अथ तृतीयोऽनुवाकः। प्रा॒णं दे॒वा अनु॒प्राण॑न्ति। म॒नुष्याः॑ प॒शव॑श्च॒ ये। प्रा॒णो हि भू॒ताना॒मायुः॑। तस्मा॑त्सर्वायु॒षमु॑च्यते। सर्व॑मे॒व त॒ आयु॑र्यन्ति। ये प्रा॒णं ब्रह्मो॒पास॑ते। प्राणो हि भूता॑नामा॒युः। तस्मात्सर्वायुषमुच्य॑त इ॒ति, इति। ये सात्त्विका अग्नीन्द्रादयो देवा ये च राजसा ब्राह्मणक्षत्रियादयो मनुष्या येऽपि तामसा गवाश्वादयः पशवः (ते) सर्वेऽपि स्वस्वदेहमध्यवर्तिनं प्राणवायुं चेष्टमानमनुसृत्य स्वयमपि चेष्टन्ते। प्राण एव हि देहं चालयति। तथा कौषीतकिनः समामनन्ति—“अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति” इति। आथर्वणिकाश्चाऽऽकाशादिभूताभिमानिदेवैर्वागादीन्द्रियाभिमानिदेवैश्च सह प्राणाभिमानिदेवस्य देहधारणविषये संवादे समामनन्ति—“तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधाऽऽत्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि " इति। यथा बाणो धानुष्केण प्रेर्यते तथा प्राणेन प्रेर्यमाणत्वाद्बाणशब्देन शरीरमुपलक्ष्यते। यः प्राणो देवमनुष्यपश्वादिदेहानां चेष्टामुत्पादयति स प्राणो यस्मात्सर्वप्राणिनामा-युर्हेतुस्तस्मात्सर्वायुषमुच्यत इति प्राणस्य नामधेयम्। यथोक्तप्राणमयको- शज्ञानमात्रेणान्नमयात्मवासनां परित्यक्तुमशक्नुवन्तो ये पुरुषास्तद्वासनानिवृत्तये प्राणोपाधिकं ब्रह्मोपासते, ते पुरुषा आध्यात्मिकप्राणोपाधिकब्र- ह्मोपासनादेतस्मिञ्जन्मन्यपमृत्युपरिहारेण सर्वमायुः प्राप्नुवन्ति। आधिदै-विकहिरण्यगर्भाख्यप्राणोपासनेन तु जन्मान्तके स्वयमेव हिरण्यगर्भरूपाः सन्तो महाप्रलयपर्यन्तं सर्वमायुः प्राप्नुवन्ति। कोशप्रशंसार्थं पूर्वमुक्तस्य प्राणो हीतिवाक्यस्योपास्तिप्रशंसार्थं पुनरप्यभिधानम्।
१ क. ख. ङ. ०रं पान०। २ क. ख. ग. ङ. ०जीवरू०।
[[599]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। प्राणमयोपदेशस्य तात्पर्यं दर्शयति— तस्यैष एव शरी॑र आ॒त्मा। यः॑ पूर्व॒स्य, इति। यः प्राणमय इदानीमुक्तः स एष एव तस्य पूर्वस्यान्नमयस्य शरीरे भवः शारीर आत्मा। यदा प्राणमयस्याऽऽत्मत्वं दृढवासितं भवति तदानीमन्नमये स्वात्मत्वभ्रमोऽपगच्छति। किंत्वन्नमयः शरीरं प्राणमयस्तु शरीरी स्वात्मेति निश्चयो जायते। द्वयोरात्मनोरसंभवादित्यर्थः। अथान्नमयकोशान्निवृत्तस्याधिकारिणः प्राणमयकोशादप्यन्तःप्रवेशाय मनोमयकोशमुपदिशति— तस्माद्वा एतस्मा॑त्प्राण॒मयात्। अन्योऽन्तर आत्मा॑ मनो॒मयः। तेनैष पू॒र्णः, इति।
ब्रह्मण्याश्रिता जगदुपादानरूपा माया त्रिगुणात्मिका। तत्र तमोगुणभाग-स्यान्नमयकारणत्वात्तस्मिन्कोशे जाड्यमेव बहुलमुपलभ्यते। न तु क्रियाशक्तिर्ज्ञाशक्तिर्वा तस्मिन्नस्ति। रजोगुणभागस्य प्राणमयकारणत्वात्तस्मिन्प्राणमये क्रियाशक्तिरुपलभ्यते। सत्त्वगुणभागस्य मनोमयादिकोशत्रयकारणत्वात्तेषु त्रिषु कोशेषु ज्ञानशक्तिरुपलभ्यते। तमोमिश्रः सत्त्वगुणो मनोमयकारणम्। अतो मनोमये तामसभागधर्मा रागद्वेषादय उपलभ्यन्ते। रजोमिश्रः सत्त्वगुणो