अथाष्टमे षष्ठोऽनुवाकः अस॑न्ने॒व स॑ भवति। अस॒द्ब्रह्मेति॒ वेद॒ चेत्। अस्ति ब्रह्मेति॑ चेद्वे॒द। सन्तमेनं ततो वि॑दुरि॒ति, इति।
लोके हि जलाहरणचाक्षुषदर्शनादिव्यवहारविषयं घटमुद्दिश्य प्राणिनः सर्वेऽप्ययं घटोऽस्तीति ब्रूवते। तद्विपर्यये तु घटो नास्तीति च वदन्ति। अतो व्यवहारवासनायुक्तः पुमानव्यवहार्यस्य ब्रह्मणोऽसत्त्वं मन्यते। अन्यस्तु विवेकी व्यवहार्याणां भूतानां भौतिकानां च श्रुतियुक्त्यनुभूतिभिर्मायामयत्वनिश्चयादसत्त्वं प्रातिपद्यते। व्यवहारातीतस्य ब्रह्मणः श्रुत्यादिभिः सत्यत्वनिश्चयात्सत्त्वमेव प्रत्येति। तत्र ब्रह्मणोऽसत्त्वं यो वेद स पुमानसन्नेव स्यात्। अन्नमयादिकोशानामनात्मत्वस्य प्रतिपादितत्वात्तदतिरिक्तस्य ब्रह्मणः स्वयमनङ्गीकृतत्वाच्च। यस्तु पञ्चकोशातीतं ब्रह्मा–
१ घ. ०णभूतस्य। २ ख. ग. ०ह्मत्वं सा०। ३ घ. ०नप्यव्यव०।
[[617]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। स्तीति वेद तस्य पुंसस्तदेव ब्रह्म स्वरूपपम्। ततो ब्रह्मास्तित्ववोदनादेनं विवेकिनं सन्तं विद्यमानं सात्मकं जानन्ति शास्त्रपरं गताः। अथवा योऽसद्ब्रह्मेति वेद सोऽसन्नसाधुरेव भवति। वर्णाश्रमादिव्यवस्थालक्षणस्य सर्वस्य सन्मार्गस्य ब्रह्मप्रतिपत्त्यर्थतया ब्रह्मापलापेन सर्वसन्मार्गदूषको नास्तिको भवति। अस्तित्ववादिनमुक्तविपर्ययेण सन्तं सर्वसन्मार्गस्थापकमाहुः। एतदेवाभिप्रेत्य कठा आमनन्ति—“अस्तीत्येवोपलब्धव्यः” इति।
अथोपासकस्याऽऽनन्दमये बुभुत्सोश्च ब्रह्मतत्त्वे त्वात्मबुद्धिं द्रढयितुमाह– तस्यैष एव शरी॑र आ॒त्मा। यः॑ पूर्व॒स्य, इति। य आनन्दमयोऽस्ति स एष एव तस्य पूर्वस्य विज्ञानमयस्य शरीरः स्वामी। विज्ञानमयः शरीरम्। आनन्दमय आत्मेत्युपासकं प्रति योजनीयम्। बुभुत्सुं प्रति त्वेवं योजयेत्। यो ब्रह्म पुच्छमित्युक्तः पदार्त एष एव तस्य पूर्वस्य प्रियमोदादिचतुष्टयस्य शरीर आत्मा। प्रियादिकं शरीरं तस्मिञ्शरीरेऽवस्थितं ब्रह्मैवाऽऽत्मेति।
एतदेवाभिप्रेत्य वार्तिककारा आहु: — “मिथ्यात्मनां हि सर्वेषां सत्यादिगुणलक्षणम्। व्याविद्धाशेषसंसारमात्मानं तं प्रचक्षते॥ न ह्यात्मवान्भवेत्सर्पो दण्डाद्यध्यासरूपिणा। आत्मना ह्येष सत्येन सर्पो रज्ज्वात्मनाऽऽत्मवान् " इति॥
अथ मीमांसा। तत्रैकदेशिनां विचारः प्रथमाध्यायस्य प्रथमपादे* दर्शिता: — “संसारी ब्रह्म वाऽऽनन्दमयः संसार्ययं भवेत्। विकारार्थमयट्शब्दात्प्रियाद्यवयवोक्तितः॥ अभ्यासोपक्रमादिभ्यो ब्रह्माऽऽनन्दमयो भवेत्। प्राचुर्यार्थो मयट्शब्दः प्रियाद्याः स्युरुपाधिगाः " इति॥
तैत्तिरीयके देहप्राणमनोबुद्धयानन्दरूपा अन्नमयप्राणमयमनोमयविज्ञान-मयानन्दमयसंज्ञकाः पञ्च पदार्थाः क्रमेणैकैकस्मादान्तराः पठिताः। तत्र सर्वान्तर आनन्दमयः संसारी परमात्मा वेदि संदेहः। संसारीति तावत्प्राप्तम्। कुतः। आनन्दस्य विकार आनन्दमय इति व्युत्पत्तेः संसारिणि संभवात्। अविक्रिये परमात्मन्यसौ न संभवति। किंच—“तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः
- आनन्दमयोऽभ्यासात्–अ॰ १ पा॰ १ अ॰ ६। सू॰ १२।
१ घ. ०त्सोश्चाऽऽत्मतत्त्वे त्वात्मत्वबु०। २ ख. ०हः। आनन्दमयः सं०। ३ क. ख. ग. ङ. ०ति प्राप्त०। ७८
[[618]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] आनन्द आत्मा। ब्रह्म पुच्चं प्रतिष्ठा " इत्यानन्दमयस्य पञ्चावयवा उच्यन्ते। अपेक्षितविषयदर्शनजन्यं सुखं प्रियम्। तल्लाभजन्यो मोदः। तद्भोगजन्यः प्रमोदः। सुषुप्त्यादौ भासमानज्ञानोपहितं सुखसामान्यमानन्दः। निरुपाधिकं सुखं ब्रह्म। प्रियादीनां पञ्चावयवानां शिरआदिरूपत्वमुपास्तिप्रतिपत्तिसौकर्याय कल्प्यते। कल्पितस्याऽऽनन्दमयस्य शिरः पक्षौ चेत्यवयवत्रयम्। आत्मशब्देन मध्यशरीरं चतुर्थावयवत्वेनोच्यते। पुच्छमपरभागः। प्रतिष्ठाऽऽधारः पञ्चमोऽवयवः। न च निरंशस्य परमात्मनोऽवयवा युक्ताः। तस्मात्संसार्येवाऽऽनन्दमय इत्येवं प्राप्ते ब्रूम: — आनन्दमयः परमात्मा। कुतः। अभ्यासात्। “सैषाऽऽनन्दस्य मीमाँसा भवति। एतमानन्दमय-मात्मानमुपसंक्रामति " इत्यादिनाऽऽनन्दमयोऽभ्यस्यते। अभ्यासश्च तात्पर्यलिङ्गम्। तात्पर्यं च वेदान्तानां ब्रह्ममण्येवेत्यवोचाम। किंच— “सत्यं ज्ञानमनन्तं ब्रह्म " इति ब्रह्मोपक्रमात् “इदं सर्वमसृजत " इति सर्वजगत्स्रष्टृत्वादिभ्यश्चाऽऽनन्दमयो ब्रह्म। न च ब्रह्मणि मयट्शब्दानुपपत्तिः प्राचुर्यार्थसंभवात्। प्रियाद्यवयवा अपि विषयदर्शनाद्युपाधिकृता भविष्यन्ति। तस्मात्परमात्माऽऽनन्दमय इत्येकदेशिनां मतम्।
इदानीं स्वमतानुसारेणाधिकरणमुच्यते– “अन्याङ्गं स्वप्रधानं वा ब्रह्म पुच्छमिति श्रुतम्। स्यादानन्दमयस्याङ्गं पुच्छेऽङ्गत्वप्रसिद्धितः॥ लाङ्गूलासंभवादत्र पुच्छेनाऽऽधारलक्षणा। आनन्दमयजीवोऽस्मिन्नाश्रितोऽतः प्रधानता " इति॥
“ब्रह्म पुच्छं प्रतिष्ठा " इति यच्छ्रुतं ब्रह्म तत्किमानन्दमयस्याङ्गत्वेन निर्दि- श्यत उत स्वयं प्राधान्येन प्रतिपाद्यत इति संशयः। आनन्दमयस्यावयवत्वेनेति तावत्प्रप्तम्। लोके पुच्छशब्दस्यावयववाचित्वेन प्रसिद्धत्वादिति प्राप्त उच्यते—न पुच्छशब्दोऽवयववाची। किंतु लाङ्गूलवाची। न चाऽऽनन्दमयस्य लाङ्गूलं संभवति। लाङ्गूलस्य गवादिलक्षणान्नमयावयवत्वात्। अतः पुच्छशब्दस्य मुख्यार्थासंभवे सति योग्यतावशादत्राऽऽधारो लक्ष्यते। ब्रह्माऽऽनन्दमयस्य जीवस्याऽऽधारस्तत्कल्पनाधिष्ठानत्वात्। न चाऽऽनन्दमयः परमात्मा। प्राचुर्यार्थस्वीकारेऽप्यल्पदुःखसद्भावप्रतीतेः। तस्माज्जीवाधारत्वाद्ब्रह्म प्राधान्ये प्रतिपाद्यते। तथा— “असन्नेव स भवति। असद्ब्रह्मेति वेद चेत् " इत्यादिब्रह्माभ्यासः “ब्रह्मविदाप्नोति " इति ब्रह्मोपक्रमश्चानुकूलो भवति। अतः कठवल्लयुक्तपुरुषन्यायेन ब्रह्मैव ज्ञेयम्। न त्वाकाशादिसृष्टिरन्नमयादिकोशाश्च।
१ क. ख. ङ. ०क्षणम्। आ ०। २ घ. स्वप्रा ०। ३ घ. ०शादाधा ०। ४ ख. ०था चास ०।
[[619]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। स च न्यायस्तृतीयाध्यायस्य * तृतीयपादेऽभिहित: — “सर्वा परम्पराऽक्षादेर्ज्ञेया पुरुष एव वा। ज्ञेया सर्वा श्रुतत्वेन वाक्यानि स्युर्बहूनि हि॥ पुमर्थः पुरुषज्ञानं तत्र यत्नः श्रुतेर्महान्। तद्बोधाय श्रुतोऽक्षादिर्वेद्य एकः पुमानतः॥
कठवल्लीषु पठ्यते— “इन्द्रियेभ्यः परा ह्यर्था ह्यर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः। महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं र्किचित्सा काष्ठा सा परा गतिः” इति। अस्यायमर्थः। मनसा विषयानभिलष्य पश्चादिन्द्रियैर्बाह्यान्विषयानाप्नोति। तत्र बाह्यविषयेभ्य इन्द्रियाणामान्तरत्वात्परत्वं प्रसिद्धम्। इन्द्रियेभ्यश्चाभिलष्यमाणत्वदशापन्ना अर्था आन्तरास्तोभ्योऽप्यभिलाषात्मिका मनोवृत्तिरान्तरा। वृत्तेरपि वृत्तिमती बुद्धिरभ्यन्तरा। बुद्धेरपि बुद्ध्युपादानभूतो महच्छब्दवाच्यो हिरण्यगर्भरूप आत्माऽऽन्तरः। महतोऽपि तदुपादानभूतमव्यक्ताख्यं मूलाज्ञानमान्तरम्। अव्यक्तादपि तदधिष्ठानभूतश्चिद्रूपः पुरुषोऽभ्यन्तरः। पुरुषादभ्यन्तरं न किंचिदस्ति। पुरुष एवाभ्यन्तरतारतम्यस्य विश्रान्तिभूमिः। पुरुषार्थकामैः परमो गन्तव्यः प्रदेशश्चेति। तत्र यथा पुरुषः श्रुत्या तात्पर्येण प्रतिपाद्य एवमिन्द्रियादिपरम्पराऽपि प्रतिपाद्यैव। अन्यथा तदुपन्यासवैयर्थ्यात्। बहूनां प्रतिपादने वाक्यभेदः स्यादिति चेद्बाढम्। सन्त्येव तानि बहूनि वाक्यानि। एकवाक्यत्वस्यासंभवादिति प्राप्ते ब्रूम: — पुरुषज्ञानस्याशेषसंसारनिदानभूताज्ञाननिवर्तकत्वात्पुरुष एव ज्ञेयतया प्रतिपाद्यः। अत एव वाक्यशेषे पुरुषज्ञानायैव महता प्रयत्नेन योग उपदिष्टः। “एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः” इति।
