०९

अथ नवमोऽनुवाकः। अन्नं॑ ब॒हु कु॑र्वीत। तद्व्र॒तम्, इति।

पूर्वत्र भोजनकाले प्राप्तमन्नमसम्यक्त्वबुद्धया न परिहरणीयमित्युक्तम्। इह त्वतिथिभ्यो दातुं बहुसंपादनमुच्यते।

पुनरप्यन्युदुपास्यं दर्शयति— पृ॒थि॒वी वा अन्न॑म्। आ॒का॒शो॑ऽन्ना॒दः। पृ॒थि॒व्या- मा॑का॒शः प्रति॑ष्ठितः। आ॒का॒शे पृ॑थि॒वी प्रति॑- ष्ठिता। तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम्, इति।

अधस्तादुपरिष्टाच्च वर्तमानस्याऽऽकाशास्य मध्येऽवस्थानात्पृथिव्या अन्नत्वमाकाशस्य चान्नादत्वम्। मुग्धदृष्ट्योपरिष्टादाकाशस्योपलब्धेस्तयोपलब्धेस्तयोराधाराधेयभावः। विचारदृष्ट्या त्वाकाश आधारः। तयोः परस्परान्नत्वं चिन्तनीयम्। ८६

[[682]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ९ अनु॰ १ ]

उपासनं विधत्ते— स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑ति- ष्ठति। अन्न॑वानन्ना॒दो भ॑वति। म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑। म॒हान्की॒र्त्या॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्रपाठके नवमोऽनुवाकः॥ ९॥