अथ पञ्चमोऽनुवाकः
वि॒ज्ञानं॑ य॒ज्ञं त॑नुते। कर्मा॑णि तनु॒तेऽपि॑ च। वि॒ज्ञानं॑ दे॒वाः सर्वे॑। ब्रह्म॒ ज्येष्ठ॒मुपा॑सते। वि॒ज्ञानं॒ ब्रह्म॒ चेद्वेद॑। तस्मा॒च्चेन्न प्र॒माद्य॑ति। *शरीरे॑ पाप्म॑नो हि॒त्वा। सर्वान्कामान्त्समश्नु॑त इ॒ति, इति।
यदेतत्कर्तृत्वशक्तियुक्तं विज्ञानं तदेव ज्योतिष्टोमादीन्यज्ञानानुतिष्ठति। एतदीयमनुष्ठानं तत्साक्षिणि चिदात्मनि भ्रान्त्या परिकल्प्यते। तथा कृषिवाणिज्यादिलौकिककर्माण्यपि विज्ञानेनैव क्रियन्ते। तदेतल्लौकिकवैदि- कसर्वक्रियाकर्तृरूपमाध्यात्मिकं विज्ञानमिन्द्रादयः सर्वे देवा ज्येष्ठब्रह्मरूपेणोपासते। महत्तत्त्वरूपं हिरण्यगर्भाख्यं प्रथमोत्पन्नज्येष्ठशरीरम्। “स यो हैतन्महः प्रथमजं यक्षम् " इति श्रुतेः। यक्षं पूज्यम्। तथा—“हिरण्यगर्भः समवर्तताग्ने " इति श्रुत्यन्तरम्। स्मृतिश्च— “स वै शरीरी प्रथमः स वै पुरुष उच्यते। आदिकर्ता स भूतानां ब्रह्माऽग्रे समवर्तत " इति।
इन्द्रादिवद्यः पुमान्विज्ञानोपाधिकं ब्रह्म यद्युपासीत तद्युपासीत तदुपासीनश्र यावज्जीवं तस्माद्विज्ञानोपाधिकाद्ब्रह्मणो यदि न प्रमाद्येत्, उक्तविधं ब्रह्माहमस्मीत्येवं प्रत्ययप्रवाहं परित्यज्य मनुष्योऽहं कर्ता भोक्ता सुखी दुःखीत्येवं प्राकृतजनवव्द्यवहारः प्रमदः।
- अत्र शकाराकारस्य सानुदात्तः पाठोऽपि प्रसिद्धः।
१ ग. ०रूपवृ ०। २ घ. ०रूपहि ०। ३ ग. स व्यव ०। ४ ङ. ०नस्य या ०। ५ ङ. नो। ६ ग. ०त्येव प्र ०।
[[609]]
प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। तं यदि न कुर्यात्तदानीमयं शरीरे वर्तमान एव सन्भाविजन्मरूपदुःखहेतू- न्सर्वान्पाप्मनः परित्यज्य ब्रह्मलोके संकल्पमात्रसंपादितान्सर्वान्भोगान्भुक्त्वा तत्त्वज्ञानोदये सति विमुच्यते। इन्द्रादिदेवानां स्त्रीशूद्रवद्वेदाध्ययनाभावेऽप्यस्ति वैदिकब्रह्मविद्यायामधिकारः। शूद्रादेस्तु वेदमुखेनाधिकाराभावेऽपि स्मृतिपुराणादावस्त्यधिकारः प्रथमाध्यायस्य तृतीयपादे* चिन्तित: — “नाधिक्रियन्ते विद्यायां देवाः किंवाऽधिकारिणः। विदेहत्वेन सामर्थ्यहानेर्नैषामधिक्रिया॥ अविरुद्धज्ञानवादिमन्त्रादेर्देहसत्त्वतः। अर्थित्वादेश्च सौलभ्याद्देवाद्या अधिकारिणः " इति॥
बृहदारण्यके तृतीयाध्याये श्रूयते—“तद्यो यो देवानां प्रत्यबुध्यत स एव सदभवत्तथर्षीणाम् " इति। देवादीनां मध्ये यो यो ब्रह्म बुबुधे स स एव ब्रह्मा-भवदित्यर्थः। तत्र देवर्ष्यादयो विद्यायां नाधिक्रियन्त इति प्राप्तम्। कुतः। अर्थी समर्थो विद्वाञ्शास्त्रेणापर्युदस्तोऽधिक्रियत इत्युक्तानामधिकारहेतूनामशरीरेषु देवेष्वसंभवात्।