१०

अथ दशमोऽनुवाकः। न कंचन वसतौ प्रत्या॑चक्षी॒त। तद्व्र॒तम्, इति।

निवासार्थं स्वगृहे समागतं कमपि न निवारयेत्। यथोक्तव्रतनिर्वाहकमुपायं प्रसङ्गाद्विधत्ते— तस्माद्यया कया च विधया ब॑ह्व॑न्नं प्रा॒प्नुयात्, इति।

यस्मादभ्यागताय निवासे दत्ते सत्यन्नमपि दातव्यमन्यथा प्रत्यवायश्रवणात्। “एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे “[काठ॰ वल्ली॰ १] इत्यदातुरैहिकामुष्मिककृत्स्नफलवर्जनमाम्नायते । तस्मादन्नं दातुं याजनाध्यापनप्रतिग्रहाणां मध्ये येन केनापि प्रकारेणान्नसमृद्धिं संपादयेत्।

अत्र शिष्टाचारं दर्शयति— अराध्यस्मा अन्नामि॑त्याच॒क्षते, इति। यो गृहे समागच्छति तस्मा आगतायान्नमराधि संपन्नमित्येवान्नवन्तो विद्वांस आचक्षते, न तु परिहरन्ति। वह्वन्नसंफादने फलातिशयाय दानविशेषे फलविशेषं दर्शयति— एतद्वै मुखतो॑ऽन्नं ँ रा॒द्धम्। मुखतोऽस्मा अ॑न्न ँ रा॒ध्यते। एतद्वै मध्यतो॑ऽन्न ँ रा॒द्धम्। मध्यतोऽस्मा अ॑न्नँ रा॒ध्यते। एतद्वा अन्ततो॑ऽन्न ँ रा॒द्धम्। अन्ततोऽस्मा अ॑न्न ँ रा॒ध्यते (१)। य ए॑वं वे॒द, इति।

यदन्नं सापादितमस्त्येतदेवान्नं मुखतो राद्धं भवति। मुख्ये देशे तीर्थक्षेत्रविशेषे मुख्यकाले संक्रान्त्यमावास्यादिरूपे मुख्यायाभ्यागताय वेदशास्त्रतदध्ययनानुष्ठानपराय मुख्यया वृत्त्या श्रद्धाप्रणिपातत्कारादिरूपया मुख्येन दात्रा सात्त्विकेन दत्तमित्यर्थः।

[[683]]

[प्रपा॰ ९ अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। एतत्सात्त्विकदानं भगवतोदाहृतम्— “दातव्यमिति यद्दानं दीयतेऽनुपकारिणे। देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् " इति॥

यः पुमानेवं सात्त्विकं दानप्रकारं वेद विदित्वाऽनुतिष्ठिति। अस्मै जन्मान्तरे मुख्यक्रमेणैवान्नं संपद्यते। मध्यतोऽन्तत इति वाक्यद्वयं राजसतामसदानपरत्वेन व्याख्येयम्।

तच्च भगवता दर्शितम्— “यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः। दीयते च परिक्लिष्टं तद्राजसमुदाहृतम्॥ अदेशकाले यद्दानमपात्रेभ्यश्च दीयते। असत्कृतमवज्ञातं तत्तामसमुदात्द्दतम् " इति॥ फलवाक्यमपि तदनुसारेण व्याख्येयम्। उपासनाङ्गभूतव्रतप्रसङ्गेन दानानुसारी फलविशेषोऽभिहितः।

क्षेम इ॑ति वा॒चि। योगक्षेम इति प्रा॑णापा॒नयोः। कर्मे॑ति ह॒स्तयोः। गतिरि॑ति पा॒दयोः। विमु- क्तिरि॑ति पा॒यौ। इति मानुषीः॑ समा॒ज्ञाः।

