अथ द्वितीयोऽनुवाकः। अन्नं॒ ब्रह्मेति॒ व्य॑जानात्। अ॒न्नाद्ध्येव खल्वि॒- मानि॒ भूता॑नि॒ जाय॑न्ते। अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति। अन्नं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑।
सर्वथाऽपि श्रूयमाणं जगत्कारणत्वं मायाविशिष्टस्य ब्रह्मण उपपन्नम्। जगत्कारणत्वरूपेण तटस्थलक्षणेनोपलक्षितस्य ब्रह्मणो विज्ञाने विचारः साधनमित्येवं श्रुतवतो भृगोः प्रथमपर्याये संपन्नं निश्चयं दर्शयति–स तप इत्यादिना। तपःशब्देनाऽऽश्रमचतुष्टयधर्मो विवक्षितः। तस्य ब्रह्मज्ञानहेतुत्वात्। अनाश्रमिधर्मस्य जपादेरपि तद्धेतुत्वं यद्यपि निर्णीतं तथाऽप्याश्रमिणां धर्मोऽतिप्रशस्तः। तथा च बादरायणेन सूत्रितम्—“अतस्त्वितरज्ज्यायो लिङ्गाच्च " इति (ब्र॰ सू॰ अ॰ ३ पा॰ ४ सू॰ ३९) इति। आश्रमधर्मेऽपि तपःशब्दः श्रुतिस्मृत्योः प्रयुज्यते। “तपो हि स्वाध्यायः " इति ब्रह्मचारिधर्मः। “एतत्खलु वाव तप इत्याहुर्यः स्वं ददाति " इति गृहस्थधर्मः। “तपो नानशनात्परम् " इति वनस्थधर्मः। “मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः। तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते " इति यतिधर्मः। तत्र स्वाध्यायेन ब्रह्मावबोधे प्रमाणं संपादितं भवति। दानेन विविदिषोत्प- द्यते। “विविदिषन्ति ज्ञानेन दानेन " इति श्रुतेः। अनशनस्येन्द्रियदर्पनिवारकत्वं प्रसिद्धम्। ऐकाग्र्यस्य साक्षादेव ज्ञानहेतुत्वं “दृश्यते त्वग्र्यया बुध्द्या” इत्याम्नातम्। अतः स भृगुः स्वाध्यायपूर्वकमैकाग्र्यरूपं तपः कृतवान्। तेनैकाग्र्येण युक्तो विचार्य जगज्जन्मस्थितिलयहेतुत्वलक्षणयोजनेनान्नस्य ब्रह्मत्वं निश्चितवान्। भूतशब्देन स्थूलदेहा विवक्षिताः। ताषामन्नादुत्पत्तौ लोकप्रसिद्धिद्योतनाय हिशब्दः। गर्भाशयस्थितान्नरसात्मकत्वेन शुक्रशोणितव्यतिरिक्तं कारणं व्यावर्तयितुमेवकारः। “अन्नात्पुरुषः " इत्यादिश्रौतप्रसिद्ध्यर्थः खलुशब्दः। यद्यप्याकाशादिभूतानि स्वरूपेणान्नान्नोत्पद्यन्ते
१ ख. घ. ०र्मः। यत्तत्ख०। २ क. ख. घ. ङ. ०त्मत्वे०। ३ ग. ङ. शुक्लशो०।
[[672]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ९ अनु॰ १ ] तथाऽपि देहाकारपरिणतानां तेषां जन्मान्नाधीनमित्यन्नस्य जगद्धेतुत्वमभिप्रेतम्। अत्र तपःशब्देनोर्ध्वरेतसामाश्रमाणां धर्मो विवक्षितः।
