अथ चतुर्थोऽनुवाकः यतो॒ वाचो॒ निव॑र्तन्ते। अप्रा॑प्य॒ मन॑सा स॒ह। आनन्दं ब्रह्म॑णो वि॒द्वान्। न बिभेति कदा॑चने॒ति, इति। वाचकाः शब्दा ज्ञापकेन मनसा सह ब्रह्मणः स्वरूपभूतमानन्दमप्राप्य यस्माद्ब्रह्मानन्दान्निवर्तन्ते तद्ब्रह्मानन्दं विद्वान्मनोपाधिविशिष्टमुपासीनः कदाचिदपि न बिभेति। जातिगुणाद्यभावान्न ब्रह्मणि वाचकशब्दप्रवृत्तिः। अतच्च नैष्कर्म्यसिद्धावुक्तम्— “षष्ठीगुणक्रियाजातिरूढयः शब्दहेतवः। नाऽऽत्मन्यन्यतमोऽमीषां तेनाऽऽत्मा नाभिधीयते " इति॥ मनोऽपि वल्तूनि संकल्पयत्तदानीमीदृगिति वा तादृगिति वा संकल्पयति। न चैतदुभयं ब्रह्मणि संभवति। तस्मान्मनो ब्रह्मणो निवर्तते॥ तदेतत्पञ्चकोशविवेकेऽभिहितम्— कीदृक्तदिति चेत्पृच्छेरीदृक्ता नास्ति तत्र हि। यदनीदृगतादृक्च तत्स्वरूपं विनिश्चिनु॥ अक्षाणां विषयस्त्वीदृक्परोक्षस्तादृगुच्यते। विषयी नाक्षविषयः स्वत्वान्नास्य परोक्षता " इति॥ पूर्वत्र यथाऽन्नमयोपाधिविशिष्टस्य प्राणमयोपाधिविशिष्टस्य च ब्रह्मण उपासनमुक्तम्, एवमत्रापि मनोमयोपाधिविशिष्टस्योपासनं विवक्षितम्। अन्यथा यजुरादिषु शिरःपक्षादिकल्पनावैयर्थ्यं प्रसज्येत। विद्वानित्यत्र विदिधातुरुपासनवाची। विद्युपास्तिक्रिययोरुपास्तिप्रकरणे पर्यायत्वदर्शनात्। एतच्चाऽऽवृत्त्यधिकरणे भाष्यकारैरुदाहृतम्—क्वचिद्विदिनोपक्रम्योपासिनोपसंहरति “यस्तद्वेद यत्स वेद” इत्यत्रा “अनु म एतां भगवो देवतां शाधि यां देवतामुपास्से " इति। क्वचिच्चोपासिनोपक्रम्य विदिनोपसंहरति। यथा—“मनो ब्रह्मेत्युपासीत " इत्यत्र “भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद " इति। तस्माद्वेदनमत्रोपासनम्। तेन चोपासनेनेहामुत्र च भीतिर्न भवति। निरन्तरमुपासीनस्य
१ ग. श्लोको भवति। २ घ. ०न्ते तं ब्रह्मा०। ३ घ. नास्मिन्नन्यत०। ४ क. ख. घ. ङ. ०च्छेदीद्द०। ५ क. ग. ङ. ०पास्त इ०।
[[604]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] रागद्वेषाद्यवसराभावादैहिकभीत्यभावः क्रममुक्तिसद्भावाच्चाऽऽमुष्मिक- भीत्यभावः। उभयमपि विवक्षित्वा कदाचनेत्युक्तम्। मनोमयोपदेशेऽस्य तात्पर्यं दर्शयति________________________ तस्यैष एव शरी॑र आ॒त्मा। यः॑ पूर्व॒स्य, इति। प्राणमयः शरीरं तत्स्वामी मनोमय आत्मेतिदृढनिश्चयो जायत इत्यर्थः। बृहदारण्यके बालाक्यजातशत्रुसंवादे प्राणात्मवादिनं बालाकिं प्रति प्राणस्यानात्मत्वं बोधयितुमजातशत्रुर्बालाकिना सह कस्यचित्पुरुषस्य सुप्तस्य समीपे गत्वा शास्त्रप्रसिद्धैः प्राणनामभिश्चतुर्भिस्तं पुरुषमामन्त्र्य तावता तस्मिन्ननुत्थिते सति जडत्वेन प्राणस्यानात्मत्वं निश्चित्य प्राणादन्यं चेतनमात्मानं दर्शयितुं पाणिमा तं पुरुषं पुनः पुनरा पिष्य बोधयांचकार। ततश्चेतन