अथ नवमोऽनुवाकः। यतो॒ वाचो॒ निव॑र्तन्ते। अप्रा॑प्य॒ मन॑सा स॒ह। आनन्दं ब्रह्म॑णो वि॒द्वान्। न बिभेति कुत॑श्चने॒ति, इति। मनोमयप्रस्तावश्लोके व्याख्यातं तदनुसंधेयम्। किंच वाचोऽभिधायकाः शब्दास्ते च सविकल्पेषु वस्तुषु व्युत्पन्नाः। प्रयोक्तृभिस्तु वस्तुत्वसामान्यान्निर्विकल्पेऽपि ब्रह्मणि प्रकाशनाय प्रयुज्यमाना अप्यनभिधाय निवर्तन्ते। स्वकीयादभिधानसामर्थ्याद्धीयन्ते। मनश्चातीन्द्रियार्थे शब्दानुसारेण सर्वत्र प्रवर्तते न तु स्वातन्त्र्येण। तथा सत्यत्र शब्देषु निवृत्तेषु तैः सह स्वयनपि निवर्तते। अतो ब्रह्मानन्दस्य हिरण्यगर्भानन्दादाधिक्यादेतावदिति वक्तुमवगन्तुं वा न शक्यते। तादृशं ब्रह्मणः स्वरूपभूतमानन्दं लक्षणावृत्त्या शब्देष्वेव बोधयत्सु तथैव मनसा यः पुमान्वेत्ति स पुमान्कुतोऽपि न बिभेति। पूर्वत्र प्रस्तावानुसारेण मनोमयोपाधिविशिष्टं ब्रह्मोपासीनस्येह जन्मनि जन्मान्तरे वा कदाचिदपि भीतिर्नास्ति। प्रसक्ताया भीतेः प्रतीकारसद्भा-वादित्यभिप्रेत्योक्तम्। इह त्वद्वितीयब्रह्मानन्दं प्रमाणेन विजानतो भयकारणमेव नास्तीत्यभिप्रेत्य कुतश्चनेत्युक्तम्। “द्वितीयाद्वै भयं भवति " इति श्रुत्या स्वातिरिक्तं वस्तु भयकारणम्। तच्चाद्वितीये ब्रह्मणि नास्तीत्यभिप्रायः।
यदुक्तं वाक्यवृत्तिकारैः — “त्वमर्थमेवं निश्चित्य तदर्थं चिन्तयेत्पुनः। अतव्द्यावृत्तिरूपेण साक्षाद्विधिमुखेन च " इति तत्र सत्यं ज्ञानमन्तं ब्रह्मेत्येतद्विधिमुखम्। एतस्मिन्विधिरूपे बोधे गुणाना-मानन्दस्वयंज्योतिष्ट्वादीनामुपसंहारः पूर्वमुदाहृतः। यतो वाचो निवर्तन्त इत्यतव्द्यावृत्तिरूपम्। तस्मिन्नस्थूलमनण्वह्रस्वमित्यादीनामुपसंहारस्तृतीयाध्यायस्य तृतीयपादे* चिन्तित: — “निषेधानामसंहारः संहारो वा न संहृतिः। आनन्दादिवदात्मत्वं नैषां संभाव्यते यतः॥
*अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्—अ॰ ३ पा॰ ३ अ॰ २० सू॰ ३३।
१ घ. ०न्दस्याऽऽहि०। २ ०ब्देष्ववबो०। ३ घ. ०सक्तभी०। ४ घ. ०च्चाद्वये। ५ ग. वा। ५ क. ख. ग. ङ. ०खम्। त०।
[[654]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] श्रुतानामाहृतानां च निषेधानां समा यतः। आत्मलक्षकता तस्माद्दार्ढ्यायास्तूपसंहृतिः॥
अस्थूलमनण्वह्रस्वमित्यादिना ब्रह्मबोधनाय गार्गीब्राह्मणे केचिन्निषेधाः श्रुताः। तथा कठवल्लीषु—“अशब्दमस्पर्शमरूपमव्ययम् " इति। एवमन्यत्राप्युदाहार्यम्। तत्र निषेधानां परस्परमुपसंहारो नास्त्यानन्दसत्यत्वादिधर्मवदात्मस्वरूपत्वाभावेनोपसंहारे प्रयोजनाभावादिति प्राप्ते ब्रूम: — यथा स्वशाखायां श्रूयमाणानां निषेधानामात्मस्वरूपत्वाभावेऽप्यात्मोपलक्षकत्वं तथा शाखान्तरेभ्य उपसंत्द्दतानां निषेधानामपि तत्समानम्। न च स्वशाखोक्तनिषेधैरेवोपलक्षणसिद्धावितरोपसंहारवैयर्थ्यं दार्ढ्यधिक्यार्थत्वात्। अन्यथा स्वशाखायामपि द्वित्रि(त्र)प्रतिषेधमात्रेण तत्सिद्धावितरवैयर्थ्यं प्रसज्येत। तस्मान्निषेधा उपसंहर्तव्याः “।
उपसंहृते नेति नेतीतिनिषेधे कश्चिद्विशेषस्तत्रेव द्वितीयपादे* चिन्तित: — “ब्रह्मापि नेति नेतीति निषिद्धमथवा नहि। द्विरुक्त्या ब्रह्मजगती निषिध्येते उभे अपि॥ वीप्सेयं नेतिशब्दोक्ता सर्वदृश्यनिषिद्धये। अनिदं सत्यसत्यं च ब्रह्मैकं शिष्यतेऽवधि॥
“द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च " इत्येतस्मिन्ब्राह्मणे महता प्रबन्धेन पृथिव्यप्तेजोलक्षणं मूर्तरूपं वाय्वाकाशादिलक्षणममूर्तं च रूपं प्रपञ्च्यान्ते ब्रह्मोपदेष्टुमिदमुक्तम्—“अथात आदेशो नेति नेति " इति। अस्यायमर्थः। रूपद्वयकथनानन्तरं रूपिणो वक्तव्यत्वान्नेति नेतीत्ययं ब्रह्मोपदेश इति पूर्वपक्षी मन्यते। जगत एकस्यैवैकेन नेतिशब्देन निषिद्धत्वे द्वितीयो नेतिशब्दो निरर्थकः स्यात्। अतो नकारेण द्वितीयेन ब्रह्मापि निषिध्यत इति प्राप्ते ब्रूम: — न तावद्वितीयस्य निषेधस्य वैयर्थ्यं वीप्सार्थत्वात्। सत्यां च वीप्सायां यद्यदृश्यत इति शब्दनिर्देशार्हं च तत्सर्वं ब्रह्म न भवतीति निषिद्धं भविष्यति। अन्तरेण तु वीप्सामेकेनैव नकारेण मूर्तामूर्तयोः प्रकृतत्वेनेतिशब्दनिर्देशार्हयोर्निषेधे सति मूर्ताद्यभावस्य मूलाज्ञानस्य चानिषिद्धत्वात्त-योर्ब्रह्मत्वं प्रसज्येत। ननु सत्यामपि वीप्सायामस्त्येव दोषः।वीप्साया निरङ्कुशत्वाद्ब्रह्मापि निषिध्यत इति तन्न। ब्रह्मणो दृश्यत्वाभावेन निषेध्यसमर्पकेतिशब्दानर्ह-
- प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय: — अ॰ ३ पा॰ २ अ॰ ६ सू॰ २२।
१ ख. ०क्षणता। २ घ. गार्गिब्रा ०। ३ क. ग. घ. ङ. ०क्यात्। अ ०। ४ क. ख. ग. ङ. निषेध्ये ते। ५ ग. निषेध्यत्वे। ६ क. ख. ग. ङ. ०केन न ०। ७ ख. ग. ङ. ०निषेधात्त ०। ८ क. ख. ङ. ०णो निषेध्यत्वा ०।