न च मन्त्रार्थवादादिभ्यो देवानां विग्रहवत्त्वम्।विध्येकवाक्यतापन्नानां मन्त्रादीनां स्वार्थे तात्पार्याभावात् प्राप्ते ब्रूम: — त्रिविधो ह्यर्थवादः। गुणवादोऽनुवादो भूतार्थवादश्चेति। तथा चाऽऽहु: — “विरोधे गुणवादः स्यादनुवादोऽवधारिते। भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः " इति॥ आदित्यो यूपो यजमानः प्रस्तर इत्यत्र प्रत्यक्षविरोधे सत्यादित्यादिवद्यूपा-देर्यज्ञनिर्वाहकत्वगुण आदित्यादिशब्दैरुपलक्षित इति गुणवादः। “अग्निर्हिमस्य भेषजम् " “वायुर्वै क्षेपिष्ठा देवता " इत्यादिषु मानान्तरसिद्धार्थवादत्वादनुवादत्वम्। तयोरुभयोः स्वार्थे तात्पर्यं मा भूत्। “इन्द्रो वृत्राय वज्रमुदयच्छत्” इत्यादिष्वविरुद्धेषु भूतार्थवादेषु स्वतः प्रामाण्यवादे स्वार्थे तात्पर्यस्य निवारयितुमशक्यत्वात्पदैकवाक्यतया स्वार्थेऽवान्तरतात्पर्यं प्रतिपाद्य पश्चाद्वाक्यैकवाक्यतया विधिषु महातात्पर्यं भूतार्थवादाः प्रतिपद्यन्ते। मन्त्रार्थवादादिबलाद्देवादीनां विग्रहवत्त्वे सति श्रवणादिषु सामर्थ्यं सुलभम्। अर्थित्वं चैश्वर्यस्य क्षयित्वसातिशयित्वदर्शनान्मोक्षसाधनब्रह्मविद्याविषय उपपद्यते। विद्वत्ता चोपनयनाध्ययनरहितानामपि _____________________________________________________
- तदुपर्यपि बादरायणः संभवात्— अ॰ १ पा॰ ३ अ॰ ९। सू॰ २६।
१ ख. ०वधि ०। २ ग. ०तीये पा ०। ३ क. ग. ०रुद्धाज्ज्ञान ०। ४ ग. स ए ०। ५ ग. घ. ०द्वानधि ०। ६ ०माण्यादेव स्वा ०। ७७
[[610]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] स्वयंभातवेदत्वात्सुलभैव। तस्माद्देवादीनां विद्याधिकारो न निवारयितुं शक्यः। यद्यप्यादित्यादीनां देवानामादित्यादिध्यानमिश्रासु सगुणब्रह्मविद्यासु ध्येयानामन्येषामादित्यादीनामसंभवादादित्यत्वादिप्राप्तिलक्षणविद्याफलस्य सिद्धत्वाच्च माऽस्त्वधिकारः। तथाऽपि निर्गुणविद्यायामधिकारे को दोषः। तस्मादस्त्येवाधिकारः। शूद्राधिकारोऽपि तत्रैव* चिन्तित : — “शूद्रोऽधिक्रियते वेदविद्यायामथवा न हि। अत्रैवर्णिकदेवाद्या इव शूद्रोऽधिकारवान्॥ देवाः स्वयंभातवेदाः शूद्रोऽध्ययनवर्जनात्। नाधिकारी श्रुतौ स्मार्ते त्वधिकारो न वार्यते॥ छान्दोग्यस्य चतुर्थाध्याये संवर्गविद्यायामाम्नायते— “आजहारेमाः शूद्रानेनैव मुखेनाऽऽलापयिष्यथाः " इति। अयमर्थः। जानश्रुतिर्नाम कश्चिच्छिष्यो गोसहस्रं दुहितरं मुक्ताहारं रथं कांश्चिद्गामांश्चोपायनत्वेनाऽऽनाय रैक्वनामकं गुरुमुपससाद। तस्य रैक्वस्य वचनमेतत्। हे शूद्र जानश्रुत इमा गोसहस्राद्या आजहाराऽऽत्द्दतवानसि। अनेनैव दुहित्राद्युपायनमुखेन मच्चित्तं