अयमर्थ : — सर्वाभ्यन्तरत्वेन गूढ आत्मा बहिर्मुखानां(णां) न प्रकाशते। अन्तर्मुखानां(णां) तु प्रकाशते। अन्तर्मुखा ये सूक्ष्मतत्त्वदर्शनशीलास्तै- र्योगाभ्यासेनैकाग्र्यमापन्नया बुद्ध्या सूक्ष्मवस्तुविषयया द्रष्टुं शक्यत इति। न च पुरुषस्यैव प्रतिपाद्यत्वे परम्परोपदेशवैयर्थ्यम्। बहिर्मुखस्य चित्तिस्य क्रमेण पुरुषप्रवेशे परम्परायाः साधनत्वात्। तस्मात्पुरुष एव ज्ञातव्यः “।
अनेन न्यायेन ब्रह्मण आनन्त्यमुपपादयितुमाकाशादिसृष्टिरुक्ता। गुहाहितत्वमुपपादयितुं पञ्चान्नमयादिकोशा उपन्यस्ताः। ज्ञातव्यं तु ब्रह्मैव। तच्च सत्यज्ञानादिलक्षणं गुहाहितत्वेन प्रत्यगात्मस्वरूपं चेति स्थितम्।
- आध्यानाय प्रयोजनाभावात्— अ॰ ३ पा॰ ३ अ॰ ७ सू॰ १४।
१ क. ख. ङ. ०लक्ष्य प ०। २ क. ङ. उपादिष्टः।
[[620]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] इत्थं ब्रह्मोपदेशरूपं श्रवणप्रकरणं परिसमाप्य बहिर्मुखाना(ण)मुपपाद- नरूपस्य मननप्रकरणस्याऽऽरम्भे शिष्यप्रश्नान्प्रतिजानीते— अथातो॑ऽनुप्र॒श्नाः, इति।
उपदेशानन्तरमुपदिष्टेऽर्थे यस्मात्कारणाच्छिष्यस्य बुद्धिदोषेण बहवः संदेहाः प्रादुर्भवन्त्यतः कारणादुपदिष्टानुरूपाः प्रश्नाः क्रियन्ते। अत्राथशब्देन विवक्षितं श्रवणमननयोः पूर्वापरभावमन्यत्र विस्पष्टमेव श्रुतिराह—“श्रोतव्यो मन्तव्यः " इति। तयोः स्वरूपमेवं स्मर्यते—“श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः " इति। तयोः प्रयोजनं विभज्याऽऽम्नायते—“भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः” इत्युपदेशेन ब्रह्मतत्त्वे ज्ञाने सति प्रत्यगात्मनोऽन्तःकरणेन सह तादात्म्यभ्रमस्वरूपो ग्रन्थिर्निवर्तते। उपपत्तिपर्यालोचनरूपेण मननेन संशयाश्छिद्यन्ते। तस्मादत्र च्छेत्तव्य संशयोपन्यासरूपाः प्रश्नाः क्रियन्त इत्यर्थः।
प्रतिज्ञातान्प्रश्नानुपन्यस्यति________________________ उ॒तावि॒द्वान॒मुं लो॒कं प्रेत्य॑। कश्च॒न ग॑च्छ॒ती ३। आहो॑ वि॒द्वान॒मुं लो॒कं प्रेत्य॑। कश्चि॒त्सम॑श्नुता३ उ॒, इति। यदुक्तं— “ब्रह्मविदाप्नोति परम् " इति तेन बुद्धिस्थेन तत्प्रतियोगिन्यविदुपि द्वौ प्रश्नौ क्रियेते। उपशब्दः प्रश्नद्योतकः किमित्येतस्मिन्नर्थे वर्तते। चनशब्दोऽपिशब्दार्थवाची। अमुं लोकमिति पुरोवर्ती परमात्मोच्यते। किमविद्वान्यः कोऽपि देहात्प्रेत्य परमात्मानं गच्छतीति श्रौत। आद्यः। अथवा न गच्छतीत्यर्थसिद्धो द्वितीयः प्रश्नः। तथा विद्वद्विषयावपि द्वौ प्रश्नावित्येवं चत्वारः प्रश्राः। सर्वजगत्कारणस्य जीवरूपेण देहेषु प्रविष्टस्य ब्रह्मणो विद्वादविद्वत्साधारणत्वेन विदुषस्तत्प्राप्तावविद्वानपि प्राप्नुयात्। अविदुषोऽप्राप्तौ विद्वानपि न प्राप्नुयादिति चतुर्णा प्रश्नानामभिप्रायः। यद्वा श्रूयमाणौ विद्वदविद्वद्विषयौ द्वावेव प्रश्नौ। पूर्ववाक्यसूचितेन प्रश्नेन सह समुच्चितत्वा-द्बहुवचननिर्देशः।
पूर्ववाक्ये हि—“असद्ब्रह्मेति वेद चेदस्ति ब्रह्मेति चेद्वेद " इतिकोटिद्वयोपन्यासेन सूचितो ब्रह्मसद्भावविषयः प्रथमः प्रश्नः। एतस्य प्रश्नस्योत्तरत्वेन गुरुर्ब्रह्मणः सद्भावं साधयितुं सृष्टिमुपन्यस्यति– सो॑ऽकामयत। ब॒हु स्यां॒ प्रजा॑ये॒येति॑। स तपो॑ऽ- तप्यत। स तप॑स्त॒प्त्वा। इ॒दँ सर्व॑मसृजत, इति।
१ घ. विद्यते। २ क. घ. ङ. ०षयेऽपि। ख. ०षये द्वौ।
[[621]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। ब्रह्म पुच्छं प्रतिष्ठेति निर्दिष्टो योऽयं ब्रह्मपदार्थोऽन्नमयादीनामानन्दमयान्तानां पञ्चानां कोशानां शारीर आत्मेत्युक्तः सोऽयमात्मा सृष्टेः पूर्वमेक एवाद्वितीयः सन्स्वशक्तिसंयोगात्कामितवान्। आत्मन्याश्रिता मायाशक्तिः कामनाकारेण विक्रियामापद्यत इत्यर्थः। न ह्यविक्रियस्य चिदेकरसस्य मायामन्तरेण कामः संभवति। *यद्यप्यस्तीश्वरस्य मायाकल्पितः कामस्तथाऽपि कामि- त्वेन जीववन्नित्यतृप्तो न स्यादिति चेन्न। लीलाश्वासादिदृष्टान्तेन मीमांसायां परिहृतत्वात्। कामितार्थस्य क्वचिदपि विघाताभावादपि जीववैषम्यम्। अत एव—“सत्यकामः सत्यसंकल्पः " इत्यन्यत्रऽऽम्नातम्। कामनाप्रकार एव निर्दिश्यते—बहु स्यां प्रभूतं भवेयम्। नन्वाकाशस्य घटादिपदार्थान्तरोपाधिकृतं बहुभवनं दृष्टमद्वितीयस्य तु कथं विद्यमानः पिता पुत्रमुत्पादयति न तु स्वमुत्पद्यते। तथा सत्यत्रापि जगदुत्पादकस्य ब्रह्मणः स्वोत्पत्त्यभावात्प्रजायेयेत्युक्तिरनुपपन्नेति चेन्न। उत्पद्यमानयोर्ना-मरूपयोर्ब्रह्मणोऽत्यन्तभेदाभावात्। यथा समुद्रादाविर्भवन्तस्तरङ्गादयो नात्यन्तं भिन्नास्तथा ब्रह्मशक्तौ मायायामवस्थिते पूर्वमनभिव्यक्ते नामरूपे पश्चादभिव्यज्यमाने सती ब्रह्मणः सद्रूपतामपरित्यज्यैव स्वयमपि सद्रूपत्वेन भासेते। एतदेवाभिप्रेत्य वाजसनेयिन आमनन्ति—“तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत " इति। तस्माद्ब्रह्मण एव मायया जगद्रूपेण प्रतिभासात्प्रजायेयेत्युक्तिरुपपद्यते। स परमात्मोक्तप्रकारेण कामयमानस्तपोऽतप्यत। तपःशब्देन ज्ञानमुच्यते। “यस्य ज्ञानमयं तपः” इति श्रुत्यन्तरात्। सृज्यमानजगद्रचनालोचनमकरोदित्यर्थः। न खलु परमेश्वरस्य कृच्छ्रचान्द्रायणादिरूपेण तपसा किंचित्प्रयोजनमस्ति। स परमेश्वरः स्रष्टव्यवस्तुपर्यालोचनं कृत्वा प्राणिकर्मनिमित्तानुरूपमिदं सर्वं जगद्देशतः कालतो नाम्ना रूपेण च सर्वप्राणिभिः सर्वावस्थैरनुभूयमानं सृष्टवान्। अत्र कामयितृत्वपर्यालोचकत्वजगत्स्रष्टृत्वरूपैर्हेतुभिः परमात्मनः सद्भावः प्रतिपाद्यते। असद्वादी तावदेवं मन्यते—यद्यदस्ति तत्सर्वं नामरूपात्मकमित्याकाशादिभूतेषु देवतिर्यगादिभौतिकदेहादिषु चेत्यादिव्याप्तिर्दृष्टा। परमात्मा तु नामरूपाभ्यामन्यः “आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म " इति श्रुत्यन्तरात्। यस्तु परमात्मा ब्रह्मेत्यादिव्यवहारः सोऽपि तत्सद्भावं साधयितुं न प्रभवति। नरविषाणादिवत्तस्य विकल्पमात्रत्वात्। “शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः” इति हि पातञ्जलं सूत्रम्। ततो नामरूपे ब्रह्मणो व्यावर्तमाने स्वव्याप्यं सद्भावमपि व्यावर्तयतः। एवं च सति
- यदीत्यर्थः। + तर्हीत्यर्थः।
१ ग. ०त्यन्तभि०। २ घ. ०ष्टृत्वादिरू०। ३ ग. ०व्याप्तं स०।
[[622]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] “असद्वा इदमग्र आसीत् " “यतो वाचो निवर्तन्ते” “अथआत आदेशो नेति नेति” “अस्थूलमनण्वह्रस्वम् " इत्याद्याः श्रुतयोऽनुगृहीता भविष्यन्ति। तस्मान्नास्ति ब्रह्मेति। तमेतमसद्वादिनं प्रति सद्भावः साध्यते। परमात्मा सद्रूपः कामयितृत्वात्स्वर्गादिकामयितृवत्। पर्यालोचकत्वाद्राजमन्त्रिवत्। स्रष्टृत्वात्कुम्भकारादिवत्। यत्तु नामरूपयोः सत्त्वं भवतोदाहृतं तदेवास्मदभिप्रेतं ब्रह्म। सद्रूपे ब्रह्मण्यधिष्ठाने मायया नामरूपयोः कल्पितत्वात्। असद्वा इत्यादेस्त्वर्थो वक्ष्यते।
किंच ब्रह्म सद्रूपं प्रवेष्टृत्वाद्यथा गृहादौ प्रवेष्टा पुरुष इत्यभिप्रेत्य प्रवेशं दर्शयति– यदि॒दं र्किच॑। तत्सृ॒ष्ट्वा। तदे॒वानु॒प्रावि॑शत्, इति।
