अथाष्टमे द्वितीयोऽनुवाकः।
प्रथमे द्वेषादिरूपसंभावितविघ्नपरिहाराय जप्यमन्त्रामाम्नाय द्वितीयस्यानुवाकस्याऽऽदौ कृत्स्रोपनिषत्सारं संग्रहेण सूत्रयति -
ॐ ब्र॒ह्म॒विदा॑प्नोति॒ पर॑म्, इति।
ब्रह्मवेदनेन मुक्तिः कृत्स्रोपनिषत्तात्पर्यार्थः। “बृह बृहि वृद्धौ” इत्यस्माद्धातोर्निष्पन्नो ब्रह्मशब्दो वृद्धं वस्त्वभिधत्ते। वृद्धिश्चात्र निरतिशया विवक्षिता। संकोचकयोः प्रकरणोपपदयोरभावात्। यदा त्वापेक्षिकवृद्धियुक्तं वस्तु प्रकृतं भवेत्, उपपदं वा किंचिद्वाचकं प्रयुज्येत तदा संकोचो भवेत्। न त्वेतदुभयमप्यत्रास्ति। निरतिशयवृद्धिर्नाम नित्यशुद्धत्वादिरूपा। एतदेवाभिप्रेत्य श्रीमच्छारीरमीमांसाभाष्ये भगवत्पादैरभिहितम् - “अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्ति। ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते। बृंहतेर्धातोरर्थानुगमात्” इति। ईदृग-र्थविवक्षा च सत्यं ज्ञानमित्यादिना लक्षणवाक्येन स्पष्टी करिष्यते। तथाविधं ब्रह्म वेत्ति मनसा साक्षात्करोतीति ब्रह्मवित्। “मनसैवानु द्रष्टव्यं नेह नानाऽस्ति किंचन” इति वाजसनेयिनः समामनन्ति। चक्षुरादीन्द्रिययुक्तेन तु मनसा नामरूपादिविशिष्टमेव ब्रह्म गृह्यते। न तु शुद्धम्। अतो मनसैव केवलेन द्रष्टव्यमित्युच्यते। ननु चक्षुरादिनैरपेक्ष्येऽपि। वेदवाक्यापेक्षा विद्यते ब्रह्मणः शास्त्रप्रमेयत्वात्। बाढम्। अत एवानु द्रष्टव्यमित्युच्यते। *ब्रह्मप्रतिपादकं शास्त्रमनु पश्चा-
- ब्रह्मप्रतिपादकशास्त्रश्रवणानन्तरं मनसैव द्रष्टव्यं ब्रह्मेत्यर्थः।
१ ग. जप्यं म। २ क. ख. ङ. षत्तात्पर्य। ३ क. ख. घ. ङ. द्धमु।
[[544]]
द्द्रष्टव्यम्। अत्र मनसैवेत्येवकारेण चक्षुरादिबाह्मेन्द्रियाणि व्यावृत्यानुशब्देन शास्त्रमङ्गी करोति। न च शास्त्रगम्यत्वे धर्माधर्मयोरिव परोक्षबोधः शङ्कनीयः। दृष्टान्तस्यात्र विषमत्वात्। अपरोक्षस्वभावं हि ब्रह्म, “यत्साक्षादपरोक्षाद्ब्रह्म” इति श्रुतेः। धर्माधर्मौ परोक्षस्वभावाविति वैषम्यम्। स्वतोऽपरोक्षेऽपि ब्रह्मण्यस्ति परोक्षत्वभ्रम इति चेत्सत्यम्। अत एव श्रुतिर्जगत्कारणत्वेनोपलक्षितं ब्रह्म सत्यज्ञानाद्यवान्तरवाक्येन(ण) बोधयित्वा पुनः परोक्षत्वभ्रमनिवृत्त्यर्थं तस्य ब्रह्मणो महावाक्येन प्रत्यगात्मना तादात्म्यं बोधयति। तथा च वाजसनेयिनः पठन्ति - “य एवं वेदाहं ब्रह्मस्मीति स इदं सर्वं भवति” इति। अत्रापि प्रत्यगात्मतादात्म्यमेवाभिप्रेत्य यो वेद निहितं गुहायामिति वाक्येन च प्रत्यागात्मनि परोक्षत्वभ्रमः शङ्कितुमपि न शक्यः। आबालगोपालं सर्वैरपि प्राणिभिः प्रत्यगात्मनोऽहमित्यनेन मानसप्रत्यक्षेण विस्पष्टं व्यवह्रियमाणत्वात्। यस्य *प्रत्यगात्मनः संबन्धिभिश्चक्षुरादीन्दिरियैर्गृह्यमाणा घटादयो +जडा अपि लिङ्गादिव्यवधानमन्तरेण प्रतीयमानत्वादपरोक्षा इत्युच्यन्ते, तस्य प्रत्यगात्मनो व्यवधानशङ्कारहितस्य चिद्रूपस्य स्वप्रकाशत्वस्य सर्वावभासकस्य च भ्रान्त्याऽपि कथं परोक्षत्वमाशङ्क्येत। स्वप्र-काशत्वं सर्वावभासकत्वं चाऽऽम्नायते - “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति” इति। एवं सति वस्तुतः सर्वावभासकस्य चिद्रूपस्य व्यवहारदशायां चाहंप्रत्ययेन भासमानस्य प्रत्यगात्मनो वास्तवं भ्रान्तं वा परोक्षत्वं न शङ्कितुं शक्यते। देहादिभ्यः पञ्चभ्यः कोशेभ्यो विविक्तः साक्षी परोक्ष इति चेन्न। तस्यात्यन्तापरोक्षत्वात्। यदा तिरोधायकत्वसंभावनोपेतैर्जडैर्देहादिभिः संयुक्तस्याप्यपरोक्षत्वमभ्युपगम्यते तदा तत्संयोगरहितोऽपरोक्ष इति किमु वक्तव्यम्। अतोऽपरोक्षप्रत्यगात्मतादात्म्याच्छास्त्रगम्यमपि ब्रह्मापरोक्षमेव मनसाऽवगम्यते। ननु मनसाऽवगतस्य ब्रह्मत्वमेव नास्ति। तथा च तलवकारा आमनन्ति - “यन्मनसा न मनुते येनाऽऽहुर्मनो मतम्। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” इति।
अयमर्थः। यत्साक्षिचैतन्यं सर्वो जनो मनसा विषयीकृत्यावगन्तुं न शक्नोति। येन तु साक्षिचैतन्येन तन्मनः प्रकाशितमित्यनेन * च वेदरहस्याभिज्ञाः कथयन्ति, तदेव साक्षिचैतन्यं ब्रह्मेति हे शिष्य त्वं विजानीहि। उपासकास्तु स्वातिरिक्ततया घटादिवदिदमित्यनेन दृश्यत्वाकारेण भासमानं शास्त्रसिद्धं जगत्कारणं सद्ब्रह्मोपासते,
- कैमुत्यन्यायेन परोक्षत्वाभावं साधयति। + व्वधानशङ्कोपेता अपीति शेषः। * अनेन प्रकारेणेत्यर्थः।
१ ग. क्षभ्र। २ लिङ्गव्य। ३ धानाश।
[[545]]