प्रसाद्योपदेशयिष्यसीति। तत्र शूद्रोऽपि वेदविद्यायामधिकारवानिति प्राप्तम्। कुतः। अत्रैवर्णिकदेवदृष्टान्तेन शूद्रस्याप्यत्रैवर्णिकस्य तत्संभवादिति प्राप्ते ब्रूम: — अस्ति देवशूद्रयोर्वैषम्यम्। उपनयनाध्ययनाभावेऽपि स्वयं-प्रतिभातवेदा देवास्तादृशस्य सुकृतस्य पूर्वमुपार्जितत्वात्। शूद्रस्तु तादृशसुकृतराहित्यान्न स्वयंप्रतिभातवेदः। नापि तस्य वेदाध्ययनमस्त्युपनयनाभावात्। अतो विद्वात्ताख्यस्याधिकारहेतोरभावान्न श्रौतविद्यायां शूद्रोऽधिकारी। कथं तर्ह्युदाहृतवाक्ये जानश्रुतिविषयः शूद्रशब्दो यौगिकोऽयं न रूढ इति ब्रूमः। विद्याराहित्यजनितया शुचा गुरुं दुद्रावेति शूद्रः। न च रूढ्या योगस्यापहारो रूढेरत्रासंभावात्। अस्मिन्नुपाख्याने क्षत्तृप्रेरणाद्यैश्वर्योपन्यासेन जानश्रुतेः क्षत्रियत्वावगमात्। ननु शूद्रस्य वेदविद्यानधिकारे सति मुमुक्षायां सत्यामपि मुक्तिर्न स्यादिति चेन्मैवम्। स्मृतिपुराणादिमुखेन ब्रह्मनिद्योदये सति मुक्तिसिद्धेः। तस्मान्न शूद्रो वेदविद्यायामधिक्रियते “।
सगुणब्रह्मविदो देहपातात्प्रागेव पुण्यपापत्यागस्तृतीयाध्यायस्य तृतीय- पादे+ चिन्तित : — “कर्मत्यागो मार्गमध्ये यदि वा मरणात्पुरा। उत्तीर्य विरजां त्यागस्तथा कौषीतकिश्रुतेः॥
*शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि — अ॰ १ पा॰ ३ अ॰ १० सू॰ ३४। + सांपराये तर्तव्याभावात्तथा ह्यन्ये– अ॰ ३ पा॰ ३ अ॰ १६ सू॰ २७।
१ ख. ०शमिच्छसी ०।
[[611]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। कर्मप्राप्यफलाभावान्मध्ये साधनवर्जनात्। ताण्डिश्रुतेः पुरा त्यागो बाध्यः कौषीतकिक्रमः॥
पूर्वाधिकरणोक्तसुकृतदुष्कृतपरित्यागो ब्रह्मलोकमार्गस्य मध्ये भवितुमर्हति। तल्लोकसमीपमार्गवर्तिनद्युत्तरणानन्तरं तच्छ्रवणात् “स आगच्छति विरजानदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुते " इति। तस्मान्मार्गमध्ये परित्याग इति प्राप्ते ब्रूम: — ब्रह्मलोकमार्गमध्ये ब्रह्मप्राप्तिव्यतिरिक्तस्य सुकृतदुष्कृताभ्यां प्राप्यस्य फलस्याभावात्तयोर्नदीपर्यन्तनयनं निरर्थकम्। किंच मरणात्प्रागपरित्यक्तयोः सुकृतदुष्कृतयोर्मार्गमध्ये परित्यागस्य साधनं न संभवति। देहरहितेन साधनमनुष्ठातुमशक्यत्वात्। न च मारणात्पुरा तत्त्यागे प्रमाणाभावः। “अश्व इव रोमाणि” इति ताण्डिश्रुतौ तदवगमात्। तथा च सति श्रुत्या नदीमुत्तीर्य परित्याग इत्ययं कौषीतकिप्रोक्तः क्रमो बाधनीयः। तस्मान्मरणात्प्रागेवोपासकस्य सुकृतदुष्कृतयोः परित्यागः “।