तेषां सद्भावस्तृतीयाध्यायस्य चतुर्थपादे* चिन्तित: — “नास्त्यूर्ध्वरेताः किंवाऽस्ति नास्त्यसावविधानतः। वीरघातो विधेः क्लृप्तावन्धपङ्ग्वादिगा स्मृतिः॥ अस्त्यपूर्वविधेः क्लृप्तेर्वीरहाऽनग्निको गृही। अन्धादेः पृथगुक्तत्वात्स्वस्थानां श्रूयते विधिः॥
पूर्वाधिकरणे स्वतन्त्रमात्मविज्ञानमित्युक्तम्। तस्य चाऽऽत्मज्ञानस्योर्ध्वरेतः स्वाश्रमेषु सुलभत्वादाश्रमसद्भावश्चिन्त्यते। तत्र नास्त्यूर्ध्वरेता इति प्राप्तम्। कुतः। विध्यभावात्। छान्दोग्ये—-“त्रयो धर्मस्कन्धाः। यज्ञोऽधययनं दानमिति प्रथमः। तप एव द्वितीयः। ब्रह्मचार्याचार्यकुलवासी तृतीयः " इत्यत्र यज्ञाद्युपलक्षितगार्हस्थ्यस्य तपःशब्दलक्षितवानप्रस्थत्वस्य नैष्ठिकब्रह्मचर्यस्य च परामर्शमात्रं गम्यते। न तु विधिरुपलभ्यते। न चापूर्वार्थत्वेन विधिः कल्पयितुं शक्यः। “वीरहा वा एष देवानां योऽग्निमुद्वासयते” इत्यग्न्युद्वासनलक्षणस्य गार्हस्थ्यपरित्यागस्य निन्दितत्वात्। “चत्वार आश्रमाः” इति स्मृतिस्तु गार्हस्थ्यधर्मानधिकृतान्धपङ्ग्वादिविषया भविष्यति। न ह्यन्धस्याऽऽज्यावेक्षणाद्युपेते कर्मण्यधिकारेऽस्ति। नापि पङ्गोर्विष्णुक्रमणाद्युपेते कर्मण्यधिकारः। तस्माच्चक्षुरादिपाटवयुक्तस्याऽऽत्मज्ञानोपयुक्त उर्ध्वरेता आश्रमो नास्तीति प्राप्ते ब्रूम: — अस्त्यूर्ध्वरेता आश्रमः। विध्यश्रवणेऽप्यपूर्वार्थत्वेन कल्पयितुं शक्यत्वात्। न च वीरघातदोषः। उत्सन्नाग्निकगृहिविषयत्वाद्वीरहत्यायाः। यत्त्वन्धादिविषयत्वं स्मृतेरुक्तम्। तदसत्। “अथ पुनरव्रती वा व्रती वा स्रातको वाऽस्नातको वोत्सन्नाग्निरनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् " इति विरक्तानां गार्हस्थ्यानधिकृतानां पृथक्संन्यासविधानात्। न च चक्षुरादिपाटववतामाश्रमान्तरविधिः कल्पनीयः। जाबालश्रुतौ प्रत्यक्षविध्युपलम्भात्—“ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत्” इति। तस्मादस्त्याश्रमान्तरम् “।
आश्रमाणामवरोहाभावस्तत्रैव* चिन्तित: — “अवरोहोऽस्त्याश्रमाणां न वा रागात्स विद्यते। पूर्वधर्मश्रद्ध्या वा यथाऽऽरोहस्तथैच्छिकः॥
- परामर्शं जैमिनिरचोदनां चापवदति हि— अ॰ ३ पा॰ ४ अ॰ २ सू॰ १८ वर्णकम् १। + जायामरणेन नष्टाग्निरुत्सन्नाग्निः। पूर्वमेवाग्निपरिग्रहरहितोऽनग्निः। * तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः—- अ॰ ३ पा॰ ४ अ॰ १० सू॰ ४०।
१ घ. इति।
[[673]]
[प्रपा॰ ९ अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।