विज्ञानमयकारणम्। अतो विज्ञानमये यज्ञादीनां वैदिकक्रियाणां कृष्यादीनां लौकिकक्रियाणां च कर्तृत्वमुपलभ्यते। शुद्धसत्त्वगुण आनन्दमयकारणम्। अतस्तत्र प्रियादिशब्दवाच्याः सुखविशेषा एवोपलभ्यन्ते। यद्यपि स्वरूपेणैकैव ज्ञानशक्तिस्तथाऽपि तदवान्तरभेदास्त्रिविधा करणशक्तिः कर्तृशक्तिर्भोगशक्तिश्चेति। तत्र कारणशक्तिजन्यं मनस्तस्य विकारः कामसंकल्पादिवृत्तिसमूहो मनोमयः। वृत्तयश्च वाजसनेयिभिराम्नायन्ते—“कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव " इति। तथा तृष्णा स्नेहो रागो लोभ इत्यादिश्रुत्यन्तराण्युदाहार्याणि। सोऽयं मनोमयः प्राणमयादभ्यन्तरः। अत एव प्रत्यासन्नत्वान्मनस्यात्मचैतन्यं सर्वान्तरमभिव्यज्यते। तदभिव्यक्तिवशादेव मनोमयस्याऽऽत्मत्वम्। तेनाभ्यन्तेरण मनोमयेन बाह्यः प्राणमयः पूर्णो वर्तते। यथा क्रियाशक्तेरापादमस्तथा व्याप्तिस्तथा ज्ञानशक्तेरपि व्याप्तिरुपलभ्यते। अत्रान्तःकरणेन मनसा बहिष्करणानि वाक्चक्षुरादीनि दशाप्युपलक्ष्यन्ते। अतः सर्वेषां ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च मनोमयाख्ये कोशेऽन्तर्भावो द्रष्टव्यः।
१ घ. द्दढम वा०। २ ख. ०त्मभ्र०। ३ ख. ०नभूता मा०। ४ घ. ०र्भोक्तृश०। ५ ख. ०यादाभ्य०। ६ ग. सर्वोत्तर०। ७ घ. ०नि चक्षु०।
[[600]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] तेषामिन्द्रियाणामुत्पत्तिर्द्वितीयाध्यायस्य चतुर्थपादे * चिन्तिता________________________ “किमिन्द्रियाण्यानादीनि सृज्यन्ते वा परात्मना। सृष्टेः प्रागृषिनाम्नैषां सद्भावोक्तेरनादिता॥ एकबुध्द्या सर्वबुद्धेर्भौतिकत्वाज्जनिश्रवात्। उत्पद्यन्तेऽथ सद्भावः प्रागवान्तरसृष्टितः॥
“ऋषयो वाव तदग्रे सदासीत्के त ऋषय इति प्राणां वा ऋषयः " इति श्रुत्या सृष्टेः पूर्वमिन्द्रियाणां सद्भावावगमादनादित्वं तेषामिति प्राप्ते ब्रूम: — एकविज्ञानेन सर्वविज्ञानं तावदिन्द्रियाणामनुत्पत्तौ न घटते। तथा “अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् " इति भूतकार्यत्वमिन्द्रियाणां जन्मश्रवणम्। यत्तु सृष्टेः प्राक्सद्भाववाक्यं तदवान्तरसृष्टिविषयं व्याख्येयम्। यत्तु सृष्टेः प्राक्सद्भाववाक्यं तदवान्तरसृष्टिविषयं व्याख्येयम्। तस्मादिन्द्रियाणि परमात्मन उत्पद्यन्ते “।
- तत्रैवान्यच्चिन्तितम्________________________ “सप्तैकादश वाऽक्षाणि सप्त प्राणा इति श्रुतेः। सप्त स्युर्मूर्धनिष्ठेषु च्छिद्रेषु च विशेषणात्॥ अशीर्षण्यस्य हस्तादेरपि वेदे समीरणात्। ज्ञेयान्येकादशाक्षाणि तत्तत्कार्यानुरोधतः॥
सप्तैवेन्द्रियाणि। कुतः।सप्त प्राणाः प्रभवन्ति तस्मादिति सामान्यश्रुतेः। सप्त वै शीर्षण्याः प्राणा इति शिरोगतसप्तच्छिद्रनिष्ठत्वेन विशेषितत्वाच्चेति प्राप्ते ब्रूम: — शिरोनिष्ठेभ्य इतराणि हस्तादीन्यपि वेदे समीर्यन्ते “हस्तौ चाऽऽदातव्यं चोपस्थाश्चाऽऽनन्दयितव्यं च " इत्यादिना। तथा च वेदमुखादेव निश्चये सत्येकादशव्यापाराणां दर्शनश्रवणाघ्राणास्वादनस्पर्शनाभिवदना-दानगमनानन्दविसर्गध्यानानामुपलम्भात्तत्साधनत्वेनेंन्द्रियाण्येकादशेत्युपगन्तव्यम् “।