तदिदमुपास्यं वस्तु मुख्यं ब्रह्म न भवति। न खलु स्वातिरिक्तस्य दृश्यस्योपाधिविशिष्टस्य मुख्यब्रह्मत्वमस्तीति। अतो निषेधान्मनसा विषयीकृत्य साक्षात्क्रियमाणं न ब्रह्मेति चेन्नायं दोषः। न ह्यस्यां श्रुतौ ब्रह्मणो मनोविषयत्वमभ्युपगम्यते । अन्यथा तदेव ब्रह्म त्वं विद्धीति कथमुच्येत। साक्षिणः स्वप्रकाशस्य घटादिवन्मनोजन्यस्फुरणभास्यत्वमयु+क्तमिति चेदेवं तर्हि+ फलव्याप्यत्वं मा भूद्वृत्तिव्याप्यत्वं तु भविष्यति। साक्षिचैतन्यं ब्रह्मेत्युल्लिखन्त्या महावाक्यजन्यया मनोवृत्त्या ब्रह्मणि व्याप्यमाने सति तद्वृत्तिर्घटसंबन्धाद्धटाकारा सती जनैरपरोक्षज्ञानमित्युच्यते, तथा साक्षिसंबन्धात्साक्ष्याकाराया अस्या अप्यपरोक्षज्ञानत्वं कुतो न स्यात्। न च विषयसंबन्धादेव वृत्तेस्तदाकारत्वे वाक्यं व्यर्थमिति शङ्कनीयम्। जगत्कारणत्वेनोपलक्षितं ब्रह्म प्रत्यगात्मरूपाद्व्यतिरिक्तमित्येतादृशस्य भेदभ्रमस्य वाक्येनापोद्य(ह्य)त्वात्। तथा सति प्रत्यक्ब्रह्मैक्यरूपा वृत्तिर्भेदापवादेन विषयसंबन्धा-देव जायत इति *वाक्यजन्यमपि ज्ञानमपरोक्षमेव। यस्य तु बहिर्मुखस्य मनोवृत्तिरभ्यन्तरवर्तिना साक्षिणा न संबध्यते तस्य शब्दसामर्थ्यादेव प्रत्यग्ब्रह्मैक्यरूपा वृत्तिर्जायते। तदिदं ज्ञानं धर्माधर्मस्वर्गनरकादाविव परोक्षम्। नह्यत्र साक्षात्काराभावे वाक्यापराधो निमित्तम्। किं तु पराङ्मुखत्वलक्षणः पुरुषापराधः। यथा प्राङ्मुखस्य पश्चिमावस्थितरूपदर्शनाभावे चक्षुदोषो न निमित्तत्वेन कल्प्यते तद्वत्। स च बहिर्मुखः पुरुषो यदा निदिध्यासनशब्दवाच्येन ब्रह्मध्यानेनान्तर्मुखां सुक्ष्मवस्तुनिरूपणकुशलामेकाग्रां बुद्धिवृत्तिं संपादयति, तदाऽसौ बुद्धिवृत्तिः प्रत्यगात्मना संबध्य तदाकारा सती वाक्यानुग्रहेण भेदभ्रमं निराकुर्वती ब्रह्मसाक्षात्कार इत्युच्यते। वाक्यश्रवणात्पूर्वमेव सगुणब्रह्नोपासनेन वा पश्चान्निदिध्यासनेन वाऽन्तर्मुखस्यान्वयव्यतिरेकाभ्यां साक्षिचैतन्यं देहादिभ्यो विविच्यानुभवतोऽवान्तरवा-क्येन(ण) ब्रह्मत्वं निश्चितवतो मुख्याधिकारिणो x महावाक्येन ब्रह्मात्मसाक्षात्कार एवोत्पद्यते। न तु परोक्षज्ञानम्। तदेतदभिप्रेत्य वाक्यवृत्तावुक्तम् - “प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः। अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः॥
- अविषयत्वमिति च्छेदः। + एवं च यन्मनसा न मनुत इति श्रुतिविरोधस्तदवस्थ इति भावः। * फलव्याप्यत्वनिषेधप्रतिपादिकैव श्रुतिरिति न तद्विरोध इत्यर्थः। + ज्ञानानुकूलव्यापारजन्यज्ञानरूपफलव्याप्यत्वम्। * भेदभ्रमनिवृत्तिद्वारेत्यर्थः + सत्यं ज्ञानमित्यादिना। x भेदभ्रमनिवृत्तिद्वारेत्यर्थः।
[[546]]
इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत्। अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि॥ तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु। *पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठते” इति॥
ननु प्रत्यग्ब्रह्मणोरन्योन्यतादात्म्याङ्गीकारे सति नाखण्डैकरसत्वं सिध्यति। नीलमुत्पलमित्यत्र सत्यपि तादात्म्ये गुणद्रव्यभेदस्यापि सद्भावात्। एव-मत्राप्यात्मत्वब्रह्मत्वकृतो भेदोऽपि प्रसज्येतेति चेन्न। गुणद्रव्ययोः परस्परव्यभिचारेण वैषम्यात्। नैल्यगुणो मेघादावपि वर्तमान +उत्पलं व्यभिचरति। *उत्पलद्रव्यमपि शुक्लरक्तोत्पलयोर्वर्तमानत्वान्नैल्यगुणं व्यभिचरति। अतस्तत्रार्थभेदान्नाखण्डार्थत्वम्। इह त्वात्मब्रह्मणोः परस्परव्यभिचाराभावादेकार्थत्वे सत्यखण्डत्वसिद्धिः। एतच्च विश्वरूपाचार्यैदर्शितम् - “नाऽऽत्मता ब्रह्मणोऽन्यत्र ब्रह्मता नाऽऽत्मनोऽन्यतः। तादात्म्यमनयोस्तस्मान्नीलोत्पलविलक्षणम्” इति।
एवं तर्हि पर्यायत्वादात्मा ब्रह्मेतिपदद्वयवैयर्थ्यमिति चेन्न। प्रतिपाद्यभेदाभावेऽपि मोहकल्पितयोरब्रह्मत्वपारोक्षयोव्यार्वर्त्ययोर्भिन्नत्वात्। तदप्याचार्यैर्दशितम् - “आत्माऽपि सदिदं ब्रह्म मोहात्पारोक्ष्यदूषितम्। ब्रह्मापि संस्तथैवाऽऽत्मा +सद्वितीयतयेक्षते” इति॥
एकमेव वस्तु शास्त्रगम्यत्वाकारेण ब्रह्मेत्युच्यते। मानसप्रत्यक्षत्वाकारेणऽऽत्मेति। तत्र शास्त्रगम्यानां(णां) जगत्कारणत्वसर्वज्ञत्वादीनां परोक्षत्वेन ब्रह्मणोऽपि परोक्षत्वभ्रमः। अहंप्रत्ययरूपेण मानसप्रत्यक्षेण प्रतीयमानानां देहादीनामब्रह्मत्वात्साक्षिणि चिदात्मन्यप्यब्रह्मत्वभ्रमः। ++ तयोर्ब्रह्मात्मनोर्भेदेन पदद्वयोपयोगात्प्रतिपाद्यस्याखण्डैकरसत्वे सत्यपरोक्षप्रत्यगात्मरूपे ब्रह्मणि महावाक्येनापरोक्षज्ञानोदयात्तथाविधज्ञानोपेतः पुमानत्र ब्रह्मविच्छब्देन विवक्षितः। तादृशस्य परप्राप्तियोग्यत्वात्परमाप्नोतीति हि तत्प्राप्तिः श्रूयते। परशब्दश्चान्यत्वं + तदत्र न संभवत्यद्वितीयत्वाद्वस्तुनः । “नेह नानाऽस्ति किंचन” इति श्रुत्या निषिद्धत्वात्। उत्कृष्टार्थत्वे तु ब्रह्मैव परशब्देनाभिघातव्यमितरस्य सर्वस्य मायामयत्वेन निकृष्टत्वात्। तथा सति ब्रह्मवित्पुमान्ब्रह्मैव प्राप्नोतीत्युक्तं भवति। आथर्वणिकास्तु विस्पष्टमिदमामनन्ति-
