अथ सप्तमोऽनुवाकः

अस॒द्वा इ॒दमग्र॑ आसीत्। ततो॒ वै सद॑जायत। तदा- त्मान ँ स्वय॑मकु॒रुत। तस्मात्तत्सुकृतमुच्य॑त इति। यथोक्तब्रह्मसद्भावप्रकाशकं मन्त्रमुदाहरति—तदप्येष इत्यादिना। इदं नामरूपाम्यामभिव्यक्तं जगदुत्पत्तेः पूर्वमसदेवानभिव्यक्तमेवाऽऽसीत्। ततो वै तस्मादेवानभिव्यक्तनामरूपाद्ब्रह्मणः सदजायताभिव्यक्तनामरूपं जगदुत्पन्नम्। न चात्र पितुर्विभक्तः पुत्र इव ब्रह्मणो विभक्तं जगत्। किंतु तद्ब्रह्माऽऽत्मानं सच्चिदानन्दैकरसस्वरूपं स्वयं कर्त्रन्तरनैरपेक्ष्येणाकुरुत जगदाकारेण कृतवत्। न खलु जगदुपादानं मृत्तिकास्यानीयं कुलालस्थानीयं निमित्तं च किंचिद्ब्रह्मव्यतिरिक्तमस्ति किंतु ब्रह्मैवोभयस्थानीयम्। यस्मादेवं तस्मात्तद्ब्रह्म सुकृतमित्यनेन शब्देनोच्यते। सुशब्दोऽत्र स्वयंशब्दपर्यायः।कृतशब्दः कर्तृशब्दपर्यायः। सुकृतं स्वयं कर्तृ ब्रह्मेत्येवं शास्त्रविद्भिरुच्यते। जीवास्तु न स्वयं कर्तारः किं त्वन्तर्यामिप्रेरिताः कुर्वन्ति “य आत्मानमन्तरो यमयति” “एष त आत्माऽन्तर्याम्यमृतः " “एष एव साधु कर्म कारयति " “केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि " इत्यादिश्रुतिस्मृतिभ्यः।

यद्वै॑तत्सु॒कृतम्। र॑सो वै॒ सः। रस ँ ह्येवायं लब्ध्याऽऽन॑न्दी भव॒ति।

स्वयंकर्तृत्वप्रसिद्धिरपि ब्रह्मणः सद्भावं साधयति। *अतः प्रकारान्तरेण तं साधयि-


  • एतदपेक्षयाऽन्यप्रकारेणेत्यर्थः।

[[643]]

[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। तुमानन्दरूपतामाह—यद्वैतदित्याजिना। यदेतत्पूर्वोक्तं सुकृतशब्दवाच्यं ब्रह्मास्ति स ब्रह्मपदार्थो रस एव। लोकेऽपि तृप्तिलक्षणस्याऽऽनन्दस्य हेतुर्मधुरादिपदार्थो रस इत्युच्यते। ब्रह्मापि कृतकृत्यत्वादिलक्षणस्य तत्त्वविदाऽऽनन्दस्य हेतुत्वाद्रसो भवति। रसनीयवेदान्तवाक्यजनितमनोवृत्तिज्ञानेनाऽऽस्वादनीयमिति ब्रह्मणो रसत्वम्। प्रीतिपुरःसरं रसग्रहणमास्वादनम्। ब्रह्म च जिज्ञासुभिः प्रीतिपूर्वकमेव गृह्यते। प्रीतिश्चाऽऽनन्दमन्तरेण न संभवति। तस्माद्रसशब्देन ब्रह्मण आनन्दरूपत्वमुच्यते। नन्वानन्दरूपत्वाभावेऽपि धर्मो जिज्ञासुभिः प्रीतिपूर्वकमेव गृह्यते। मैवम्। धर्मे मुख्यप्रीत्यभावात्। स्वर्गलक्षणसुखसाधनत्वोपाधिनैव हि धर्मे प्रीतिः। ब्रह्म तु स्वस्मादु-त्तमस्य साधनं न भवति। ततो मुख्यप्रीतिविषयत्वादानन्दरूपं ब्रह्म। तदेतदानन्दत्वं रसं हीत्यादिनोपपाद्यते। अयं तत्त्ववित्पुरुषो रसं लब्ध्वा साक्षात्कृत्य धन्योऽस्मीत्येवमानन्दवान्भवति। तत्त्वविदो लौकिकः परितोषहेतुः स्रक्चन्दनवनितादिलाभो न भवति। किं त्वात्मलाभ एव। विरक्तस्य स्रगादौ लाभबुद्ध्यभावात्। “आत्मलाभान्न परं विद्यते " इत्यादिशास्त्रात्। तस्मा- द्विद्वत्परितोषहेत्वानन्दरूपत्वादपि ब्रह्मणः सत्त्वमभ्युपेयम्। हिशब्देन विद्वत्प्रसिद्धिरेव प्रदर्शिता। को ह्येवान्या॑त्कः प्रा॒ण्यात्। यदेष आकाश आन॑न्दो न स्यात्। एष ह्येवाऽऽन॑न्दयाति।