अथ विज्ञानमयं बुद्धवतस्तदुपासकस्य मनोमये शरीरत्वबुद्धिदार्ढ्यं पर्यवस्यतीति दर्शयति— तस्यैष एव शारी॑र आ॒त्मा। यः॑ पूर्व॒स्य, इति। पूर्ववद्योजनीयम्। लोके करणस्य कुठारादेरात्मत्वं नास्ति। तथा मनोमयस्यापि करणस्याऽऽत्मत्वाभावाच्छरीरकोटावन्तर्भावः परिशिष्यते। तस्माद्वा एतस्माद्वि॑ज्ञान॒मयात्। अन्योऽ- न्तर आत्मा॑ऽऽनन्द॒मयः। तेनैष॑ पू॒र्णः। अथ विज्ञानमयकोशेऽप्यात्मत्वबुद्धिं वारयितुमानन्दमयमुपदिशति—तस्माद्वा इत्यादिना। आनन्दः परस्य ब्रह्मणः स्वरूपम् “आनन्दो ब्रह्मेति व्यजानात् " “विज्ञानमानन्दं ब्रह्म " इत्यादिश्रुतिभ्यः। तस्याऽऽनन्दस्य विकारो वक्ष्यमाणप्रियमोदादिसमूह आनन्दमयः। यद्यप्यानन्दो निर्विकारस्ताथाऽपि घटाद्युपाधिभिराकाश इव सात्त्विकान्तःकरणवृत्त्युपाधिभिः परिच्छेदे कल्पिते सति प्रियादिरूपतया विक्रियते। सोऽयमानन्दमयः कर्तृत्वाभिमानयुक्ताद्विज्ञानमयादभ्यन्तरः पृथगेवाऽऽत्मा। तेनाऽऽनन्दमयेनैष पूर्वोक्तो विज्ञानमयः पूर्णः। यथा प्राणमयेन व्याप्ते देहे कृत्स्नेऽपि प्राणकार्यं चलनमुपलभ्यते। यथा च मनोमयेन व्याप्ते प्राणविशिष्टे देहे सर्वस्मिन्नपि मनःकार्यभूता चेतनत्वलक्षणा ज्ञानशक्तिरुपलभ्यते। यथा च विज्ञानमयेन व्याप्ते मनःप्राणोभयविशिष्टे देहे कृत्स्नेऽप्यहं कर्तृत्वमुपलभ्यते। एवमानन्दमयेन व्याप्ते विज्ञानमनःप्राणविशिष्टे देहे हस्तपादादिषु सुखविशेषा उपलभ्यन्ते। तदेतदानन्दमय-
१ ग. घ. ०रजां न ०। २ ख. ०था स ०। ३ ख. ०त्वदा ०।
[[612]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] पूर्णत्वम्। सुखावद्दुःखमपि हस्तादिषूपलभ्यत इति चेदुपलभ्यतां नाम। दुःखात्मकवृत्तिहेतुना मनोमयेन देहस्य पूर्णतया तदुपपत्तेः। दुःखस्य मनोमयधर्मत्वं सुखस्याऽऽनन्दमयर्धमत्वं चोपरिष्टाद्विस्पष्टी करिष्यते। अत्रेदं चिन्तनीयम्। कोऽयमानन्दो नाम किं दुःखनिवृत्तिराहोस्विद्भावरूप इति। तत्र दुःखाभाव इति तावत्प्राप्तम्। लोके क्षुत्पिपासारोगादिजनितस्य दुःखस्य निवृत्तौ सुखबुद्धिदर्शनात्। ननु विरोधिनि दुःखे वर्तमाने भावरूपं सुखं तिरोधीयते। अतः सुखाविर्भावकाले दुःखनिवृत्तिरपेक्षितेत्येकालीनतया दुःखनिवृत्तौ सुखत्वभ्राम इति चेन्न। दुःखनिवृत्तिव्यतिरेकेण ज्वरमोचकाले कस्यचिद्भावरूपस्यानुभवाभावात्। तस्माद्दुःखनिवृत्तिरेवाऽऽनन्द इति प्राप्ते ब्रूम: — अकस्मादुत्पन्नविपञ्चीस्वरश्रवणादनन्तरेणापि दुःखपरामर्शमानन्दावभासेन भावरूपत्वं सिध्यति। अभावत्वे तु प्रतियोगिनिरूप्यत्वेन दुःखस्मृतिपुरःसरमेव प्रतीयेत। घटाभावः पटाभाव इत्यादौ प्रतियोगिपूर्वकप्रतीतिनियमात्। यद्दुःखेन न निरूप्यते तद्दुःखाभावो न भवति यथा घटः। यद्वा। आनन्दोऽयं