अथ पञ्चमोऽनुवाकः।
वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात्। वि॒ज्ञाना॒ध्द्ये॑व खल्वि- मानि॒ भूता॑नि॒ जाय॑न्ते। वि॒ज्ञाने॑न जाता॑नि जीव॑न्ति। वि॒ज्ञानं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑।
अथ चतुर्थपर्याये संपन्नं निश्चयं दर्शयति—तद्विज्ञायेत्यादिना। मनसश्चक्षु- रादिवत्करणत्वेन कर्तृपरतन्त्रत्वान्न ब्रह्मत्वं युक्तम्। विज्ञानस्य तु कर्तृत्वं “विज्ञानं यज्ञं तनुते " इति स्पष्टमेवाऽऽम्नातम्। तल्लक्षणं च तत्र सुलभम्। कर्मद्वारा देहोत्पत्तिहेतुत्वात्। “यत्कर्म कुरुते तदभिसंपद्यते। पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन " इत्यादिश्रुतेः। लोकिककृष्यादेः कर्तृत्वेन जीवनहेतुत्वं मरणकारणयुद्धादिप्रवृत्त्या लयहेतुत्वं च। तस्मल्लक्षणलक्षितस्य विज्ञानस्य ब्रह्मत्वं युक्तम्।
तद्वि॒ज्ञाय॑। पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार। अधी॑हि भगवो॒ ब्रह्मेति॑। त ँ हो॑वाच। तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व। तपो॒ ब्रह्मेति॑। स तपो॑ऽतप्यत। स तप॑स्त॒प्त्वा॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवम- प्रपाठके पञ्चमोऽनुवाकः॥ ५॥