[[655]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। त्वात्। किंचाथात आदेश इति महता संरम्भेण ब्रह्मोपदेष्टुं प्रतिज्ञाय तदेव ब्रह्म निषेधन्ती श्रुतिः कथं न व्याहन्येत। वाक्यशेषश्च न ब्रह्मनिषेधे संगच्छेत। वाक्यशेषे च सत्यस्य सत्यमित्यादिना विवक्षितस्य ब्रह्मणो लौकिकसत्या- द्गिरिनदीसमुद्रादेरधिकमात्यतिकं सत्यत्वं सूचयितुं नाम निर्दिष्टम्। सर्वनिषेधपक्षे सर्वमप्येतत्कदर्थितं स्यात्। तस्मान्न ब्रह्म निषिध्यते “।
ननु न बिभेति कुतश्चनेति यदुक्तं तदसत्। धर्माधर्मजनितसंतापस्य भय- हेतोर्विद्यमानत्वादित्यशङ्क्याऽऽह– एतँ ह वाव॑ न त॒पति। किमहँ साधु॑ नाक॒रवम्। किमहं पापमकर॑वमि॒ति, इति। मरणकाले प्रत्यासन्ने सति सर्वेषां प्राणिनां मनस्येतादृशी चिन्ता संतापं जनयति। कीदृशी चिन्तेति चेत्साऽभिधीयते—-पुरा यौवने देहेन्द्रियादिपाटवे सति द्रव्यादिसाधनसंपत्तौ च सत्यामहं साधु स्वर्गलोकादिसाधनं यागदानादिकं पुण्यं कर्म किमिति कृतवानस्मीति। सेयं चिन्ता सर्वेषां संतापहेतुरप्येतं ब्रह्मविदमेकमेव पुरुषं न तपति। तापाभावे हेतुमाह— स य एवं विद्वानेते आत्मा॑नँ स्पृ॒णुते, इति।
यः पुमानेते पुण्यपापकर्मणी एवं संतापहेतुत्वेन विद्वान्भवति शास्त्रोपपत्तिभ्यां जानाति स पुमान्कर्मप्रयुक्तसंतापनिवारणायाऽऽत्मानं स्पृणुते प्रीणयति वलयति च। स्पृ प्रीतिबलयोरिति धातुः। अयमात्मा साक्षी न तु धर्माधर्मयोः कर्तेत्येवं निश्चयेन संतापरहितः प्रीतो भवति। ब्रह्माहमितिनिश्चयेन धर्माधर्मतत्फलादिकृत्स्नसंसारहेतोरविद्याया अपि निवृत्तत्वात्प्रबलो भवति। नास्य धर्माधर्मादिकृतः पराजयः कदाचिदपि भवतीत्यर्थः। नन्वात्मनोऽकर्तृत्वे ब्रह्मत्वे वाऽवगतेऽपि प्रवर्तमानैर्देन्द्रियैः पुण्यपापे अवश्यं निष्पद्येते पूर्वानुष्ठिते अपि विद्येते एवेत्याशङ्कयाऽऽह—- उ॒भे ह्ये॑वैष॒ एते आत्मा॑न ँ स्पृणुते। य ए॒वं वेद॑, इति।
यः पुमामेवं पुण्यपापयोस्तापहेतुत्वमात्मज्ञानस्य च तापनिवारकत्वं वेद। एते उभे पुण्यपापे आत्मानमेव स्पृणुते पश्यति। धातूनामनेकार्थत्वमिति हि वैयाकरण-
१ क. ख. ङ. ०धतितीश्रु ०। २ ख. ङ. ०सत्यगिरि ०। ३ क. ख. ङ. ०न्तिकस ०। ४ घ. स्वर्गादि ०। ५ य. पुण्यक ०। ६ ख. ०धर्मकृ ०।
[[656]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] न्यायः। शास्त्रदृष्ट्या तयोः पुण्यपापयोः परमात्मस्वरूपत्वमेवानुसंदधाति। न तु मायाकल्पितं पुण्यपापरूपत्वम्। अस्मिन्नर्थे तत्त्ववित्प्रसिद्धिं दर्शयितुं हिशब्दः प्रयुक्तः। यदा ब्रह्मविदः स्वात्मव्यतिरेकेण पूर्वानुष्ठिते पश्चादनुष्ठास्यमाने च पुण्यपापे स्वरूपेणैव न स्तस्तदा तच्चिन्ताकृतस्तापो किमु वक्तव्यमित्यभिप्रायः।
पापराहित्यं चतुर्थाध्यायस्य प्रथमपादे* चिन्तितम्— " ज्ञानिनः पापलेपोऽस्ति नास्ति नाऽनुभोगतः। अनाश इति शास्त्रेषु घोषाल्लेपोऽस्य विद्यते॥ अकर्त्रात्मधिया वस्तुमहिम्नैव न लिप्यते। अश्लेषनाशावप्युक्तावज्ञे घोषस्तु सार्थकः॥ “नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि " इति भोगमन्तरेण पापावि- नाशस्य सर्वशास्त्रप्रसिद्धत्वाद्ब्रह्मज्ञानिनोऽप्यस्ति पापलेप इति प्राप्ते ब्रूम : — तत्र तावन्निर्गुणब्रह्मात्मतत्त्वविदः पापलेपशङ्काऽपि नोदेति। नाकार्षं न करोमि न करिष्यामीतिकालत्रयेऽप्यकर्तृब्रह्मस्वरूपेण निश्चितत्वात्। न ह्यकर्तृर्लेपं च मन्दा अपि शङ्कन्ते। नापि सगुणब्रह्मविदो लेपोऽस्ति। अश्लेषविनाशयोः श्रुतत्वात्। ब्रह्मसाक्षात्कारादूर्ध्वं देहेन्द्रियव्यवहारवशात्संभावितस्य पापस्याश्लेषः श्रूयते— “तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते " इति। साक्षात्कारात्पूर्वं त्विहजन्मनि जन्मान्तरेषु च संचितस्य पापसंघस्य विनाशः श्रूयते— “तद्यथेषीकातूलमग्नौ प्रोतं च प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते " इति। नाभुक्तमित्यादिशास्त्रं त सगुणनिर्गुणब्रह्मज्ञानरहितविषयम्। तस्मान्नास्ति ज्ञानिनः पापलेपः " इति।
पुण्यराहित्यं च तत्रैव+ चिन्तितम्— “पुण्येन लिप्यते नो वा लिप्यतेऽसौ श्रुतत्वतः। न हि श्रौतेन पुण्येन श्रौतं ज्ञानं विरुध्यते॥ अलेपो वस्तुसामार्थ्यात्समानः पुण्यपापयोः। श्रुतं पुण्यं पापतया तरणं च समं श्रुतम्॥ मा भूत्पापलेपः पुण्यलेपस्तु विद्यते। पुणयस्य श्रौतत्वेन श्रौतब्रह्मज्ञानेन सह विरोधा-भावादिति प्राप्ते ब्रूम : — अकर्ताऽऽत्मा वस्तुसामर्थ्यात्पापवत्पुण्येनापि न लिप्यते। सगुणज्ञानिनस्तूपासनव्यतिरिक्तं काम्यं पुण्यं पापवदधमजन्मदेहहेतुत्वात्पापसममेवेति
- तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तव्द्यपदेशात्— अ॰ ४ पा॰ १ अ॰ ९ सू॰ १३। + इतरस्याप्येवमसंश्लेषः पाते तु—– अ॰ ४ पा॰ १ अ॰ १० सू॰ १४।
१ ग. पापरहितत्वं। २ ग. घ. ०ति पा ०। ३ ग. ०णब्रह्मवि ०। ४ ०पमे ०।
