०३

अथ तृतीयोऽनुवाकः। प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात्। प्रा॒णाद्ध्ये॑व खल्वि॒- मानि॒ भूता॑नि॒ जाय॑न्ते। प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति। प्रा॒णं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑।

अथ भृगोर्द्वितीयपर्याये संपन्नं निश्चयं दर्शयति—तद्विज्ञायेत्यादिना। तत्पूर्वो- क्तमन्नस्य ब्रह्मत्वं विज्ञाय लक्षणसद्भावाद्विशेषेण निश्चित्य तस्मिन्नपरितुष्टो बुभुत्सति संशयवशात्। पुनरपि मन्त्रपुरःसरं गुरुमुपससारैव न त्वालस्यं कृतवान्। अपरितुष्टस्य भृगोरयमाशयः। वाजसनेयिनस्तावदेवमामनन्ति—-“अन्नं ब्रह्मेत्येवमाहुः। तन्न तथा पूयति वा अन्नमृते प्राणात् " इति। अन्नस्य पूतिगन्धस्तत्कार्ये देहे स्पष्टमुपलभ्यते।

विष्णुपुराणेऽप्यसौ दर्शित: — “स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान्। विरागकारणं तस्य किमन्यदुपदिश्यते " इति॥

तस्माद्देहोत्पत्तिस्थितिलयकारणस्याप्यन्नस्य ब्रह्मत्वमयुक्तमिति। तस्योपसन्नस्य भृगोर्वरुणः पूर्वोक्तमैकाग्र्यरूपं तप एव साधनत्वेनोपदिदेश। तस्य च तपसो ब्रह्मसाक्षात्कारं प्रत्यन्तरङ्गत्वविवक्षया तपो ब्रह्मेत्यभेद उपचरितः। सत्यज्ञानादिस्वरूपलक्षणवाक्येन ब्रह्मण्युपदिष्टे सत्यागमप्रमेयत्वेन धर्माधर्मवत्परोक्षमेव ब्रह्मावगम्येत। ऐकाग्र्यबुद्धया द्रष्टुं शक्यमित्यभिप्रेत्य ब्रह्मस्वरूपमनुक्त्वा वरुणस्तप एवोक्तवान्। भृगुश्चैकाग्र्यचित्तेन पूर्वोक्तं जगत्कारणत्वलक्षणं योजयित्वा प्राणस्य ब्रह्मत्वं निश्चितवान्। ऐतरेयिणः प्राणस्य देहोत्पत्तिनिमित्तत्वं व्यतिरेकमुखेणाऽऽमनन्ति—“न ह वा ऋते प्राणाद्रेतः सिच्यते यद्वा ऋते प्राणाद्रेतः सिच्येत पूयेन्न संभवेत् " इति। कश्चिज्जीवो लिङ्गदेहयुक्तः स्वर्गान्नरकाद्वा वृष्टिद्वारेणाऽऽगत्यान्नेन सह पुरुषं प्रविश्य रेतसा सह योषिद्गर्भं यदा प्रविशति तदा तद्रेतस्त्वन्तः प्रविष्टेन प्राणवायुना शोषं प्राप्य पिण्डादिक्रमेण देहमुत्पादयति। प्राणाभावे तु देहं नोत्पादयतीत्यर्थः। यथोत्पत्तिहेतुत्वं तथा जीवनहेतुत्वमपि कौषीतकिभिराम्नायते—“यावदस्मिञ्शरीरे प्राणो वसति तावदायुः " इति। प्राणोत्क्रान्तौ देहस्य मरणं प्रसिद्धम्। तस्मादुपादानत्वाभावेऽपि जन्मादि-त्रितयनिमित्तत्वात्प्राणो ब्रह्मेति भृगोर्निश्चयः।

तद्वि॒ज्ञाय॑। पुन॑रे॒व वरु॑णं पित॑र॒मुप॑ससार। अधी॑हि भगवो॒ ब्रह्मेति॑। त ँ हो॑वाच। तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व। तपो॒


१ क. ख. ङ. ०पपन्न०।

[[676]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ९ अनु॰ १ ] ब्रह्मेति॑। स तपो॑ऽतप्यत। स तप॑स्त॒प्त्वा॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवम- प्रपाठके तृतीयोऽनुवाकः॥ ३॥