०१

आवृत्तेन विचारादिना यतो वा इत्यादिलक्षणलक्षितं ब्रह्म साक्षात्क्रियते। तस्मिंश्च लक्षणवाक्ये यत इत्येतस्मिन्पदे यदित्येतत्प्रातिपदिकं सर्वनामत्वेऽपि जन्मादिसंनिधिबलात्तदपेक्षितं कारणत्वं ब्रूते। तत्र पञ्चम्या उपादानार्थत्वे निमित्तं ब्रह्मव्यतिरिक्तमपेक्ष्येत। तन्निमित्तार्थत्वे चोपादानापेक्षेति चेन्न। उपादानार्थत्वात् “जनिकर्तुः प्रकृतिः " “+हेतौ च " इति सूत्रद्वयेनोभयत्र पञ्चमीविधानात्। ननु यतो जायन्ते तद्ब्रह्मेत्येतावतैव लक्षणसिद्धौ स्थितिप्रलयश्रवणं व्यर्थमिति चेन्मैवम्। *कुविन्दवत्केवलं निमित्तत्वं व्युदसितुं स्थितिहेतुत्वम्। तन्तुसंयोगवत्केलमसमवायित्वं व्युदसितुं लयहेतुत्वम्। ततो जन्मस्थितिलयैर्निमित्तासमावाय्युपादानत्वानि सिद्धयन्ति। ननु भूतानामुत्पत्त्यदर्शनाद्भौतिकानां भूतकार्यत्वान्न ब्रह्मोपादानमिति चेन्न। भूतोत्पत्तेरागमसिद्धत्वात्। अस्ति पृथिवी सन्त्याप इत्येवं भूतानां सदनुरक्तत्वेन प्रतिभासात्सद्वस्तु भूतोपादानम्। तच्च वस्तु ब्रह्म। भौतिकोत्पत्तौ भूतानि मृदः पिण्ड इव सतोऽवान्तरावस्थारूपाणि। उपादानं तु मृदिव सद्वस्त्वेव। सन्घटः सच्छरीरमित्येवं सदनुरक्तत्वेनैव भौतिकानां प्रतिभासात्। यथा प्राकृतानां पामराणां दग्धतन्त्वनुरक्तस्य पटस्य तन्तव उपादानं तद्वत्। आकाशकालादय उत्पद्यन्ते विभक्तत्वाद्घटशरावादिवत्। इत्येवं तन्नित्यत्व-


  • आवृत्तिरसकृदुपदेशात्— अ॰ ४ पा॰ १ अ॰ १ सू॰ १। +इदं चिन्त्यम्। अष्टाध्याय्यां हेतौ चेतिसूत्रानुपलब्धेः। अथवा हेतौ चेतिशब्देन हेतावितिसप्तम्यन्तपदानुवृत्तियुक्तं विभाषा गुणेऽस्त्रियामितिसूत्रमुपलक्षणीयम्। * पटकारवत्।

१ ख. ०नं प्रबलम्। भे०। २ ग. घ. ०म्या अपा०। ३ ग. घ. ०पेक्षते।

[[670]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] वादिनं प्रति प्रयोक्तव्यम्। सृज्यस्य सर्वजगतो विचित्रत्वात्। तदन्यथानुपपत्त्या स्रष्टुर्ब्रह्मणः सर्वज्ञत्वं सर्वशक्तित्वं च सिध्यति। न हि विचित्रप्रासादविषयज्ञानशक्तिभ्यां विना तन्निर्मातृत्वं कस्यचिद्दृष्टम्। यद्यपि निरिन्द्रियब्रह्मणः सर्ववस्तुज्ञानकारणानि प्रत्यक्षप्रमाणानि न सन्ति तथाऽपि श्रुतियुक्तिभ्यां सर्वज्ञत्वमभ्युपेयम्। “यः सर्वज्ञः सर्ववित् " इति श्रुतिः। युक्तिश्चैवं द्रष्टव्या—सर्वविषयाकारधारिषु मायापरिणामेषु प्रतिबिम्बितं चैतन्यं सर्वानुभव इत्युच्यते। तस्य च विषयैराध्यासिकसंबन्धाद्वर्तमानसर्वज्ञानं तावत्सिद्धम्। अतीतविषयाणां तदवच्छिन्नमायावृत्तीनां च निवृत्तौ तत्संस्कारा अस्मदादिवदतीतविषयाः स्मृतिरूपा मायापरिणामा भवन्ति। तत्प्रतिबिम्बितानुभवेनातीतसर्वज्ञानमपि सिध्यति। तथा सृष्टेः प्रागपि स्रक्ष्यमाणपदार्थावधारणस्य कुलालादिषु दृष्टत्वादागामि सर्वज्ञानमपि स्वमायापरिणामवशात्सिध्यति। तस्माद्युक्तं सर्वज्ञत्वम्। सर्वशक्तयश्च श्रुतिस्मृतिप्रसिद्धाः। “पराऽस्य शक्तिर्विविधा” इति श्रुतिः।

“शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः। यतो हि ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः” इति स्मृतिः॥

ईदृशस्य सर्वशक्तेर्ब्रह्मणो जगज्जन्मादिकारणत्वं लक्षणम्। जन्मादेर्जगन्निष्ठत्वेऽपि तत्प्रतियोगिकस्य कारणत्वस्य लक्ष्ये ब्रह्मणि वर्तमानतया लक्षणत्वं संभवति। न च क्रियावेशात्मकत्वरूपस्य कारणत्वस्य लक्षणतया प्रकृप्रकाशश्चन्द्र इत्यादाविव लक्ष्यस्वरूपान्तर्भावे ब्रह्मणः कूटस्थत्वं हीयेतेति वाच्यम्। काकाश्रयत्ववदौपाधिकत्वेन तटस्थत्वात्। काकवन्तो देवदत्तस्य गृहा इत्यत्र काकाधिकरणत्वं न गृहेऽन्तर्भवति। काकविगमेऽपि गृहैकदेशभङ्गबुद्धयभावात्। अतो गृहस्य काकावस्थानोपाधिकधर्मत्वात्काकाधिकरणत्वं यथा तटस्थलक्षणं तथा जन्माद्युपाधिकधर्मकारणत्वं तटस्थलक्षणम्। तस्य च लक्षणस्य गृहैकदेशभङ्गबुद्ध्यभावात्। अतो गृहस्य काकावस्थानोपाधि- कधर्मत्वात्काकाधिकरणत्वं यथा तटस्थलक्षणं तथा जन्माद्युपाधिकधर्मकारणत्वं तटस्थलक्षणम्। तस्य च लक्षणस्य मिथ्यात्वान्नाद्वैतहानिः। यः सर्पः स रज्जुर्यद्रजतं सा शुक्तिरित्यत्र मिथ्याभूतोऽपि सर्पो रजतं चाऽऽध्यासिकसंबन्धवशाद्यथा रज्जोर्लक्षणं तथा कारणत्वमपि लक्षणं भविष्यति। कारणत्वेऽपि ब्रह्मणोऽधिष्ठानमात्रत्वाद्विकारांशे मायाया एव प्रयोजकत्वान्नासङ्गत्वहानिः। सर्वस्मिञ्जगति सत्तास्फूर्त्याकारेण ब्रह्मणोऽनुगतत्वाद्विक्रियमाणत्वाकारेण मायाया अप्यनुगतत्वादभयं मिलित्वोपादानम्। तत्र गुणप्राधान्यविवेके विवक्षानुसारेण द्विसूत्रन्यायो वा शक्तिशक्तिमन्न्यायो वाऽधिष्ठानारोप्यन्यायो वा योजनीयः। यथा सूत्रद्वयनिर्भितरज्ज्वा संयुक्तं सूत्रद्वयं समप्रधानभावेनोपादानं तथा जगतो ब्रह्म माया चेत्युभयप्राधान्यं केचिदाहुः। अन्ये त्वेवं मन्यन्ते—यथा शक्तिमानग्निर्दहतीत्यत्र शक्तेर्दाहनिर्वाहकत्वेऽपि शक्तिमत्पारतन्त्र्या


१ ख. श्रुतेः। २ ख. ०धारेषु। ३ ग. ०क्तिम०। ४ ख. ०मतः स्वात०।

[[671]]

[प्रपा॰ ९ अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।

दग्नेः प्राधान्यं तथा मायायाः शक्तित्वेनोपसर्जनत्वाच्छक्तिमतो ब्रह्मण एव प्राधान्यमिति। अपरे त्वेवमाह: — यथा रज्जुव्यतिरेकेण सर्पस्य शरीराभावेऽपि भ्रान्तिकाले रज्जुतिरस्कारेण व्यवह्रियमाणतया सर्पप्राधान्यं तथा मायायाः प्राधान्यमिति।

स तपो॑ऽतप्यत। स तप॑स्त॒प्त्वा।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्रपाठके प्रथमोऽनुवाकः॥ १॥