किंच देहादिचेष्टावैषयिकानन्दहेतुत्वादपि ब्रह्मास्तीत्यभिप्रेत्य तदुभयहेतुत्वं दर्शयति—को ह्येवान्यादित्यादिना। आकाश इति सप्तम्यन्तः प्रथमान्तो वा। सप्तमीपक्षे गुहायां परमे व्योमन्नित्यत्राभिहितो योऽर्थः स एवात्रापि द्रष्टव्यः। प्रथमान्तत्वपक्षे त्वा समन्तात्काशते स्वप्रकाशत्वेनावभासत इत्याकाशः। तथाविध एष पूर्ववाक्ये रसत्वेनोक्त आत्मरूप आनन्दो यदि न स्यात्तदानीं को ह्येव को नाम कर्ता देहस्यान्तरन्याद्वागादीन्द्रियैश्चेष्टेत। अन चेष्टायामिति धातुः। को वा प्राण्यात्प्राणनकर्म श्वासं कुर्यात्। चक्षुरादीन्द्रि-यसाधनक्रियाकर्तृत्वमात्मन आथर्वणिका आमनन्ति— “एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्त बोद्धा कर्ता विज्ञानात्मा पुरुषः " इति। लोके प्राणसदसद्भावयोर्जन्ममरणदर्शनात्प्राण एवाऽऽत्मेति मूढप्रसिद्धिस्तामेवोपजीव्य बृहगारण्यके प्राणात्मत्ववादी बालाकिर्ब्रह्मात्मवादिनाऽजातशत्रुणा सह संवादं चकार। ततोऽत्र दर्शनादिक्रियाणां कर्ता प्राण इति भ्रमं वारयितुं कः प्राण्यादिति पृथगुक्तिः। आनन्दात्मनोऽसत्त्वे प्राणेन साधनेन श्वासक्रियां कः कुर्यात्। प्राणस्य श्वासक्रियां प्रति करणत्वमेव कर्तृत्वं त्वात्मन इत्ययमर्थ उषस्तिब्राह्मणेऽपि स्पष्टमाम्नात: — “यः


१ घ. ०नीयं वे ०। २ ख. ०स्मीत्यान ०। ३ घ. ०त्मत्ववा ०।

[[644]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] प्राणेन प्राणिति स त आत्मा सर्वान्तरः " इति। यद्यप्यसङ्गस्याऽऽनन्दात्मन इन्द्रियादिचेष्टकर्तृत्वं स्वतो न संभवति तथाऽपि विज्ञानमयकोशोपाधि कस्य तत्संभवति। अतश्चेष्टाहेतुत्वादस्ति ब्रह्म। योऽयं चेष्टाहेतुरानन्दोऽ- स्त्येष एव सर्वान्प्राणिन आनन्दयाति परितोषयति। अभीष्टविषयलाभे सति मनो विषयाभिमुख्यं परित्यज्य विषयान्तराभिलाषोदयात्पूर्वमनन्तर्मुखं प्रत्य-गात्मानन्दमनुभवति। सोऽयं लोके विषयानन्द इत्युच्यते। अत्र विवेकिजन- प्रसिद्धिद्योतनार्थो हिशब्दः। अतस्तद्धेतुत्वादपि ब्रह्मास्तीत्यभ्युपगन्तव्यम्। य॒दा ह्ये॑वै॒ष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽ- भयं प्रति॑ष्ठां वि॒न्दते। अथ सोऽभयं ग॑तो भ॒वति।