[[657]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। मत्वा पापत्वेनैव दहरविद्यावाक्यशेषे श्रुतिः परामृशति— “सर्वे पाप्मानोऽतो निवर्तन्ते " इति। अस्यायमर्थः। सुकृतं दुष्कृतं तत्फलं च पूर्ववाक्ये यद्यदनुक्रान्तं ते सर्वे पाप्मानोऽस्मादुपासकान्निवर्तन्ते। किंच— “उभे ह्येवैष एते तरति " इति श्रुतिः पुण्यपापयोरुभयोर्ज्ञानिना तरणं सममेव ब्रूते। तस्मात्पापवत्पुण्येनापि न लिप्यते “।
प्रारब्धयोरविनाशस्तत्रैव* चिन्तित: — “आरब्धे नश्यतो नो वा संचिते इव नश्यतः। उभयत्राप्यकर्तृत्वं तद्बाधः सदृशः खलु॥ आदेहपातं संसारश्रुतेरनुभवादपि। इषुचक्रादिदृष्टान्तान्नैवाऽऽरब्धे विनश्यतः॥ ज्ञानात्पूर्वं संचिते पुण्यपापे द्विविधे। आरब्धे अनारब्धे च। तयोरकर्तृत्वमात्मनः समानं तद्बाधश्च समः। ततोऽनारब्धवदारब्धयोरपि ज्ञानोदयसमय एव विनाश इति प्राप्ते ब्रूम: — श्रुत्यनुभवयुक्तिभ्य आरब्धयोरविनाशो गम्यते “तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये " इति श्रुतेः। अस्यायमर्थः। तस्य तत्त्वविदो मुक्तिर्विलम्बमानाऽपि नात्यन्तं विलम्बते। किंतु गर्भाधानकाले क्लृप्तस्याऽऽयुषः क्षयाभावेन यावद्देहः प्राणैर्न विमोक्ष्यते तावदेव विलम्बते। अथ देहप्राणवियोगे सति ब्रह्म संपद्यत इति। यथाऽनया श्रुत्या तत्त्वविदोऽप्यादेहान्तं संसारोऽङ्गीकृतस्तथा विद्वदनुभवोऽप्यस्मिन्नर्थे स्फुटः। युक्तिश्चोच्यते। यथा लोके तूणनिष्ठेषु बाणेषु धानुष्कस्य स्वीकारपरित्यागयोः स्वातन्त्र्येऽपि मुक्ते बाणे स्वातन्त्र्यं न दृश्यते। स तु बाणो वेगे क्षीणे स्वयं पतति। एवं कुलालचक्रभ्रमणमुदाहर्तव्यम्। तथा दार्ष्टान्तिके ब्रह्मज्ञानस्याप्यनारब्धकर्मनाशकत्वे स्वातन्त्र्यमस्तु न त्वारब्धे कर्मणि। आरब्धस्य प्रवृत्तफलत्वात्। यद्येतैः श्रुत्यादिभिरारब्ध स्थितिर्नाभ्युपगम्येत तदोपदेष्टुरभावाद्विद्यासंप्रदाय उच्छिद्येत। न तावदविद्वानुपदेष्टेति वक्तुं शक्यम्। विद्वांस्तु ज्ञानसमय एव मुच्यत इति को नामोपदेष्टा संभवति। तस्मान्नाऽऽरब्धयोर्नाशः “।
नित्यकर्मणो नाशाभावस्तत्रैव+ चिन्तित: — “नश्येन्नो वाऽग्निहोत्रादि नित्यं कर्म विनश्यति। यतोऽयं वस्तुमहिमा न क्वचित्प्रतिहन्यते॥
- अनाब्धकार्ये एव तु पूर्वे तदवधे: — अ॰ ४ पा॰ १ अ॰ ११ सू॰ १५। + अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्— अ॰ ४ पा॰ १ अ॰ १२ सू॰ १६।
१ घ. ०देहपातं सं ०। २ क. ग. ङ. ०न्तिकब्र ०। ३ क. ग. घ. ङ. ०र्मसु ना ०। ४ ख. ०र्मणां ना ०। ८३
[[658]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ]
अनुषक्तफलांशस्य नाशेऽप्यन्यो न नश्यति। विद्यायामुपयुक्तत्वाद्भाव्यश्लेषस्तु काम्यवत्॥ ज्ञानात्पूर्वमिह जन्मनि जन्मान्तरे वाऽनुष्ठितं यदग्निहोत्रादि नित्यं कर्म तस्यापि काम्यकर्मवदकर्त्रात्मवस्तुबोधमहिम्ना नाशोऽभ्युपेय इति प्राप्ते ब्रूम: — द्वावंशौ नित्यकर्मण एकोंऽशः प्राधान्येन चित्तशुद्धिप्रदः। अपरोंऽशोऽनुषङ्गेण स्वर्गागिफलप्रदः। तस्य नाशोऽस्तु नाम। चित्तशुद्धिप्रदस्य तु विद्यायामुपयुक्तत्वान्न नाशो वर्णयितुं शक्यः। न हि लोके भोगेनोपक्षीणं व्रीह्यादिकं नष्टं म न्यते। यत्तु ज्ञानादूर्ध्वं नित्यं कर्म तस्य काम्यवदश्लेषः “।
अङ्गावबद्धोपास्तिरहितस्यापि नित्यकर्मणो विद्यायामुपयुक्तत्वं तत्रैव* चिन्तिम्– किमङ्गोपास्तिसंयुक्तमेव विद्योपयोग्युत। केवलं च प्रशस्तत्वात्सोपास्त्येवोपयुज्यते॥ केवलं वीर्यवद्विद्यासंयुक्तं वीर्यवत्तरम्। इति श्रुतेस्तारतम्यादुभयं ज्ञानसाधनम्॥
विद्यासाधनं नित्यं कर्म द्विविधं संभाव्यते। अङ्गावबद्धोपास्तिसहितं तद्रहितं च। तत्र सोपासनस्य कर्मणः प्रशस्तत्वात्तदेव विद्यासाधनं न तूपास्तिरहितमिति प्राप्तेब्रूम: — “यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति " इति श्रुतिः सोपासनस्य कर्मणोऽतिशयेन वीर्यमस्तीति वदन्ती निरुपासनस्यापि वीर्यमात्रमभ्यनुजानाति। अन्यथा तरप्प्रत्ययानुपपत्तेः। तस्मात्सोपासननिरुपासनयोस्तारतम्येन विद्यासाधनत्वम् “।
ज्ञानिनो मुक्तिनियमस्तृतीयाध्यायस्य तृतीयपादे+ चिन्तित: — “ब्रह्मतत्त्वविदो मुक्तिः पाक्षिकी नियताऽथवा। पाक्षिक्यपान्तरतमःप्रभृतेर्जन्मवर्णनात्॥ नानादेहोपभोक्तव्यमीशोपास्तिफलं बुधाः। भुक्त्वाऽधिकारपुरुषा मुच्यन्ते नियता ततः॥ पुराणेषु—-वेदप्रवर्तक आचार्योऽपान्तरतमा विष्णोराज्ञया द्वापारान्ते कृष्णाद्वैपायनरूपेण शरीरान्तरं जग्राहेति स्मर्यते। तथा सनत्कुमारः स्कन्दरूपेणैव पार्वतीपरमेश्वराभ्यामजायत। एवमन्येऽपि वसिष्ठादयस्तत्त्वज्ञानिन एव सन्तस्तत्र तत्र शापाद्वा वराद्वा स्वेच्छया वा शरीरान्तराणि जगृहुरितिस्मरणान्मुक्तिस्तत्त्वविदां पाक्षि-
- यदेव विद्ययेति हि—-अ॰ ४ पा॰ १ अ॰ १३ सू॰ १८। + यावदधिकार-मवस्थितिराधिकारिकाणाम्—-अ॰ ३ पा॰ ३ अ॰ १९ सू॰ ३२।
