अथ षष्ठोऽनुवाकः। आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात्। आ॒नन्दा॒ध्द्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते। आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति। आ॒न॒न्दं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑।
अथ पञ्चमपर्याये संपन्नं निश्चय दर्शयति—तद्विज्ञायेत्यादिना। कर्तृत्वस्य क्लेशा-
१ घ. ०क्तनीत्या। २ घ. ०नत्या०। ३ क. घ. ०र्यायसं०।
[[678]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ९ अनु॰ १ ] त्मकत्वान्न विज्ञानस्य ब्रह्मत्वं युक्तम्। किंचान्नादिविज्ञानान्तानां चतुर्णामपि न सर्वभूतोत्पत्तिहेतुत्वमस्ति। आकाशादिभूतानामन्नादिभ्यो भौतिकेभ्यो जन्मासंभावात्। आनन्दस्य तु क्लेशरहितत्वात्स्वरूपेण सर्वाभीष्टतया परमपुरुषार्थत्वादाकाशादिसर्वभूतकारणत्वाच्च ब्रह्मत्वं मुख्यमेव संभवति। तस्याऽऽनन्दस्य स्वरूपं छन्दोगा आमनन्ति—“यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम् " इति। द्वौ हि पदार्थौ भूमाऽल्पं चेति। तत्र बहोर्भावो भूमेति व्युत्पत्तेर्बाहुल्यात्मको यः पदार्थस्तदेव सुखं न तु भूम्न उपरितनेऽल्पपदार्थे सुखमस्ति। भूमा तु सुखं भवत्येव। तयोर्भूमाल्पयोर्लक्षणभेदस्तत्रैवाऽऽम्नात: — “यत्र नान्यत्पश्यति स भूमा। अथ यत्रान्यत्पश्यति तदल्पम् " इति। अन्यो द्रष्टा स्वातिरिक्तमन्यद्द्रष्टव्यं पश्यतीत्यादयस्त्रिपुट्यो यस्मिन्नद्वैतपदार्थे न सन्ति सोऽयमद्वैतपदार्थो भूमा। त्रिपुटीरूपं द्वैतं यस्मिञ्जगत्यस्ति तज्जगदल्पम्। तयोभूर्माल्पयोर्नित्यत्वानित्यत्वे च तत्रैवाऽऽम्नायेते—“यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्” इति। द्वैतावस्थयोर्जाग्रत्स्वप्नरूपयोर्दुःखमेव प्रायेणानुभूयते। यदि क्वचित्कदाचित्सुखं स्यात्तदपि साधनप्रयासतारतम्याविनाशित्वदोषैरुपेतत्वाद्दुःखमेव।
तदुक्तं श्रेयोमार्गकारै: — “इह बत दुर्लभलाभाः सुखलेशभङ्गिनो यतः शरीरभृताम्। तेऽपि च दुःखायातो दुःखानि पुनस्ततोऽपि दुःखानि " इति।
अनेनाभिप्रायेण नाल्पे सुखमस्तीत्युक्तम्। अद्वैतावस्थयोस्तु सुषुप्तिसमाध्योः सुखमेव स्वप्रकाशमवतिष्ठते। न च तस्य दुःखाभावत्वं शङ्कनीयम्। अभावस्य स्वप्रकाशत्वासंभवात्। प्रमाणेन विना भासमानत्वात्स्वप्रकाशत्वम्। न खल्वद्वैतं प्रमाणेन तदा प्रमीयते। तथा सति द्वैतापत्त्या सुषुप्तिभङ्गप्रसङ्गात्। भासमानत्वं विप्रतिपत्त्यभावादवगन्तव्यम्। यदा जाग्रत्स्वप्नौ विप्रतिपत्तिमकृत्वा जनोऽभ्युपगच्छति तदा सुषुप्तिसमाधौ अप्यविप्रतिपत्त्याऽभ्युपसंगच्छत्येव। तस्मात्साधनमन्तरेण भासमानतया स्वप्रकाशत्वादद्वैतस्य न दुःखाभावत्वम्। *विषयलाभवत्सुषुप्तिसमाध्योः प्रीतिविषयत्वादद्वैतं सुखरूपम्। सर्वे जना असति कर्तव्यान्तरे सौषुप्तं सुखं काङ्क्ष- न्तः शेरते। तत्त्वज्ञानिनश्च सुखाभिलाषेणैव निर्विकल्पं समाधिं कुर्वन्ति। उभयेऽप्युत्तरकाले सुखमहमस्वाप्सं सुखमहं समाहितवानस्मीति तत्सुखमनुस्मरन्ति। आभ्यां सुषुप्तिसमाधिदृष्टान्ताभ्यां द्वैतसृष्टेः प्राचीनमप्यद्वैतं सुखमित्यवगन्तव्यम्। तस्मादद्वैतरूपादानन्दादेवेमान्याकाशादीनि हिरण्यगर्भादीनि च द्वैतरूपाणि भूतान्युत्पद्यन्ते। ननु द्वैताद्वैतरूपौ