हिरण्यगर्भादिस्थावरान्तं शरीरजातं यत्किंचिदस्ति तत्सर्वं सृष्ट्वा तदेव सृष्टं शरीरजातं परमात्मा प्राविशदित्यर्थः। अत्रेदं चिन्तनीयम्। यः परमात्मा स्रष्टाऽस्ति स किं तेनैव रूपेण प्राविशत्किंवा रूपान्तरेणेति। तत्र सृष्ट्वेति कत्वाप्रत्ययेन सृष्टिप्रवेशयोः समानकर्तृकत्वावगमात्स्रष्टृरूपेणैव प्रवेश इति चेन्न। मृत्पिण्डवदुपादानस्य प्रवेशनानुपपत्तेः। न खलु यो मृत्पिण्डो घटाकारेण परिणतः स एव घटमनुप्रविशति। तथा शरीराक्रेण परिणतस्य स्रष्टुस्तेष्वेव शरीरेषु कथं प्रवेशो घटेत। ननु तर्हि रूपान्तरेण प्रवेशोऽस्तु। यथा मृत्पिण्डविकारे घटे पुनरन्या चूर्णरूपा मृत्प्रविशति। तथेश्वररूपेण प्रवेशाभावे जीवरूपेण प्रवेशः स्यात्। मैवम्। अद्वयस्य रूपद्वयाभावात्। तदङ्गीकारेऽपि प्रवेष्टव्यप्रदेशाभावात्।उपादानत्वेन सर्वकार्येषु पूर्वमेवानुगतोऽवतिष्ठते।तथासति परमात्मशून्यप्रदेशाभावेन कुत्रायं प्रविशेत्। अवस्थिते परमात्मन्येव प्रविशेदिति चेन्न। तदेवानुप्राविशदिति सृष्टेकार्ये प्रवेशश्रवणात्। सृष्टं शरीररूपं कार्यं पुनर्जीवलक्षण- कार्यान्तराकारेण परिणमते। सोऽयं परिणामः प्रवेश इति चेन्न। कुम्भाकारपरिणामस्य पुनः शरीराकारपरिणामादर्शनात्। जलसूर्यकादिप्रतिबिम्बवत्प्रवेशः स्यादिति चेन्मैवम्। अपरिच्छिन्नत्वादमूर्तत्वाद्विप्रकृष्टदेशावस्थितस्य प्रतिबिम्बाधारस्याभावाच्च। परिच्छिन्नो मूर्तश्च सूर्यबिम्बो विप्रकृष्टदेशस्थे जलादौ प्रतिबिम्बितो भवति। ब्रह्म तु न परिच्छिन्नम्। नापि मूर्तम्। न च ब्रह्मणो विप्रकृष्टदेशवर्ती कश्चिदुपाधिरस्ति। तस्मान्न केनापि प्रकारेण प्रवेश उपपादयितुं शक्यते। अत्रोच्यते। जगत्सृष्टिवदयं प्रवेश उपपादनीयः। अचिन्त्यरचनारूपं जगद्यथा परमेश्वरो मायाबलेन ससर्ज तथा मायाबलेनैव प्रविशतु। अथोच्येत। येयमाकाशादिका मायामयी सृष्टिर्न तां वस्तुत्वबुद्ध्या श्रुतिः प्रतिपादयति। किं तर्हि मृद्घटन्यायेन कार्यस्य कारणव्यतिरेकेणाभावं विवक्षित्वा ब्रह्मण आनन्त्यं पूर्वत्र प्रतिज्ञातमुपपादयितुं भ्रान्तिसिद्धा सृष्टिरनूद्यत इति।
१ घ. ०वेशानु०।
[[623]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। तर्हि प्रतिज्ञातं गुहानिहितत्वं पञ्चकोशोपन्यासद्वारेण ब्रह्म पुच्छमित्युपपाद्य पुनरपि तदेव स्पष्टी कर्तुं भ्रान्तिसिद्धः प्रवेशोऽनूद्यताम्। यथा कश्चित्पुमान्गृहं निर्माय तत्र प्रविश्याभ्यन्तरे स्थित उपलभ्यते, एवं ब्रह्माप्याकाशादिकार्यं सृष्ट्वा तस्यान्तः प्रविष्टमिव हृदयपुण्डरीकेऽवस्थितायां बुद्धौ द्रष्टृ श्रोतृ विज्ञात्रित्येवं विशेषवदुपलभ्यते। सोऽयमस्य प्रवेश इत्युपचर्यते। वाजसनेयिभिरप्ययं प्रवेश आम्नायते—“स एष इह प्रविष्ट आनखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वंभरो वा विश्वंभरकुलायः " इति
एतस्य वाक्यस्यार्थो वार्तिकसारे विस्पष्टं व्याख्यात: — “तच्छब्देन परामृष्टः साक्ष्यव्याकृतभासकः॥ एतच्छब्देन कार्यस्थः प्रत्यक्ष उपदिश्यते॥ अद्वितीयमधिष्ठानं कार्यस्थः सद्वयस्तयो। स एष इत्यभेदोक्तिर्दुष्करेति न चोद्यताम्॥ अज्ञातवस्तुतत्त्वस्य दुष्करं नास्ति किंचन। नीलीकृतं नभः पश्य चक्षुषानीलवस्त्रवत्॥ योग्यायोग्यव्यपेक्षेयं मानव्यवहृतौ भवेत्। कल्पनामात्रनिष्पत्तेर्नापेक्षाऽज्ञानभूमिषु॥ इहेत्यनेन सूत्रादिस्थाणुपर्यन्तविग्रहाः। उच्यन्ते तेषु जीवोऽयं विस्पष्टमुपलभ्यते॥ प्रविष्ट इति शब्देन चिदाभासतमोन्विता। जीवत्वेनोपलब्धिर्या चितः सैषाऽभिधीयते॥ चिदाभासप्रवेशस्तु प्रत्यङ्मोहे स्वतो भवेत्। तत्कार्येष्वनुवृत्तः सन्नुपाधिश्चित्प्रवेशने॥ जपाकुसुमरक्तत्वं स्फटिके कल्पितं यथा। चिदाभासप्रवेशोऽयं चित्यध्यारोप्यते तथा॥ सूत्रादिस्थाणुपर्यन्तं जगत्सृष्ट्वाऽऽत्ममायया। स्वाभासैकस्वभावेन स एवं प्राविशत्परः॥ आनखाग्रेभ्य इत्युक्ता मर्यादाऽस्य प्रवेशने। उष्णस्पर्शेन चैतन्यं नखाग्रावधि लक्ष्यते॥
१ क. ख. ङ. ०लक्ष्यते। २ घ. पश्येच्चक्षु०। ३ ख. ०तयोचिता। ४ ग. ०र्याऽन्विता सै०। ५ ख. एव। ६ क. ख. ङ. ०त्युक्त्या म०। ७ क. ख. ङ. उक्ता स्प०। ८ घ. लभ्यते।
[[624]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ]
सामान्येन विशेषाच्च चिद्देहं व्याप्य वर्तते। दृष्टान्ताभ्यां द्वयी वृत्तिर्द्विविधाभ्यामिहोच्यते॥ दारु कृत्स्नमभिव्याप्य यथाऽग्निर्दारुणि स्थितः। संव्याप्य देहमखिलं तद्वदात्मा व्यवस्थितः॥ तस्थावसंव्याप्य यथा क्षुरपात्रं क्षुरस्तथा। श्रोत्रादिनाडीमध्यस्थस्तनुमव्याप्य संस्थितः॥ क्षुरपात्रे स्थानभेदाद्विभिद्यन्ते यथा क्षुराः। चैतन्यानि विभिद्यन्ते तथा नाडीविभेदतः॥ प्राप्नोति वृत्ती द्वे जीवः स्वप्नजाग्रदवस्थयोः। सामान्यवृत्तिमेवैकां सुषुप्ते प्रतिपद्यते॥ सामान्यवृतिर्या साऽत्र जीवनायोपयुज्यते। विशेषवृत्तयो देहे शब्दाद्यालोचनोद्यताः॥ प्रवेशावाक्यं पदशस्तात्पर्याच्च स्पुटीकृतम्। तदनुग्राहको न्याय इदानीं प्रविचार्यते॥ किं देवदत्तगृहवत्प्रवेशोऽथोपलाहिवत्। जलार्कबिम्बवत्किंवा यद्वा द्रव्यगुणादिवत्॥ फलबीजवदाहोस्विन्नाऽऽद्यः सर्वगतत्वतः। देवदत्तः परिच्छिन्नः सांशश्चाऽऽत्मा तु नो तथा॥ अव्यावृत्ताननुगतयाथात्म्यादात्मवस्तुनः। परिच्छेदाद्यसंभाव्यं नेति नेतीतिवारणात्॥ नातोऽनवच्छिन्नतनोर्निर्विभागात्मवस्तुनः। पूर्वस्थानवियोगेन नूत्नस्थानान्तरागमः॥ न द्वितीयोऽपरिणतेरश्मान्तं सर्परूपतः। भूतानि परिणम्यन्ते न त्वात्मा परिणामवान्॥ न तृतीयोऽर्कजलयोरिव देहचिदात्मनोः। न संयोगविभागौ स्तो येन तद्वत्प्रवेशनम्॥ न चतुर्थोऽपारतन्त्र्याद्द्रव्यतन्त्रा गुणादयः। न चाऽऽत्मा देहतन्त्रोऽयं सर्वेश्वर इति श्रुतेः॥ न पञ्चमोऽविक्रियत्वाद्बीजं विक्रियया युतम्। षड्भावविक्रियाहीन आत्मा शास्त्रेषु निश्चितः॥
१ घ. चिदेवं व्या०। २ ग. ०पात्रे क्षु०। ३ घ. ०रश्मान्तः स०।
[[625]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ]
आधाराधेयता सर्पशिलयोः फलबीजयोः। अंशांशितेति वैषभ्यान्न तत्र पुनरक्तता॥ परिच्छिन्नो जीव एव देहेषु प्रविशत्यतः। न दोष इति चेन्मैवं स्रष्टुरेव प्रवेशनात्॥ तत्सृष्ट्वाऽथ तदेवानुप्राविशत्स इति श्रुतेः। स्रष्टृप्रवेष्ट्रोरेकत्वं स्याद्भुक्त्वा व्रजतीतिवत्। अथ केनाप्युपायेन प्रवेशो घटते न हि॥ इति प्राप्ते पूर्वपक्षे प्रवेश उपपाद्यते। अप्रविष्टस्वभावोऽयं दिग्देशाद्यनभिप्लुतेः॥ कल्पितोऽस्य प्रवेशः स्याज्जलपात्रार्कबिम्बवत्। विभागाद्यंशवैषम्येऽप्यस्ति साम्यं विवक्षितम्॥ उपाधिस्थोपलब्ध्यादिसाम्यं केन निवार्यते। उपाधावुपलब्धत्वमन्यथात्वेन भासनम्॥ बहुत्वभानमित्येतद्दृष्टदार्ष्टान्तयोः सनम्। तेजोधिकं रवेर्बिम्बमशक्यं द्रष्टुमञ्जसा॥ तथाऽपि जलमध्ये तद्बिम्बं सम्यगवेक्ष्यते। स्वयंप्रकाश आत्मैवं नोपलभ्योऽनुपाधिकः॥ जडदेहाद्युपाधौ तु विस्पष्टमुपलभ्यते। दर्पणाभिहता दृष्टिः पर्यावृत्य स्वमाननम्॥ व्याप्नुवत्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम्। देहाद्युपप्लुतैवं धीरात्मानं व्याप्नुवत्यसौ॥ अविक्रियं विक्रियाभिर्युक्त इत्यवभासयेत्। एकोऽप्यनेकधा भाति तरणिः पात्रभेदतः॥ एवं नानादेहभेदाद्भात्यात्मैकोऽप्यनेकधा। निर्धूताशेषनानात्वं तद्धेतुरविभागवान्॥ अनन्यसाक्षिकोऽपीदृक्स्यात्प्रवेशभ्रमादयम्। द्रष्ट्रादिरूपरहितः प्रत्यगात्माभवत्पुरा॥ नामरूपजनौ सत्यां द्रष्टृत्वादियुतो भवेत्। द्रष्टृश्रोत्रादिरूपो यो यश्च द्रष्ट्रादिवर्जितः॥
१ क. ख. ङ. ०शत्वतः। २ घ. ०भिमुखा द्द०। ३ क. ङ. ०वेशाद्भ्रमा०। ७९
[[626]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ]