१ ग. घ. मन्यन्ते। २ ग. घ. ०न्मदर्शना०। ३ घ. ०भोक्तृत्वमी०।
[[659]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। कीति प्राप्ते ब्रूम: — य एते त्वयोदाहृताः पुरुषास्ते सर्वे जगन्निर्वाहकारिणः। ते च पूर्वस्मिन्कल्पे महता तपसा परमेश्वरमुपास्यास्मिन्कल्पे नानादेहोपभोग्यमधिकारपदं लेभिरे। क्षीणे च प्रारब्धे कर्मणि मोक्ष्यन्ते। तथाऽनारब्धकर्मणां तत्त्वज्ञानेन दाहस्य निवारयितुमशक्यत्वात्तत्वविदो मुक्तिर्नियतैव “।
एतस्यार्थस्याऽऽक्षेपसमाधानरूपा चिन्त चतुर्थाध्यायस्य* प्रथमपादे कृता—– “बहुजन्मप्रदारब्धयुक्तानां नास्त्युतास्ति मुक्। विद्यालोपे कृतं कर्म फलदं तेन नास्ति मुक्॥ आरब्धं भोजयेदेव न तु विद्यां विलोपयेत्। सुप्तबुद्धवदश्लेषतादवस्थ्यात्कुतो न मुक्॥ अधिकारिपुरुषाणां मुक्तिर्नास्ति प्रारब्धभोगाय बहुषु स्वीकृतेषु तत्र पुर्वार्जितविद्यायां लुप्तायां यत्कर्म क्रियते तस्य फलप्रदत्वे सत्युत्तरोत्तरजन्मपरम्पराया अवश्यंभावित्वादिति प्राप्ते ब्रूम: — आरब्धं कर्म स्वफले सुखदुःखे भोजयेत्। तदर्थमेव प्रवृत्तत्वात्। न हि विद्याविलोपार्थं किंचित्कर्म पूर्वमनुष्ठितम्। येन कर्मवशाद्विद्यालोप आशङ्क्येत। न च मरणव्यवधानमात्रेण विद्यालोपः सुषुप्तिव्यवधाने तल्लोपादर्शनात्। अतो विद्यायामवस्थितायां बहुजन्मभिरपि क्रियमाणैः कर्मभिरश्लेषादस्त्यधिकारिणां मुक्तिः “। यद्यप्येतद्गुणोपसंहारे निर्णीतं तथाऽपि तस्यैवाऽऽक्षेपसमाधाने इत्यनवद्यम्। अनुवाकार्थमुपसंहरति—- इत्यु॑प॒निष॑त्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके नवमोऽनुवाकः समाप्तः॥ ९॥ ब्र॒ह्म॒विदि॒दमेक॑वि ँशतिरन्ना॒दन्न॑रस॒मयात्प्राणो व्यानोऽपान आका॑शः पृथि॒वी पुच्छ॒ ँ षड्विँ॑शतिः प्रा॒णं यजु॑र्ऋक्सा- माऽऽदे॑शोऽथर्वाङ्गिरसः पुच्छं॒ द्वाविँ॑ति॒र्यतः॒ श्र॑द्धर्तँ सत्यं यो॑गो महोऽष्टाद॑श वि॒ज्ञानं॒ प्रियं॒ मोदः प्रमोद आन॑न्दो ब्रह्म
- भोगेन त्वितरे क्षपयित्वा संपद्यते–अ॰ ४ पा॰ १ अ॰ १४ सू॰ १९।
१ ख. तत्पूर्वा०। २ ख. घ. ०द्यालो०। ३ क. ग. घ. ङ. ०हुभि०। ४ ग. ०दमय- मिदमे०।
[[660]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] पुच्छं॒ द्वावि॑ ँशति॒रस॑न्नेवा॒ष्टावि॑ ँशति॒रस॒त्षोड॑श भी॒षाऽस्मादे॒कपञ्चाशद्यतः॒ कुत॒श्चैका॑दश*।
स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्य॑ करवावहै। ते॒जस्वि ना॒वधीतमस्तु॒ मा वि॑द्विषा॒वहै॑॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑। हरिः॑ ॐ। इति कृष्णयजुर्वेदीयतैत्तिरीयारतैत्तिरीयारण्यकेऽष्ट- मोऽध्यायः समाप्तः॥ ८॥ ब्रह्मविदाप्नोति परमित्यादि य एवं वेदेत्यान्तेन ग्रन्थेन या प्रतिपादिता सेयमितिशब्देन परामृश्यते। सा चोपनिषद्रहस्यविद्या। उपनिषण्णमस्यां परं श्रेय इति व्युत्पत्तेः। तादृशी विद्याऽभिहितेति शेषः॥
इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्यप-रमेश्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये वारुण्यपरनामधेयसांहित्यामुनिषदि ब्रह्मवल्लयाख्यो द्वितीयोऽनुवाकः॥ २॥ *समाप्तोऽयमष्टमः प्रपाठकः।
- ग. पुस्तक एतदग्रे– “ब्रह्मविद्य एवं वेदेत्युपनिषत् " इत्यधिकम्। + अत्राप्यध्यायपरिसमाप्तिर्वैदिकमतानुसरणेनैव। भाष्यकारमतेन तु भृगुर्वै वारुणिरित्यारभ्य “इत्युपनिषत्” इत्यन्तोऽस्यैव प्रपाठकस्य तृतीयोऽनुवाकोऽस्त्यतो भाष्यकाराणां मतेन “अम्भस्य पारे " इत्यादिर्नारायणोपनिषदेव नवमप्रपाठकरूपा। तेषां मतेनाऽऽरण्यकस्य नव प्रपाठका एवेत्यूहनीयं विपश्चिद्भिः। *अत्र भाष्यकारमतेन प्रपाठकसमाप्तिर्नास्तीत्युल्लेख उपरिगतटिप्पणे कृतः स तत्र ज्ञातव्यः।
१ ग. ०स्मान्मानुषो म॑नुष्यगन्धर्वाणां देवगन्धर्वाणां पितृणां चिरलोकलो-कानामाजानजानां कर्मदेवानां॒ देवाना॒मिन्द्रि॑स्य बृहस्पतेः प्रजापतेर्ब्रह्मणः स यश्च॑ संक्रा॒मत्येक०। २ ग. ०तः कुत॑श्चनैका॑ ०।
[[661]]
- अथ तैत्तिरीयारण्यके नवमप्रपाठकस्याऽऽरम्भः।
तत्र प्रथमोऽनुवाकः
ह॒रिः॒ ॐ। स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। सह॒ वी॒र्यं॑ कर- वावहै। ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑। भृ॒गु॒र्वै वा॑रुणिः। वरु॑णं॒ पित॑र॒मुप॑ससार। अधी॑हि भगवो॒ ब्रह्मेति॑।
द्वितायानुवाके ब्रह्मविद्या निरूपिता। अथ तृतीयानुवाके तत्साधनानि निरूप्यन्ते। यद्यपि सांहित्युपनिषदि बहिरङ्गसाधनानि कर्माण्युपासनानि चाभिहितानि तथाऽपि विचाररूपमन्तरङ्गसाधनं नोक्तमिति तदत्राभिधीयते। तस्मिन्नभिहिते तदङ्गानि मननादीन्यप्यभिहितानि भविष्यन्ति। तत्राऽऽदौ विद्यास्तुत्यर्थमुपाख्यानमाह—भृगुरित्यादिना। अस्ति कश्चिन्महर्षिर्भृगुर्नाम गोत्रप्रवर्तकः। वैशब्देन मन्त्रब्राह्मणगता तत्प्रसिद्धिः स्मर्यते। “भृगूणां त्वाऽङ्गिरसां व्रतपते व्रतेनाऽऽदधामि " इति “भृग्वङ्गिरसामादध्यात् " इति हि मन्त्रब्राह्मणे आम्नायेते। स च भृगुर्वरुणस्य पुत्रः पितरं वरुणं गुरुत्वेनोपसन्नवान्। गुरूपसत्तिश्च श्रुत्यन्तरेऽभिहिता—“तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् " इति। अधीहीत्यादिर्गुरूपसत्तिमन्त्रः। हे भगवो भगवन्पूज्यस्वरूप गुरो ब्रह्माधीहि अधिकं स्मर चित्तेन स्मृत्वोपदिशेत्यर्थः।