अथोपासनान्येव कानिचिद्विधत्ते—क्षेम इतीत्यादिना। यद्वागिन्द्रियरूपं प्रतीकमस्ति तस्मान्ब्रह्म क्षेमरूपेणावस्थितमित्युपासीत। क्षेमो रक्षणम्। प्राणापानयोरुच्छ्वासनिश्वासयोः प्रतीकयोः क्रमाद्योगरूपेण क्षेमरूपेण च ब्रह्मावस्थितम्। अप्राप्तस्य धनादेः प्राप्तिर्योगः। तस्य परिरक्षणं क्षेमः। कर्मशब्देन होमयुद्धादिव्यापारा विवक्षिताः। ब्राह्मणस्य हस्तयोर्होमादिव्यापारः। क्षत्रियस्य हस्तयोर्युद्धादिव्यापारः। अन्यत्रापि यथायोगं द्रष्टव्यम्। ईदृशकर्मरूपेण हस्तयोः प्रतीकयोर्ब्रह्मावस्थितम्। गमनरूपेण पादयोरवस्थितम्। मलविमोचनरूपेण पायुद्वारेऽवस्थितम्। इत्येवमुक्ताः क्षेम इति वाचीत्यादिका विमुक्तिरिति पायावित्यन्ता मानुषीर्मनुष्यदेहावयवेषु संपादिताः समाज्ञा उपासनाः। सम्यगा समन्तान्निष्पद्यमानाः क्रियाः समाज्ञाः। बहुवचननिर्देशादेकैका पृथगुपासनेत्यवगम्यते।

अथ दै॒वीः। तृप्तिरि॑ति वृ॒ष्टौ। बलमि॑ति वि॒द्युति (२)। यश इ॑ति प॒शुषु। ज्योतिरिति नक्षत्रे॒षु।


१ घ. ०त्त्विकं दा०। २ घ. ०त्त्विकदा०।

[[684]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ९ अनु॰ १ प्रजातिरमृतमानन्द इ॑त्युप॒स्थे। सर्वमि॑त्याका॒शे। उपासनान्तराणि विधत्ते—अथ दैवीरित्यादिना। अथ मनुष्यावयवगत पञ्चोपास्तिकथनानन्तरं दैवीर्देवशरीरगता उपासनाः कथ्यन्ते। वृष्ट्यभि मानिदेवतायां तृप्तिरूपेणावस्थितं ब्रह्म। विद्युदभिमानिदेवतायां बलरूपेणावस्थितम्। पशुदेवतासु यशोरूपेणावस्थितम्। नक्षत्रदेवतासु ज्योतीरूपेणावस्थितम्। प्रजातिः पुत्रोत्पादनम्। अमृतं योषिता सह क्रीडा। आनन्दो गुह्येन्द्रियजन्यः परकीयावयवसंयोगरूपो व्यापारः। अनेन रूपत्रयेणोप- स्थाभिमानिदेवतायामवस्थितम्। त्रयस्य गुह्येन्द्रियविषयत्वं कौषीतकिन आमनन्ति—“प्रज्ञयोपस्थं समारूह्योपस्थेनाऽऽनन्दं रतिं प्रजातिं चाऽऽप्नोति” इति। भूतभौतिकरूपं यज्जगदस्ति तेन सर्वेण रूपेणाऽऽकाशाभिमानिदेवतायां ब्रह्मावस्थितम्। एतेषु क्षेम इति वाचीत्यादिषूपासनेषु यथोपासनं फलं द्रष्टव्यम् “तं यथा यथोपासते तदेव भवति " इति श्रुतेः।

तत्प्रतिष्ठेत्यु॑पासी॒त। प्रतिष्ठा॑वान्भ॒वति। तन्मह इत्यु॑पासी॒त। म॑हान्भ॒वति। तन्मन इत्यु॑पासी॒त। मान॑वान्भ॒वति (३)। तन्नम इत्यु॑पासी॒त। नम्य- न्ते॑ऽस्मै का॒माः। तद्ब्रह्मेत्यु॑पासी॒त। ब्रह्म॑वान्भ॒वति। तद्ब्रह्मणः परिमर इत्यु॑पासीत ।पर्येणं म्रियन्ते द्विषन्तः॑ सप॒त्नाः। परि ये॑ऽप्रिया॑ भ्रातृव्याः, इति।