आत्मोत्तस्थौ। तथा च श्रूयते—“तौ ह सुप्तं पुरुषमाजग्मतुस्तमेतैर्नाममिरामन्त्रयांचक्रे। बृहत्पाण्डरवासः सोम राजन्निति। स नोत्तस्थौ। तं पाणिनाऽऽपेषं बोधयांचकार। स होत्तस्थौ " इति। अथ प्राणमयान्निवृत्तस्य मनोमयकोशादप्यन्तःप्रवेशाय विज्ञानमयकोशमुपदिशति________________________ तस्माद्वा एतस्मा॑न्मनो॒मयात्। अन्योऽन्तर आत्मा वि॑ज्ञान॒मयः। तेनै॑ष पू॒र्णः, इति।
कामसंकल्पादिवृत्तिसमूहरूपो यो मनोमयः प्रत्यगात्मोपाधित्वादात्मत्वेनोपदिष्टः। तस्मादेवैतस्मादहं कामयेऽहं संकल्पयामीत्येवमनुभूयमानादभ्यन्तरो विज्ञानमयाख्योऽन्य आत्माऽस्ति। तेन विज्ञानमयेनान्तरवस्थितेन बहिस्थितो मनोमयः पूर्णो वर्तते। सत्त्वगुणकार्यायां ज्ञानशक्तौ तमोमिश्रभागो यथा रागद्वेषादितामसधर्मोपेतं मनो भवति तथा रजोमिश्रो भागो राजसेन कर्तृत्वेन धर्मेणोपेतं विज्ञानं भवति। मनोवृत्तीनां मध्ये विशिष्टमहं कर्तेत्येवंरूपं वृत्तिज्ञानं तस्य विकारो विज्ञानमयः। रजोमिश्रसत्त्वगुणकार्यं हि विज्ञानमहंप्रत्ययविषयाभिमन्तृरूपेण विक्रियते। तमेतमभिमन्तारं सर्वे जना अहंप्रत्ययेन विषयं कुर्वन्ति। द्विविधो मनसः प्रत्यय इदंप्रत्ययोऽहंप्रत्ययश्चेति। तत्रेदंप्रत्ययो बहिर्मुखतया प्रमातुरन्यपदार्थं प्रमेयं विषयी करोति। अहंप्रत्ययस्त्वन्तर्मुखः प्रमातारमेव विषयी करोति।न चात्र प्रमातृप्रमेयसांकर्यदोषः शङ्कनीयः। दृष्टत्वेन तस्य दोषत्वाभावात्। न हि दृष्टेऽनुपपन्नं नामेतिन्यायात्। योऽयमहंप्रत्ययविषयोऽ-
१ ग. ०त्पाण्डुर०। २ क. घ. ङ. ०नोपादि०। ३ क. ख. घ. ङ. ०र्तृत्वध०। ४ ख. धर्मोपे। ५ ङ. न त्वत्र।
[[605]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। भिमन्ता सर्वेषु प्रमाणव्यवहारेषु प्रमाता सोऽयमत्र विज्ञानमयः। एतमेवोद्दिश्याऽऽथर्वणिका: — “चक्षुश्च द्रष्टव्यं च श्रोतव्यं च " इत्यादिनो प्रमाणप्र-मेयजातं सर्वमनुक्रम्य, सर्वव्यवहारकर्तारं पृथगेव विस्पष्टमामनन्ति—“एष हि द्रष्टा स्प्रष्टा श्रोचा घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः " इति। कौषीतकिनश्च—“प्रज्ञया वाचं समारुह्य " इत्यादिना विषयेन्द्रियव्यवहारस्य सर्वस्यान्वयव्यतिरेकाभ्यां मनोधीनत्वमाम्नाय, अशेषव्यवहारकर्तारं पृथगामनन्ति—“न वाचं विजिज्ञासीत वक्तारं विद्यात् " इत्यादिना। नन्वात्मैव व्यवहारस्य कर्ता भवति। नत्वसौ विज्ञानमयाख्यश्चतुर्थः कोशः। अत एव भगवान्बादरायणो द्वितीयाध्यायस्य तृतीयपादे जीवात्मविचारे—“कर्ता शास्त्रार्थवत्त्वात् " [ब्र॰ सू॰ अ॰ २ पा॰ ३ सू॰ ३३] इति सूत्रयामास। नायं दोषः। आत्मकर्तृत्वस्यौपाधिकत्वात्। एतच्च “यथा च तक्षोमयथा” [ब्र॰ सू॰ अ॰ २ पा॰ ३ सू॰ ४०] लोके तक्षा यथा बाह्यसाधनैर्वास्यादिभिर्युक्तः