ईदृशानामुपाख्यानानां विद्यास्तुत्यर्थत्वं तृतीयाध्ययस्य चतुर्थपादे+ चिन्तितम्— “पारिप्लवार्थंमाख्यानं किंवा विद्यास्तुतिः स्तुतेः। ज्यायोऽनुष्ठानशेषत्वं तेन पारिप्लवार्थता॥ मनुर्वैवस्वतो राजेत्येवं तत्र विशेषणात्। अत्र विद्यैकवाक्यत्वभावाद्विद्यास्तुतिर्भवेत्॥
“अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः " “जनको ह वैदेह आसांचक्रे " इत्या–
- भाष्यकारमतेनायं नवमप्रपाठको नास्ति किं त्वष्टमस्यैवायं तृतीयोऽनुवाक इतीदमप्यूह्यं गतपृष्टोल्लिखितटिप्पणात्। + पारिप्लवार्था इति चेन्न विशेषितत्वात्–अ॰ ३ पा॰ ४३ अ॰ ४ सू॰ २३।
१ क. ख. ङ. ०हित्यामुप०। २ क. ख. ङ. ०न्यर्थादभि०। ३ क. ख. ङ. भवन्ति। ४ घ. ०भानाद्वि०। ५ ख. ०थ या०।
[[662]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] दिकमुपनिषदि श्रूयमाणमाख्यानं पारिप्लवार्थं भवितुमर्हति। अश्वमेधयागे रात्रिषु राजानं सकुटुम्बमुपवेश्य तस्याग्रे वैदिकान्युपाख्यानान्यन्यानि पुण्यान्यध्वर्युणा वक्तव्यानि। तदिदं पारिप्लवाख्यं कर्म “पारिप्लवमाचक्षीत” इतिवाक्येन विहितम्। तदर्थत्वे सत्यौपनिषदाख्यानान्यनुष्ठानायोपज्येरन्। ज्यायोऽनुष्ठानं विद्यास्तुतेस्तस्मात्पारिप्लवार्थमिति प्राप्ते ब्रूम: — प्रथमेऽहनि मनुर्वैवस्वतो राजा द्वितीयेऽहनि यमो वैवस्वतो राजेत्येवमा-द्याख्यानानां पारिप्लवार्थानां विशेषितत्वादौपनिषदानामाख्यानानां तच्छेषत्वं न संभवति। संनिहितविद्यास्तावकत्वे तु विद्यावाक्यैरेकवाक्यता लभ्यते। तस्माद्विद्यास्तावकमाख्यानम् “।
ब्रह्मबोधद्वारोपदेशं दर्शयति— तस्मा॑ ए॒तत्प्रो॑वाच। अन्नं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑, इति। तस्मै समन्त्रकमुपसन्नाय भृगव एतदन्नादिकं बोधद्वारमुक्तवान्। अन्नम-यप्राणमयमनोमयानां कोशानामुपादानकारणान्यन्नप्राणमनांसि चक्षुःश्रोत्रवाचोऽपि मनोवद्द्वारभूताः। इतिशब्दोऽनुक्तानां त्वगादिज्ञानेन्द्रियाणां पाणिपादादिकर्मेन्द्रियाणां च प्रदर्शनार्थः। शाखाग्रे चन्द्र इत्यत्र यथा चन्द्रदर्शने समीपवर्तिनी वृक्षशाखा लक्षकत्वेन द्वारं तथा गुहाहितब्रह्मदर्शने तदुपलक्षकाण्यन्नप्राणादीनि द्वाराणि। तद्द्वारत्वं च बृहदारण्यके विस्पष्टमाम्नातम्—“प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमुतान्नस्यान्नं मनसो ये मनो विदुः। ते निचिक्युर्ब्रह्म पुराणमग्र्यम् " इति। प्राणादिकल्पनाधिष्ठानतया प्राणादिरूपं ब्रह्म प्राणादिद्वारेण वेदितुं सुशकम्। अहंबुद्धिग-म्येष्वन्नप्राणादिषु मध्ये ब्रह्मान्वेषणीयमित्यभिप्रायः।
त ँ हो॑वाच। यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते। येन॒ जाता॑नि॒ जीव॑न्ति। यत्प्रय॑न्त्य॒- भिसंवि॑शन्ति। तद्विजि॑ज्ञासस्व। तद्ब्रह्मेति॑। अथ ब्रह्मलक्षणस्य तद्बोधहेतोर्विचारस्य चोपदेशं दर्शयति– त ँ हेत्या- दिना। द्वारं श्रुत्वा तदवबोधायात्यन्तमुत्सुकं तं भृगुवेक्ष्याऽऽप्तत्वातिशयेन तदीयं प्रश्नं विना स्वयमेव वरुणः पुनरप्युवाच। हशब्द औत्सुक्यप्रसिद्धिद्योतनार्थः। इमान्याकाशादीनि पञ्च महाभूतानि भौतिकदेहोपेता हिरण्यगर्भादिस्त-
१ ग. घ. ०वानां। २ ग. घ. ०क्यैक०। ३ क. ख. ङ. ०त्वाऽव०। ४ क. ख. घ. ङ. ०दीयप्र०।
[[663]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। म्बान्ताः सर्वे प्राणिनश्च यतो वस्तुनो जायन्ते। वैशब्दः “स इमाल्लोकानसृजत " इत्यादिश्रुत्यन्तरप्रसिद्धिद्योतनार्थः। उत्पन्नानि च भूतानि येन वस्तुना जीवन्ति स्थितिं लभन्ते। प्रयन्ति नाशं प्रतिपद्यमानानि भूतानि यद्वस्त्वभिसंविशन्ति साकल्येन प्रविशन्ति, यथा फेनतरङ्गबुद्बुदादीनामुत्पत्तिस्थितिलयाः समुद्रे भवन्ति तद्वत्, जगदुत्पत्तिस्थितलयकारणं वस्तु विचारय, तदेव वस्तु त्वया पृष्टं ब्रह्म। इतिशब्द उत्तरसमाप्त्यर्थः।
विचारकर्तव्यता च प्रथमाध्यायस्य प्रथमपादे* चिन्तिता— “अविचार्यं विचार्यं वा ब्रह्माध्यासानिरूपणात्। असंदेहाफलत्वाभ्यां न विचारं तदर्हति॥ अध्यासोऽहंबुद्धिसिद्धोऽसङ्गं ब्रह्म श्रुतीरितम्। संदेहान्मुक्तिभावाच्च विचार्यं ब्रह्म वेदतः " इति॥