एतच्छ्रुत्यर्थमेवाभिप्रेत्य कानिचित्फलसहितान्युपासनान्युदाहरति—तत्प्रतिष्ठेतीत्यादिना। तद्ब्रह्म प्रतिष्ठा स्थितिहेतुरित्युपासीनेऽशनाच्छादनादिजीवनस्थितिहेतुमान्भवति। महो महत्त्वगुणोपेतम्। महान्धनादिभिः समृद्धः। मनो मननशक्त्युपेतम्। मानवान्मननशक्तिमान्। नमो नमनं नमनेन वशीकरणेनोपेतम् । अस्मा उपासकाय कामा नम्यन्ते स्वाधीना भवन्ति। ब्रह्म वेदः। ब्रह्मवान्स्वाधीनवेदः। ब्रह्मणो ब्राह्मणस्य परिमरः परितो वर्तमानस्य द्वेष्यस्य मृत्युरूपः। एनं पर्येतस्योपासकस्य परितो वर्तमाना द्वेषं कुर्वन्तः शत्रवो म्रियन्ते। एते द्वेषमकुर्वन्तोऽप्यप्रिया भ्रातृव्यास्तथाविधा अपि शत्रवः परितो म्रियन्ते।

स यश्चा॑यं पु॒रुषे। यश्चासा॑वादि॒त्ये। स एकः॑ (४)। स य॑ एवं॒वित्। अस्माल्लो॑कात्प्रे॒त्य। एत-


१ क. ख. ग. ङ. ०र्वेणाऽऽका०। २ क. ख. ङ. ०सीताश०।

[[685]]

प्रपा॰ ९ अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। मन्नमयमात्मानमुप॑संक्र॒म्य। एतं प्राणमयमात्मा- नमुप॑संक्र॒म्य। एतं मनोमयमात्मानमुप॑संक्र॒म्य। एतं विज्ञानमात्मानमुप॑संक्र॒म्य। एतमान- न्दमयमात्मानमुप॑संक्र॒म्य। इमाल्लोँकान्कामान्नी कामरूप्य॑नुसं॒चरन्। एतत्साम गा॑यन्ना॒स्ते।

यथोक्तोपासनैरस्मिञ्जन्मनि जन्मान्तरे वा चित्तैकाग्र्यं प्राप्तस्य यद्वेदनीयं यच्च वेदनफलं तदुभयं दर्शयति—स यश्चेत्यादिना। स यश्चायं पुरुष इत्यार- भ्यैतमानन्दमयमात्मानमुपसंक्रम्येत्यन्तस्यार्थः पूर्वानुवाकेऽभिहितोऽप्यत्र नानाविधोपासनसाध्यस्य चित्तैकाग्र्यरूपस्य तपसः परमपुरुषार्थपर्यवसायित्वं दर्शयितुं पुनरप्यभिहितः।आनन्दमयकोशे ब्रह्म पुच्छमित्यभिहितस्या- खण्डैकरसस्याऽऽनन्दस्याऽऽत्मत्वेन साक्षात्कृतत्वात्प्रियमोदादिचतुर्षु कोशावयवेषु ततः पूर्वेषु च कोशेषु बन्धहेतुषु सर्वेषु स्वात्मत्वभ्रमस्य निःशेषेण परित्यक्तत्वादयं मुक्त एव। तथाऽपि जीवत्ययमिति लोकैर्व्यपदिश्यते। देहेन्द्रियादीनां लोकैर्दृश्यमानत्वात्। अतो लोकदृष्ट्या जीवनात्स्वदृष्ट्या मुक्तत्वाच्चासौ जीवन्मुक्तः। स च यथोक्तप्रकारेणाऽऽत्मानमुपसंक्रम्य यावद्देहपातमितरपुरुषवदास्ते। किं कुर्वन्। कामान्नी कामरूपी भूत्वा लोकानिमाननुक्रमेण संचरन्कामत इच्छातोऽन्नमत्तीति। भोज्याभोज्यविभागप्रतिपादकविधिनिषेधशास्त्रातिवर्तित्वाद्यस्य कस्यापि गृहे भुङ्क्ते। तथा च श्रूयते— “सार्ववर्णिकं भैक्षमाचरन्नुदरपात्रेण " इति। “निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः " इत्युक्तत्वाच्‍च। कामत इच्छातो रूपं वेषधारणमस्यास्तीति कामरूपी “अव्यक्तलिङ्गा अव्यक्ताचाराः " इति श्रुतेः। इमे लोकाः काशीद्वारवत्यादिभूप्रदेशविशेषास्तेषु क्रमेण संचरति। न तु क्वचिद्गृहं कृत्वा निवसति “अनिकेतवास्यप्रयत्नः " इति श्रुतेः। यद्वा– “ब्रह्मादिस्थावरान्ता ये प्राणिनो मम पूः स्मृताः " इत्येवमुपदेशसाहस्र्यामभिहितेन प्रकारेण सर्वात्मत्वनिश्चये ये पुरुषा येषु येषु लोकेष्वनुसंचरन्ति तत्सर्वं स्वकीयमित्येव परितुष्यन्नवतिष्ठत इत्यर्थः। पुनरपि किं कुर्वन्—एतत्साम गायन्नेतदनन्तरमेव वक्ष्यमाणं साम गीत्यात्मकं मन्त्रम्। यद्वा समत्वप्रतिपादकं मन्त्रम् “सर्वेण समस्तेन साम " इति श्रुतेः। सर्वदा समस्तेन सामेत्यपि श्रुतं गायन्सामवेदोक्तक्रमेण गीतं कुर्वाञ्शिष्यान्प्रति स्वकीयसर्वात्मत्वप्रकटनं गानस्य फलम्।