बुद्धितत्कारणोपाधी क्षेत्रज्ञेश्वरसंज्ञकौ। जिघ्राणीममहं गन्थमिति यो वेत्त्यविक्रियः॥ स सर्वसाक्षी पूर्वाभ्यामुपलक्षणमर्हति। अप्पात्रोत्थापिताद्भानोर्दिवि भानुर्यथेक्ष्यते॥ सर्वसाक्षी तथा धीस्थात्कर्तृभोक्त्रादिलक्षणात्। प्रकाशात्मा यथा चन्द्रः शाखाग्रादतथाविधात्॥ लक्ष्यस्तथा चिदात्माऽपि कारणोपाधितो जडात्। जीवत्वभ्रान्तिरेवैषा प्रत्यग्बोधोपयोगतः॥ जलपात्रार्कसाम्येन प्रवेश इति कल्प्यते। दिग्देशकालशून्यस्य प्रवेशो बिलसर्पवत्॥ न त्वञ्जसा परस्यास्ति तेनाविद्याप्रकल्पितः। अविद्यया तु साक्ष्येव केवलोऽप्यविवेकतः॥ बुध्द्यादिकार्यगैर्धर्मैः प्रतिबिम्बवदीक्ष्यते। अग्निः सूर्यो मरुच्चेति दृष्टान्ताः श्रुत्युदीरिताः॥ अप्रविष्टस्वभावोऽतः कार्यमात्माऽविशज्जगत्। अग्निर्यथैको भुवनं काष्ठकोष्ठादिरूपकम्॥ प्रविष्टः प्रतिरूपोऽभूदप्रविष्टोऽपि सन्स्वतः। वायुर्यथैको भुवनं नानाव्यजनरूपकम्॥ प्रविष्टो बहुरूपोऽभूदप्रविष्टोऽपि सन्स्वतः। सूर्यो यथोदपात्रेषु प्रविष्टो बहिरेव सन्॥ तथाऽऽत्माऽप्यप्रविष्टः सन्प्रविष्ट इव लक्ष्यते। यथा सृष्ट्यादयः क्लृप्ताः प्रवेशोऽपि तथेक्ष्यताम्॥ युक्त्या नैवोपपद्यन्ते सृष्ट्याद्याः कल्पितास्ततः। नासतो जन्मना योगः सतः सत्त्वान्न चेष्यते॥ कूटस्थे विक्रिया नास्ति तस्मादज्ञानतो जनिः। रूपं रूपमितीयं तु स्पष्टमृक्प्रत्यगात्मनः॥ याथात्म्यदर्शनायैव सृष्ट्यादीन्यभ्यभाषत। क्षुरपात्राख्यदृष्टान्ताद्विशेषेण प्रवेशनम्॥ इन्द्रियेष्वपि विस्पष्टमुपलभ्यत्वमात्मनः। यदग्निकाष्ठदृष्टान्तात्सामान्येन प्रवेशनम्॥
१ ग. ०क्ष्येवं के ०। २ क. ख. ङ. ०ष्टलोष्टादि ०। ३ ग.स स्वतः। ४ ग. स प्रवि ०। ५ ग. ०नाप्त्येव।
[[627]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।
सदधिष्ठानरूपेण कार्यव्यापित्वमुच्यते। अधिष्ठानारोप्यभावमन्तरेण न कुत्रचित्॥ व्याप्यव्यापकयोः कृत्स्नस्वरूपव्याप्तिरिष्यते। अत्यन्तभिन्नयोर्व्याप्तिर्न हि दृष्टा गवाश्वयोः॥ नाप्यत्यन्तमभिन्नस्य व्याप्यव्यापकवर्जनात्। भेदाभेदौ वास्तवौ तु दुर्लभौ तेन शिष्यते॥ अधिष्ठानारोपितयोरेवं व्याप्तिर्बलादियम्। तमसैव यथा सर्पं स्रक्प्रविष्टा न तु स्वतः॥ प्रत्यगज्ञानकार्याणि स्वात्मैवं मायया बलात्। व्यापित्वमुपलभ्यत्वमिति द्वेधा प्रवेशनम्॥ सिद्धं प्रवेशाद्ये दोषास्तान्निराचक्ष्महेऽधुना। पर एव प्रविष्टश्चेत्प्रविष्टानामनेकतः॥ तदनन्यत्वतः प्राप्ता महेशस्याप्यनेकता। नैष दोषोऽस्य चोद्यस्य विपरीतत्वसंभवात्॥ बहूनामेकतादात्म्यादेकत्वं किं न चोद्यते। नियामकश्चाऽऽगमोऽत्र स च भेदं निवारयेत्॥ कल्प्यैः सर्पादिभिर्भेदैर्न च रज्जुर्विभिद्यते। एको देवो निविष्टोऽत्र बहुधेति श्रुतीरणात्॥ वियद्वदेक एवैष ईर्श्वरोऽभ्युपगम्यताम्। संसारित्वात्प्रविष्टानां परस्य तदभेदतः॥ संसारित्वं प्रसक्तं चेन्न क्षुधाद्यत्ययश्रुतेः। सुखदुःखविमोहादिदर्शनान्नेति चेन्न तत्॥ न लिप्यते लोकदुःखैर्लोकबाह्य इति श्रुतेः। उपाधिजनितो योऽयं चिदाभासोऽवभासते॥ दुःखाद्यनुभवस्तत्र सावकाशो भविष्यति। दुःखी यदि भवेदात्मा कः साक्षी दुःखिनो भवेत्॥ दुःखिनः साक्षिता नैव साक्षिणो दुःखिता तथा। नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः॥ धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः। शरीरेन्द्रियसंघात आत्मत्वेनाभिमानिनीम्॥
१ क. ख. ग. ङ. प्रविष्टा ये दो ०।
[[628]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ]
चिदाभासयुतां बुद्धिं विशिंषन्ति सुखादयः। उदासीनो यथा पश्येद्दण्डिनं कलहोद्यतम्॥ सुखदुःखादिमद्बुद्धिं साक्षी तद्वदसंहतः। एवं सति पराच्येव दुःखं प्रत्यक्षमीक्ष्यताम्॥ प्रतीच्यात्मनि वेदोऽयमक्षादीनि निषेधति। विज्ञातारमरे केन विजानीयादिति श्रुतिः। विदिताविदिताभ्यां तदन्यदेवेति च श्रुतिः॥ अहं दुःखीतिविज्ञानमात्मच्छायैककर्मकम्। आत्मान्यारोप्यते भ्रान्तैर्विद्वद्भिश्चोपचर्यते॥ नासिकाग्रे महद्दुःखं पादाङ्गुष्ठाग्र इत्यपि। देहावयवगं दृष्टं दुःखमात्मनि तत्कथम्॥ प्रतीचि चेद्भवेद्दुःखं व्याप्नुयाद्बोधवद्वपुः। चिद्वद्द्रष्टृस्वरूपत्वात्प्रतिकूलं च नो भवेत्॥ आत्मनश्चैव भोगाय सर्वं प्रियमिति श्रुतेः। सुखमात्मैकविषयमिति चेत्तन्न युज्यते॥ यत्र वा अन्यकॢप्तिः स्यात्तत्रान्योऽन्यत्प्रपश्यति। इति भ्रान्तात्मविषयं श्रुतं द्वैतं सुखादिकम्॥ यत्र त्वात्मैव सर्वं स्यात्तत्र कः केन पश्यति। इति बुद्धात्मनि द्वैतं सुखदुःखादि वारितम्॥ तुभ्यं न रोचते पापान्मया त्वित्यनुभूयते। प्रत्यक्प्रवणया दृष्ट्या संसारः कोऽपि नाऽऽत्मनि॥ इच्छाद्वेषादिमानात्मेत्येवं समयबन्धनम्। तार्किकैः क्रियतां तत्तु नैव युक्त्योपपद्यते॥ नित्यानुमेय आत्मा चेन्मनसा तस्य दुःखिता। न भयाद्दृश्य आत्मा चेद्द्रष्ट्रभावः प्रसज्यते॥ दृश्यत्वं द्रष्टृता चास्य निरंशत्वान्न यज्यते। सांशत्वे स्यादनित्यत्वं नातो दुःखित्वमात्मनः॥ अदुःखित्वे परस्येष्टे तदन्यस्याप्यभावतः। कस्य दुःखनिवृत्त्यर्थमारब्धोपनिषत्त्वया॥ प्रत्यगज्ञानहेतूत्थदुःखित्वादिभ्रमोऽत्र यः। तद्ध्वंसमात्रसिद्ध्यर्थमारब्धोपनिषन्मया॥
१ ग. ० द्द्रष्टुः स्व ०। २ ग. घ. सर्वः। ३ ख. ग. कं।
[[629]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।
नवसंख्येयमात्रेक्षी दशमो विभ्रमाद्यथा। न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव॥ निःशेषानात्मदृक्तद्वदनिर्ज्ञातात्मतत्त्वकः। न वेत्त्यैकात्म्यमस्तीति वीक्षमाणोऽप्यनात्मनः॥ दशमोऽसीतिवाक्योत्थसम्यग्ज्ञानानलार्चिषा। प्लुष्टात्मदशमाज्ञानो दशमोऽस्मीति वीक्षते॥ तथा तत्त्वमसीत्यादिवाक्योत्थज्ञानवह्निना। प्लुष्ट्वाऽनात्मतमस्तज्जं चैकात्म्यं प्रतिपद्यते॥ प्रत्यगज्ञानहेतूत्थशास्त्राचार्यादिसाधनः। तद्विरुद्धं निजैकात्म्यं प्रत्यपद्यत मायया॥ प्रविष्टमुपजीव्यापि दोषः कोऽपि न वादिभिः। इहाऽऽपादयितुं शक्यः प्रवेशस्तेन सुस्थितः " इति॥
अन्यान्यपि प्रवेशवाक्यान्येवं व्याख्येयानि। “पुरः पुरुष आविशत् " इति मधुब्राह्मणवाक्यम्। " विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो इव व्यवहरन्नास्ते माययैव " इत्युत्तरतापनीयवाक्यम्। सर्वगतस्य देहे प्रवेशाय प्राणवायुरूपोपाधिः साधनम्। तथा च मैत्रेयोपनिषद्यामनन्ति– " स वायुमिवाऽऽत्मानं कृत्वाऽभ्यन्तरं प्राविशत् " इति। तस्य वायोः प्रवेशनिर्गमावात्मन्यध्यारोप्य व्यवह्रियेते। तदेतदाथर्वणिकैः पठ्यते— " स ईक्षांचक्रे कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कास्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत " इति। यद्यपि लिङ्गदेहः कृत्स्नोऽप्यात्मनः स्थूलशरीरे प्रवेशोपाधिस्तथाऽपि प्राणस्य तत्र प्राधान्यं द्रष्टव्यम्। स च लिङ्गोपाधिः पादाग्रयोः प्रविश्योर्ध्वमारुह्योपरि स्थितयोरूर्वोरुदर उरसि शिरसि च प्रतितिष्ठति। तदेतदैतरेयिण: — " तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषम् " इत्यादिना समामनन्ति। ननु " स ईक्षत कतरेण प्रपद्यै " इति वाक्येन परमात्मानः प्रवेशद्वारविचारमाम्नाय " स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत " इति वाक्येन मूर्धन्यवस्थितं सुषुम्नाग्ररूपं द्वारं भित्त्वा तेन द्वारेणान्तराविशत्, इत्यैतरेयिण एव समामनन्ति। अतो वाक्ययोर्विरोध इति चेन्न। विषयभेदेन व्यावस्थितत्वात्। लौकिकव्यवहारहेतोर्लिङ्गदेहस्य पादाग्रप्रवेशः। तत्त्वाभिव्यञ्जिकायाः समाधिशब्दवाच्याया एकाग्रायाश्चित्तवृत्तेः सुषुम्नायां संभवेन तदुपाधिकस्य तत्र प्रवेश इति व्यवस्था। एतदेवाभिप्रेत्याऽऽम्नायते— " सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी " इति। यदप्यैतरेयिण आमनन्ति— “अग्निर्वाग्भूत्वा मुखं प्राविशत्। वायुः
१ ग. ०मोऽस्तीति। २ ख. प्लुष्ट्वाऽऽत्म ०। ३ ख. ०ज्ञानं द ०। ४ घ. म्नारू ०।