भावरूपः प्रतियोग्यनिरूप्यत्वाद्घटवत्। यद्वा। आनन्दोऽयं भावरूपः सातिशयत्वाद्दुःखवदिति। सातिशयत्वं चोपरिष्टात्सा-र्वभौमाद्यानन्देषु स्पष्टी भविष्यति। सिद्धे भावरूपत्वे पुनरप्येतच्चिन्तनीयम्। किमसावानन्दः क्रियारूपः किंवा गुणरूप उत कस्यचित्प्रतिबिम्ब आहोस्वि- दवच्छिन्नः पदार्थोऽथवाऽनवच्छिन्नः स्वतन्त्रो वेति। तत्र तावत्क्रियारूप इति प्राप्नोति। कुतः। टुनदि समृद्धावित्यस्माद्धातोरानन्दशब्दनिष्पत्तेः। कौषीतकिनश्च कर्मेन्द्रियाणां मध्ये गुह्येन्द्रियस्याऽऽनन्दक्रियोपेतं विषयमामनन्ति—“प्रज्ञयोपस्थं समारुह्योपस्थेनाऽऽनन्दं रतिं प्रजातिं चाऽऽप्नोति " इति। उपस्थजन्ययाऽऽनन्दक्रियया व्याप्यमानः शरीरावयवसंयोगोऽत्राऽऽनन्दशब्देनोच्यते। संयोगकालीना क्रीडा रतिः। संयोगफलभूतप्रजोत्पत्तिः प्रजातिः। यथा वागादीन्द्रियजन्य अभिवदनादयः क्रियाविशेषाः। तथोपस्थजन्य आनन्दोऽपि क्रियाविशेषः। तथा च सांख्या आहु: — “वचनादानविहरणोत्सर्गानन्दास्तु पञ्चानाम् " इति। आथर्वणिकाश्च यथोक्तक्रिया-विशिष्टार्मेन्द्रियविषयानामनन्ति—“वाक्च वक्तव्यं च हस्तौ चाऽऽदातव्यं चोपस्थश्चऽऽनन्दयितव्यं च वायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च” इति। तस्याश्चोपस्थजन्याया आनन्दक्रियाया मनोमयान्तःपातित्वादानन्दमयस्य विज्ञानमयादभ्यन्तरत्वमयुक्तमिति चेन्मैवम्। त्वदुक्तक्रियाया अतिरिक्तस्याऽऽनन्दस्यात्र विवक्षितत्वात्। स चाऽऽनन्दः कर्तृत्वभोक्तृत्वोपेतस्याऽऽत्मनो मनःसंयोगजन्यः क्षणिको गुण इति वैशेषिकाणां मतम्। बुद्धिसुखदुःखेच्छदीनां नवानां तैश्चाऽऽत्मविशेषगुणत्वा-
१ घ. ०ते। ततः २ क. ग. ङ. ०नुभावा ०। ३ घ. प्रतीयते। ४ घ. तैरात्म ०।
[[613]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। ङ्गीकारात्। सांख्यास्तु मन्यन्ते–‘आत्मनोऽसङ्गत्वादिच्छाद्याः प्रकृतिगतगु- णत्रयपरिणामाः। तत्र सुखं सत्त्वगुणपरिणामः। प्रवृत्ती रजोगुणपरिणामः। प्रमादस्तमोगुणपरिणामः’ इति।
तथा च भगवताऽप्युक्तम्— “सत्त्वं सुखे संजयति रजः कर्मणि भारत। ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत " इति॥ न्यायैकदेशिनस्त्वेवमाहु ‘यद्विषयसुखमस्ति तद्दुःखानुषङ्गाद्दुःखमेव। साधनसंपादनप्रयासेन सुखस्य तारतम्येन विनाशेन च दुःखोत्पत्तेर्दुःखानुषङ्गो द्रष्टव्यः। मोक्षदशायां तु नित्यसुखमात्मगुणभूतं ज्ञानेनाऽऽत्मगुणेन विषयी क्रियते। अतो मोक्षः पुरुषार्थः ’ इति। त एते वैशेषिकादिपक्षाः पुरुषबुद्धिभिरुत्प्रेक्षिताः। श्रुतिस्त्वात्मस्वरूपभूतस्य नित्यानन्दस्य स्वतन्त्रद्रव्यस्य लेशो विषयानन्द इत्याचष्टे–“एषोऽस्य परम आनन्दः। एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति " इति। एतमेवार्थं कश्चिद्योगी स्वकीयं विवेकं प्रकटयन्नुदाजहार— “आनन्ददुग्धोदधिमध्यवर्ती कणांस्तदीयान्विषयानलोत्थान्। आस्वादयन्कालमियन्तमेवं वृथाऽप्यनैषं हि विमूढचेताः " इति॥
