०८

अथाष्टमोऽनुवाकः। अन्नं॒ न परि॑चक्षीत। तद्व्र॒तम्, इति।

अथान्यदुपास्यं दर्शयति— आपो॒ वा अन्न॑म्। ज्योति॑रन्ना॒दम्। अ॒प्सु ज्योतिः॒ प्रति॑ष्ठितम्। ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः। तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् , इति। पीतानामपामुदराग्निना जीर्णत्वादपामन्नत्वम्। ज्योतिषश्चान्नादत्वम्। वृष्ट्युदके विद्युताग्निदर्शनाद्देहसंतापेन स्वेददर्शनाच्च जलज्योतिषोरन्योन्यप्रतिष्ठितत्वम्। अत एव परस्परान्नत्वम्।

उपासनं विधत्ते– स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑ति- ष्ठति। अन्न॑वानन्ना॒दो भ॑वति। म॒हान्भवति प्र॒जया॑ प॒शुभि॑र्ब्रह्मर्च॒सेन। म॒हान्की॒र्त्या॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवम- प्रपाठकेऽष्टमोऽनुवाकः॥ ८।