[[630]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] प्राणो भूत्वा नासिके प्राविशत् " इत्यादि। तत्र पादाग्रद्वारा देहे प्रविष्टस्य लिङ्गशरीरस्यावयवा वागादयः स्वस्वदेवताभिरग्न्यादिभिरनुगृहीता मुखच्छिद्रादिगोलकेषु व्यवस्थिता इत्येतावद्विवक्षितम्। यदपि च्छन्दोगैराम्नायते— “अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि " इति, तत्र प्राणधारकत्वं जीवत्वं तेनोपाधिना युक्तः प्रविशति। तदेवं सर्वासामपि श्रुतीनां पर्यालोचनया परमात्मनो जीवत्वेन प्रवेश इति सिद्धम्।
अथ मीमांसा। तत्र जीवस्य नामरूपस्रष्टृत्वाभावो द्वितीयाध्यायस्य चतुर्थपादे* चिन्तित : — “नामरूपव्याकरणे जीवः कर्ताऽथवेश्वरः। अनेन जीवेनेत्युक्तेर्व्याकर्ता जीव इष्यते॥ जीवान्वयः प्रवेशेन संनिधेः सर्वसर्जने। जीवोऽशक्तः शक्त ईश उत्तमोक्तिस्तथेक्षितुः॥ ईश्वरेण पञ्चभूतेषु सृष्टेषु भौतिकयोर्दृश्यमानयोर्महीधरादिनामरूपयो- र्जीव एव स्रष्टा स्यात्। कुतः। " अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि " इति जीवरूपस्यैव सृष्टावन्वयश्रवणादिति प्राप्ते ब्रूम: — जीवेनानुप्रविश्येतिप्रवेशने जीवोऽन्वेति संनिहितत्वात्। जीवेन व्याकरवा- णीत्युक्तौ व्यवहितान्वयः स्यात्। न हि जीवस्य गिरिनदीनिर्माणे शक्तिरस्ति। ईश्वरस्तु सर्वशक्तियुक्तः " पराऽस्य शक्तिर्विविधा " इति श्रवणात्। किंच व्याकरवाणीत्युत्तमपुरुषोऽपीश्वरपक्षे समञ्जसः। तस्मादीश्वर एव नामरूपयोः स्रष्टा। कथं तर्हि घटपटादौ कुलालादेर्निर्मातृत्वम्, ईश्वरप्रेरणादिति ब्रूमः। तस्मादीश्वर एव सर्वकर्तेति सिद्धम् “।
तत्रैव तृतीयपादे दशमाधिकरणमारभ्य सप्तदशाधिकरणपर्यन्तैरष्टभि-रधिकरणैर्जीवविचाराः प्रवर्तिताः। तत्र +दशमाधिकरणमारचयति— “जीवस्य जन्ममरणे वपुषो वाऽऽत्मनो हि ते। जातो मे पुत्र इत्युक्तेर्जातकर्मादितस्तथा॥ मुख्ये ते वपुषो भाक्ते जीवस्यैते अपेक्ष्य हि। जातकर्म च लोकोक्तिर्जीवापेतेतिशास्त्रतः। लोके जातो मे पुत्र इति व्यवहाराच्छास्त्रे जातकर्मादिसंस्कारोक्तेश्च जन्मम- रणे जीवस्येति प्राप्ते ब्रूम: — जीवस्य जन्ममरणाङ्गीकारे कृतनाशाकृताभ्या- गमप्रसङ्गस्य
- संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात्— अ॰ २ पा॰ ४ अ॰ ९ सू॰ २०। +चराचरव्यपाश्रयस्तु स्यात्तव्द्यपदेशो भाक्तस्तद्भावभावित्वात्— अ॰ २ पा॰ ३ अ॰ १० सू॰ १६।
१ घ. प्रवेश इति। २ घ. ०क्तिरथे ०।
[[631]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। दुवार्रत्वाद्देहगते एव जन्ममरणे जीवस्योपचर्येते। औपतारिके एव ते अपेक्ष्य लोकव्यवहारकर्मशास्त्रयोः प्रवृत्तिः। उपनिषच्छास्त्रं तु जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत इति। जीवविमुक्तस्यैव शरीरस्य मुख्यमरणमभिधाय जीवस्य तन्निराचष्टे। तस्माद्वपुषो जन्ममरणे “।
*एकादशाधिकरणमारचयति________________________ “कल्पादौ ब्रह्मणो जीवो वियद्वज्जायते न वा। सृष्टेः प्रागद्वयत्वोक्तेर्जायते विस्फुलिङ्गवत्। ब्रह्माद्वयं जातबुद्धौ जीवत्वेन विशेत्स्वयम्। औपाधिकं जीवजन्म नित्यत्वं वस्तुतः श्रुतम्॥ “एकमेवाद्वितीयम् " इति सृष्टेः प्रगद्वयत्वं श्रूयमाणं ब्रह्मव्यतिरिक्तस्य जीवस्यानुत्पत्तौ नोपपद्यते। श्रुतिश्च विस्फुलिङ्गदृष्टान्तेन जीवस्योत्पत्तिं प्रतिपादयति—“यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मानो व्युच्चरन्ति " इति। तस्मात्कल्पादौ वियदादिवद्ब्रह्मणो जीवो जायत इति प्राप्ते ब्रूम: — यदद्वयं ब्रह्म तदेव जातायां बुद्धौ जीवरूपेण प्रविशति। “तत्सृष्ट्वा तदेवानुप्राविशत् " इति। श्रुतेः। अतो जीवानुत्पत्तौ नाद्वयश्रुतिविरोधः। विस्फुलिङ्गश्रुतिस्त्वौपाधिकजन्माभिप्राया प्रवृत्ता। अन्यथा कृतनाशाकृताभ्यागमादिदोषः स्यात्। वस्तुतत्त्वाभिप्रायेण तु नित्यत्वं श्रुतिर्ब्रूते–“नित्यो नित्यानां चेतनश्चेतनानाम् " इति। तस्मात्कल्पादौ जीवो नोपत्पद्यते “।
- द्वादशाधिकरणमारचयति________________________ “अचिद्रूपोऽथ चिद्रूपो जीवोऽचिद्रूप इष्यते। चिदभावात्सुषुप्त्यादौ जाग्रच्चिन्मनसा कृता॥ ब्रह्मत्वादेव चिद्रूपश्चित्युषुप्तौ न लुप्यते। द्वैताद्दष्टिर्द्वैतलोपान्न हि द्रष्टुरिति श्रुतेः॥ तार्किका मन्यन्ते–सुषुप्तिमूर्छासमाधिषु चैतन्याभावादचिद्रूपो जीवः। जागरणे त्वात्ममनःसंयोगाच्चैतन्याख्यो गुणो जायत इति। तदसत्। चिद्रूपस्य ब्रह्मण एव जीवरूपेण प्रवेशश्रवणात्। न च चैतन्यं सुषुप्त्यादौ लुप्यते सुषुप्त्यादिसाक्षित्वेनावस्थानात्। अन्यथा सुषुप्त्यादिपरामर्शायोगात्। कथं तर्हि सुषुप्त्यादौ द्वैताप्रतीति-
- नाऽऽत्माऽश्रतेर्नित्यत्वाच्च ताभ्य: — अ॰ २ पा॰ ३ अ॰ ११ सू॰ १७। + ज्ञोऽत एव–अ॰ २ पा॰ ३ अ॰ १२। सू॰ १८।
१ ख. मुख्यं म०। २ ग. एवाऽऽत्मा०। ३ क. ख. ङ. ०यात्प्रवृ०। ४ घ. ०शादि०। ख. ०शादिदोषस्योक्तत्वात्। व०। ५ ख. ०ताप्राप्तिरि०।
[[632]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] रिति चैदद्वैतलोपादिति ब्रूमः। तथा च श्रुति: — “यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् " इति। अस्यायमर्थ: — तत्र सुषुप्तौ जीवः किमपि न पश्यतीति भ्रान्त्या केवलं व्यापदिश्यते। कथं तद्दर्शनमित्यत्र हेतुरुच्यते–द्रष्टुरात्मनः स्वरूपभूताया दृष्टेर्लोपो न हि विद्यते विनाशरहितस्वभावत्वात्। अन्यथा लोपवादिनोऽपि निःसाक्षिकस्य लोपस्य वक्तुमशक्यत्वात्। कथं तर्हि लौकिकानां न पश्यतीतिभ्रम न पश्यतीतिभ्रम इत्यत्र हेतुरुच्यते—यद्ब्रह्मचैतन्यादन्यत्क्रियाकारकफलरुपेण विभक्तं जगदाख्यं द्वितीयं वस्तु तन्नास्ति तस्य स्वकारणे लीनत्वात्। अतो जगरण इव द्रष्टृदृश्यदर्शनव्यवहाराणामभावान्न पश्यतीति लौकिकानां भ्रम इति तस्माच्चिद्रूपो जीवः”।
- त्रयोदशाधिकरणमारचयति— “जीवोऽणुः सर्वगो वा स्यादेषोऽणुरितिवाक्यतः। उत्क्रान्तिगत्यागमनश्रवणाच्चाणुरेव सः॥ साभासबुद्ध्यणुत्वेन तदुपाधित्वतोऽणुता। जीवस्य सर्वगत्वं तु स्वतोब्रह्मत्वतः श्रुतम्॥
“एषोऽणुरात्मा चेतसा वेदितव्यः " इत्यणुत्वं श्रुतम्। “अस्माच्छरीरादुत्क्र- मति " इत्युत्क्रान्तिः। “चन्द्रमसमेव ते सर्वे गच्छन्ति " इति गतिः। “तस्मा-ल्लोकात्पुनरे(रै)ति " इत्यागमनम्। न ह्युत्क्रान्त्यादयः सर्वगतस्योपपद्यन्ते। मध्यमपरिमाणस्य तदुपपत्तावप्यणुत्वश्रुतिर्विरुध्यते। अनित्यत्वं च दुर्वारम्। तस्मादणुर्जीव इति प्राप्ते ब्रूम: — चैतन्यप्रतिबिम्बसहिता बुद्धिरसर्वगता तदुपाधिकत्वाज्जीवस्याणुत्वोत्क्रान्त्यादय उपपन्नाः। स्वतस्तु जीवस्य ब्रह्म-रूपत्वात्सर्वगतत्वम्। “स वा एष महानज आत्मा” “सर्वव्यापी सर्वभूतान्त- रात्मा " इत्यादौ सर्वगतत्वं श्रुतम्। तस्मात्सर्वगतो जीवः “।
- चतुर्दशाधिकरणमारचयति— “जीवोऽकर्ताऽथवा कर्ता धियः कर्तृत्वसंभवात्। जीवकर्तृतया किं स्यादित्याहुः सांख्यमानिनः॥
- उत्क्रान्तिगत्यागतीनाम्– अ॰ २ पा॰ ३ अ॰ १३ सू॰ १९। + कर्ता शास्त्रा- र्थवत्त्वात्–अ॰ २ पा॰ ३ अ॰ १४ सू॰ ३३।
१ ग. ०श्यन्नेत०। २ घ. ०थं दर्श०। ३ घ. ०तत्वा०। ४ घ. ०ते ब्रह्म०। ५ घ. ०दन्यात्क्रि०। ६ घ. ०ख्यं यद्द्विती०। ७ क. ख. ङ. ०तो मर०।
[[633]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। करणत्वान्न धीः कर्त्री यागश्रवणलौकिकाः। व्यापारा न विना कर्त्रा तस्माज्जीवस्य कर्तृता॥
बुद्धेः परिणामित्वेन क्रियावेशात्माकं कर्तृत्वं संभवति न त्वसङ्गस्याऽ- ऽत्मन इति यत्सांख्यैरुक्तं तदसंगतम्। करणत्वेन क्लृप्तशक्तिकाया बुद्धेः कर्तृता कल्पयितुं न शक्या। कुठारादावदर्शनात्। बुद्धेः कर्तृत्वेन करणान्तरस्य कल्पनीयत्वाच्च। न च मा भूत्कर्तृतेति वाच्यम्। पूर्वकाण्डोक्तयागादिव्यापाराणामुत्तरकाण्डोक्तश्रवणादिव्यापाराणां लौकिककृष्यादिव्यापाराणां च कर्तृसापेक्षत्वात्। तस्माज्जीवः कर्ता “।