- पुनरप्यन्यच्चिन्तितम्— “व्यापीन्यणूनि वाऽक्षाणि सांख्या व्यापित्वमूचिरे। वृत्तिलाभस्तत्र तत्र देहे कर्मवशाद्भवेत्॥ देहस्थवृत्तिमद्भागेष्वेवाक्षत्वं प्रकाश्यते। उत्क्रान्त्यादिश्रुतेस्तानि ह्यणूनि स्युरदर्शनात्॥
- तथा प्राणा: — अ॰ २ पा॰ ४ अ॰ १ सू॰ १। + सप्त गतेर्विशेषितत्वाच्च– अ॰ २ पा॰ ४ अ॰ २ सू॰ ५। * अणवश्च— अ॰ २ पा॰ ४ अ॰ ३ सू॰ ७।
१ ग. ०न्ते च स ०। २ घ. ०प्त शी ०। ३ घ. देशे।
[[601]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। सर्वगतानामिन्द्रियाणां तत्तच्छरीरावच्छिन्नप्रदेशेषु तत्तज्जीवकर्मफल- भोगाय वृत्तिलाभो भवतीति यत्सांख्यैरुक्तं तदयुक्तम्। कल्पनागौरवप्रसङ्गात्। देहावच्छिन्नवृत्तिमद्भागैरेवाशेषव्यवहारसिद्धौ किमनया वृत्तिरहितानां सर्वगतानामिन्द्रियाणां कल्पनया। किंच श्रुतिरुत्क्रान्तिगत्यागतीर्जीवस्य प्रतिपदयति। ताश्च सर्वगतस्य जीवस्य न मुख्याः संभवन्तीति मुख्यत्वसिद्धयर्थमिन्द्रियोपाधिः स्वीकृतः। यदि सोऽप्युपाधिः सर्वगतः स्यात्कुत्र तर्ह्युत्क्रान्त्यादयो मुख्याः संभवेयुः। तस्मादसर्वगतान्यक्षाणि। मध्यमपरिमाणेष्वदृश्यत्वविवक्षया सूत्रकारेणाणुशब्दः प्रयुक्तः “।
- पुनरप्यन्यच्चिन्तितम्________________________ “स्वतन्त्रा देवतन्त्रा वा वागाद्याः स्यात्स्वतन्त्रता। नोतेद्वागादिजो भोगो देवनां स्यान्न चाऽऽत्मनः। श्रुतमग्न्यादितन्त्रत्वं भोगोऽग्न्यादेस्तु नोचितः। देवदेहेषु सिद्धत्वाज्जीवो भुङ्क्ते स्वकर्मणा।
वागादीन्यक्षाणि स्वस्वविषये स्वातन्त्र्येण प्रवर्तन्ते न तु देवतापरतन्त्राणि। अन्यथा वागादिजन्यस्य भोगस्य देवानां भोक्तृत्वान्न जीवात्मनो भोगः स्या- दिति प्राप्ते ब्रूम: — अग्निर्वाग्भूत्वा मुखं प्राविशजित्यादौ वागादीनामग्न्या-द्यानुगृहीत्वं श्रूयते। अतो देवपरत्तन्त्रैवेन्द्रियप्रवृत्तिः। न चैतावता देवानामत्र भोक्तृत्वम्। महापुण्यफलं देवत्वं प्राप्तनामधमभोगस्यानुचितत्वाद्देवतादेहेषु परमभोगस्य सिद्धत्वाच्च। मनुष्यादिजीवस्तु देवप्रेरितैरक्षैरापादितं भोगं स्वकर्मफलतया भुङक्त इत्युपपद्यते। तस्माद्देवतापरतन्त्राणीन्द्रियाणि “।
- पुनरप्यन्यच्चिन्तितम्________________________ “प्राणस्य वृत्तयोऽक्षाणि प्राणात्तत्त्वान्तराणि वा। तद्रूपत्वश्रुतेः प्राणनाम्नोक्तत्वाच्च वृत्तयः॥ श्रमाश्रमादिभेदोक्तेर्गौणे तद्रूपनामनी। आलोचकत्वेनान्यानि प्राणो नेताऽक्षदेहयोः " इति॥
इह वागादीन्यक्षाणि मुख्यप्राणवृत्तयो भवितुमर्हन्ति। कुतः। तेषां प्राणरूपत्वश्रवणात्। " त एतस्यैव सर्वे रूपमभवन् " इति श्रुतेः। किंच प्राणशब्देनैव तानि लोके व्यवह्रियन्ते म्रियमाणस्य प्राणा नाद्यापि निर्गच्छन्तीत्यादौ। श्रुतिश्च वागादीनां प्राणनाम्नैकतामाह—” न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा
- ज्योतिराद्यधिष्ठानं तु तदामननात्—अ॰ २ पा॰ ४ अ॰ ७ सू॰ १४। + त इन्द्रियाणि तव्द्यपदेशादन्यत्र श्रेष्ठात्—अ॰ २ पा॰ ४ अ॰ ८ सू॰ १७।
१ घ. ०ख्याः स्युः। त०।
[[602]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] इत्येवाऽऽचक्षते " इति। तस्मान्न प्राणादन्यानि तत्त्वानीति प्राप्ते ब्रूम: — “तानि मृत्युः श्रमो भूत्वोपयेमे तस्माच्छ्रम्यत्येव वाक् " इत्यादिना स्वस्वविषयेषु श्रान्त्यादिमभिधाय “अथेममेव नाऽऽप्नोद्योऽयं मध्यमः प्राणो यः संचरंश्चासंचरंश्च न व्यथते " इति प्राणस्य स्वव्यापारे श्रान्त्यभावमाह। अयमेको भेदः। तथा प्राणसंवादे वागादिनिर्गमनप्रवेशयोर्देहस्य मरणोत्थानाभावमभिधाय प्राणनिर्गमनप्रवेशयोर्मरणोत्थाने दर्शयति च प्राणानुवर्तित्वात्। व्यवहारभेदश्च भूयानुपलभ्यते। स्वस्वविषयं परिच्छिद्याऽऽलोचकानीन्द्रियाणि। एतेषामेकादशेन्द्रियाणां मध्ये मनसो मुख्यत्वात्तन्नाम्ना मनोमयकोश इत्युच्यते। प्राधान्यं च मनसो वागादीन्द्रियैः स्वस्वव्यवहारेषूपजीव्यत्वादुपपद्यते। वागादयस्तु विवक्षादिदृक्षाशुश्रूषादिरूपां प्रज्ञाशब्दाभिधेयां मनोवृत्तिं पुरस्कृत्यैव व्यवहरन्ति। एतच्चान्वयव्यतिरेकाभ्यां प्रपञ्च्य कौषीतकिनः समामनन्ति—” प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति " इत्यादिरन्वयः। “न हि प्रज्ञापेता वाङ्नाम किंचन प्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह नाहमेतन्नाम प्राज्ञासिषमिति। न हि प्रज्ञापेतं चक्षू रूपं किंचन प्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह नाहमेतद्रूपं प्राज्ञासिषम् " इत्यादिव्यतिरेकः।
एतस्मिन्सर्वेन्द्रियसमष्टिरूपे मनोमयकोशे स्वात्मत्वमुपदिश्य तदेव त्द्ददि द्दढं वासयितुमुपासनाविधिमभिप्रेत्योपास्यस्वरूपं दर्शयति— स वा एष पुरुषवि॑ध ए॒व। तस्य पुरु॑षवि॒धताम्। अन्वयं॑ पुरु- ष॒विधः। तस्य यजु॑रेव॒ शिरः। ऋग्दक्षि॑णः प॒क्षः। सामोत्त॑रः प॒क्षः। आदे॑श आ॒त्मा। अथर्वाङ्गिरसः पुच्छं॑ प्रति॒ष्ठा, इति। स वा इत्यादिना। यो मनोमयः प्राणमयादभ्यन्तर आत्मत्वेनोपदिष्टः स एवैष संकल्पयाम्यहमित्यनुभूयमान उपासनार्थं पञ्चावयवोपेतः पुरुषाकार एव भवति। पूर्ववन्मूषानिषिक्तद्रुतताम्रन्यायेन प्राणमयमनुसृत्य पुरुषविधत्वम्। यजुरादयस्त्रयो वेदत्रयगता मन्त्राः। आदिश्यते विधीयतेऽनेनेत्यादेशो विधायकं ब्राह्मणवाक्यम्। अथर्वाख्येना(णा)ङ्गिरोनामकेन च महर्षिणा दृष्टाश्चतुर्थवेदगता मन्त्रा अथर्वाङ्गिरसः। तेषां चैहिकाविष्टप्राप्त्यनिष्टपरिहारौ प्रति साधनत्वेन प्रतिष्ठात्वम्। यद्यपि शब्दात्मका यजुरादयो न मनोरूपास्तथाऽपि तदालोचका मनोवृत्तिविशेषा यजुरादिशब्दैरुपल- क्ष्यन्ते।
१ ख. ०णि। ते०। २ घ. ०ति इत्यन्व०। ३ घ. ०चकम०।
[[603]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। पूर्ववदस्मिन्मनोमयेऽपि श्लोकमुदाहरति________________________ तदप्येष श्लो॑को भ॒वति। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमःप्रपाठके तृतीयोऽनुवाकः॥ ३॥