“आत्मा वा अरे द्रष्टव्यः श्रोतव्यः " [बृह॰ २। ४। ५। ] इत्यत्राऽऽत्मदर्शनं फलमुद्दिश्य तत्साधनत्वेन श्रवणं विधीयते। श्रवणं नाम वेदान्तवाक्यानां ब्रह्मणि तात्पर्यं निर्णेतुमनुकूलो न्यायविचारः। तदेतद्विचारविधायकं वाक्यं विषयः। न चायं विषयः श्लोकेन संगृहीतः। संदेहसंग्रहेणैवार्थात्तत्संग्रहप्रतीतेः। ब्रह्मविचारात्मकन्यायनिर्णायकं शास्त्रमनारभ्यमारभ्यं वेति संदेहः। पूर्वोत्तरपक्षयुक्तिद्वयं सर्वत्र संदेहे बीजमुन्नेयम्। तत्रानारभ्यमिति तावत्प्राप्तम्। विषयप्रयोजनयोरभावात्। संदिग्धं हि विचारस्य विषयो भवति। ब्रह्म त्वसंदिग्धम्। तथा हि तत्किं ब्रह्माकारेण संदिह्यत आत्माकारेण वा। नाऽऽद्यः। “सत्यं ज्ञानमनन्तं ब्रह्म " [तैत्ति॰ २। १। १। ] इत्यादिवाक्येन ब्रह्माकारस्य निश्चयात्। न द्वितीयः। अहंप्रत्ययेनाऽऽकारस्यापि निश्चयात्। अध्यस्तात्मविषयत्वेन भ्रान्तोऽहंप्रत्यय इति चेन्न, अध्यासानिरूपणात्। तमःप्रकाशवद्विरूद्धस्वभावयोर्जडाजडयोर्देहात्मनोः शुक्तिकारजतवदन्योन्यतादात्म्याध्यासो न निरूपयितुं शक्यते। तस्मादभ्रान्ताभ्यां श्रुत्यहंप्रत्ययाभ्यां निश्चितस्यासंदिग्धत्वान्न विचारस्य विषयोऽस्ति। नापि प्रयोजनं पश्यामः। उत्तप्रकारेण ब्रह्मात्मनि निश्चितेऽपि मुक्त्यदर्शनात्। तस्माद्ब्रह्म न विचारमर्हतीति शास्त्रमनारम्भणीयमिति पूर्वपक्षः। अत्रोच्यते—शास्त्रमा- रम्भणीयं विषयप्रयोजनसद्भावात्। श्रुत्यहंप्रत्यययोर्विप्रतिपत्त्या संदिग्धं ब्रह्मात्मवस्तु। “अयमात्मा ब्रह्म " [बृह॰ २। ५। १९। ] इति श्रुतिरसङ्गं ब्रह्माऽऽत्मत्वेनोपदिशति। अहं मनुष्या इत्याद्यहंबुद्धिर्देहादितादात्म्याध्यासेनाऽऽत्मानं गृह्णाति। अध्यासस्य च दुर्निरूपत्वमलंकाराय।
- अथातो ब्रह्मजिज्ञासा—अ॰ १ पा॰ १ अ॰ १ सू॰ १।
[[664]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] तस्मात्संदिग्धं वस्तु विषयः। तन्निश्चयेन च मुक्तिलक्षणं प्रयोजनं श्रुत्या विद्वदनुभवेन च प्रसिद्धम्। तस्माद्वेदान्तवाक्यविचारमुखेन(ण) ब्रह्मणो विचारार्हत्वाच्छास्त्रमारम्भणीयमिति सिद्धान्तः।
विचारो हि लक्षणप्रमाणाभ्यां वस्तुतत्त्वनिर्णयावधिकः। लक्षणं च तत्रैव* चिन्तितम्— “लक्षणं ब्रह्मणो नास्ति किंवाऽस्ति न हि विद्यते। जन्मादेरन्यनिष्ठत्वात्सत्यादेश्चाप्रसिद्धितः॥ ब्रह्मनिष्ठं कारणत्वं स्याल्लक्ष्म स्रग्भुजंगवत्। लौकिकान्येव सत्यादीन्यखण्डं लक्षयन्ति हि॥
“यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभि- संविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्मेति " [तैत्ति॰ ३। १। १। ] इति। “सत्यं ज्ञानमनन्तं ब्रह्म " [तैत्ति॰ २। १। १। ] इति च वाक्यद्वयं विषयः। प्रयन्ति म्रियामाणानीत्यर्थः। अत्र श्रूयमानं ब्रह्मलक्षणं घटते वेति संशये न घटते। तथा हि किं जन्मादिकं ब्रह्मलक्षणमुत सत्यादिकम्। नाऽऽद्यः। तस्य जगन्निष्ठत्वेन ब्रह्मसंबन्धाभावात्। द्वितीयेऽपि लोकप्रसिद्धसत्यज्ञानादिस्वीकारे भिन्नार्थत्वादखण्डं ब्रह्म न सिध्येत्। अप्रसिद्धस्य तु सत्यादेर्लक्षणत्वमयुक्तम्। तस्मात्तटस्थलक्षणं स्वरूपलक्षणं च न विद्यते। अत्रोच्यते—जन्मादेरन्यनिष्ठत्वेऽपि तत्कारणत्वं ब्रह्मणि कल्पनया संबद्धं तटस्थलक्षणं भविष्यति। यो भुजंगः सा स्रगितिवत्। यज्जगत्करणं तद्ब्रह्मेति कल्पितेनापि वस्तुनो लक्षयितुं शक्यत्वात्। भिन्नार्थानामपि पितृसुतभ्रातृजामात्रादिशब्दानामेकदेवदत्तपर्यवसायित्वे यथा न विरोधः, तथा लोकसिद्धभिन्नार्थवाचिसत्यादिशब्दानामखण्डब्रह्मपर्यवसायित्वे स्वरूपलक्षणसि- द्धिरित्युभयमुपपन्नम् “।
तल्लक्षणोपपादनाय वेदकर्तृत्वं तत्रैव+ चिन्तितम्— “न कर्तृ ब्रह्म वेदस्य किंवा कर्तृ न कर्तृ तत्। विरूप नित्यया वाचेत्येवं नित्यत्ववर्णनात्॥ कर्तृनिःश्वसिताद्युक्तेर्नित्यत्वं पूर्वसाम्यतः। सर्वावभासिवेदस्य कर्तृत्वात्सर्वविद्भवेत्॥
- जन्माद्यस्य यत: — अ॰ १ पा॰ १ अ॰ २ सू॰ २। + शास्त्रयोनित्वात्—अ॰ १ पा॰ १ अ॰ ३ सू॰ ३ वर्णकम् १।
१ क. ख. ङ. सिद्धम्। २ घ. ङ. ०ति वा०। ३ ख. ०शयो न ४ क. ग. घ. ङ. ०स्य स०।
[[665]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। “अस्य महतो भूतस्य निःश्वसितमेताद्यद्दग्वेदो यजुर्वेदः सामवेदः " (बृह॰ २। ४। १० ) इति वाक्यं विषयः। यदृग्वेदादिकमस्ति तदेव तस्य नित्यसिद्धस्य ब्रह्मणो निःश्वास इवाप्रयत्नेन सिद्धमित्यर्थः। ब्रह्म वेदं न करोति वेति संदेहः। न करोति, वेदस्य नित्यत्वात्। वाचा विरूप नित्ययेत्येतस्मिन्मन्त्रे निरूपेति देवतां संबोध्य नित्यया वाचा स्तुतिं प्रेरयेत्येवं प्रार्थ्यते। नित्या वागृगादिवेद एव। “अनादिनिधना नित्य वागुत्सृष्टा स्वयंभुवा। आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः " इति स्मृतेः। अतो न वेदकर्तृ ब्रह्मेति प्राप्ते ब्रूम: — ब्रह्म वेदस्य कर्तृ भवितुमर्हति। कुतः। निःश्वसितन्यायेनाप्रयत्नोत्पत्त्यवगमात्। “तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे " इति सर्वैर्यज्ञैर्हूयमानाद्यज्ञशब्दवाच्याद्ब्रह्मणो विस्पष्टमेव वेदोत्पत्तिश्रवणाच्च। अप्रयत्नोत्पत्त्यैवार्थं बुद्ध्वा रचितैः कालिदासादिवाक्यैर्वैलक्षण्यापौरुषेयत्वम्। प्रतिसर्गं पूर्वसाम्येनोत्पत्तेः प्रवाहरूपेण नित्यता। सर्वजगव्द्यवस्थावभासिवेदकर्तृत्वनिरूपणेन ब्रह्मणः सर्वज्ञत्वं निरूपितं भवति”।