प्रसादस्य कर्ता भवति। साधनहीनस्तु नैव कर्ता। तथाऽयमात्माऽपि स्वरूपतोऽसङ्ग एव सन्वागादिकरणसहितः कर्तेति सूत्रर्थः। तर्हि पूर्वोक्तबाह्येन्द्रियान्तःकरणसमूहरूपमनोमयस्य संयोगेनैवाऽऽत्मनः कर्तृत्वसिद्धौ किमनेन विज्ञानमयेनेति चेन्मैवम्। अनेन न्यानेन तक्षण्यपि वैयर्थ्यस्याऽऽपादयितुं शक्यत्वात्। वास्यादिसाधनसंयुक्तस्य ब्राह्मणादेरेव प्रासादकर्तृत्वे सति व्यर्थस्तक्षा स्यात्। यदि ब्राह्मणादौ प्रासादगोचरज्ञानक्रियाशक्त्योरभावात्तक्षाऽपेक्ष्येत तर्ह्यत्रापि सर्वव्यवहारगोचरज्ञानक्रियाशक्तियक्तो विज्ञानमयोऽपेक्ष्यते। न चासङ्गस्याऽऽत्मन आरोपमन्तरेण शक्तिद्वयं संभवति। आरोपश्च क्वचिन्मुख्यस्यैवाऽऽधारान्तरे दृश्यते। बिलगते हि सर्पे मुख्यं सर्पत्वं रज्जावारोप्यमाणं दृष्टम्। तस्मादत्रापि विज्ञानमये मुख्यं शक्तिद्वयं चिदात्मन्यारोप्यताम्। एतदेवाभिप्रेत्य वाजसनेयिनः समामनन्ति—“योऽयं विज्ञानमयः प्राणेषु त्द्दद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव " इति। अत्र योऽयं चैतन्यज्योतिःस्वरूपः पुरुषो विज्ञानमयोपाधिकः स पुरुषस्तेनोपाधिना समानः परिच्छिन्नः सन्नुपाधिं संचरन्तमनु स्वयमपि लोकावुभौ संचरति। स्वयमसंचरन्नेवोपाधिसंचारेण च संचारवानिवोपलभ्यते। यथा घटे देशान्तरं प्रति नीयमाने घटावच्छिन्नस्याऽऽकाशस्यान्यदेशे नयनं न स्वतस्तद्वत्। सोऽयमर्थः श्रुताविवशब्देन स्पष्टी क्रियते। उपाधौ ध्यायति सति चिदात्मा स्वयमपि ध्यायन्निवोपलभ्यते। तथोपाधौ लेलायमाने स्वयमपि चलन्निवोपलभ्यते। एतमेवोपाधिप्रयुक्तमुत्क्रान्तिगमनागमनादिसंसारं भगवान्सूत्रयामास—“तद्गुणसारत्वात्तु तव्द्यपदेशः " [ब्र॰ सू॰ अ॰ २ पा॰ ३
१ ग. ०दि। न०। २ ग. घ. ०र्ता। न०। ३ ख. न. वि०। ४ घ. मुख्ये। ५ ग. ०नादि०।
[[606]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] सू॰ २९] इति। एवं च सति कर्तृत्वमपि विज्ञानमयोपाधौ वर्तमानमात्मन्यारोप्यत इत्यभ्युपगन्तव्यम्। सोऽयं कर्तृत्वशक्तियुक्तो विज्ञानमयः करणत्व- शक्तियुक्तान्मनोमयादभ्यन्तरः। ननु मनसा सहितान्येकादशेन्द्रियतत्त्वानि पञ्चवृत्त्युपेतं प्राणतत्त्वं चेत्येतावदेव लिङ्गशरीरं मीमांसाशास्त्रे विचारितम्। न तु विज्ञानाख्यं किंचित्तत्त्वमिति चेत्प्राणपादे तद्विचाराभावेऽपि ततः पूर्वस्मिन्पादे जीवात्मनि संसारधर्मापादकत्वेन तद्गुणसारत्वादित्यादिना विचारितत्वात्। अङ्गीकृतेऽपि विज्ञानाख्ये बुद्धितत्त्वे लिङ्गशरीरस्य सप्तदशसंख्या पूर्यते। सा च संख्या भगवद्भिरुदाहृता–“अपञ्चीकृतपञ्चमहाभूतानि तत्कार्यं च सप्तदशकं लिङ्गम् " इति।