*पञ्चदशाधिकरणमारचयति– “कर्तृत्वं वास्तवं किंवा कल्पितं वास्तवं भवेत्। यजेतेत्यादिशास्त्रेण सिद्धस्याबाधितत्वतः॥ असङ्गो हीति तद्बाधात्स्फटिके रक्ततेव तत्। अध्यस्तं धीचक्षुरादिकरणोपाधिसंनिधेः॥ पूर्वाधिकरणे प्रतिपादितस्य कर्तृत्वस्य बाधाभावाद्वास्तवं तदिति प्राप्ते ब्रूम: — “असङ्गो ह्ययं पुरुषः " इति श्रुत्या कर्तृत्वसङ्गो बाध्यते। यथा जपाकु-सुमसंनिधिवशात्स्फटिके रक्तत्वमध्यस्तं तथाऽन्तःकरणसंनिधिवशात्कर्तृ- त्वमात्मन्यध्यस्यते “।
- षोडशाधिकरणमारचयति— “प्रवर्तकोऽस्य रागादिरीशो वा रागतः कृषौ। दृष्टा प्रवृत्तिर्वैषम्यमीशस्य प्रेरणे भवेत्॥ सस्येषु वृष्टिवज्जीवेष्वीशस्याविषमत्वतः। रागोऽन्तर्याम्यधीनोऽत ईश्वरोऽस्य प्रवर्तकः॥ लोके कृषीवलादीनां रागद्वेषावेव प्रवर्तकौ दृष्टौ। तदनुसाराद्धर्माधर्म- कर्तुर्जीवस्यापि तावेव प्रवर्तकावभ्युपेयौ। ईश्वरस्य प्रवर्तकत्वे कांश्चिज्जीवन्धर्मे कांश्चिदधर्म इतिवैषम्यं दुर्वारम्। तस्मान्नेश्वरः प्रवर्तक इति प्राप्ते ब्रूम: — न तावदीश्वरे वैषम्यदोषप्रसङ्गः। वृष्टिवत्साधारणनिमित्तत्वात्। यथा वृष्टेः सस्याभिवृद्धिहेतुत्वेऽपि व्रीहियवादिवैषम्ये बीजानामेव निमित्तत्वम्। तथेश्वरस्य यथायथं जीवाः प्रवर्तन्ता-
- यथा च तक्षोभयथा—अ॰ २ पा॰ ३ अ॰ १५ सू॰ ४०। + परात्तु तच्छ्रुते: — अ॰ २ पा॰ ३ अ॰ १६ सू॰ ४१।
१ घ. कर्तृशक्तिर्न कल्पयितुं श०। २ घ. ०तेतिवत्। ३ घ. ०रणप्र०। ४ घ. ०स्तवमिति। ५ घ. ०त्वसंयोगो बा०। ६ घ. ०स्य जी०। ८०
[[634]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] मित्यभ्यनुज्ञया साधारणप्रवर्तकत्वेऽपि न वैषम्यम्। पूर्वकृतकर्मणां वासनानां च वैषम्यहेतुत्वात्। कर्मणा फलहेतुत्वमेव न कर्मान्तरहेतुत्वमिति चेत्। सत्यम्। सुखदुःखरूपस्य फलस्य प्रदानाय जीवं व्यापारयत्कर्मार्थात्कर्मान्तरमपि निष्पादयतीति दुर्वारं हेतुत्वम्। वासनानां तु साक्षादेव कर्महेतुत्वम्। तथा चेश्वरस्य कुतो वैषम्यप्रसङ्गः। यत्तु रागस्य प्रवर्तकत्वदर्शनमुदाहृतं तत्तथैवास्तु नैतावतेश्वरस्य प्रवर्तकत्वहानिः। सर्वान्तर्यामिणेश्वरेण रागस्यापि नियम्यमानत्वत्। तस्मादीश्वरो जीवस्य प्रवर्तकः “।
- सप्टदशाधिकरणमारचयति— किं जीवेश्वरसांकर्यं व्यवस्था वा श्रुतिद्वयात्। अभेदभेदविषयात्सांकर्यं न निवार्यते॥ अंशोऽवच्छिन्न आभास इत्यौपाधिककल्पनैः। जीवेशयोर्व्यवस्था स्याज्जीवानां च परस्परम्॥
तत्त्वमस्यादिश्रुतिर्जीवेशयोरभेदं प्रतिपादयति। आत्मा द्रष्टव्या इत्यादिना द्रष्टृद्रष्टव्यरूपेण भेदः प्रतीयते। तथा च सति भेदश्रुतिबलात्तावज्जीवो नास्तीत्यपलपितुमशक्यम्। अभेदश्रुत्या चेश्वरात्पृथक्त्वेन व्यवस्थापयितुं न शक्यते। तस्माद्विद्यमानस्य जीवस्येश्वरेण सांकर्यं दुर्वारम्। परस्परं च जीवानामीश्वराभेदद्वारा सांकर्यमानुषङ्गिकम्। तस्माद्ब्रह्मवादिनो न जीवेश्वरव्यवस्थेति प्राप्ते ब्रूम: — यद्यपि गोमहिषवज्जीवेश्वरयोरत्यन्तं भेदो वास्तवो नास्ति तथाऽपि व्यवहारदशायामुपाधिकल्पितं भेदमाश्रित्य शास्त्राणि त्रेधा जीवं निरूपयन्ति। “ममैवांशो जीवलोके जीवभूतः सनात- नः " इत्यंशत्वमवगम्यते। “स समानः सन्नुभौ लोकावनुसंचरति " इति श्रुतौ विज्ञानमयस्य जीवस्य विज्ञानशब्दवाच्यया बुद्ध्या समानपरिमाणनिर्देशा-द्घटाकाशवदवच्छिन्नत्वं प्रतीयते।
“एक एव तु भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् “।
इत्याभासत्वमवगम्यते। तस्मात्सुलभैव ब्रह्मवादिनो जीवेश्वरव्यवस्था। जीवानां च परस्परमनेकजलपात्रस्थबहुसूर्यप्रतिबिम्बवद्व्यवहारव्यवस्था सुतरामुपपद्यते। तस्मान्न कोऽपि दोष इति सिद्धम् “।
*अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके—अ॰ २ पा॰ ३ अ॰ १७ सू॰ ४३।
१ घ. ०रं तद्धेतु०। २ ख. ०व हे०। ३ क. ख. ङ. ०तथाऽस्तु। ४ घ. ०स्तु न ता०। ५ क. ग. ङ. ङ. ०त्यन्तभे०। ६ घ. इत्येवमश०।
[[635]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। जीवस्य लोकान्तरगमनरूपः संसारप्रकारस्तृतीयाध्यायस्य प्रथमपादे षड्भिरधिकरणैर्विचारितः। तत्र *प्रथमाधिकरणमारचयति— अवेष्टितो वेष्टितो वा भूतसूक्ष्मैः पुमान्व्रजेत्। भूतानां सुलभत्वेन यात्यवेष्टित एव सः॥ बीजानां दुर्लभत्वेन निराधारेन्द्रियागतेः। पञ्चमाहुत्यबुक्तेश्च जीवस्तैर्याति वेष्टितः॥ पूर्वपादप्रतिपादितः प्राणोपाधिको जीवः शरीरान्तरप्राप्तिवेलायामितो निर्गच्छन्भाविशरीरबीजैः सूक्ष्मभूतैरवेष्टितो गच्छति। पञ्चभूतानां सर्वत्र सुलभत्वेनेतो नयनस्य निरर्थकत्वादिति प्राप्ते ब्रूम: — भूतमात्रस्य सुलभत्वेऽपि देहबीजानि न सर्वत्र सुलभानि। तस्मादितो नेतव्यानि। किंच जीवोपाधिभूतेन्द्रियाणां भूताधारत्वमन्तरेण परलोकगमनं न संभवति जीवनदशायामदर्शनात्। श्रुतिश्चैवमाह—“पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति " इति। अस्यायमर्थः। द्युलोकपर्जन्यपृथिवीपुरुषयोषितः पञ्च पदार्था उपासनायामग्नित्वेन परिकल्पिताः। तेष्वग्निषु स्वर्गाय गच्छन्पुनरागच्छंश्च जीव आहुतित्वेन परिकल्पितः। इष्टापूर्तकारी जीवः स्वर्गमारुह्योपभोगेन कर्मणि क्षीणे पर्जन्ये पतित्वा वृष्टिरूपेण भूमिं प्राप्यान्नद्वारेण पुरुषं प्राप्य रेतोद्वारेण योषितं प्रविश्य शरीरं गृह्णाति। ततोऽप्शब्दोपलक्षितानि देहबीजानि पञ्च भूतानि जीवेन सह द्युलोकादिपञ्चसु स्थानेषु गत्वा पञ्चमे स्थाने शरीरभावं प्राप्य पुरुषशब्दवाच्यानि भवन्तीति। तस्माद्बीजैर्वेष्टित एव परलोकं गच्छति “।
- द्वितीयाधिकरणमारचयति— “स्वर्गावरोही क्षीणानुशयः सानुशयोऽथवा। यावत्संपातवचनात्क्षीणानुशय इष्यते॥ जातमात्रस्य भोगित्वादैकभव्यविरोधतः। चरणश्रुतितः सानुशयः कर्मान्तरैरयम्॥
स्वर्गमुपभुज्य ततोऽवरोहन्पुरुषो निरनुशय इहाऽऽगच्छति। अनुशयो नाम कर्मशेषः। जीवमनुशेत इति व्युत्पत्तेः। न च स्वर्गादवरोहतोनुशयः संभवति। अनुशयफलस्य सर्वस्य तत्रेवोपभुक्तत्वात्। अत एवावरोहविषया श्रुति: — “यावत्संपातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते " इत्याह। संपतत्यनेन कर्मणा स्वर्गमिति संपातः
- तदन्दरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्—अ॰ ३ पा॰ १ अ॰ १ सू॰ १। + कृतात्ययेऽनुशयवान्दृष्टश्रुतिभ्यां यथेतमनेवं च- अ॰ ३ पा॰ २ अ॰ २ सू॰ ८।
१ ग. घ. ०पादे प्र०। २ घ. ०लोके ग०। ३ क. ग. घ. ङ. ०लोके ग०। ४ क. ख. ङ. ०त्वा यथेत०। ५ ख. ०नरावर्तते " इ०।
[[636]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] कर्मसमूहः संपातमनतिक्रम्य यावत्संपातं निःशेषं कर्मफलं भोक्तुं तत्रोषित्वेत्यर्थः। तस्मात्कर्मशेषरहितोऽवरोहतीति प्राप्ते ब्रूम: — स्वर्गार्थमनुष्ठितस्य कर्मणः साकल्येनोपभोगेऽप्यनुभुक्तानि संचितानि पुण्यपापानि बहून्यस्य विद्यन्ते। अन्यथा सद्यःसमुत्पन्नस्य बालस्येह जन्मन्यनुष्ठितयोर्धर्माधर्मयोरभावात्सुदुःखोपभोगो न स्यात्। यदत्र कैश्चिदुच्यते—एकस्मिञ्जन्मन्यनुष्ठितः कर्मसमूह उत्तरस्मिन्नेकस्मिन्नेव जन्मन्युपभोगेन क्षीयत इति। तदसत्। इन्द्रादिपदप्रापकाणामश्वमेधादीनां विड्वराहादिदेहप्रापकाणां पापानां च युगपदुपभोगासंभवेनैकभाविकः कर्मानुशय इतिमतस्य विरुद्धत्वात्। ततश्चैकस्मिञ्जन्मन्यनुष्ठितानां मध्ये ज्योतिष्टोमादिकर्मणि भुक्तेऽपि कुतो न कर्मान्तराण्यवशिष्येरन्। यावत्संपातशब्दश्च स्वर्गप्रदकर्मविषयो न त्वितरकर्मविषयः। श्रुतिश्च स्वर्गादवरुह्य पञ्चम्यामाहुतौ शरीरं गृह्णतां पुरुषाणां च तद्धेत्वोः पुण्यपापयोः सद्भावं दर्शयति—“य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा। अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चाण्डालयोनिं वा " इति। रमणीयचरणाः सुकृतकर्माणः कपूयचरणाः पापकर्माणः। अभ्याशो ह यदित्यव्ययसमुदायस्य क्षिप्रत्वमर्थः। तदेवं सानुशया अवरोहन्तीति स्थितम्।