रागस्यातिनिषिद्धत्वाद्विहितस्यैव धर्मता। आरोहनियमोक्त्यादेर्नावरोहोऽस्ति शास्त्रतः॥ “ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत्” इत्याश्रमाणामारोह इच्छाधीनो यथा भवति तथा पारिव्राज्याद्वानप्रस्थ इत्याद्यवरोहोऽपि क्वचिद्रागवशात्क्वचित्पूर्वाश्रमद्धावशाच्च युक्त इति प्राप्ते ब्रूम: — रागस्ता- वन्मिथ्याज्ञानमूलत्वान्निषिद्धः। न च पूर्वाश्रमधर्मश्रद्धा युज्यते। उत्तराश्रमिणं प्रत्यविहितत्वेन धर्मत्वाभावात्। न हि यो येनानुष्ठातुं शक्यते श्रद्धीयते च स तस्य धर्मो भवति। किं तर्हि यो यं प्रति विहितः स तस्य धर्मः। किंच “ततो न पुनरेयात् " इत्यवरोहनिषेधेनाऽऽरोहो नियम्यते। न चाऽऽरोहवदवरोहे शिष्टाचारो दृश्यते। तस्मान्नास्त्यवरोहः “।
आश्रमभ्रंशे प्रायश्चित्तं तत्रैव* चिन्तितम्— “भ्रष्टोर्ध्वरेतसो नास्ति प्रायश्चित्तमथास्ति वा। अदर्शनोक्तेर्नास्त्येतद्व्रतिनो गर्दभः पशुः॥ उपपातकमेवैतद्व्रतिनो मधुमांसवत्। प्रायश्चित्ताच्च संस्काराच्छुद्धिर्यत्नपरं वचः॥
नैष्टिकब्रह्मचर्यादूर्ध्वरेतस्त्वं प्राप्य पुनः स्त्रीप्रसङ्गेन भ्रष्टस्य प्रायश्चित्तं नास्ति। “आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः। प्रायश्चित्तं न पश्यामि आत्महा”॥
इति प्रायश्चित्तादर्शनवचनात्। “अथ यो ब्रह्मचारी स्त्रियमुपेयात्स गर्दभं पशुमालभेत " इत्यस्ति प्रायश्चित्तमित्युच्येत। तन्न। तस्य व्रतिविषयतिवात्। उपकुर्वाणाख्यो यो वेदाध्ययनाङ्गत्वेन ब्रह्मचर्यव्रतमनुतिष्ठति तद्विषयमिदं प्रायश्चित्तवचनम्। तस्मादूर्ध्वरेतस्त्वाद्भ्रष्टस्य नास्ति प्रायश्चितमिति प्राप्ते ब्रूम: — यथोपकुर्वाणस्य मधुमांसभक्षणमुपपातकमिति प्रायश्चित्तपुरःसंस्कारौ विद्येते तद्वदूर्ध्वरेतसोऽपि गुरुदारादिभ्योऽन्यत्र प्रवृत्तिरुपपातकमेव तत्। न तु महापातकम्। ततः प्रायश्चित्तात्पुनःसंस्काराच्च शुद्धिर्भवति। यदि महापातकेष्वपरिगणितत्वेनोपपातकत्वमाश्रित्य प्रायश्चित्तमुच्येत तर्ह्यदर्शनवचनस्य का गतिरिति चेद्यत्नपरं तद्वाक्यमिति ब्रूमः। अत एव प्रायश्चित्तं न पश्यामीत्याह। न तु नास्तीति। प्रायश्चित्तं तु गर्दभपशुरेव ब्रह्मचारित्वस्य समत्वात्। तथा वनस्थपरिव्राजकयोरपि भ्रंशे प्रायश्चित्तं स्मर्यते— “वानप्रस्थो दीक्षाभेदे कृच्छ्रं
- न चाऽऽधिकारिकमपि पतनानुमानात्तदयोगात्— अ॰ ३ पा॰ ४ अ॰ ११ सू॰ ४१।
१ क. ख. ग. ङ. ०त्तमाश्र०। २ क. ख. ङ. येन स्वनु०। ३ ०स्त्येव व्रति०। ४ क. ख. ग. ङ. ०व। न। ५ क. ग. ङ. ०द्धिरिति। ६ घ. ०त्वेन तदुप०। ७ घ. समानत्वा०। ८५