लक्षणमुपपाद्याऽऽगमव्यवस्थापनं तत्रैव* ,चिन्तितम्— “अस्त्यन्यमेयताऽप्यस्य किंवा वेदैकमेयता। घटवत्सिद्धवस्तुत्वाद्ब्रह्मान्येनापि मीयते॥ रूपलिङ्गादिराहित्यान्नास्य मान्तरयोग्यता। तं त्वौपनिषदेत्यादौ प्रोक्ता वेदैकमेयता॥ “तं त्वौपनिषदं पुरुषं पृच्छामि " इति शाकल्पं प्रति याज्ञवल्क्येनोक्ते वाक्ये परब्रह्मरूपस्य पुरुषस्योपनिषद्वेद्यत्वं प्रतीयते। तद्वाक्यं विषयः। तत्र ब्रह्मणः प्रत्यक्षादिगम्यत्वमस्ति नवेति संशयः। पूर्वपक्षस्तु विस्पष्टः। रूपर-साद्यभावान्नेन्द्रिययोग्यता। लिङ्गसादृश्यादिराहित्याच्च नानुमानोपमानादियोग्यता। उपनिषत्स्वेवाधिगम्यत इति व्युत्पत्त्या “नावेदविन्मनुते तं बृहन्तम् " इत्यन्यनिषेधश्रुत्या च वेदैकमेयत्वम्। भाष्यकारैर्जन्मादिसूत्रे—-“श्रुत्यादयोऽनुभवादयश्च यथासंभवमिह प्रमाणम्” इत्यन्यमेयत्वमङ्गीकृतमिति चेत्। बाढम्। प्रथमतः श्रुत्यैव प्रमिते ब्रह्मणि पश्चादनुवादरूपेणानुमानानुभवयोरङ्गीकारात्। अतो वेदैकमेयं ब्रह्म “।
- अ॰ १ पा॰ १ अ॰ ३ सू॰ ३ द्वितीयं वर्णकम्।
१ ग. समशयः। २ क. घ. घ. ङ. ०येत्यस्मि०। ३ घ. ततः। ४ ख. ०त्पत्तौ चार्थं। ५ घ. विचारितम्। ६ घ. ०सादिराहित्यान्ने०। ८४
[[666]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ]
वेदस्य तु ब्रह्मप्रमाणत्वं तत्रैव* चिन्तितम्— “वेदान्ताः कर्तृदेवादिपरा ब्रह्मपरा उत। अनुष्ठानोपयोगित्वात्कर्त्रादिप्रतिपादकाः॥ भिन्नप्रकरणाल्लिङ्गषट्काच्च ब्रह्मबोधकाः। सति प्रयोजनेऽनर्थहानेऽनुष्ठानतोऽत्र किम्॥
स्पष्टौ विषयसंदेहौ। जीवप्रकाशकवाक्यानि कर्तृपराणि ब्रह्मप्राकाशवाक्यानि देवतापराणि सृष्टिप्रकाशकवाक्यानि साधनपराणि। तथा सति वेदान्तानामनुष्ठानोपयोगित्वं भविष्यति। ब्रह्मपरत्वे त्वनुष्ठानासंभवान्निष्प्रयोजनत्वं स्यात्। तस्माद्वेदान्ताः कर्तृदेवतासाधनप्रतिपादकाः। अत्रोच्यते—ब्रह्मपरा वेदान्ताः। कुतः। भिन्नप्रकरणपठितानां तेषां कर्त्रादिप्रतिपदकतया कर्मशेषत्वासंभवात्तात्पर्यनिश्चयहेतुलिङ्गषट्केन ब्रह्मपरत्वसंभवाच्च “। लिङ्गषट्कं च पूर्वाचार्यैर्निरूपितम्— “उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्। अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिश्चये " इति।
“सदेव सोम्येदमग्र आसीत् " इत्युपक्रमः। " ऐतदात्प्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि " इत्युपसंहारः। तयोर्ब्रह्मविषयत्वेनैकरूप्यमेकं लिङ्गम्। असकृत्तत्त्वमसीत्युक्तिरभ्यासः। मानान्तरानवगम्यत्वमपूर्वत्वम्। एकविज्ञा- नेन सर्वविज्ञानं फलम्। सृष्टिस्थितिप्रलयप्रवेशनियमनानि पञ्चार्थवादाः। मृदादिदृष्टान्ता उपपत्तयः। एतैर्लिङ्गैर्ब्रह्मपरत्वं निश्चेयम्। न चानुष्ठानमन्तरेण प्रयोजनाभावः। नायं सर्प इत्यादाविव बोधादनर्थनिवृत्तेः संभवात्।
वेदान्तानां विधिपरत्वाभावस्तत्रैव+ चिन्तित: — “प्रतिपत्तिं विधित्सन्ति ब्रह्मण्यवसिता उत। शास्त्रत्वात्ते विधातारो मननादेश्च कीर्तनात्॥ नाकर्तृतन्त्रेऽस्ति विधिः शास्त्रत्वं शंसनादपि। मननादिः पुरा बोधाद्ब्रह्मण्यवसितास्ततः। एकदेशी मन्यते—ब्रह्मपरत्वेऽपि वेदान्ता न ब्रह्मण्येव पर्यवस्यन्ति। किं तर्हि
*तत्तु समन्वयात्—अ॰ १ पा॰ १ अ॰ ४ सू॰ ४ प्रथमं वर्णकम् १। + अ॰ १ पा॰ १ अ॰ ४ सू॰ ४ द्वितीयं वर्णकम्।
१ घ. ०र्यहे०। २ ग. घ. ०राग०। ३ ख. निर्णेयम्। ४ घ. शासनादपि। ५ ख. ०नादि पु०।
[[667]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। पारोक्ष्येण ब्रह्मतत्त्वं प्रतिपाद्य पश्चादपरोक्षप्रतिपत्तिं विदधति। तथा सति वेदान्तानां शासनाच्छास्त्रत्वमुपपद्यते। किंच “श्रोतव्यः " इति श्रवणं शाब्दज्ञानात्मकं विधाय “मन्तव्यो निदिध्यासितव्यः " इत्यनुभवज्ञानात्मकं मननादिकं स्पष्टमेव विधीयते। तस्मात्प्रतिपत्तेर्विधातारो वेदान्ता इति प्राप्ते ब्रूम: — न प्रतिपत्तेर्विधिः संभवति। कर्तुमकर्तुमन्यथा कर्तुमशक्यत्वेनापुरुषतन्त्रत्वात्। शास्त्रत्वं तु नानुष्ठेयशासनादेव नियतम्। सिद्धवस्तुशंसनेनापि तदुपपत्तेः। न च शाब्दज्ञाने जाते पश्चादनुभवात्मकं मननादिकं विधीयते इति वक्तुं युक्तम्। दशमस्त्वमसीतिवच्छब्दस्यैवापरोक्षानुभवजनकत्वेन शाब्दबोधात्पुरैवासंभावनाविपरीतभावनानिवृत्तये व्यापाररूपस्य कर्तृतन्त्रस्य मननादेर्विधानात् । तस्मात्तत्त्वमसीत्यादयो वेदान्ता ब्रह्मण्यवसिताः " इति। योऽयं वेदान्तमुखेन ब्रह्मतत्वनिर्णयफलको विचारः सोऽयं तद्विजिज्ञा- सस्वेत्यनेन वाक्येन विहितः। शाखान्तरेऽप्ययं विधिः श्रूयते–“श्रोतव्यो निदिध्यासितव्यः " इति। तदर्थ एवं स्मर्यते— “श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः। मत्वा च सततं ध्येय एते दर्शनहेतवः " इति पुराणेऽपि पठ्यते—- “तत्र तावन्मुनिश्रेष्ठाः श्रवणं नाम केवलम्। उपक्रमादिभिर्लिङ्गैः शक्तितात्पर्यनिर्णयः॥ सर्ववेदान्तवाक्यानामाचार्यमुखतः प्रियात्। वाक्यानुग्रहकन्यायशीलनं मननं भवेत्। निदिध्यासनमैकाग्र्यं श्रवणे मननेऽपि च। उत्पत्तावन्तरङ्गं हि ज्ञानस्य श्रवणं बुधाः॥ तटस्थमन्यव्यावृत्त्या मननं चिन्तनं तथा। इतिकर्तव्यकोटिस्थाः शान्तिदान्त्यादयस्तथा " इति॥