सोऽयमानन्दलेशो द्विविधः। प्रतिबिम्बोऽवच्छिन्नश्चेति। प्रतिबिम्बपक्षः पूर्वाचार्यैरेवमुदाहृत: — अथात्र विषयान्दो ब्रह्मानन्दांशरूपभाक्। निरूप्यते द्वारभूतस्तदंशत्वं श्रुतिर्जगौ॥ एषोऽस्य परमानन्दो योऽखण्डैकरसात्मकः। अन्यानि भूतान्येतस्य मात्रामेवोपभुञ्जते॥ शान्ता घोरास्तथा मूढा मनसो वृत्तयस्त्रिधा। वैराग्यं क्षान्तिरौदार्यमित्याद्याः शान्तवृत्तयः॥ तृष्णा स्नेहो रागलोभावित्याद्या घोरवृत्तयः। संमोहो भयमित्याद्याः कथिता मूढवृत्तयः॥ वृत्तिष्वेतासु सर्वासु ब्रह्मणश्चित्स्वभावता। प्रतिबिम्बति शान्तासु सुखं च प्रतिबिम्बति॥ रूपं रूपं बभूवासौ प्रतिरूप इति श्रुतिः। उपमा सूर्यकादीति सूत्रयामास सूत्रकृत्।
१ घ. ०तिगु०। २ ख. ग. ०रमन०।
[[614]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] एक एव तु भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत्॥ जलप्रविष्टश्चन्द्रोऽयमस्पष्टः कलुषे जले। विस्पष्टो निर्मले तद्वेद्द्वेधा ब्रह्मापि वृत्तिषु॥ घोरमूढासु मालिन्यात्सुखांशोऽत्र तिरोहितः। ईषन्नैर्मल्यतस्तत्र चिदंशः प्रतिबिम्बति॥ यथाऽतिनिर्मले नीरे वह्नेरौष्ण्यस्य संक्रमः। न प्रकाशस्य तद्वत्स्याच्चिन्मात्रोद्भूतिरत्र हि॥ काष्ठे त्वौष्ण्यप्रकाशौ द्वावुद्भवं गच्छतो यथा। शान्तासु सुखचैतन्ये तथैवोद्भूतिमाप्नुते " इति॥ प्रतिबिम्बपक्ष इत्थमुदीरितः। अथावच्छिन्नपक्ष उच्यते। देहेन्द्रियाद्युपाधौ स्वयमेव भासमानस्य जीवात्मनः स्वरूपभूतो य आनन्दः सोऽयमवच्छिन्नोऽतिशयेन प्रीतिविषत्वात्। आत्मन आनन्दरूपत्वं तद्विषयत्वं च वाजसनेयिन आमनन्ति — “तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा " इति। अयमहंप्रत्ययेनानुभूयमानो देहेन्द्रियादिसाक्ष्यात्मेति यदस्ति तदेतदतिशयेनाभ्यन्तरं स्वरूपं तदेव वित्तपुत्रादिभ्यस्तारतम्येन प्रत्यासन्नेभ्योऽतिशयेन प्रियम्।
तच्च तारतम्यं वार्तिकारो दर्शयति— “वित्तात्पुत्रः प्रियः पुत्रात्पिण्डः पिण्डात्तथेन्द्रियम्। इन्द्रियाच्च प्रियः प्राणः प्राणादात्मा परः प्रियः " इति॥ आत्मव्यतिरिक्तेषु वित्तादिष्वात्मशेषत्वोपाधिना प्रीतिः। आत्मनि तु निरुपाधिकप्रीतित्वेन तस्याः प्रीतेः परत्वम्। एतच्च सर्व मैत्रेयीब्राह्मणे—“न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मानस्तु कामाय पतिः प्रियो भवति” इत्यादिभिर्बहुभिरुदाहरणैः प्रपञ्चितम्।
