०७

अथ सप्तमोऽनुवाकः। अन्नं॒ न नि॑न्द्यात्। तद्व्र॒तम्, इति।

एवंशब्दः प्रकृतं परामृशति। अन्नं ब्रह्मेत्यारभ्याऽऽनन्दो ब्रह्मेत्येतदन्तं प्रकृतम्। तत्र ब्रह्मज्ञानं प्रत्यन्नस्य प्रथमद्वारत्वात्तस्मिन्प्रतीके ब्रह्मदृष्टिं विधत्ते—यः पुमानन्नं ब्रह्मेत्युपास्ते स पुमान्मनश्चाञ्चल्यराहित्येन प्रतिष्ठितो भवति। किंच प्रभूतान्नयुक्तस्तदन्नमत्तुं समर्थो रोगादिरहितो भवति। पुत्रपौत्रादिप्रजया गवाश्वादिपशुभिर्वेदशास्राभ्यासरूपेण ब्रह्मवर्चसेन तत्तद्विषयजनितकीर्या च समृद्धो भवति। यस्मादन्नेन द्वारभूतेनोपासितेन ब्रह्मज्ञानं लभते तस्मादयमुपासको गुरुमिवान्नं न निन्द्यात्। तद्व्रतमिति तदेतदनिन्दनमस्योपासकस्य व्रतं नियमेन संपादनीयम्। तदतिक्रमे सत्युपा-सनमङ्गविकलं स्यात्।

अथोपासनान्तरं विधातुमुपास्यं दर्शयति— प्रा॒णो वा अन्न॑म्। शरी॑रमन्ना॒दम्। प्रा॒णे शरी॑रं॒ प्रति॑ष्ठितम्। शरी॑रे प्रा॒णः प्रति॑- ष्ठितः। तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम्, इति।

यथा शरीरस्यान्तरे भुक्तमन्नं भवति तथा शरीरमध्येऽवस्थानात्प्राण एवान्नम्। मध्यवर्तिनस्तस्य प्राणरूपस्यान्नस्य धारणाच्छरीरमन्नादं भोक्तृरूपं गृहमध्यवर्तिस्तम्भवद्देहमध्यवर्तिप्राणस्य देहधारित्वात्प्राणे शरीरे प्रतिष्ठितं भवति। प्राणस्य देहधारणत्वं प्राणसंवादे श्रूयते— “अहमेवैतत्पञ्चधाऽऽत्मानं प्रविभज्यैद्बाणमवष्टभ्य विधारयामि " इति। शरीरस्य च प्राणधारणत्वं प्रत्यक्षम्। तदेतत्प्राणशरीरयोरन्योन्याधारत्वं चिन्तनीयम्। किंच प्राणस्यान्तरवस्थानेनान्नत्वं पूर्वमुक्तम्। देहस्यान्नकार्यत्वादन्नत्वम्। तथा सत्युभयोरन्नत्वात्पूर्वोक्तरीत्या परस्पराधारत्वाच्चान्नमेवान्ने प्रतिष्ठितमित्यपि चिन्तनीयम्।

उपास्यमभिधाय तदुपासनं विधत्ते— स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ प्रतितिष्ठति। अन्न॑वानन्ना॒दो

[[681]]

[प्रपा॰ ९ अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।

भ॑वति। म॒हान्भ॑वाति प्र॒जया॑ प॒शुभिर्ब्रह्मवर्च॒सेन॑। म॒हान्की॒र्त्या॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवम- प्रपाठके सप्तमोऽनुवाकः॥ ७॥