*तृतीयाधिकरणमारचयति—- “चन्द्रं याति न वा पापी ते सर्व इति वाक्यतः। पञ्चमाहुतिलाभार्थं भोगाभावेऽपि यात्यसौ॥ भोगार्थमेव गमनमाहुतिर्व्यभिचारिणी। सर्वश्रुतिः सुकृतिनां याम्ये पापिगतिः श्रुता॥ “ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति " इति श्रवणाच्चान्द्रमसाख्ये स्वर्गे पापिनोऽपि गस्तिरस्ति। यद्यपि पापिनस्तत्र भोगो न संभवति तथाऽपि पुनरागत्य शरीरग्रहणे पञ्चमाहुतिलाभाय स्वर्गगतिरभ्युपेयेति प्राप्ते ब्रूमः — भोगार्थमेव स्वर्गगमनं न पञ्चमाहुतिलाभार्थं पञ्चामाहुतेर्व्यभिचारित्वाद्द्रोणादीनां योषिदाहुतेरभावात्सीतादीनां पुरुषाहुतेरप्यभावात्। “ते सर्वे " इति श्रुतिस्तु सुकृतिविषया। पापिनां तु यमलोके गतिः श्रुता—“वैवस्वतँ संगमनं जनानां यमँ राजानँ हविषा दुवस्यत " इति। पापिजनैर्गन्तव्यं यमं प्रीणयतेत्यर्थः। तस्मान्न पापिनां स्वर्गे गतिः “।
- अनिष्टादिकारिणामपि च श्रुतम्—अ॰ ३ पा॰ १ अ॰ ३ सू॰ १२।
१ घ. ये के। २ क. ग. पापज०।
[[637]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। *चतुर्थाधिकरणमारचयति— “वियदादिस्वरूपत्वं तत्साम्यं वाऽवरोहिणः। वायुर्भूत्वेत्यादिवाक्यात्तत्तद्भावं प्रपद्यते॥ खवत्सूक्ष्मो वायुवशो युक्तो धूमादिभिर्भवेत्। अन्यस्यान्यस्वरूपत्वं न मुख्यमुपपद्यते॥ स्वर्गादवरोहप्रकार एवं श्रूयते—“अथैतमेवाध्वानं पुनर्निवर्तन्ते। यथेतमा- काशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति। अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति” इति। यथेतं यथा गतं तथेत्यर्थः। तत्र स्वर्गादवरोहतो जीवस्याऽऽकाशादिस्वरूपत्वं भवति। वायुर्भूत्वेत्यादिना तत्तद्भावप्रतिपत्तेः श्रुतत्वादिति प्राप्ते ब्रूम: — अन्यस्यान्यरूपत्वासंभवादाकाशप्राप्तिर्नामाऽऽकाशवत्सौक्ष्म्यं विवक्षितम्। वायुभावो वायुवशता। धूमादिभावो धूमादिभिः संपर्क इति निर्णयः “।
- पञ्चमाधिकरणमारचयति— “व्रीह्यादेः प्राग्विलम्बेन त्वरया वाऽवरोहति। तत्रानियम एव स्यान्नियामकविवर्जनात्॥ दुःखं व्रीह्यादिनिर्याणमिति तत्र विशेषितम्। विलम्बस्तेन पूर्वत्र त्वराऽर्थादवसीयते॥ प्रवर्षणानन्तरं व्रीह्यादिभाव आम्नायते—-“त इह व्रीहियवा ओषधिवन-स्पतयस्तिलमाषा जायन्ते” इति। प्रागेतस्माद्व्रीह्यादिभावादाकाशादौ विलम्बत्वरयोर्नियामकत्वाभावादनियम इति प्राप्ते ब्रूम: — व्रीह्यादिभावमभिधायानन्तरम्—“अतो वै खलु दुर्निष्प्रपतरम् " इति व्रीह्यादिभावान्निर्गमनं दुःखमिति ब्रुवती श्रुतिर्व्रीह्यादौ विलम्बं विशेषयति। ततोऽर्थात्पूर्वत्र त्वरेत्यवसीयते “।
- षष्ठाधिकरणमारचयति— “व्रीह्यादौ जन्म तेषां स्यात्संश्लेषो वा जनिर्भवेत्। जायन्त इति मुख्यत्वात्पशुहिंसादिपापतः वैधान्न पापसंश्लेषः कर्मव्यापृत्यनुक्तितः। श्वविप्रादौ मुख्यजनौ चरणव्यापृतिः श्रुता॥
*साभाव्यापत्तिरुपपत्ते: — अ॰ ३ पा॰ १ अ॰ ४ सू॰ २२। + नास्तिचिरेण विशेषात्—अ॰ ३ पा॰ १ अ॰ ५ सू॰ ६। *अन्याधिष्ठिते पूर्ववदभिलापात्—अ॰ ३ पा॰ १ अ॰ ६ सू॰ २४।
१ घ. ०ह ए०। २ घ. अत्र। ३ घ. ०न्यस्वरू०। ४ घ. ०यतिरिति। ५ घ. दुःशकमि०। ६ घ. विलम्बनं ७ घ. ०त्पूर्वं त्व०।
[[638]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] आकाशादाविव तिलव्रीह्यादौ न संश्लेषमात्रं किंतु व्रीह्यादिरूपेण मुख्यं जन्म विवक्षितम्। जायन्त इति श्रवणात्। न च स्वर्गे सुकृतफलमनुभूयावरोहतः पापफलरूपस्य स्थावरजन्मनोऽसंभवः। तद्धेतोः पशुहिंसादेर्विद्यमानत्वात्। तस्मान्मुख्यं जन्मेति प्राप्ते ब्रूम: — वैधत्वान्न पशुहिंसादिपापमतो जायन्त इति श्रुत्या संश्लेषमात्रं विवक्षितम्। न तु मुख्यं जन्म कर्मव्यापारानभिधानात्। यत्र तु मुख्यं जन्म विवक्षितं तत्र कर्मव्यापारमभिधत्ते—“रमणीयचरणाः कपूयचरणाः इति। तस्मात्स्वर्गादवरोहतां व्रीह्यादौ संश्लेषमात्रमिति स्थितम् “।
तत्रैव द्वितीयपादे चतुर्भिरधिकरणैः स्वप्नाद्यवस्था विचारिताः। तत्र *प्रथमाधिकरणमारचयति—- “सत्या मिथ्याऽथवा स्वप्नदृष्टिः सत्या श्रुतीरणात्। जाग्रद्देशाविशिष्टत्वादीश्वरेणैन निर्मिता। देशकालाद्यनौचित्याद्बाधितत्वाच्च सा मृषा। अभावोक्तेर्द्वैतमात्रसाम्याज्जीवानुवादतः।
“अथ रथान्रथयोगान्पथः सृजते " इति श्रुत्या स्वप्ने रथादीनां सृष्टिरीरिता। अतो वियदादिसृष्टिवव्द्यवहारदशायां सत्या भवितुमर्हति। न च जाग्रद्देशस्य स्वप्नदेशस्य च कंचिद्विशेषं पश्यामः। तत्काले भोजनादीनां तृप्त्याद्यार्थक्रियाकारित्वात्। अतो विमता सृष्टिः सत्येश्वरकर्तृकत्वाद्वियदादिसृष्टिवदिति प्राप्ते ब्रूम: — स्पप्नसृष्टिर्मृषा। कुतः। उचितदेशकालाद्यसंभवात्। न हि केशसहस्रांशपरिमिते नाडीमध्ये गिरिनदीसमुद्रादीनामुचितो देशोऽस्ति। न हि निशीथे शयानस्य सूर्यग्रहणोचितः कालोऽस्ति। नाप्यनुपनीतस्य बालस्य पुत्रोत्सवादिहर्षनिमित्तान्युचितानि। किंच स्वप्नोपलब्धानां पदार्थानां स्वप्न एव बाधो दृश्यते। कदाचित्तरुत्वेनावसीयमानः पदार्थस्तदैव गिरित्वेनावसितो भवति। यदुक्तं स्वप्नसृष्टिं श्रुतिर्ब्रृत इति तत्रापि सा श्रुतिरभावपूर्विकामेव सृष्टिमाह—“न तत्र रथ रथयोगा न पन्थानो भवन्ति। अथ रथाम्रयोगान्पथः सृजते” इति। अतो वस्तुतोऽसन्तो रथाद्याः शुक्तिकारजतवदवभासन्त इति श्रुतेरभिप्रायः। यदपि जाग्रत्साम्यमुक्तं तदप्यप्रयोजकम्। अनुचितदेशकालादेर्भूयसो वैलक्षण्यस्योक्तत्वात्। यदपीश्वरनिर्मितत्वमुक्तं तदप्यसत्। “एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः " इति जीवस्यैव स्प्नभोगनिर्मातृत्वेन श्रुत्याऽप्युच्यमानत्वात्। तस्मात्स्वप्नसृष्टिर्मृषा “।
- संध्ये सृष्टिराह हि —-अ॰ ३ पा॰ २ अ॰ १ सू॰ १।
१ घ. ०व व्री०। २ ख. मुख्यज०। ३ ०पस्था०। ४ घ. ०वसीयते। य०। ५ घ. ०वदेव भा। ६ घ. ०व स्वाप्न०।
[[639]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।
- द्वितीयाधिकरणमारचयति— नाडीपुरीतद्बह्माणि विकल्पन्ते सुषुप्तये। समुच्चितानि वैकार्थ्याद्विकल्पन्ते यवादिवत्। समुच्चितानि नाडीभिरुपसृप्य पुरीतति। हृत्स्थब्रह्मणि यात्यैक्यं विकल्पे त्वष्टदोषता।