- किं तर्हीत्यादिः।
१ घ. संभवन्ति। २ क. ख. घ. ङ. ०लेशा भ०।
[[679]]
[प्रपा॰ ९ अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।
सृष्टिप्रलयावहोरात्रवत्क्रमेण पुनः पुनः पर्यावर्तेते। तथा सत्येकस्य वस्तुनः परस्परविरुद्धरूपद्वयासंभवादेकस्य स्वाभाविकत्वमितरस्याऽऽगन्तुकत्वं च वक्तव्यम्। तत्र कस्य स्वाभाविकत्वं कस्य वाऽऽगन्तुकत्वं युक्तम्। उच्यते। साधननैरपेक्ष्यत्वमद्वैतस्य सुषुप्तौ संप्रतिपन्नम्। द्वैतरूपं तु जागरणमह्नि विषयादिबहुसाधनलापेक्षत्वम्। तस्मात्स्वाभाविकाद्वैतरूप आनन्दो जगत आगन्तुकस्य द्वैतरूपस्योपादानम्। यथा समुद्र एकः फेनतरङ्गबुद्बुदादीना- मनेकेषामुत्पत्तिस्थितिलयहेतुस्तद्वत्। तदेतज्जगत्कारणत्वलक्षणेन लक्षित-मानन्दमद्वैतरूपं ब्रह्मैकाग्र्यलक्षणेन तपसा भृगः साक्षात्कृतवान्। तस्मात्तदेव तपो मुख्यं साधनम्। तस्य चैकाग्र्यरूपस्य परमतपसः संपादनाय बहुविधा उपायाः पातञ्जलादियोगशास्त्रे प्रपञ्चिताः।
यथोक्ताख्यायिकायां जगत्कारणत्वेन विचारितस्य ब्रह्मण आनन्दरूपस्य साक्षात्कारे चित्तैकाग्र्यरूपं तपोऽन्तरङ्गसाधनमित्युक्तम्। अन्नादिभ्यो विज्ञा- नान्तेभ्यश्चतुर्भ्योऽतिरिक्तमानन्दरूपं यथा तत्त्वं तथैवाऽऽनन्दादप्यधिकं तत्त्वान्तरमिति शङ्कां वारयितुं विद्यामुपसंहरति– सैषा भा॑र्ग॒वी वा॑रु॒णी वि॒द्या। प॒र॒मे व्यो॑म॒न्प्रति॑ष्ठिता, इति।
तच्छब्देन श्रुत्यन्तरप्रसिद्धिरुच्यते। “ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता। स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह " इत्येका श्रुतुः। “अथाऽऽश्वलायनो भगवन्तं परमेष्ठिनं परिसमेत्योवाच। अधीहि भगवन्ब्रह्मविद्यां वरिष्ठाम् " इत्यपरा श्रुतिश्च। एतच्छब्द एकाग्रचित्तजन्यानुभवप्रसिद्धिमाचष्टे। भृगुणा लब्धा भार्गवी। वरुणेन प्रोक्ता वारुणी। तादृशी विद्या परमे व्योमनि ब्रह्मतत्त्वे परिसमाप्ता। “तस्माद्वा एतस्मादात्मन आकाशः संभूतः” इति यदुक्तं तदेतपरं व्योम। “एतस्मिन्खल्वक्षरे गार्गि आकाश ओतश्च प्रोतश्च” इति यदव्याकृतं श्रुतं तदेतन्मध्यमं व्योम। ऋचो अक्षरे परमे व्योमन्निति श्रुतमविनश्वरमृगादिकल्पनाधिष्ठानमृग्वे- दादिप्रतिपाद्यं यद्ब्रह्मतत्त्वं तदेतदुत्तमं व्योम। न ह्येतस्मादधिकं किंचिद्वेद्यमस्ति। तथा च श्वेताश्वतरा आमनन्ति—“एतज्ज्ञेयं नित्यमेवाऽऽत्मसंस्थं नातः परं वेदितव्यं हि किंचित् " इति। तस्मादस्मिन्ब्रह्मणि विद्या समाप्ता। एकाग्रचित्तस्योत्तमाधिकारिणः सेयं विद्या सुलभा। यस्तु सांसारिकफलकामनया चञ्चलचित्तस्तस्य तत्फलसाधनोक्तिव्याजेन चित्तैकाग्र्यहेतुमुपासनं विधत्ते– स य ए॒वं वेद॒ प्रति॑तिष्ठति। अन्न॑वानन्ना॒दो भ॑वति। म॒हा-
१ ख. ०स्परं वि०। २ घ. ०विकोऽद्वै०। ४ ०क्षणल०।
[[680]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ९ अनु॰ १ ] न्भ॑वति। प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑। म॒हान्की॒र्त्या॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्रपाठके षष्ठोऽनुवाकः॥ ६॥