- प्रकृत्यादित्वात्तृतीया। + उत्पलत्वमित्यर्थः। * उत्पलजातिरपील्यर्थः। + मोहादित्यत्राप्यन्वेति। ++ मोहकल्पितोपाधिविशिष्टयोरित्यर्थः। + ब्रूत इति शेषः।
१ क. ख. ग. ङ. त्मब्र। २ ग. येष्यते। ३ ख. ब्दस्यान्य। ४ क. ख. ङ. स्तुतः ने। ५ ग. ष्टार्थे तु।
[[547]]
“स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति” इति। ननु ग्रामं प्राप्नोतीत्यत्र गतिपूर्वको ग्रामसंयोगः प्राप्तित्वेन प्रसिद्धः। अतो यथा सगुणब्रह्मोपासको मूर्धन्यनाड्योत्क्रम्यार्चिरादिमार्गेण गत्वा ब्रह्मलोकं प्राप्नोति, तथाऽत्रापि ब्रह्मप्राप्तिर्वक्तव्येति चेन्न। उत्क्रान्तिगत्योर्निषेधात्। “न तस्य प्राणा उत्क्रामन्ति” इति श्रुत्योत्क्रान्तिर्निषिध्यते। गतिनिषेधश्च स्मर्यते - “सर्वभूतात्मभूतस्य सभ्यग्भूतानि पश्यतः। देवा मार्गे विमुह्यन्ति ह्यपदस्य पदैषिणः” इति।
अयमर्थः। सर्वेषां प्राणिनामात्मभूतो यो ब्रह्मवित्सोऽयं सर्वान्प्राणिनः स्वात्मत्वेन सम्यक्पश्यति तस्य मार्गे देवा अपि मुह्यन्ति। उत्तरदक्षिणाधो-मार्गेष्वातिवाहिकत्वेनावस्थिता ये देवाः सन्ति ते सर्वेऽपि मार्गत्रयगन्तृणा-मुपासकानामिष्टापूर्तानुष्ठायिनामिष्टापूर्ताननुष्ठायिनां पापिनां पदं गतिं यथा पश्यन्ति तथा ब्रह्मविदोऽपदस्य गतिरहितस्य पदैषिणो गतिमन्विच्छन्तस्तामदृष्ट्वा भ्रान्ता भवन्तीति। तस्मादस्य ब्रह्म प्राप्ति(प्त)त्वेनोपचर्यत इति। तं च विलयं श्रुतिर्दर्शयति - “न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति” इति। बोधात्पुराऽपि ब्रह्मैव सन्नज्ञानाज्जीवत्वभ्रमं प्राप्य पुनर्बोधादूर्ध्वमनुभवेनापि ब्रह्म यथा भवति तथा स्वयमप्येति विलीयते स्वकीयो जीवत्वोपाधिर्विनश्यतीत्यर्थः। यथा स्वकण्ठेऽवस्थितमाभरण-मज्ञात्वाऽन्यत्रान्विष्यन्केनचिद्वोधितो हस्तेन संस्पृश्येदानीमेतत्प्राप्तमित्युपचरति, तद्वदौपचारिकी ब्रह्मप्राप्तिर्द्रष्टव्या तदेवं ब्रह्मस्वरूपविषया मीमांसोपरिष्टाद्भविष्यति। वेदनविषया परप्राप्तिविषया चोदाह्रियते। यद्यपि पूर्वत्र सर्वत्र तत्तदनुवाकस्यावसान एव तत्तद्विषया मीमांसोदाहृता, तथाऽप्यत्र ब्रह्मविदित्यारभ्येत्युपनिषदित्यन्तस्यानुवाकस्यातिप्रौढतया तन्मध्ये मीमांसितव्यानामर्थानां बहुत्वाद्बुद्धिसौकर्याय तत्तद्वाक्यसमीप एव तत्तन्मीमांसोदाह्रियते। या तु देशविशेषे ब्रह्मविदित्यारभ्य नवानुवाका इति प्रसिद्धिः सा त्वध्यापकैः पाठसौकर्याय परिकल्पिता, न त्वर्थानुसारिणी। ते हि तदप्येष श्लोको भवतीत्यस्याः प्रतिज्ञायाः श्लोकपाठस्य च मध्ये तं तमनुवाकं समापयन्ति। न चैतद्युक्तम्। कस्यचिदप्यर्थस्य पर्यवसानाभावात्। तस्मादितरदेशगताध्यापकप्रसिद्ध्या कृत्स्रोऽप्ययमेक एवानुवाकः। एतदेवाभिप्रेत्य काण्डानुक्रमणिकाभाष्यकारो वारुण्या उपनिषदः “सह नाववतु” “ब्रह्मविदाप्नोति परम्” “भृगुर्वै वारुणिः” इत्यनुवाकत्रयात्मकत्वं व्याजहार। भारद्वाजसूत्रे मुमूर्षोः कर्णे जप्यत्वेनैवमुदाहृतम् - “ब्रह्मविदाप्नोति परम्, भुगुर्वै वारुणिरित्येतावनुवाकौ ब्रह्मविदो दक्षिणे कर्णे जपति” इति। ब्रह्मविदित्यारभ्य भृगुरित्यन्तः(तः) प्राक्तनो ग्रन्थ
१. ङ मार्गेऽपि। २ ग. घ. यिनां पा। ३ घ. मेकः स ए। ४ ङ. जपत्वे।
[[548]]
एक एवानुवाकः। येषां नवानुवाककल्पना तैषामप्येकवल्लीत्वप्रसिद्धिरस्ति। ब्रह्मावल्लीत्येवं तैर्व्याहृतत्वात्। भगवद्भिर्भाष्यकारैरप्यानन्दवल्लीत्येवं व्याहृतम्। अतो बहुस्कन्धयुक्तवल्लीवद्बहुविधावान्तरपाठभेदयुक्तोऽप्येक एवायमनुवाकः। तथा सति बुद्धिविक्षेपानुत्पादनाय तत्तद्वाक्यसमीप एव मीमांसोदाहरणं युक्तम्। अत्र यद्वेदनं ब्रह्मविच्छब्देन व्यवहृतं तस्य स्वातन्त्र्येण पुरुषार्थहेतुत्वं तृतीयाध्यायस्य चतुर्थपादे*चिन्तितम्- “क्रत्वङ्गमात्मविज्ञानं स्वतन्त्रं वाऽऽत्मनो यतः। देहातिरेकमज्ञात्वा न कुर्यात्क्रतुगं ततः॥ नाद्वैतधीः कर्महेतुर्हन्ति प्रत्युत कर्म सा। आचारो लोकसंग्राही स्वतन्त्रा ब्रह्मधीस्ततः॥
