अथ चतुर्थोऽनुवाकः। मनो॒ ब्रह्मेति॒ व्य॑जानात्। मन॑सो॒ ह्येव॑ खल्वि॒- मानि॒ भूता॑नि॒ जाय॑न्ते। मन॑सा॒ जाता॑नि॒ जीव॑न्ति। मनः॒ प्रय॑न्त्य॒भिसंवि॑शन्तीति॑॥
अथ तृतीयपर्याये संपन्नं निश्चयं दर्शयति—तद्विज्ञायेत्यादिना। प्राणस्य जडत्वाद्ब्रह्मत्वमयुक्तम्। “प्रज्ञानं ब्रह्म विज्ञानमानन्दं ब्रह्म " इत्यादौ ब्रह्मणश्चेतनत्वं प्रतीयते। मनश्च ज्ञानशक्तित्वाच्चेतनम्। जन्मादिकारणत्वं लक्षणं च मनसि विद्यते। यथा पूर्वत्र गर्भे प्राणप्रवेशस्य देहोत्पत्तिनिमित्तत्वमुक्तम् तथा प्राणप्रवेशोऽपि मनोधीनतया तत्प्रश्नोत्तरवाक्ययोराथर्वणिकैराम्नायते—“कथमायात्यस्मिञ्शरीरे " इति गार्ग्यस्य प्रश्नः। “मनोकृतेनाऽऽयात्यस्मिञ्शरीरे " इति पिप्पलादस्योत्तरम्। मनोकृतो मनःकृत ईदृशं देहं प्राप्स्यामीत्येवंविधो मरणकालीनः कर्मप्रेरिते मनसि जायमानः संकल्पः। तेन संकल्पेन पूर्वदेहावसानजनितेन तत्रत्यः प्राणोऽस्मिञ्शरीरे समायाति। अयमर्थस्तस्यामेव श्रुतौ विस्पष्टमाम्नायते—“इन्द्रियैर्मनसि संपद्यमानैर्यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहाऽऽत्मना यथासंकल्पितं लोकं नयति " इति। मरणकाले मनसि वृत्तिलयं प्राप्नुवद्भिर्वागादीन्द्रियैः सहितो जीवो यस्मिन्भाविदेहोचितवृत्तियुक्तो भवति तेन भाविदेहविषयज्ञानेन सहैष जीवः प्राणमायाति प्राणप्रधानो भवति। स च प्राणस्तेजसा भाविदेहध्यानलक्षणेन युक्तो लिङ्गदेहं सर्वं जीवात्मना सह संकल्पानुसारिणं लोकं प्रापयति। तत्र दृष्टान्तो बृहदारण्यके समाम्नात: — “तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्याऽऽत्मानमुपसंहरत्येवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वाऽन्यमाक्रममाक्रम्याऽऽत्मनमुपसंहरति” इति। [यथा ] तृणेषु संचरन्ती जलूका तृणान्तं प्राप्य प्रथमं मुखेन तृणान्तरमवलम्ब्य ततः पृष्ठभागं तृणान्तरं नयति तथा जीवात्मा मरणकाले स्वकीयत्वाभिमानपरित्यगेनेदं वर्तमानशरीरमविद्यां गमयित्वा चैतन्यराहित्यमापाद्य मनसा देहान्तरं भावयित्वा कृत्स्नदेहं लिङ्गविशिष्टं स्वात्मानं देहान्तरं नयति। तस्माद्देहविशिष्टाः प्राणिनो मनसो जायन्ते। कृषिवाणिज्यादे-
१ क. ख. ग. ङ. ०या प्रश्नो।० २ घ. ०देहे चित्तवृ०।
[[677]]
[प्रपा॰ ९ अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।
र्जीवनोपायस्य मनसा विचार्य संपाद्यत्वान्मनसो जीवनहेतुत्वम्। उक्तरीत्या मनसाऽभिमानपरित्यागेन मरणाल्लयहेतुत्वं च। तस्माल्लक्षणसद्भावान्मनसो ब्रह्मत्वं निश्चितम्।
तद्वि॒ज्ञाय॑। पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार। अधी॑हि भगवो॒ ब्रह्मेति॑। तँ हो॑वाच। तप॑सा॒ ब्रह्म॒ विजि॑ज्ञा- सस्व। तपो॒ ब्रह्मेति॑। स तपो॑ऽतप्यत। स तप॑स्त॒प्त्वा॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवम- प्रपाठके चतुर्थोऽनुवाकः॥ ४॥