तानि चोदाहरणानि कैश्चिदेवं संगृहीतानि— “पतिजायापुत्रवित्तपशुब्राह्मणभूमिपाः। लोका देवा वेदभूते सर्वं चाऽऽत्मार्थतः प्रियम् " इति॥
मुख्यप्रीतिविषयत्वादात्मा मुख्यानन्दस्वरूपभूतः। एकैकदेहमात्रवर्तित्वादवच्छिन्नः।स च स्वाभाविकानन्दत्वाद्बिम्बरूपः। तदीयः प्रतिबिम्बोऽनुकूलवित्तपुत्रादिगोचरासु
१ ख. जलं प्र०। घ. जले प्र०। २ ख. ०मः। प्रकाशयति त०। ३ घ. ०रं सू०। ४ क. ख. ङ. तत एव। ५ क. ङ. ०देव स०। ६ क. ख. ग. ङ. ०तिर्जाया०। ७ घ. ०णबाहुजाः। लो०। ८ घ. ०का वेदा देवभू०। ९ क. ङ. ०र्वं वाऽऽत्मा०। १० ग. घ. ०म्बभूतः। त०।
[[615]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। शान्तवृत्तिष्ववभासते। तस्य प्रतिबिम्बस्य जलदर्पणादिप्रतिबिम्बन्मिथ्यात्वादवच्छिन्नस्य वस्तुत्वेऽप्यवच्छेददोषोपेतत्वान्न तयोर्मुख्यानन्दत्वम्। यस्त्ववच्छेदरहितो ब्रह्मस्वरूपभूत आनन्दः स मुख्यः। तथा च च्छन्दोगा नारदसनत्कुमारसंवादे समामनन्ति—“सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति। यो वै भूमा तत्सुखं नाल्पे सुखमस्ति। भूमैव सुखं भूमा त्वेव विजिज्ञास इति भूमानं भगवो विजिज्ञास इति। यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा। अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्य-न्यद्विजानाति तदल्पम्। यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम् " इति। अस्यायमर्थः। शोकस्य पारं तारयेत्येवं नारदेन प्रार्थितः सनत्कुमारः शोकतरणाय सुखरूपमेव त्वया विचारयितव्यमित्युवाच। तद्विचारमङ्गीकृतवते नारदाय भूमपदार्थं सुखत्वेनोपदिदेश। बहोर्भावो भूमा। यथा प्रकरणोपपदयोः संकोचहेत्वोरसत्त्वेन निरतिशयबृहत्त्ववाची ब्रह्मशब्द इति पूर्वत्रोक्तम्, एवमत्रापि निरतिशयबाहुल्यवाची भूमशब्दः। लोके हि धनाल्पत्वे सुखं न दृष्टम्। किंतु धनबाहुल्य एव सुखं दृष्टम्। तस्मात्सुखात्मको भूमैव विचारणीय इत्युक्त्वा तद्विचाराभिमुखाय भूमलक्षणं यत्र नान्यदित्यादिनोपदिदेश। लोकेव्यवहारे हि कश्चिद्द्रष्टा स्वस्मादन्यद्रूपं चक्षुषा पश्यति। सेयं द्रष्टृदृश्यदर्शनरूपा काचित्त्रिपुटी। तथा श्रोतृश्रोतव्यश्रवणविज्ञातृविज्ञातव्यविज्ञानादयस्त्रिपुट्यो यस्मिन्पदार्थे न सन्ति स पदार्थो भूमा। यस्मिंस्तु मायारूपे त्रिपुट्यो विद्यन्ते तन्मायारूपमल्पम्। तयोर्मध्ये भूमा नाशरहितः। अल्पं तु विनश्वरम्। तस्मिन्नल्पे द्वैतरूपे दुःखनिमित्तानां संभवात्तदल्पं दुःखात्मकम्। भूम्नि