हा३वु॒ हा३वु॒ हा३वु॒ (५)। अ॒हमन्नम॒हमन्नम॒हमन्नम्।


१ ग. घ. गीतिं। २ घ. ०कीयं सार्वात्म्यप्र ०।

[[686]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ९ अनु॰ १ ] अ॒हमन्ना॒दोऽ३॒हमन्ना॒दोऽ३॒हमन्ना॒दः। अ॒ह ँ श्लोक॒- कृद॒ह ँ श्लोक॒कृद॒हँ श्लोक॒कृत्। अहमस्मि प्रथमजा ऋता३स्य॒। पूर्वं देवेभ्यो अमृतस्य ना३भा॒यि॒। यो मा ददाति स इदेव मा३ऽऽ- वाः॒। अ॒हमन्न॒मन्न॒॑मदन्त॒मा३द्मि॒। अ॒हं विश्वं॒ भुव॑न॒मभ्य॑भ॒वा३म्। सुव॒र्न ज्योतीः॑, इति।

अथ सामस्वरूपं दर्शयति—हा३वु हा३वु इत्यादिना। अहोशब्दस्याऽऽश्चर्यवाचकस्यात्र गानार्थे वर्णविकारे सति हावुशब्दो निष्पद्यते। अतिशयद्योतनार्थं त्रिरावृत्तिः। पूर्वं देहमात्रवर्तिनो मम गुरुशास्त्रप्रसादलब्धज्ञानमात्रेण सर्वात्मकब्रह्मस्वरूपता प्राप्तेति यदस्ति तदिदमत्याश्चर्यमित्यर्थः। अहमन्नमित्यादिना सर्वात्मकत्वानुभवः प्रकटी क्रियते। यद्यदन्नं व्रीहियवगोधूमादिनिष्पाद्यं तत्सर्वमहमेव तस्मिन्नन्ने नामरूपभागस्य मिथ्यात्वाद-धिष्ठानभागस्य सच्चिदानन्दरूपस्य वस्तुनो मत्स्वरूपत्वात्। एवमन्नादश्लोककृतावपि द्रष्टव्यौ। ब्राह्मणक्षत्रियगवाश्वादिश्चेतनोऽन्नादः। श्लोकशब्दः संघवाची पद्यवाची वा। सैन्यादिरूपं संघं करोति संपादयतीति श्लोककृद्राजादिः। यद्वा काव्यादिग्रन्थेषु पद्यं करोतीति श्लोककृद्विद्वान्। अत्र कृत्स्नान्नकृत्स्नभोक्तृकृत्स्नविद्वत्संग्रहार्थं वाक्येषु वीप्सा। तत्राप्येतत्सर्वात्मकत्वमावश्यकम्। सत्य इव विश्वासोत्पादनार्थाय त्रिरुक्तिः। तस्याश्च विश्वासहेतुत्वं लोके वेदे च प्रसिद्धम्। “त्रिर्वः शपथयाम्यहम् " इत्यादिलोकप्रसिद्धिः। “त्रिषत्या हि देवाः” इति वैदिकप्रसिद्धिः। ऋतास्य ऋतस्य ब्रह्मणः प्रथमजाः प्रथमकार्यभूतो योऽस्ति हिरण्यगर्भः। हिरण्यगर्भकल्पनाधिष्ठानत्वात्। देवेभ्य