[[674]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ९ अनु॰ १ ]
द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत्। भिक्षुर्वनस्थवत्सोमवृद्धिवर्जम्” इति। कक्षवृद्धिर्वनावापः सोमवृद्धिरपि स एव “।
प्रायश्चित्तेनाऽऽमुष्मिकमात्रशुद्धिस्तत्रैव* दर्शिता— “शुद्धः शिष्टैरुपादेयस्त्याज्यो वा दोषहानितः। उपादेयोऽन्यथा शुद्धिः प्रायश्चित्तकृता वृथा॥ आमुष्मिक्येव शुद्धिः स्यात्ततः शिष्टास्त्यजन्त्यमुम्। प्रायश्चित्तादृष्टिवाक्यादशुद्धिस्त्वैहिकीष्यते॥
पूर्वोक्तप्रायश्चित्तापादितशुद्ध्यन्यथानुपपत्त्या कृतप्रायश्चित्तस्य शिष्टैः सह व्यवहारोऽस्तीति प्राप्ते ब्रूम: — आमुष्मिकशुद्धिसद्भावेऽपि प्रायश्चित्तादर्श-नवचनादैहिकशुद्धयभावाच्छिष्टैरेष न व्यवहार्यः “।
एतेष्वाश्रमेषु लोकविशेषप्राप्तिहेतोः प्रवृत्तिलक्षणस्य तपसो ज्ञानसाधन- त्वाभावान्निवृत्तिलक्षणस्यैकाग्र्यादिरूपस्य तपसो ज्ञानहेतुत्वं तत्रैवं+ चिन्तितम्— “लोककाम्याश्रमी ब्रह्मनिष्ठामर्हति वा न वा। यथावकाशं ब्रह्मैव ज्ञातुमर्हत्यवारणात्॥ अनन्यचित्तता ब्रह्मनिष्ठाऽसौ कर्मठे कथम्। कर्मत्यागी ततो ब्रह्मनिष्ठामर्हति नेतरः॥
“त्रयो धर्मस्कन्धाः " इत्याश्रमानधिकृत्य “सर्व एते पुण्यलोका भवन्ति " इत्याश्रमानुष्ठायिनां पुण्यलोकफलमभिधाय “ब्रह्मसंस्थोऽमृतत्वमेति " इति मोक्षसाधनत्वेन ब्रह्मनिष्ठा प्रतिपाद्यते। सेयं ब्रह्मनिष्ठा पुण्यलोककामिन आश्रमिणोऽपि संभाव्यते। आश्रमकर्माण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठायाः कर्तुं सुशकत्वात्। न हि लोककामी ब्रह्म न जानीयादिति निषेधोऽस्ति। तस्मात्सर्वस्याऽऽश्रमिणोऽस्ति ब्रह्मनिष्ठेति प्राप्ते ब्रूम: — ब्रह्मनिष्ठा नाम सर्वव्यापारपरित्यागेनानन्यचित्ततया ब्रह्मणि समाधिः। न चासौ कर्मशूरे संभवति। कर्मानुष्ठानत्यागयोः परस्परविरोधात्। तस्मात्कर्मत्यागिन एव ब्रह्मनिष्ठा “।
तद्वि॒ज्ञाय॑। पुनरे॒व वरु॑णं॒ पित॑र॒मुप॑ससार। अधी॑हि भगवो॒ ब्रह्मेति॑। तँहो॑वाच। तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व। तपो॒ ब्रह्मेति॑। स तपो॑ऽतप्यत। स तप॑स्त॒प्त्वा॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्र पाठके द्वितीयो- ऽनुवाकः॥ २॥
- बहिस्तूभयथाऽपि स्मृतेराचाराच्च— अ॰ ३ पा॰ ४ अ॰ १२ सू॰ ४३। + अ॰ ३ पा॰ ४ द्वितीयाधिकरणस्य द्वितीयं वर्णकम्।
१ ख. ०स्पर वि०।
[[675]]
[प्रपा॰ ९ अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।