त्वद्वैते तदभावात्सुखात्मको भूमेति। सोऽयं भूमा त्रिपुटीरहितयोः सुषुप्तिसमाध्योः सुखात्मकोऽनुभूयते। जागरणव्युत्थानयोस्तु त्रिपुटीयु-क्तयोर्लोकव्यवहाररूपोऽल्पाख्यः पदार्थो मूर्खेण तत्त्वविदा च दुःखात्मकोऽनुभुयते। अतो दुःखमिश्रत्वादवच्छिन्नो जीवात्मस्वरूपभूत आनन्दस्तत्प्रतिबिम्बरूपो वृत्त्यानन्दश्च न मुख्यः। किंतु भूमैव मुख्यानन्द इति सिद्धम्।
स वा एष पुरुषवि॑ध ए॒व। तस्य पुरु॑षवि॒ध- ताम्। अन्वयं॑ पुरुष॒विधः। तस्य प्रिय॑मेव॒ शिरः। मोदो दक्षि॑णः प॒क्षः। प्रमोद उत्त॑रः प॒क्षः। आन॑न्द आ॒त्मा। ब्रह्म पुच्छं॑ प्रति॒ष्ठा।
एतस्याऽऽनन्दस्य विकारे प्रियमोदादिरूप आनन्दमये स्वात्मत्वबुद्धिदा- र्ढ्यर्थंमुपासनीयं स्वरूपं दर्शयति–स वा इत्यादिना। य आनन्दमयो विज्ञानमयादभ्यन्तरः
१ घ. यस्मिन्मया०। २ घ. ०दा चानुभू०।
[[616]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] स एवैषोऽहं सुखी भोक्तेत्येवमनुभूयमानो विज्ञानमनयस्य शिरःपक्षादिपु- रुषाकारमनु स्वयमपि पुरुषाकार एव प्रियमोदप्रमोदाः सात्त्वितवृत्तिप्रतिबिम्बिता आनन्दाः। तत्राभीष्टपुत्रादिदर्शनजन्यं प्रियम्। तल्लाभजन्यो मोदः। तत्कृतोपकारजन्यः प्रमोदः। यथोक्तवृत्त्युपादानभूताज्ञाने प्रतिबिम्बित आनन्दः। यद्वा वृत्तिप्रतिबिम्बानां प्रतियोगिजीवात्मस्वरूपभूतोऽवच्छिन्नो बिम्बस्थानीयः स आनन्दः। अनवच्छिन्नो मुख्य आनन्दो ब्रह्म तदेवेतरेषां प्रतिष्ठाऽऽधारः। अवच्छिन्नस्य प्रतिबिम्बानां च तदधीनत्वात्। यद्यपि प्रियमोदप्रमोदा मनसः करणरूपस्य वृत्तिविशेषतया कर्तृरूपाद्विज्ञानमयाद्बहि-र्भूतास्तथाऽप्यान्तरस्यावच्छिन्नजीवानन्दस्यानवच्छिन्नब्रह्मानन्दस्य वा प्रतिबिम्बं धारयन्तीत्यान्तरत्वमभिप्रेत्य विज्ञानमयादभ्यन्तर आत्माऽऽनन्दमय इत्युक्तम्। तमेतमानन्दमयमात्मानमुपासीनो यदा भावनया साक्षात्करोति तदा पुच्छत्वेनोपचरिते ब्रह्मण्यप्यैकाग्र्यं प्रतिपन्ना मनोवृत्तिः प्रतिबिम्बाभावाद्ब्रह्मतत्त्वं साक्षात्करोत्येव “दृश्यते त्वग्र्यया बुद्ध्या " इति श्रुतेः। यथा मणिप्रभायां मणित्वभ्रान्त्या प्रवर्तमानस्यार्थान्मणितत्त्वसाक्षात्कारस्तद्वत्।
अयमेवार्थात्सिद्धो ब्रह्मतत्त्वसाक्षात्कार उपास्तिफलमित्यभिप्रेत्य श्रुतिः फलान्तरमनभिधाय केवलं ब्रह्म पुच्छं प्रतिष्ठेत्येव सर्वजगदाधारभूतब्रह्म- तत्त्वोपदेशे पर्यवसिता ततोऽस्मिन्नानन्दमयकोशे प्रधानभूतस्य ब्रह्मणः प्रतिपादकं श्लोकमुदाहरति________________________ तदप्येष श्लो॑को भ॒वति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमःप्रपाठके पञ्चमोऽनुवाकः॥ ५॥