आत्मनो देहातिरेकज्ञानमन्तरेण परलोकगामित्वानिश्चयाज्ज्योतिष्टोमा-दिप्रवृत्तिरेव न स्यादिति क्रतुषु प्रवर्तकत्वेनौपनिषदमात्मज्ञानं कर्मङ्गमिति प्राप्ते ब्रूमः - देहव्यतिरिक्तात्म-ज्ञानं द्विविधम्। परलोकगामिकर्त्रात्मविज्ञान-मेकं द्वितीयं ब्रह्मात्मतत्त्वविज्ञान चेति। तत्र कर्त्रात्मज्ञानस्य प्रवर्तकत्वेऽपि नाद्वैतब्रह्मात्मतत्त्वज्ञानं प्रवर्तकम्। प्रत्युत क्रियाकारकफलनिषेधेन निवर्तकमेव। ननु तत्त्वविदामपि जनकादीनां कर्मप्रवृत्तिलक्षण आचारो दृश्यते। बाढम्। लोकसंग्रहार्थोऽयमाचारः। यदि तत्त्वविदामपि मुक्तये कर्माण्यनुष्ठेयानि स्युः कथं तर्हि प्रजादिवैयर्थ्यश्रुतिरुपपद्यते । “किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः” इति। आत्मतत्त्वरूपस्य लोकस्यापरोक्षे सत्यनात्मलोकसाधनभूतायाः प्रजाया वैयर्थ्यं श्रूयते। एवं किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामह इत्याद्युदाहरणीयम्। तस्मादात्मतत्त्वज्ञानं स्वतन्त्रपुरुषार्थसाधनं न तु कर्माङ्गम्”। तस्य च ज्ञानस्योत्पत्तिकालस्तत्रैव +चिन्तितः - “इहैव नियंत ज्ञानं पाक्षिकं वा नियम्यते। तथाऽभिसंधेर्यज्ञादिः क्षीणो विविदिषाजनौ॥ असति प्रतिबन्धेऽत्र ज्ञानं जन्मान्तरेऽन्यथा। श्रवणायेत्यादिशास्त्राद्वामदैवोद्भवादपि” इति।
श्रवणमनननिदिध्यासनेष्वनुष्ठीयमानेष्वस्मिन्नेव जन्मनि ज्ञानं जायत इति निय-
- पुरुषार्थोऽतः शब्दादिति बादरायणः। अ॰ ३ पा॰ ४ अ॰ १ सू॰ १। + ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात्। अ॰ ३ पा॰ ४ अ॰ १६ सू॰ ५९।
१ घ. त्येव व्या। २ ग. ठयु। ३ ग. ज्ञानमिति। ४ ख. पद्येत। किं।
[[549]]
म्यते न त्विहैव वा जन्मान्तरे वेति कालविकल्पः। कृतः। श्रवणादिषु प्रवर्तमानस्य पुरुषस्येच्छाया ऐहिकज्ञानोत्पत्तिविषयत्वात्। इहैव मे विद्या जायतामित्यभिसंधाय पुरुषः प्रवर्तते। न चादृष्टफलानां यज्ञादीनां * तत्साधनत्वेन स्वर्गवज्जन्मान्तरे ज्ञानोत्पत्तिः शङ्कनीया। श्रवणादिप्रवृत्तिः प्रागेव विविदिषामुत्पाद्य यज्ञादीनां *तत्साधनत्वेन स्वर्गवज्जन्मान्तरे ज्ञानोत्पत्तिः शङ्कनीया। श्रवणादिप्रवृत्तेः प्रागेव विविदिषामुत्पाद्य यज्ञादीनां चरितार्थत्वात्। तस्मादैहिकत्वेन ज्ञानोत्पत्तिर्नियम्यत इति प्राप्ते ब्रुमः - असति प्रतिबन्धे ज्ञानमिहैव संभवति। सति तु प्रतिबन्धेऽत्रानुष्ठितैः श्रवणादिभिर्जन्मान्तरे विज्ञानमुत्पद्यते। प्रतिबन्धश्च बहुविधः श्रूयते - “श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः। आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः” इति॥
न च पूर्वजन्मानुष्ठितैः श्रवणादिभिर्जन्मान्तरे ज्ञानोत्पत्तिर्न दृष्टचरेति वाच्यम्। वामदेवस्य गर्भ एवावस्थितस्य ज्ञानोत्पत्तिश्रवणात्। “गर्भ एवैतच्छयानो वामदेव एवमुवाच” इति श्रुतेः। तस्मादिह वा जन्मान्तरे वा ज्ञानोत्पत्तिः।
परमाप्नोतीत्यत्र परशब्दोऽन्यवस्तुवाची न भवति। ब्रह्मव्यतिरिक्तस्य वस्तुनोऽसत्त्वादिति यदुक्तं सोऽयमन्याभावस्तस्यैवाध्यायस्य द्वितीयपादे +चिन्तितः - “अस्त्यन्यद्ब्रह्मणो नो वा विद्यते ब्रह्मणोऽधिकम्। सेतुत्वोन्मानवत्त्वाच्च संबन्धाद्भेदवत्त्वतः॥ धारणात्सेतुतोन्मानमुपास्त्यै भेदसंगती। उपाध्युद्भवनाशाभ्यां नान्यदन्यनिषेधतः” इति॥
यदेतद्ब्रह्म नेति नेतीति दृश्यप्रतिषेधेन व्यवस्थापितम्, तस्मादपि ब्रह्मणो-ऽन्यदस्तीत्यभ्युपगन्तव्यम्। कुतः। सेतुत्वादिव्यपदेशेभ्यः। “अथ य आत्मा स सेतुर्विधृतिः” इति सेतुत्वं चोपदिश्यते। तत्र यथा लोके पारावारवाञ्जलस्य विधारकः सेतुस्तं च सेतुं तीर्त्वा जाङ्गलं प्रतिपद्यते, तथा ब्रह्मणोऽपि सेतुत्वेन जगद्विधारकत्वाद्ब्रह्म तीर्त्वा गन्तव्येनान्येन केनचिद्भवितव्यम्। तथोन्मानव्यपदेशोऽपि ब्रह्मणः श्रूयते - “चतुष्पाद्ब्रह्म” “षोडशकलं ब्रह्म” इति। तच्चोन्मानं सद्वितीय एव गवादौ दृष्टचरम्, न त्वद्वितीये कुत्रचित्। तथा संबन्धव्यपदेशः श्रूयते - “सता सोम्य तदा संपन्नो भवति” इति। स च संबन्धः सद्रूपादसतोऽन्यस्य विद्यमानतायामवकल्पते । तथा “आत्मा वा अरे द्रष्टव्यः” इति द्रष्टृद्रष्टव्यभेदव्यपदेशोऽपि भवति। तस्मान्नाद्वितीयं ब्रह्मेति प्राप्ते ब्रूमः - न तावद्ब्रह्मणः सेतुत्वं मुख्यं संभवति मृद्दारुमयत्वप्रस-
- ज्ञानसाधनत्वेन। +परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः। अ॰ ३ पा॰ २ अ॰ ७ सू॰ ३१।
१ क. ख. ततयाऽव। २ ग. यामेव क।
[[550]]
ङ्गात्। केनचित्सेतुसामान्येन सेतुत्वविवक्षायां विधारकत्वमात्रं विवक्ष्यताम्। न तु सद्वितीयत्वम्। सेतुर्विधृतिरितिश्रवणात्। उन्मानं तूपास्त्यै व्यपदिश्यते तत्प्रकरणत्वात्, न तु तत्त्वावबोधाय। भेदव्यपदेशश्चोपाध्युद्भवमपेक्ष्य घटाकाशमठाकाशवदुपपद्यते। संबन्धव्यपदेशश्चोपाधिनाशमपेक्ष्य घटभङ्गे घटाकाशमहाकाशवदुपचर्यते। तस्माद्ब्रह्मव्यतिरिक्तवस्तुसा-धकहेतूनामन्यथासिद्धत्वादेकमेवाद्वितीयमित्यन्यवस्तुनिषेधाच्चाद्वितीयमेव ब्रह्मा ।