“आसु तदा नाडीषु सृप्तो भवति " इति श्रुतौ सुषुप्तिकाले नाडीप्रवेशो गम्यते। “ताभिः प्रत्यवसृप्य पुरीतति शेते " इति श्रुतौ पुरीतदाश्रीतत्वं प्रतीयते। “य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते " इति श्रुत्यन्तरादाकाशशब्दवाच्यब्रह्माश्रितत्वं प्रतीयते। तान्येतानि नाड्यादिस्थानानि विकल्पितानि भवितुमर्हन्ति। एकप्रयोजनत्वात्। यथा व्रीहिभिर्यजेत यवैर्वा यजेतेत्यत्र पुरोडाशनिष्पादकत्वस्य प्रयोजनस्यैकत्वेन विकल्प आश्रितस्तथाऽत्रापि सुषुप्त्याख्यं प्रयोजनमेकम्। तस्मात्कदाचित्पुरीतति स्वपिति कदाचिन्नाडीषु स्वपिति कदाचिद्ब्रह्मणीति नाड्यादीनां विकल्पे प्राप्ते ब्रूम: — एकप्रयोज- नत्वमसिद्धम्। पृथगुपयोगस्य सुवचत्वात्। तथा हि नाड्यस्तावच्चक्षुरादीन्द्रियेषु संचरतो जीवस्य हृदयनिष्ठं ब्रह्म गन्तुं मार्गभूता भविष्यन्ति। अत एव श्रुत्यन्तरे ताभिः प्रत्यवसृप्येति तृतीयया साधनत्वं नाडीनां श्रुतम्। हृदयवेष्टनरूपं तु पुरीतत्प्रासादादिवदावरकं भविष्यति। ब्रह्म तु मञ्चकवदाधारः। अतो यथा द्वारेण प्रविश्य प्रविश्य प्रासादे पर्यङ्के शेते तथा नडीभिः प्रत्यवसृप्य पुरीतति ब्रह्मणि जीवः शयिष्यत इत्युपकारभेदान्नाड्यादीनां समुच्चयः। सुषुप्तौ ब्रह्मणि जीवावस्थाने कुत आधाराधेयभावो न प्रतिभातीति चेदेकीभावादिति ब्रूमः। यथा सोदकः कुम्भस्तटाकजले प्रक्षिप्तो मग्नः सन्पृथङ्न प्रतिभाति तथाऽन्तःकरणोपाधिको जीव आवरकाज्ञानवहितो ब्रह्मणि मग्नत्वान्न पृथगवभासते। अत एव श्रुत्यन्तरं सुषुप्तौ जीवस्य ब्रह्मणा सह तादात्म्यसंपत्तिमाह— “सता सोम्य तदा संपन्नो भवति” इति। यस्तु विकल्पस्त्वयोक्तः सोऽष्टदोषग्रस्तत्वादनुपपन्नः। तथा हि– यदा जीवो नाडीषु शेते तदा पुरीतद्बह्मवाक्ययोः प्राप्तं प्रामाण्यं परित्यक्तं स्यात्। अप्राप्तं चाप्रामाण्यं स्वी क्रियेत। यदा पुनः पुरीतद्बह्मणोः शेते तदा पुरीतद्बह्मवाक्ययोः पूर्वत्यक्तं प्रामाण्यं स्वी क्रियेत। पूर्वस्वीकृतं चाप्रामाण्यं परित्यज्येतेति प्राप्तपरित्यागोऽप्राप्तस्वीकारस्त्यक्तस्वीकारः स्वीकृ-
- तदभावो नाडीषु तच्छ्रुतेरात्मनि च— अ॰ ३ पा॰ २ अ॰ २ सू॰ ७।
१ क.ङ. ०कल्प्यन्ते। २ क. घ. ङ. ०कल्प्यन्ते। ३ ख. ङ. सुप्तो। ४ ग. ०रात्त्वाका०। ५ ख. ०त्वप्र ०। ६ क. ग. ङ. ०पदेशस्य। ७ संचरन्त्यो। ८ ख. घ. ०सादवदाव ०। ९ क. ख. ङ. ०धारम्। अतो। १० घ. प्रतीयत इति। ११ ख. घ. ०स्वडागज ०। १२ ख. मग्नो न पृथक्प्रति०। घ. मग्नो न पृथग्भाति। १३ क. ग. घ. ङ. ०हिते ब्र ०।
[[640]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] तपरित्यागश्चेतिदोषचतुष्टयं पुरीतद्ब्रह्मवाक्यकोटौ। तथा नाडीवाक्यकोट्यामपि दोषचतुष्टये योजिते सत्यष्टौ दोषाः संपद्यन्ते। तस्मात्समुच्चय एव ग्राह्मो न तु विकल्पः “।
- तृतीयाधिकरणमारचयति— “यः कोऽप्यनियमेनात्र बुध्यते सुप्त एव वा। उदबिन्दोरिवाशक्तेर्नियन्तुं कोऽपि बुध्यते॥ कर्माविद्यापरिच्छेदादुबिन्दुर्विलक्षणः। स एव बुध्यते शास्त्रात्तदुपाधेः पुनर्भवात्॥
यथा समुद्रे प्रक्षिप्तो जलबिन्दुः स एव नियमेन पुनरुद्धर्तुमशक्यस्तथा सुषुप्तौ ब्रह्मप्राप्तौ यो जीवः स एव बुध्यत इति नियन्तुमशक्यत्वाद्यः कोऽपि बुध्यत इति प्राप्ते ब्रूम: — विषम उपन्यासः। चिद्रूपो जीवः कर्माविद्यावेष्टितो ब्रह्मणि निमज्जति। उदबिन्दुस्त्ववेष्टित इति वैषम्यम्। यथा गङ्गोदकपरिपूर्णः पुनरुद्ध्रियते, तत्रत्यं गङ्गाजलं तदेव पुनर्विवेक्तुं शक्यते। तथा स एव जीवः प्रतिबुध्यताम्। अत एव श्रुतिराह— “व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तत्तत्तदा भवन्ति” इति। व्याघ्रादयो ये जीवाः सुप्तेः पूर्वं यच्छरीरं प्राप्य वर्तन्ते त एव जीवाः सुप्तेरुपरि प्रतिबुध्यमानास्तदेव शरीरं प्राप्नुवन्तीत्यर्थः। न च सुषुप्तौ ब्रह्मप्राप्तस्य जीवस्य मुक्तवत्पुनरुद्भवानुपपत्तिः। तदवच्छेदकस्योपाधेः सत्त्वेन तदुद्भवे जीवोद्भवसंभवात्। तस्माद्यः सुप्तः स एव प्रतिबुध्यते “।
- चतुर्थाधिकरणमारतयति— “किं मूर्छैका जाग्रदादौ किंवाऽवस्थान्तरं भवेत्। अन्यावस्था न प्रसिद्धा तेनैका जाग्रदादिषु॥ न जाग्रत्स्वप्नयोरेका द्वैताभावान्न सुप्तता। मुखादिविकृतेस्तेनावस्थाऽन्या लोकसंमता॥ जाग्रत्स्वप्नसुषुप्तिभ्योऽन्यस्या अवस्थाया अप्रसिद्धत्वान्मूर्छाया जाग्रदादावन्तर्भावे प्राप्ते ब्रूम: — परिशेषादवस्थान्तरमभ्युपेयम्। न तावज्जाग्रत्स्वप्नयोरन्तर्भावे द्वैतप्रतीत्यभावान्नापि सुषुप्तौ विलक्षणत्वात्। सुषुप्तः पुमान्प्रसन्नवदनः समश्वासो निष्कम्पशरीरो भवति। मूर्छितस्तु विकृतमुखो विषमश्वासः शरीरकम्पादियुक्तो भवति। यद्यपि जाग्र-
- स एव तु कर्मानुस्मृतिशब्दविधिभ्य: — अ॰ ३ पा॰ २ अ॰ ३ सू॰ ९। + मुग्धेऽर्धसंपत्तिः परिशेषात्– अ॰ ३ पा॰ २ अ॰ ४ सू॰ १०।
१ ख. ग. काञ्चनकुम्भः। २ ग.घ. ०न्ति तदा भवन्तीति। ३ ख. घ. सुषुप्ते ०। ४ घ. ०दाद्यान्त ०।
[[641]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। दादिवद्दैनंदिनत्वाभावान्न मूर्छाया बालकादिषु प्रसिद्धिरस्ति तथाऽपि कादाचित्कीं मूर्छावस्थां विज्ञाय वृद्धाश्चिकित्सन्ते। तस्मादन्येयमवस्था। तदेवमधिकरणचतुष्टयेन त्वंपदार्थः शोधितः। तत्र स्वप्नसृष्टेर्मिथ्यात्वेन सुखदुःखकर्तृत्वाद्यवभासेऽपि जीवोऽसङ्ग एवेति शोधितः। सुप्तो ब्रह्मेक्येन तदेवासङ्गत्वमनुभावितम्। तस्यैव पुनः प्रतिबोधेनानित्यत्वशङ्का निराकृता। मूर्छाविचारेण श्वासादिसर्वव्यवहारलोपेऽपि मरणे जीवविनाशो न शङ्कनीय इति दर्शितम् “।
तद॑नुप्र॒विश्य॑। सचिच॒ त्यच्चा॑भवत्। नि॒रुक्तं॒ चानि॑- रुक्तं च। नि॒लय॑नं॒ चानि॑लयनं च। वि॒ज्ञानं॒ चावि॑ज्ञानं च। सत्यं चानृतं च स॑त्यम॒भवत्।
परमात्मनो देहे भोक्तृजीवरुपेण प्रवेशमुपजीव्य सद्भावं साधयित्वा भोग्य-द्रव्याकारेणाप्येतत्साधयितुं तदाकारपरिणामं प्रदर्शयति–तदनुप्रश्येत्यादिना। तत्सृष्टं देहजातं भोक्तृरूपेणानुप्रविश्यानन्तरं सदादिभोग्यवस्त्वाकारेण ब्रह्म परिणतमभूत्। सच्छब्देन प्रत्यक्षगम्यं पृथिव्यप्तेजोरूपं भूतत्रयमुच्यते। त्यच्छब्देन परोक्षं वाय्वाकाशरूपं भूतद्वयम्। बृहदारण्यके मूर्तामूर्तब्राह्मणे— “तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्च " इति वाय्वाकाशव्यतिरिक्तस्य पृथिव्यादिभूतत्रयस्य मूर्तत्वमभिधाय “एतत्सत्” इति सच्छब्दवाच्यत्वं तस्योक्तम्। अथामूर्ते—- “वायुश्चान्तरिक्षं च " इत्यभिधाय “एतत्त्यत् " इति त्यच्छव्दस्तत्र प्रयुक्तः। अतश्चाक्षुषत्वपरोक्षत्वाभ्यां विभक्तं यज्जगदस्ति तत्सर्वमत्र शब्दद्वयेनोपलक्ष्यते। चकारद्वयेन तयोरुभयोरभावौ समुच्चीयेते। एतच्चतुष्टयरूपेण ब्रह्म परिणतमभूत्। निःशेषेण वक्तुं शक्यं निरुक्तम्। घटोऽयं पुरोदेशवर्ती पृथुबुध्नोदराकारो मृन्मयः स्थूलो जलाधारक्षम इत्यादिना निःशेषेण वक्तुं शक्यते। तद्विपरीतमनिरुक्तम्। इक्षुक्षीरादिमाधुर्यावान्तरभेदः केतकीचम्पकादिगन्धावान्तरभेद इत्यादिकं सामान्या- कारेणोच्यते। न तु निःशेषेण वक्तुं शक्यते। चकारो पूर्ववत्। निलयनं नीडमाधारः पुष्पगुडादिः। तद्विपरीतमनिलयनम्। आधेयो गन्धरसादिः। विज्ञानं चेतनं गवाश्वादि। तद्विपरीतमविज्ञानमचेतनं काष्ठकुड्यपाषाणादि। सत्यं लोकव्यवहारे बाधरहितं शुक्तिरज्जुस्थाण्वादि। अनृतं तु व्यावहारदशायामारोपितं रजतसर्पचोरादि। एतैरुदाहरणैः शीतोष्णसुखदुःखमानावमानादिकः सर्वोऽपि जगद्विभाग उपलक्ष्यते। उपरितनसत्य- शब्देन ब्रह्मोच्यते। सत्यं ज्ञानमित्यादिवाक्ये ब्रह्मणः सत्यश-
१ ख. घ. ०त्सन्ति। त ०। २ ख. त्वाद्याभा ०। ३ ख. ०त्यात्पाश०। ४ ख. ०शो ०नाऽऽश०। ५ ग. ०गदिदं त०। ६ ख. ०श्वादिः। त०। ७ ख. ०णादिः। स ०। ८ ख. ०रादिः। ए ०। ९ घ. जगव्द्यवहार। १० घ. ङ. ०लभ्यते। ८१
[[642]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] ब्दार्थत्वावगमात्। सच्च त्यच्चेत्यादिजगद्विभागरूपेण ब्रह्मैव परिणतमभूत्। ब्रह्म सद्रूपं भवितुमर्हति भोग्याकारेण परिणतत्वात्क्षीरादिवदिति श्रुतेरभिप्रायः। यदि॑दं किं॒च। तत्सत्यमि॑त्याचक्ष॒ते।
ब्रह्मणः सद्भावं युक्तिभिः साधयित्वा विद्वदनुभवेनापि साधयति–यदिदं किंचेत्यादिना। भोक्तृभोग्यरूपं यत्किंचिदिदं जगद्दृश्यते तद्वस्तुतो जगन्न भवति किंतु सत्यमबाध्यं ब्रह्मेति विवेकिन आचक्षते। तस्माद्विद्वदनुभवसिद्धस्य ब्रह्मणोऽसत्त्वमयुक्तम्।
तदप्येष श्लो॑को भ॒वति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारतैत्तिरीयारण्यकेऽष्टमःप्रपाठके षष्ठोऽनुवाकः॥ ६॥