎

  922. “ङ. आवृ°।” ↩︎

  923. " ग. घ. °वप्रामाण्यादे°।” ↩︎

  924. “ग. घ. °विदाभावात्तत्सि°।” ↩︎

  925. “ग.घ. °त्वेन ना°।” ↩︎

  926. “ङ. °ते तत्तन्नि°।” ↩︎

  927. “ग. घ. च. °बाविधा°।” ↩︎

  928. “ग. घ. स्यावबो°।” ↩︎

  929. “ग. घ. च. °बोधेन व्या°।” ↩︎

  930. “क.ख.°धेरिव°।” ↩︎

  931. “ग. घ. °तोऽप्रामाण्यस्य°।” ↩︎

  932. “क. ख. ग. ॰स्वार्थे बो॰।” ↩︎

  933. “ङ. ॰वाक्यैर्विध्य॰।” ↩︎

  934. “ङ. ॰तिदृ॰।” ↩︎

  935. “ङ. ॰धा तु रोधि स्या॰” ↩︎

  936. " ग.घ. ॰कात्मवि॰।” ↩︎

  937. “क.ख. ॰क्यार्थाप्र॰।” ↩︎

  938. “क. ग. घ. ॰दार्थज्ञा॰।” ↩︎

  939. “ग. घ. ॰द्यविलोचन॰।” ↩︎

  940. “ग. घ. ॰त्वात्प्र॰।” ↩︎

  941. “ग. घ. ॰नं च त॰।” ↩︎

  942. " ग.घ.॰रकं सि॰।" ↩︎

  943. “ग. घ. च. ॰न प्रभ॰।” ↩︎

  944. “ग. घ. °र्णसि°।” ↩︎

  945. “ग. °वाक्यादद्व°।” ↩︎

  946. “ग. °लमित्युप°।” ↩︎

  947. “क. ख. °स्यैव हा°।” ↩︎

  948. " ग. घ. °भजेत्फ°।" ↩︎

  949. “ग. घ. ङ. बन्न्वाय्यं भु°।” ↩︎

  950. “ग. घ. °न्तरं मु°।” ↩︎

  951. “क. ङ. °दयानां°।” ↩︎

  952. “ग.घ.°काले मु°।” ↩︎

  953. “ख. ॰म्। दग्धायां।” ↩︎

  954. “ग.घ. ॰तो ज्ञा॰।” ↩︎

  955. “च.॰लत्वमुक्त॰।” ↩︎

  956. “च.॰त्पर्यमा॰।” ↩︎

  957. “ङ. °त्येकशु°।” ↩︎

  958. “ग. घ. च. °दुषे पु°।” ↩︎

  959. “क. ङ.°क्षितहे°।” ↩︎

  960. “ग. घ. °यार°।” ↩︎

  961. “ग. घ.°सा हुत°। ङ.°सा हुत°।” ↩︎

  962. “ग.घ. दग्ध्वा तूक्त°।” ↩︎

  963. “ग. घ. च. °न्नास्मि°।” ↩︎

  964. “च. विद्यया कृ°।” ↩︎

  965. “ग. घ. °धनेव°।” ↩︎

  966. “क. ख. बुद्धः स्व°।” ↩︎

  967. “ग. घ. °निरसनद्वा°।” ↩︎

  968. “क.क.ख. इति युक्त°। ग. घ. इतिरुक्तप°।” ↩︎

  969. “ग. °सर्वेष°।” ↩︎

  970. “ग. घ. शुभम्।” ↩︎

  971. “ग. घ. °नब्र°।” ↩︎

  972. “च. °त्यगत्मभुते°।” ↩︎

  973. “ङ. प्त्यैव प्रवृ°” ↩︎

  974. “ग.घ.ङ. °स्य त्वधी°।” ↩︎

  975. “ग. घ. शुध्यति।” ↩︎

  976. “ग. घ. ङ. °क्तार्थस्य म°।” ↩︎

  977. “च. °ने शद्धर्बुद्धिर°।” ↩︎

  978. “ग. °रणः। च°।” ↩︎

  979. " ग. घ. °दिकरणवृ°।" ↩︎

  980. “क. ख. °दिकी°।” ↩︎

  981. “क. ख. ॰श्रवण॰। " ↩︎

  982. “च. ॰न्यत्व॰। " ↩︎

  983. “ग. घ. ॰थं त्विति।” ↩︎

  984. “ग. घ. ॰टस्यं ल॰।” ↩︎

  985. “च. ॰धकत्वे॰।” ↩︎

  986. “ग. घ. ॰स्थत्वद्यो॰। ङ. च. ॰स्थत्वे द्यो॰। " ↩︎

  987. “ग. घ. ॰स्तस्याप्र॰।” ↩︎

  988. “ग. घ. ॰येण का॰।” ↩︎

  989. “ग. घ. ॰षणं कु॰।” ↩︎

  990. “ग. च. ॰त्याह।” ↩︎

  991. “ग.घ. ॰धनत॰।” ↩︎

  992. “ग. घ. प्रपन्नवा°।” ↩︎

  993. “च. तयोर्विव°।” ↩︎

  994. “ग. घ. °णोक्तल°।” ↩︎