प्राप्नोतीत्यत्र ब्रह्मलोकवत्प्राप्तिर्न भवत्युत्क्रान्तिनिषेधादिति यदुक्तं सोऽयं निषेधश्चतुर्थाध्यायस्य द्वितीयपादे *चिन्तितः - “किं जीवादथवा देहात्प्राणोत्क्रान्तिर्निवार्यते। जीवान्निवारणं युक्तं जीवेद्देहोऽन्यथा सदा॥ तप्ताश्मजलवद्देहे प्राणानां विलयः स्मृतः। x उच्छ्रयत्यत्र देहोऽतो देहात्सा विनिवार्यते”॥
“न तस्य प्राणा उत्क्रामन्ति” इति तत्त्वविदः प्राणानामुत्क्रान्तिर्निषिध्यते तस्य निषेधस्यापादानं जीवः। न तु देहः। अन्यथा देहानुत्क्रान्तौ मरणाभावः प्रसज्येतेति प्राप्ते ब्रूमः - तप्ताश्मनि प्रक्षिप्तं जलं न यथाऽन्यत्र गच्छति नापि तत्र दृश्यते किंतु स्वरूपेण लीयते तद्वत्तत्त्वविदः प्राणा देहादनुत्क्रामन्तोऽपि न देहेऽपतिष्ठन्ते किंतु विलीयन्ते। अतो जीवनासंभवान्मृतो देह इति व्यवहारः। न चानुत्क्रान्तौ न मृतो देह इति व्यवहारः। अनुत्क्रान्तानां प्राणानां देहेऽवस्थानाभावे देहस्योच्छूनत्वमेव लिङ्गम्। नन्वियतः प्रयासाद्वरं देहादुत्क्रन्तिरस्तु प्रतिषेधस्तु जीवापादानको भविष्यति। मैवम्। देहादुत्क्रम्य जीवेन सहावस्थितेषु प्राणेषु देहान्तरग्रहणस्याऽऽवश्यकत्वान्मुक्तिरेव न स्यात्। तस्मादुत्क्रान्तिप्रतिषेधस्य देह एवापादानं न जीवः"।
प्राप्तिशब्देन जीवत्वोपाधिविलयो विवक्षित इत्युक्तं सोऽपि विलयस्तत्रैव *चिन्तितः - “तस्य वागादयः स्वस्वहेतौ लीनाः परेऽथवा। गताः कला इति श्रुत्या स्वस्वहेतुषु तल्लयः॥ नद्यब्धिलयसाम्योक्तोर्विद्वद्दृष्ट्या लयः परे। अन्यदृष्टिपरं शास्रं गता इत्याद्युदात्दृतम्॥”
*प्रतिषेधादिति चेन्न शारीरात्। अ॰ ४ पा॰ २ अ॰ ६ सू॰ १२। x निश्चेष्टो भवतीत्यर्थः।
- तानि परे तथा ह्माह। अ॰ ४ पा॰ २ अ॰ ७ सू॰ १५।
१ क. ख. ङ. ब्रूमः।
[[551]]
प्रपा॰ ८ अनु॰ २) कृष्णयजुर्वेदीय तैत्तिरीयारण्यकम्। तत्त्वज्ञानिनो वागादयः प्राणा विलीयमानाः प्रातिस्विकेषु कारणेषु विलीयन्ते न तु परमात्मनि। गताः कलाः पञ्चदश प्रतिष्ठा इति कलाशब्दवाच्यानां प्राणादीनां प्रतिष्ठाशब्दवाच्यस्वस्वकारणप्राप्तिप्रतिपादिकायाः “यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यम्” इत्यादिश्रुतेरिति प्राप्ते ब्रूम: — तत्त्वविदृष्टया परमात्यन्येव लय इति श्रुत्यन्तरान्निश्चीयते– “यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्” इति।
श्रुतौ नद्यब्धिलयद्दष्टान्त उपन्यस्यते। अथ दार्ष्टान्तिके परमात्मनि लय इत्ययमर्थो न विशदस्तर्हि श्रुत्यन्तरे विशदो गम्यते— “यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते। एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते चाऽऽसां नामरूपे पुरुष इत्येवं प्रोच्यते” इति। भिद्येते विलीयेते। सेयं श्रुतिस्तत्त्वविद्दृष्टिविषया। गताः कला इति शास्रं तु तटस्थपुरुषप्रतीतिविषयम्। म्रियमाणे तत्त्वविदि समीपवर्तिनः पुरुषाः स्वस्वदृष्ट्या तदीयवागादीनामप्यग्न्यादिषु लयं मन्यन्तेऽतः श्रुत्योर्न विरोधः। तस्मात्परमात्मनि तत्त्वविदः प्राणानां विलयः"। उपाधिविलये यन्मुक्तिरूपं त(त्त)स्मिन्नेवाध्याये चतुर्थपादे *चिन्तितम्– “नाकवन्नूतनं मुक्तिरूपं यद्वा पुरातनम्। अभिनिष्पत्तिवचनात्फलत्वादपि नूतनम्॥ स्वेन रूपेणेतिवाक्ये स्वशब्दात्तत्पुरातनम्। आविर्भावोऽभिनिष्पत्तिः फलं चाज्ञानहानितः॥ “एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपपद्य स्वेन रूपेणा- भिनिष्पद्यते” इति श्रूयते। अस्यायमर्थः। सम्यक्प्रसीदत्युपाध्युपशान्ताविति संप्रसादो जीवः। स च शरीरत्रयाभिमानं परित्यज्य परं ब्रह्म मुक्तरूपेणाव- तिष्ठत इति। तत्रेतन्मुक्तिरूपं न जीवस्य पूर्वसिद्धं किंतु स्वर्गवदागन्तुकम्। कुतः। अभिनिष्पद्यत इत्युत्पाद्यत्वश्रवणात्। पूर्वसिद्धत्वे संसारदशायामपि सद्भावेन फलत्वं न स्यात्तस्मात्स्वर्गवदिदं नूतनं मुक्तिरूपमिति प्राप्ते ब्रूम: — स्वेन रूपेणाभिनिष्पद्यत इति स्वशब्देन विशेषितत्वात्पूर्वमपि विद्यत एव मुक्तिरूपम्। न चात्र स्वशब्दः स्वकीयत्वमभिधत्ते विशेषणवैर्थ्यप्रसङ्गात्। यद्यद्रूपं मुक्तावुपादत्ते तत्तत्स्वकीयमेवेति कस्य व्यावृत्तये विशे-
*सपद्याऽऽविर्भावः स्वेनशब्दात्। अ॰ ४ पा॰ ४ अ॰ १ सू॰ १
१ क. ग. घ. ङ. ०विदो द्दष्टया। २ ग. घ. ०तनमि०।