इन्द्रादिभ्यः पूर्वमेवाहमस्मि। इन्द्रादीनामात्मना सृष्टत्वात्। सा च सृष्टिर्बृहदारण्यके पठ्यते—“तच्छ्रेयोरूपमत्यसृजत क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः " इत्यादिः। अमृतस्य मोक्षस्य चक्रनाभिवदाश्रयोऽस्मि। यथा रथचक्रस्य नाभिरराणां नेमेश्चाऽऽश्रयस्तद्वदहमपि मोक्षस्याऽऽश्रयः “तरति शोकमात्मवित्” इत्यात्मज्ञानेन मुक्तिश्रवणात्। य आचार्यो मामेवंविधपरमात्मानं ददाति शिष्येभ्य उपदिशति स इत्स एवाऽऽचार्य एवमुक्तप्ररेण परमात्मतां बोधयित्वा शिष्यानवति। अथवा यः पुमानुदारः सन्मामत्तुमन्नरूपं ब्राह्मणादिभ्यो ददाति स इत्स एवान्नस्य दाता पुरुषो ब्राह्मणादिरूपमावा वक्ष्यमाणप्रकारेणावति। “अन्नात्प्राणा भवन्ति”


१ ग. ०दिसं०। २ ख. ङ. ०रूपसं०। ३ क. ख. ङ. ०त्वमवश्यम्। ४ घ. ०नाय। ५ क. ख. ङ. ०त्रा क्षात्रा०। ६ ख. ङ. ०रुणं सो०। ७ ख. रुद्रमित्या०। ८ ग. ०मन्न०।

[[687]]

[प्रपा॰ ९ अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।

इत्यादिना कार्यपरम्परामन्नजन्यामाम्नाय—“तस्मादन्नं ददन्सर्वाण्येतानि ददाति” इति याज्ञिक्यामुपनिषदि वक्ष्यते। बोधयितव्यः परमात्मरूपो दात- व्यान्नरूपश्चाहमेवास्मीत्यर्थः। अहमन्नदेवतारूपः सन्दानमन्तरेण स्वयमेवान्नं भक्षयन्तं लोभयुक्तमतिकृपणं पुरुषमद्मि भक्षयामि। महारौरवादिनरकपातेन विनाशयामीत्यर्थः। “केवलाघो भवति केवलादी " इति श्रुतेः। “भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् " इतिस्मृतेश्च। अहं विश्वं सर्वं भुवनं लोकजातमभ्यभवं अभिभूतवान्। अहमेवेश्वररूपः सन्प्रलयकाले संहृतवानस्मि। सुवःशब्दः स्वर्गस्थमादित्यमुपलक्षयति। नशब्द उपमानार्थः। आदित्यो यथा प्रकाशान्तरनैरपेक्ष्येण स्वयमेव स्वप्रकाशरूपस्तथैवाहं चक्षुरादिनिरपेक्षः सन्नेव चैतन्यज्योतिरस्मि।