  995. “ग. घ. °यस्मृत्या।” ↩︎

  996. “ग. घ. अन्नका°।” ↩︎

  997. “ग. घ. °र्यायः। अ°।” ↩︎

  998. “ग.घ.ङ. च. °रुक्तेका°।” ↩︎

  999. “ग. घ. ॰ज्ञानं का॰।” ↩︎

  1000. “ग. घ. ॰क्षात्करणान°।” ↩︎

  1001. “च. ॰त्याह।” ↩︎

  1002. “ग. घ. ॰यतो व्या॰।” ↩︎

  1003. “क. ख. ङ. °प एका°।” ↩︎

  1004. “ग. घ. द्वन्सप्र°।” ↩︎

  1005. “क. ख. प्रकाशय°।” ↩︎

  1006. “ग. घ. °सनानां°।” ↩︎

  1007. “ग. घ. च. °नमित्यङ्गी°।” ↩︎

  1008. “च. °दिपदानि व्या°।” ↩︎

  1009. “ग. घ. °नं च स°।” ↩︎

  1010. “च. °देवापि।” ↩︎

  1011. “क. ङ. त्वन्नं ब्र°।” ↩︎

  1012. “ग. घ. दं चभेत्।” ↩︎

  1013. “क. ख. °न्नं स ब°।” ↩︎

  1014. “क. °त्तरब्र°।” ↩︎

  1015. “क. °स्त्रिविधा।” ↩︎

  1016. “ग. घ. °क्यमाह।” ↩︎

  1017. “ग. घ. ॰ति तथैवैतन्न सं।” ↩︎

  1018. “क. ख. ॰तु यतो।” ↩︎

  1019. “क. ख. ङ. °वक्षेते।” ↩︎

  1020. “ग. घ. °त्मव्य°।” ↩︎

  1021. “ग. तया ग°।” ↩︎

  1022. “ग. घ. °यं यतः।” ↩︎

  1023. “ग. घ. °त्पत्यां भ°।” ↩︎

  1024. “क. ख. ङ. °तमुपा°।” ↩︎

  1025. " घ. च. °सनेषु°।” ↩︎

  1026. “ङ. °तं तथे°।” ↩︎

  1027. “क. ख.यत्तु ब्र°।” ↩︎

  1028. “ग.घ.ङ. °स्यैष प°।” ↩︎

  1029. “क. च. °यत्त्विति।°” ↩︎

  1030. “ग. ॰ति आका॰। च. ॰ति। यदा॰।” ↩︎

  1031. “क. ख. रत्वगु॰।” ↩︎

  1032. “च. ॰ष्टमित्युपा॰।” ↩︎

  1033. “ग. घ. ॰माणयां सि॰।” ↩︎

  1034. “ग. घ. ॰णा च ख॰।” ↩︎

  1035. “ग. घ. न भेय॰।” ↩︎

  1036. “ग. ॰तू। आ॰।” ↩︎

  1037. “क. प्रमीय॰।” ↩︎

  1038. " ग. घ. च. ॰त्वमद।” ↩︎

  1039. “ग. च. ॰वमि॰।” ↩︎

  1040. “च. न त्वात्म॰।” ↩︎

  1041. “ग. घ. ॰मानाप्ति॰।” ↩︎

  1042. “ग. न्याय्यः ॥” ↩︎

  1043. “क. ख. स्फोटय।” ↩︎

  1044. “च. ॰त्यर्थ वा॰।” ↩︎

  1045. “ग. घ. ॰ति चान्तोक्ति॰।” ↩︎

  1046. “ग. घ. छ. ॰यं ज्ञा°।” ↩︎

  1047. “च. ॰णमाश॰।” ↩︎

  1048. “च. ॰दिवाक्यभाच॰। " ↩︎

  1049. “ङ. ॰दीक्षता॰।” ↩︎

  1050. “ग. घ. ङ. ॰थाक्तज॰।” ↩︎

  1051. “क. ख. °वाक्यार्थ°।” ↩︎

  1052. “ङ. °ष्ठा चामृ°।” ↩︎

  1053. “ग. घ. °ल्यार्थे गृ°।” ↩︎

  1054. “ग.घ.ङ. च. °गात्मेत्य॰।” ↩︎

  1055. “ग. घ. च. ॰र्यंचापह॰।” ↩︎

  1056. “ङ. वाऽपह॰।” ↩︎

  1057. “ग. घ. ॰तानता ना॰।” ↩︎

  1058. “क. ख. ॰विस्तरः।” ↩︎

  1059. “च. ॰त्र च ध्या॰।” ↩︎

  1060. “क. परात्मा॰।” ↩︎

  1061. “ङ. ॰शेषवा॰।” ↩︎

  1062. “ग. घ.॰प्रभावत्व॰।” ↩︎

  1063. “ख. ॰भवत्व॰।” ↩︎

  1064. “क. ख. °ण ते प्र°।” ↩︎

  1065. “ङ. °द्विलोच°।” ↩︎

  1066. “क. ख. °रेश्वराख्यो।” ↩︎ ↩︎

  1067. “ग.घ. °मधृतो।” ↩︎