[[552]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — (प्रपा॰ ८ अनु॰ २ ) ष्येत। आत्मवाचित्वे तु स्वशब्दस्य स्वकीयत्वव्यावृत्तिः प्रयोजनम्। न चाभिनिष्पत्तिरुत्पत्तिः पूर्वसिद्धस्योत्पत्त्यसंभवात्। किं तर्हि तत्त्वज्ञानेन ब्रह्मत्वाविर्भावोऽभिनिष्पत्तिः। न चैवं सत्युपसंपद्याभिनिष्पद्यत इत्यनयोः पुनरुक्तिरिति शङ्कनीयम्। संपत्तिशब्देन तत्पदार्थशोधनस्य विवक्षितत्वत्। अभिनिष्पत्तिस्तु वाक्यार्थावबोधः। न च पूर्वसिद्धत्वे मुक्तिरूपस्य फलत्वविरोधः। निवृत्ताज्ञानरूपत्वाकारेण पूर्वसिद्धत्वाभावात्। तस्मत्पुरातनं वस्त्वेव मुक्तिरूपम्”। * तत्रैवान्यच्चिन्तितम्– “मुक्तरूपाद्ब्रह्म भिन्नमभिन्नं वा विभिद्यते। संपद्य ज्योतिरित्येवं कर्मकर्तृभिदोक्तितः॥ अभिन्निष्पन्नरूपस्य स उत्तमपुमानिति। ब्रह्मत्वोक्तेरभिन्नं तद्भेदोक्तिरुपचारतः”॥ पूर्वाधिकरणे निर्णीतं यदेतन्मुक्तस्य स्वरूपं तत्परस्माद्ब्रह्मणो भिन्नं भवितुमर्हति। कुतः। कर्मकर्तृव्यपदेशात्। “एष संप्रसादः परं ज्योतिरुपसंपद्य” इत्यत्र संप्रसादशब्दोदितो जीव उपसंपत्तौ कर्तृत्वेनोपदिश्यते। ज्योतिःशब्दवाच्यं च ब्रह्म कर्मत्वेन। तस्मान्मुक्तस्य जीवस्य स्वरूपं ब्रह्मणो भिन्नमिति प्राप्ते ब्रूम: — ज्योतिरुपसंपद्येति वाक्यं तत्पदार्थशुद्धिविषयमुक्तम्। अतस्तदानीं भेदोऽस्ति नाम। तदुपरि स्वेन रूपेणाभिनिष्पद्यत इति वाक्यं वाक्यार्थदशापन्नं मुक्तस्वरूपं प्रतिपादयति। न च तस्य ब्रह्मणा सह भेदोऽस्ति। “स उत्तमः पुरुषः” इति वाक्ये तच्छब्देनाभिनिष्पन्नरूपं मुक्तस्वरूपं परामृश्य तस्योत्तमपुरुषशब्दवाच्यब्रह्मस्वरूपत्वाभिधानात्। तस्मान्मुक्तस्वरूपं ब्रह्माभिन्नम्"। + पुनरन्यच्चिन्तितम्— “क्रमेण युगपद्वाऽस्य सविशेषाविशेषते। विरुद्धत्वात्कालभेदाद्यवस्था श्रुतयोस्तयोः॥ मुक्तामुक्तद्दशोर्भेदाद्यवस्थासंभवे सति॥ अविरुद्धं यौगपद्यमश्रौतं क्रमकल्पनम्”॥ मुक्तस्य स्वरूपभूतं ब्रह्म श्रुतिषु द्विधा प्रतिपाद्यते। क्वचित्सविशेषं क्वचि- न्निर्विशेषम्। तथा हि —“य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः” इति सविशेषत्वश्रुतिः। “स यथा सैन्धवघनोऽन-
*चि अविभागेम द्दष्टत्वातू। अ॰ ४ पा॰ ४ अ॰ २ सू॰ ४। + ब्राह्मेण जैमिनिरुपन्यासादिभ्यः। अ॰ ४ पा॰ ४ अ॰ ३ सू॰ ५।
१ क. ख. ङ. ०क्तस्य स्व०।
[[553]]
प्रपा॰ ८ अनु॰ २) कृष्णयजुर्वेदीय तैत्तिरीयारण्यकम्। न्तरोऽबाह्यः कृत्स्रो रसघन एवैवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव” इति निर्विशेषत्वश्रुतिः। ते एते सविशेषत्वनिर्विशेषत्वे मुक्तिदशायां ब्रह्मणो न युगपत्संभवतः परस्परविरुद्धत्वात्। अतः कालभेदेनोभे व्यवस्थापनीये इति प्राप्ते ब्रूम: — प्रतिपत्तृभेदाद्युगपदेव सविशेषत्वनिर्विशेषत्वे उपपद्येते। मुक्तप्रतिपत्त्या निर्विशेषत्वमेव। बद्धप्रति- पत्त्या तु मुक्तस्वरूपं ब्रह्म सर्वज्ञत्वादिगुणविशिष्टं सज्जगत्कारणत्वेनावभासते। न हि मुक्ताः पुरुषाः कदाचिदपि सर्वज्ञत्वसत्यसंकल्पत्वादिगुणयुक्ता वयमिति प्रतिपद्यन्ते। तत्प्रतिपत्तिहेतुभूताया अविद्याया विनाशितत्वात्। बद्धपुरुषास्त्वविद्यायुक्ताः सन्तो निर्विशेषमेव ब्रह्म सर्वज्ञत्वादिगुणविशिष्टं कल्पयन्ति। अतः प्रतिपत्तृभेदाद्युगपद्व्यस्थासिद्धौ किमनेन कालभेदकल्प- नेन। तस्माद्युगपदेव सविशेषत्वनिर्विशेषत्वे"। मुक्तावन्तो विशेषस्तृतीयाध्यायस्य चतुर्थपादे *चिन्तित: — “मुक्तिः सातिशया नो वा फलत्वाद्ब्रह्मलोकवत्। स्वर्गवच्च नृभेदेन मुक्तिः सातिशयैव हि॥ ब्रह्मैव मुक्तिर्न ब्रह्म क्वचित्सातिशयं श्रुतम्। अत एकविधा मुक्तिर्वेधसो मनुजस्य वा”॥ यथा ब्रह्मलोकाख्यं फलं सालोक्यसारूप्यसामीप्यसार्ष्टिभेदेन चतुर्विधम्। तत्र सार्ष्टिर्नाम चतुर्मुखेन(ण) समानैश्वर्यत्वम्। यथा वा कर्मभूयस्त्वात्फल- भूयस्त्वमितिन्यायेन स्वर्गो बहुविधस्तथा मुक्तिरपि फलत्वाविशेषात्सातिश- येति प्राप्ते ब्रूम: — मुक्तिर्नाम निजसिद्धब्रह्मस्वरूपमेव न तु स्वर्गवदागन्तुकं किंचिद्रूपमिति वक्ष्यते। ब्रह्म चैकविधत्वेन श्रुतं निर्णीतं च। तस्माच्चतुर्मुखस्य मानुषस्य वा मुक्तिरेकविधैव। सालोक्यादिविशेषस्तु जन्यरूपत्वादुपासनातारतम्येन सातिशयो भविष्यति। मुक्तिस्तु न ताद्दशीति सिद्धम्"। यथोक्तैर्दशाभिर्विचारैर्निर्णीतौ ज्ञानमोक्षौ साधनफलरूपौ ब्रह्मविदाप्नोति परमिति वाक्येन सूत्रितौ। इदानीं तस्य सूत्रस्य संक्षिप्तव्याख्यानरूपां कांचिद्दचमुदाहरति– मदे॒षाऽभ्यु॑क्ता। स॒त्यं ज्ञा॒नम॑न॒न्तं ब्रह्म॑। यो वे॑द॒ निहि॑तं॒ गुहा॑यां पर॒मे व्यो॑मन्। सो॑ऽश्नुते॒ सर्वा॒न्कामा॑न्त्स॒ह। ब्रह्म॑णा विप॒श्चितेति॑, इति।
- एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः। अ॰ ३ पा॰ ४ अ॰ १७ सू॰ ५२
१ क. ख. ङ. पत्त्वसि। २ ग. च.। ३ ग. घ. मनुष्यस्य।
[[554]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — (प्रपा॰ ८ अनु॰ २ ) तत्तस्मिन्पूर्वसूत्रार्थे तदभिप्रायपरिज्ञानार्थमेषाऽनन्तरमेव वक्ष्यमाणा काचिद्दगभ्युक्ताऽभितः कथिता। सर्वोऽपि सूत्राभिप्रायस्तस्यां विस्पष्ट इत्यर्थः। ब्रह्मविदित्युक्ते कीद्दशं ब्रह्मेत्येवं बुभुत्सोदयात्सत्यादिभिश्चतुर्भिः पदैस्तत्स्वरूपमुच्यते। तानि च पदानि समानाधिकरणत्वाद्विशेषणविशेष्यरूपाणि। यथा नीलं महत्सुगन्ध्युत्पलमित्यत्र विशेषणविशेष्यभाव- स्तद्वत्। तत्र वेद्यतया विवक्षितत्वात्प्रधानं ब्रह्म विशेष्यं सत्यादिपदानि च स्वार्थविपरीतेभ्यस्तद्ब्रह्म व्यावर्तयन्ति। ननु विवक्षितोत्पलविपरीतान्य- न्यान्युत्पलानि विद्यन्ते रक्तमुत्पलं स्वल्पमुत्पलमीषद्गन्धमुत्पलमित्येवं द्दष्टत्वात्। अतो विवक्षितस्योत्पलस्य तेभ्यो व्यावृत्तये नीलादिपदानि। अत्र त्वनृतं ब्रह्म जडं ब्रह्म परिच्छिन्नं ब्रह्मेत्येवं विपरीतानि ब्रह्माणि न सन्ति। यथाऽसावादित्य एकस्तद्वद्ब्रह्माप्येकमेव। तस्य व्यावर्त्याभावात्सत्यादिविशेषणानि व्यर्थानीति चेन्न। तेषां लक्षणरूपविशेषणत्वेन व्यावर्त्यसद्भावात्। सजातीयंमात्राव्द्यावर्तकं केवलं विशेषणम्। स्वेतरकृत्स्नव्यावर्तकं लक्षणरूपविशेषणमिति तयोर्विवेकः। तथा सत्यब्रह्मरूपेभ्योऽसत्यजडपरिच्छिन्नेभ्यो व्यावृत्तये सत्यादिपदानि भविष्यन्ति। अवकाशरूपमाकाशमित्येतस्मिल्लँक्षणे सजातीयस्याऽऽकाशान्तरस्य व्यावर्त्यस्याभावेऽपि विजातीयानि मूर्तद्रव्याणि यथा व्यावर्त्यन्ते, तद्वदसत्यादीन्यत्र व्यावर्त्य- न्ताम्। सत्यादिपदानि ब्रह्म विशेष्टुं प्रवृत्ततया परार्थत्वात्परस्परनिरपेक्षाण्येव ब्रह्मशब्देन संबध्यन्ते, सत्यं ब्रह्म ज्ञानं ब्रह्मानन्तं ब्रह्मेति। यद्वस्तु येन रूपेण निश्चीयते तच्चेत्कदाचिदपि तद्रूपं न व्यभिचरेत्तदा तद्वस्तु सत्यमित्यु- च्यते। यथा सर्पस्याधिष्ठानभूता रज्जुः। यस्य तु व्याभिचारोऽस्ति तदनृतम्। यथा रज्ज्वां प्रतीतः सर्पस्तथा सर्वजगधिष्ठानभूता रज्जुः। यस्य तु व्यभिचारोऽस्ति तदनृतम्। यथा रज्ज्वां प्रतीतः सर्पस्तथा सर्वजगदधिष्ठानभूतं ब्रह्म मुक्तावपि व्यभिचाराभावात्सत्यम्। ज्ञानबाध्यत्वेन मुक्तौ व्यभिचरितत्वाज्जगदनृतम्। अत एवमाण्डूक्यश्रुतिर्जगतो मिथ्यात्वं दर्शयति—“मायामात्रमिदं द्वैतम्” इति। छन्दोगाश्च द्दष्टान्तत्वेन विकारस्य विकारस्य घटादेरनृतत्वं प्रकृतेश्च मृत्तिकायाः सत्यत्वमामनन्ति—“वाचारम्भणं विकारो नामधेयं मृत्तकेत्येव सत्यम्” इति। ब्रह्म जडं भवितुमर्हति सत्यत्वान्मृत्तिकावदित्याशङ्कय ज्ञानमित्युच्यते। व्यावहारिकसत्यं त्वचिद्रूपमित्यभिप्रायः। ब्रह्म परिच्छिन्नं भवितुमर्हति ज्ञानशब्दार्थत्वाद्धटज्ञानवदित्याशङ्क्यानन्तमित्युच्यते। ज्ञायते स्फोर्यते घटादिकमनेनेति व्युत्पत्त्या घटस्फुरणयोः संबन्धजनकोऽन्तःकरणवृत्तिविशेषो लोके ज्ञानशब्दस्यार्थः। स च भौतिकः। “अन्नमयं हि सोम्य मनः” इति श्रुतेः। तस्माद्युक्तं तस्य ज्ञानस् परिच्छिन्नत्वम्। इह तु ज्ञप्तिर्ज्ञानमिति व्युत्पत्त्या स्फुरणमेवोच्यते, तस्य भौतिकत्वाभावादनन्तत्वम्। अन्तः परिच्छेदः। स च त्रिविध: —
१ क. ख. घ. ङ. र्तलरूपं लक्षणमिति।
[[555]]
प्रपा॰ ८ अनु॰ २) कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। देशकृतः कालकृतो वस्तुकृतश्चेति। तत्र “आकाशवत्सर्वगतश्च नित्यः " इति श्रुत्या सर्वदेशसर्वकालसंबन्धावगमाद्देशकालपरिच्छेदौ न स्तः। “ब्रह्मैवेदममृतं पुरस्तात्पश्चाद्बह्म दक्षिणतश्चोत्तरेण। अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्” इति श्रुतौ सर्वदेशकालसंबन्धवत्सर्ववस्त्वात्मकत्वस्यापि श्रवणाद्बह्मव्य-तिरिक्तवस्त्वभावेन वस्तुपरिच्छेदोऽपि नास्ति। तदेवं सत्यादिशब्दैर्मिथ्या- त्वजाड्यपरिच्छेदेभ्यो यव्द्यावर्तितं तद्बह्मेति वाक्यार्थः संपद्यते। ननु सत्यादिपदानामतव्द्यावृत्तिपरत्वाद्बह्मशब्दार्थस्योत्पलादिशब्दार्थवल्लोके प्रसिद्धयभावाद्वाक्यं शून्यपरं प्रसज्येत– “मृगतृष्णाम्भसि स्रातः खपुष्पकृतशेखरः। एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः” इतिवाक्यार्थवदिति चेन्न। बृंहतेर्धातोरर्थानुगमेन ब्रह्मशब्दार्थस्य प्रसिद्ध- त्वात्। प्रकारान्तरेणापि प्रसिद्धिर्दर्शिता—“सर्वस्याऽऽत्मत्वाच्च ब्रह्मास्तित्व- प्रसिद्धिः। सर्वो ह्यात्मास्तित्वं प्रत्येति” इति। ब्रह्मणश्चाऽऽत्मत्वादस्तित्वं