अनेन साम्ना प्रतिपादितः सर्वात्मत्वानुभवः कस्य फलमित्याशङ्कयाऽऽह- य ए॒वं वेद॑, इति। ब्रह्म पुच्छमितिवाक्येनोक्तमखण्डैकरसमानन्दात्मानं यः पुमानन्नमयादिद्वारेण साक्षात्करोति तस्यैतत्फलम्। यद्यपि स य एवंविदिति फलभाग्विद्वान्पूर्वमेव निर्दिष्टस्तथाऽपि विदुष एव फलं नेतरस्याविदुषः। विदुषस्त्ववश्यं फलं भवत्येवेति द्विविधनियमार्थं य एवं वेदेति पुमराम्नातम्।

अनुवाकार्थमुपसंहरति— इत्यु॑प॒निष॑त् (६) , इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्रपाठके दशमोऽनुवाकः॥ १०॥

भृगुर्वै वारुणिरित्यारभ्य य एवं वेदेत्यन्तेन ग्रन्थेन प्रतिपादिता येयं विद्या सेयमितिशब्देन परामृश्यते। सा चोपनिषच्छब्दवाच्या। तच्छब्दनिर्वचनं तु पूर्वमेव प्रपञ्चितम्। एषोपनिषत्समाप्तेति वाक्यशेषः॥

  • इति नवमप्रपाठके प्रथमोऽनुवाकः॥१॥

  • एतग्रे ग. पुस्तके— “राध्यते विद्युति मानवान्भवत्येको हा३वु य एवं वेदैकं च " इत्यधिकम्। + एतत्प्रपाठकस्याऽऽदौ—प्रपाठकानुवाकयोर्वै-परीत्यकारणस्योल्लेखष्टिप्पण्यां कृतोऽस्ति स तत्रावलोकनीयः।

१ घ. ०नन्दमात्मा ०।

[[688]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ९ अनु॰ १ ]

[*भृगु॒स्तस्मै॒ यतो वि॑शन्ति॒ तद्विजि॑ज्ञसस्व॒ त्रयो॑- दशान्नं॑ प्रा॒णो मनो॑ वि॒ज्ञानं॒ द्वाद॑श द्वादशाऽऽ- न॒न्दो दशान्नं॒ न नि॑न्द्या॒दन्नं॒ न परिचक्षी॒तान्नं॑ ब॒हु कु॑र्वीतैकादशैकादश॒ ] न कंचनैक॑षष्टि॒र्दश॑॥

स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्य॑ करवावहै। ते॒ज॒स्वि नावधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑+। हरिः॑ ॐ। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमः- प्रपाठकः समाप्तः॥ ९॥ वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्॥ पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥ १॥ इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्य- परमेश्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये वारुण्य- परनामधेयसांहित्यामुपनिषदि ब्रह्मवल्लयाख्यस्तृतीयोऽनुवाकः॥ ३॥ समाप्तेयं वारुण्यपरनामधेयवती सांहित्युपनिषत्।


  • एतच्चिह्नान्तर्गतग्रन्थस्थाने ग. पुस्तकेऽन्यथा पाठः। स यथा— “भृगु॒स्तस्मै॒ यतो॑ वै विशन्ति॒ तद्विजि॑ज्ञासस्व॒ तत्रयो॑द॒शान्नं॑ प्रा॒णो मनो॑ वि॒ज्ञानं॒ तद्वि॒ज्ञाय॒ तं तप॑सा॒ द्वाद॑श द्वादशाऽऽन॒न्द इति॒ सैषा दशान्नं॒ न नि॑न्द्यात्प्रा॒णः शरी॑र॒मन्नं॑ न परि॑चक्षी॒ताऽऽपो॒ ज्योति॒रन्नं॑ ब॒हु कुर्वी॑त पृ॒थि॒व्यामाका॒श एका॑दशैकादश॒ " इति।

  • एतदग्रे ग. पुस्तके— “भृगुरित्युपनिषत्। शं नो मित्रः। आवीद्वक्तारम्। ॐ शान्तिः " इत्यधिकम्।

[[689]]