तस्याश्च संख्यायाः संख्येयानि तत्त्वानि विश्वरूपाचार्यैर्दर्शितानि— “ज्ञानेन्द्रियाणि पञ्चैव तथा कर्मेन्द्रियाण्यपि। वायवः पञ्च बुद्धिश्च मनः सप्तदशं विदुः” इति॥ नन्वेकस्यैवान्तःकरणतत्त्वस्य मनोबुद्ध्यहंकारचित्ताख्याश्चत्वारो वृत्ति- भेदाः। संशयात्मकं मनः। निश्चयात्मिका बुद्धिः। अभिमानात्मकोऽहंकारः। चेतनात्मकं चित्तमिति वृत्तीनां लक्षणानि। एताश्चतस्रो वृत्तयस्तद्विषयाश्चाऽऽथर्वणिकैरनुक्रान्ता: — “मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहंकारश्चाहंकर्तव्यं च चित्तं च चेतयितव्यं च " इति। एते च वृत्तिविशेषाः क्षणिकाः कालभेदेनैवोत्पद्यन्ते “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् " इति न्यायात्। तथा सति वृत्तिमात्रस्वरूपयोर्मनोमयविज्ञानमययोरन्नमयप्राणमयत्पृथक्त-त्त्वरूपत्वाभावाद्भिन्नकालीनत्वाच्चान्तर्बहिर्भावो न युक्त इति चेत्। न। करणरूपेण कर्तृरूपेण च तयोस्तत्त्वभेदाङ्गीकारात्। पूर्वोक्ता मनोबुद्ध्यश्चत्वारोऽपि करणस्यैव व्यापारविशेषाः। कर्तृरूपं तु करणात्पृथगेव तत्त्वम्। तच्च बुद्धिशब्देन विज्ञानशब्देनाहंशब्देन च तत्र तत्र व्यवह्रियते। तत्र कठाः कर्तरि बुद्धिशब्दमेवमामनन्ति—“आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च। इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्” इति। चिदात्मा रथस्वामी। अचिद्रूपा दर्पणसदृशी चैतन्यप्रतिबिम्बस्य कर्तृत्वधर्मस्य वाऽऽधारभूता बुद्धिः सारथिः। सा हि चिच्छायोपेतत्वेन चेतना कर्तृत्वेन च सारथिवत्स्वतन्त्रा सती प्रग्रहसदृशेन मनोरूपेण करणेन हयसदृशानीन्द्रियाणि नियमयन्ती रथसदृशं शरीरं व्यापारयति। अतोऽत्र बुद्धिमनसोस्तत्त्वभेदः। बुद्धिस्थायित्वमेककालवर्तित्वं चावग- म्यते। विज्ञानशब्दोऽपि तत्रैवाऽऽम्नायते—“विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् " इति। बुद्धेरान्तरत्वविवक्षयोत्कर्षस्तत्रैवाऽऽम्नात: — इन्द्रि__________________________________________________ १ ग. ०ते हि वि०। २ ग. ०र्वोक्तम०। ३ ग. घ. बुद्धेः स्था०। ४ ख. ०त्रैव वर्णितः।
[[607]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। येभ्यः परा ह्यार्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिः " इति। तथा प्रत्य-गात्मदर्शनार्थं निरोधसमाधिरूपं योगं ब्रुवती श्रुतिर्विज्ञानस्याभ्यन्तरत्वं दर्शयति–“यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि " इति। प्रथमतो वागादीनि बाह्यानीन्द्रियाण्यभ्यन्तरे मनसि नियम्य तदपि मनस्तातोऽप्यान्तरे ज्ञानात्मनि नियच्छेत्। ज्ञानात्मशब्देनात्र विज्ञानमयोऽभिधीयते। न तु चिदात्मा। तस्योत्तरत्र तद्यच्छेच्छान्त आत्मनीति वक्ष्यमाणत्वात्। परब्रह्मरूपस्य प्रत्यगात्मनः संसारार्थं विज्ञानं प्रथममुपाधिस्ततो