इत्थं कामयितृत्वादिभिर्हेतुभिर्ब्रह्मणः सद्भावसाधनादस्ति नास्ति वेत्ययं संशयो निरा कृतः। अथ क्रमप्राप्तमविद्वद्विषयं संशयं बहुवक्तव्यसद्भावात्तावदवस्थाप्याऽऽदौ विद्वद्विषयं ब्रह्मप्राप्तिसंशयमपाकरोति—यदा ह्येवेत्यादिना। एष जिज्ञासुरेतस्मिन्सद्भावसाधनेन प्रकृते स्वानुभवगम्ये ब्रह्मणि प्रतिष्ठां स्वत्मत्त्वबुद्धिदार्ढ्यं यदा लभते, अथ तदानीं स विद्वानभयं जन्ममरणादिभयरहितं मुक्तिपदं प्राप्नोति। एवशब्देन कालविलम्बो व्यावर्त्यते। यदा जानाति तदैव प्राप्नोति। अस्मिन्नर्थे विद्वत्प्रसिद्धिं हिशब्दो दर्शयति। अदृश्यादिविशेषणैश्चतुर्भिर्ब्रह्म विशिष्यते। चक्षुरादीन्द्रियैरगम्यत्वाददृश्यम्। अत एव कठैराम्नायते—“नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा” इति। आत्म्यमात्मीयं लिङ्गं तद्रहितमनात्म्यमनुमानेनाप्यगम्यमित्यर्थः। एतदप्यन्यत्राऽऽम्नातम्—“निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् " इति। यद्यपि शरीरत्रयं जीवात्मसंबन्धिलिङ्गं जगत्कर्तृत्वमीश्वरलिङ्गं तथाऽपि निष्प्रपञ्चब्रह्मात्मतत्त्वस्य साधने न किंचिल्लिङ्गमस्ति। निःशेषेण वक्तुं शक्यं निरुक्तं तद्विपरीतमनिरुक्तम्। न ब्रह्मतत्त्वस्याभिधायकः कश्चिच्छब्दोस्ति “यतो वाचो निवर्तन्ते " इति श्रुतेः। अदृश्यत्वादिभिस्त्रिभिर्विशेषणैः प्रत्यक्षानुमानागमगम्यत्वं निराकृतम्। तावता कृत्स्नकार्यप्रपञ्चवैलक्षण्यं सिद्धम्। अनिलयनमनाधारम् “स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि” इति श्रुत्यन्तरात्। मूलाज्ञानस्य प्रमाणत्रयगम्यत्वाभावेऽपि ब्रह्मण्याश्रितत्वात्साधारत्वमस्तीति तद्वैलक्षण्यार्थमनिलयनमित्युच्यते। अभयं प्रतिष्ठामित्यभयशब्देन द्वैतराहित्यमित्युच्यते।बिभेत्यस्मादितिव्युत्पत्त्या भयं ब्रहमव्यतिरिक्तं वस्तु कथ्यते “द्वितीयाद्वै भयं भवति” इति श्रुत्यन्तरात्।अहमन्यो ब्रह्मान्यदित्येतादृशं द्वैतं भयं तद्रहितमभयं तद्यथा भवति तथा प्रतिष्ठां लभत इति योजनीयम्।


१ घ. ०गान०। २ ख. ०त्मबु०। ३ घ. प्राप्तो भवति। ४ ग. ०णग०। ५ क. ख. घ. ङ. ०त्यमुच्य०।

[[645]]

[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। य॒दा ह्ये॑वैष॒ एतस्मिन्नुदरमन्त॑रं कु॒रुते। अथ तस्य भ॑यं भ॒वति।

विदुषो ब्रह्मप्राप्तिनिश्चयेन यथा संशयो निराकृत एवमविदुषो ब्रह्मप्राप्त्यभावनिश्चयेन संशयमापाकरोति—यदा ह्येवैष इतियादिना। उच्छब्दोऽपिब्दार्थे वर्तते। अरशब्दोऽल्पवाची। अन्तरशब्दो भेदवाची। एष लौकिकः पुमानेतस्मिन्ब्रह्मण्यल्पमपि भेदं स्वातिरिक्तत्वं यदा कुरुते स्वस्माद्भेदेन ब्रह्म पश्यति तदैव तस्य जन्ममरणादिसंसारभयं भवति। जीवब्रह्मभेदस्य वास्त-वत्वाभावाभिप्रायेणाल्पमपीत्युक्तम्। भेददर्शिनः संसारप्राप्तौ श्रुत्यन्तरप्रसिद्धिं हिशब्देन दर्शयति। “मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति " “ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद " इत्याद्याः श्रुतयो द्रष्टव्याः। ननु यः पुमान्कर्मकाण्डार्थमुपास्यं सगुणं ब्रह्म वा जानाति तस्यापि विद्यावत्त्वेन निर्गुणब्रह्मज्ञानिवन्मुक्तिः स्यादित्याशङ्कय निराचष्टे—- तत्त्वेव भयं विदुषोऽम॑न्वान॒स्य, इति।

तुशब्दो मुक्तिशङ्कां निवर्तयति। विदुषोऽप्यमन्वानस्य ब्रह्मतत्त्वमजानतो भेददर्शित्वातत्तदेव भयमत्यन्तमूढस्येव जन्ममरणसंसारभयं यवति। तदप्येष श्लो॑को भ॒वति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमः- प्रपाठके सप्तमोऽनुवाकः॥ ७॥