एतान्येव श्रवणमनननिदिध्यासनानि कहोलब्राह्मणे पाण्डित्यबाल्यमौनश- ब्दैर्व्यवहृत्य विहितानि—“ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्। बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्रह्मणः” इति। निर्विद्य निःशेषेण संपाद्याथ त्रितयानुष्ठानादूर्ध्वं ब्रह्मस्वरूपत्वाविर्भावान्मुख्यब्राह्मणो भवतीत्यर्थः। अत्र मननोपयुक्तधीशुद्धिपरेण बाल्यशब्देन मननमुपलक्ष्यते।
१ ग. ०णं शब्द०। २ ङ. तु। ३ ख. घ. ङ. शब्दज्ञाने। ४ ख. ०थ तृतीया।
[[668]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ]
धीशुद्धिपरत्वं च तृतीयाध्यायस्य चतुर्थपादे* चिन्तितम्— “बाल्यं वयः कामचारो धीशुद्धिर्वा प्रसिद्धितः। वयस्तस्याविधेयत्वात्कामचारोऽस्तु नेतरत्॥ मननस्योपयुक्तत्वाद्भावशुद्धिर्विवक्षिता। अत्यन्तानुपयोगित्वाद्विरुद्धत्वाच्च न द्वयम्॥
“बाल्येन तिष्ठासेत् " इत्यत्र बालस्य भावो बाल्यमिति प्रसिद्ध्या वयो भवेत्। अथ तस्य विध्यनर्हत्वम्। तर्हि बाल्यस्य कर्मेति व्युत्पत्त्या कामचारवादादिकमस्तु। सर्वथाऽपि न धीशुद्धिर्बाल्यमिति प्राप्ते ब्रूम: — पाण्डित्यमौनाख्ययोः श्रवणनिदिध्यासनयोर्मध्ये मननं विधेयत्वेन श्रुत्या विवक्षितम्। तस्य च भावशुद्धिरुपयुक्ता। रागद्वेषमानावमानादिदोषग्रस्तत्वेन बहिष्प्रवृत्तिं परित्यज्य मन्तुमशक्यत्वात्। बालस्य कर्मेति व्युत्पत्तिस्तु बाल्येच्छाचारे भावशुद्धौ च समाना। वयःकामचारौ तु मननस्यात्यन्तमनुपयुक्तौ प्रत्युत विरोधिनौ मूढस्य बहिष्प्रवृत्तस्य वा मनसो मननविनाशकत्वात्। तस्माद्भावशुद्धिरेव बाल्यं नेतरदुभयम् “।
मुनित्वस्य विधिकल्पनं तत्रैव+ चिन्तितम्— “अविधेयं विधेयं वा मौनं किं न विधीयते। प्राप्तं पाण्डित्यतो मौन ज्ञानवाच्युभयं यतः॥ निरन्तरज्ञाननिष्ठा मौनं पाण्डित्यतः पृथक्। विधेयं तद्भेददृष्टिप्राबल्ये तन्निवृत्तये॥
कहोलब्राह्मणे श्रूयते–“तस्माद्ब्रह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्। बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः " इति। अस्यायमर्थः। यस्माद्ब्रह्मभावः परमः पुरुषार्थस्तस्माद्ब्रह्म बुभूषुरुपनिषत्तात्पर्यनिर्णयरूपं पाण्डित्यं निःशेषेण संपाद्य बालवन्नीरागद्वेषत्वेन युक्तोऽसंभावनानिराकरणाय युक्तीरनुचिन्तयन्नवस्थातुमिच्छेत्। ततः पाण्डित्यबाल्ये निःशेषेण संपाद्याथ मुनिरिति। तत्र भवेदिति विध्यश्रवणान्मुनित्वं न विधेयम्। न च विधिः कल्पयितुं शक्यः। पाण्डित्यशब्देन प्राप्तस्य मौनस्यापूर्वार्थत्वाभावात्। पण्डितस्य विदुषो भावः पाण्डित्यमिति ज्ञानवाचकोऽयं शब्दः। तथा मुनिशब्दोऽपि मन ज्ञान इत्यस्माद्धातोस्तन्निष्पत्तेः। तस्मात्प्राप्तस्य मौनस्य न विधि-
- अनाविष्कुर्वन्नन्वयात्— अ॰ ३ पा॰ ४ अ॰ १४ सू॰ ४०। + सहकार्य- न्तरविधिः पक्षेण तृतीयं तत्त्वतो विध्यादिवत्– अ॰ ३ पा॰ ४ अ॰ १४ सू॰ ४७।
१ ग. ०त्वं तृ०। २ ग. ०ध्याये च०। ३ ख. ०था न। ४ ख. ०योर्मन०। ५ क. ख. ङ. ०वृत्तिमप०। ६ ग. घ. ०स्तु भा०। ७ ख तन्न। ८ ग. ङ. बाल्यन०।
[[669]]
[प्रपा॰ ९ अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। कल्पनमिति प्राप्ते ब्रूम: — पूर्वोक्तस्य पाण्डित्यस्य पुनर्मुनिशब्देनाभिधाने प्रयोजनाभावान्निरन्तरज्ञाननिष्ठापूर्वार्थो मुनिशब्देन विवक्षितः। ततस्ति- ष्ठासेदितिपदानुवृत्त्या विधिर्लभ्यते। अस्ति च ज्ञाननैरन्तर्येण प्रयोजनम्। प्रबलभेदवासनावासितस्य तन्निवृत्त्यर्थत्वात्। तस्मान्निदिध्यासनात्मकं मौनं विधेयम् “।
यथोक्तश्रवणाद्यावृत्तिश्चतुर्थाध्ययस्य प्रथमपादे* चिन्तिता— “श्रवणाद्याः सकृत्कार्या आवृत्त्या वा सकृद्यतः। शास्त्रार्थस्तावता सिध्येत्प्रयाजादौ सकृत्कृते॥ आवृत्त्या दर्शनान्तास्ते तण्डुलान्तावघातवत्। दृष्टेऽत्र संभवत्यर्थे नादृष्टं कल्प्यते बुधैः॥
“सकृत्कृते कृतः शास्त्रार्थः " इतिन्यायेन श्रवणादीनां प्रयाजादिवत्सकृ-देवानुष्ठानमिति प्राप्ते ब्रूम: — उक्तन्यायस्यादृष्टफलविषयत्वादत्र ब्रह्मसाक्षात्कारलक्षणस्य दृष्टफलस्य संभवात्। “दृष्टे संभवत्यदृष्टं न कल्पनीयम् " इतिन्यायेनावघातवत्फलसिद्धिपर्यन्तं श्रवणाद्या आवर्तनीयाः “।