मनस्ततोऽपि बहिः प्राणः। सोऽयं क्रमः संसारवर्णनप्रस्तावे वाजसनेयिभिराम्नायते—“स वा अयमात्मा विज्ञानमयो मनोमयः प्राणमयः " इति। सोऽयं बुद्धिविज्ञानशब्दाभ्यामभिधीयमानः पदार्थः सर्वैरप्यहंशब्देन व्यवह्रियते। भाष्यकाराश्चाध्यासमुदाजह्रु: — “एवमहंप्रत्ययिनमशेषस्वप्रचारसाक्षिणि प्रत्यगात्म-न्यध्यस्य " इति। समन्वयसूत्रभाष्येऽप्येवमाहु: — “तेनैवाहंकर्त्राऽहंप्रत्ययिना सर्वाः क्रिया निष्पाद्यन्ते तत्फलं च स एवाश्नाति ’ तयोन्यः पिप्पलं स्वाद्वात्ति ’ इति श्रुतेः " इति। अयमेव कर्ता भोक्ता नैयायिकादिमतसिद्धो जीवात्मा। सांख्याश्चैवमाहु: — अन्तःकरणं त्रिविधमिति। तत्रेन्द्रियाणामेकादशसंख्यापूरकं मनोनामकमेकम्। अहंकारतत्त्वं द्वितीयम्। महत्तत्त्वं तृतीयम्। तेष्वहंकारमेवं लक्षयन्ति। अभिमानोऽहंकार इति। स एष चितिच्छायोपेतोऽहंकारोऽत्र विज्ञानमयः। तेन विज्ञानमयेन मनोमयस्य पूर्णत्वात्तादृशमनोमयव्याप्तप्राणमयेन पूर्णेऽन्नमयेऽप्यापादमस्तकमहं मनुष्य इत्यभिमान उपलभ्यते।
अथ विज्ञानमये स्वात्मत्वबुद्धिदार्ढ्यार्थमुपासनं विधित्सुरुपास्यस्वरूपं निरूपयति— स वा एष पुरुषवि॑ध ए॒व। तस्य पुरु॑षवि॒धताम्। अन्वयं॑ पुरुष॒विधः। तस्य श्र॑द्धैव॒ शिरः। ऋतं दक्षि॑णः प॒क्षः। सत्यमुत्त॑रः पक्षः। यो॑ग आ॒त्मा। महः पुच्छं॑ प्रति॒ष्ठा, इति।
यः पूर्वोक्तप्रकारेण श्रुतिषु नैयायिकादिमतेषु लोकव्यवहारे च प्रसिद्धः कर्ता स एवैषोऽस्माभिरहं कर्तेत्यनुभूयमानो विज्ञानमयः। शिरःपक्षादिकल्पनयोपासितं मनोमयमनु स्वयमपि ताम्रप्रतिमान्यायेन शिरःपक्षादिकल्पनया पुरुषाकार एव भवति। यद्यपि श्रद्धादयो वृत्तिरूपत्वान्मनोमयस्य कार्याः, तथाऽपि विज्ञानमयस्य कर्तृत्वेन करणतद्वृत्तिस्वामित्वान्मनोवृत्तय एतदीया अपि भवन्तीत्यभिप्रेत्य विज्ञानमयस्य
१ ग. घ. ०तोऽपि बहिर्मन०। २ घ. चिच्छा०।
[[608]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] श्रद्धा शिर इत्युच्यते। गुरुशास्त्राभ्यामभिहिते तत्त्वे तदवबोधोपाययोश्च परमो विश्वासः श्रद्धा। ऋतसत्यशब्दाभ्यामप्यत्र तत्तत्कर्तृत्वाभिमानरूपं वृत्तिद्वयं विवक्षितम्। योगः संप्रज्ञातासंप्रज्ञातसमाधिद्वयम्। “योगश्चित्तवृत्तिनिरोधः " इति योगशस्त्रे सूत्रितत्वात्। महःशब्देन महतः परमितिश्रुत्यन्तरोक्तमव्याकृतस्य प्रथमकार्यरूपं हिरण्यगर्भाख्यं महत्तत्त्वं विवक्षितम्। तच्च सर्वेषामहंप्रत्ययगम्यानां कर्त्रात्मनां समष्टिरूपत्वेन प्रतिष्ठा। एतदेवाभिप्रेत्योत्तरतापनीये समाम्नायते—“सर्वाहंमानी हिरण्यगर्भः " इति। अस्मिन्विज्ञानमयेऽपि पूर्ववच्छ्लोकमुदाहरति— तदप्येष श्लो॑को भ॒वति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमःप्रपाठके चतुर्थोऽनुवाकः॥ ४॥