प्रसिद्धम्। ब्रह्मणश्चाऽऽत्मत्वम् “अयमात्मा ब्रह्म” इत्यादिश्रुतिसिद्धम्। अतः शून्यार्थत्वाभावे सति सत्यादिपदानां विशेषणत्वं लक्षणत्वं चोपपद्यते। अन्यथा किं विशेष्येत किं वा लक्ष्येत। वस्तुतो ब्रह्मान्तराभावेऽप्याविद्यादशायामनृतजडपरिच्छिन्नैरुपाधिभिरुपहितत्वाकारेणानृतत्वादिधर्मविशिष्टानां त्रयाणां ब्रह्मान्तराणां सजातीयानां सद्भावाद्विवक्षितं ब्रह्म तेभ्यो ब्रह्मभ्यः सत्यादिपदैर्विशेष्यते। लक्षणपक्षे तु विजातीयेभ्योऽप्युपाधिभ्यो व्यावर्त्यते। यथा द्रष्टुदर्शनद्दश्यादित्रिपुटीव्यवहाराव्द्यावर्त्य भूमपदार्थो लक्ष्यते तद्वत्। तथा च च्छन्दोगा आमनन्ति—“यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा " इति। अन्योऽन्यत्पश्यतीत्येवमादिका त्रिपुटी यस्मिन्पदार्थे नास्तिस पदार्थो भूमेत्यतव्द्यावृत्त्या सर्वव्यवहाररहितं वस्तु लक्ष्यते। एवमत्रापि सत्यादिपदैर्मिथ्यात्वादिव्यावृत्त्या तद्रहितं ब्रह्म लक्ष्यताम्। अत्र केवलविशेषणत्वपक्षे सत्यादिपदानि त्रीण्यपि परस्परनियामकत्वेन मिलित्वा ब्रह्मस्वरूपं प्रतिपादयन्ति। तथा हि—बाधराहित्यवाची सत्यशब्दस्रिविधं सत्यमाचष्टे। प्रातिभासिकं व्यावहारिकं पारमार्थिकं चेति त्रैविध्यम्। शुक्तिरजतादीनां यावत्प्रतिभासं बाधराहित्यात्प्रातिभासिक(कं) सत्यत्वम्। पृथिव्यादिभूतानां शरीरादिभौ- तिकानां च तत्त्वज्ञानोदयात्पूर्वं लोकव्यवहारे बाधाभावाव्द्यावहारिकं सत्यत्वम्। वेदान्तोत्पादितविज्ञानादूर्ध्व-
*व्यावर्त्यत इत्यर्थः।
१ घ. ०स्ताद्बह्म पश्वा०। २ घ. ०वाक्यव०। ३ क. ङ. ०णां स ०। ४ ग. ०र्विशिष्य०। ५ ग. घ. ०हारैर्बाधा०।
[[556]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — (प्रपा॰ ८ अनु॰ २ ) मपि बाधाभावाद्ब्रह्मणः पारमार्थिक(क) सत्यत्वम्। तत्राविशेषेण त्रिष्वपि प्रवर्तमानः सत्यशब्दो ज्ञानानन्तशब्दाभ्यां नियमितः सन्ब्रह्मण्येव पर्यवस्यति। न हि व्यावहारिकप्रातिभासिकयोश्चिद्रूपत्वमपरिच्छिन्नत्वं वाऽस्ति। ज्ञानशब्दोऽपि चिद्वस्तुनि बुद्धिरूपज्ञाने च प्रवर्तमानः सत्यानन्तशब्दाभ्यां नियमितश्चिद्रूपे ब्रह्मम्येवावतिष्ठते। न खलु बुद्धिवृत्तिर्ब्रह्मवदत्यन्तमबाध्या त्रिविधपरिच्छेदरहिता वा। अनन्तशब्दश्च देशपरिच्छेदरहित आकाशे सर्वपरिच्छेदरहिते ब्रह्मणि च प्रवर्तमानः सत्यज्ञानशब्दाभ्यां नियमितो ब्रह्मण्येवावतिष्ठते। न ह्याकाशस्य पारमार्थिकं सत्यत्वं स्फुरणत्वं वाऽस्ति। तदेवं परस्परं नियमितीनि त्रीणि सत्यादिपदानि कूटस्थं चिद्रूपमद्वितीयं ब्रह्म प्रतिपादयन्ति। तदुक्तं पूर्वाचार्यै: — “कौटस्थ्यमेव सत्यत्वं स्पुरणं ज्ञानमुच्यते। आनन्त्यमेकता चैवं बोध्यते ब्रह्म तैस्रिभिः” इति॥ तेष्वनन्तशब्द इतरव्यावृत्तिमुखेनैव ब्रह्म विशिनष्टि। सत्यज्ञानशब्दौ तु स्वार्थरूपं कूटस्थत्वं स्फुरणं च *समर्पयन्तौ तद्विपरीतं मिथ्यात्वं जाड्यं चार्थान्निवारयन्तौ विशेषणत्वं प्राप्नुतः। तदुक्तं वार्तिककृद्भि: — “तत्रानन्तोऽन्तवद्वस्तुव्यावृत्त्यैव विशेषणम्। स्वार्थार्पणप्रणाड्या च परिशिष्टौ विशेषणम्॥ + शब्दात्प्रतीयते तावत्संगतिर्धर्मधर्मिणोः। मानान्तरादपोहस्तु न शाब्दस्तेन स स्मृतः” इति॥ सत्यत्वज्ञानत्वयोर्मिथ्यात्वजडत्वयोश्च सहावस्थानान्यथानुपपत्तिर्माना- न्तरम्। यद्यपि धर्मधर्मिसंबन्धो न वास्तवस्तथाऽपि ब्रह्मबोधस्य द्वारं भवत्येव। मिथ्याभूतेन प्रतिबिम्बेन सत्यबिम्बावबोधदर्शनात्स्वप्नकामिनीदर्शनेन भाविश्रेयःसूचनाच्च। तदेवं सत्यादिविशेषणत्रयेण ब्रह्मस्वरूपावबोधादेतावद्ब्रह्मणो लक्ष्णम्। यद्वा तेषां पदानामेकैकमेव निरपेक्षं ब्रह्मलक्षणम्। सत्यशब्देन मिथ्याभूतयोर्ज्ञानतत्कार्ययोर्व्यावृत्तौ सत्यामखण्डबोधं ब्रह्मैकमेव परिशिष्यते। ब्रह्मण उपलक्ष्यको यः सत्यत्वधर्मः सोऽप्यविद्याकार्यत्वान्मिथ्यैवेति सत्यशब्देनैव व्यावर्त्यते।यथा कलुषिते जले प्रक्षिप्तं कतकरजः पूर्वकालुष्यं निवर्तयत्स्वयमपि निवर्तते। यथा वा भुक्तान्नजरणाय स्वीकृत- मौषधन्नं च स्वात्मानमपि जरयति तद्वात्। न च सत्यत्वर्धमे व्यावर्तिते सति ब्रह्मणो मिथ्यात्वं
*बोधयन्तावित्यर्थः। +संबन्ध इत्यर्थः।
१ घ. वर्तमानः। २ ग. घ. वर्तमानः। ३ घ. ०ण्येव ति०। ४ ग. घ. वर्तमानः। ५ ग. ०स्परनि०।
[[557]]
प्रपा॰ ८ अनु॰ २) कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। प्रसज्येतेति शङ्कनीयम्। मिथ्यात्वस्याऽऽदावेव निवर्तितत्वात्। न हि कतक- रजसो निवृत्तौ पूर्वकालुष्यं पुनरागच्छति। नाप्यौषधे जीर्णे पुनरन्नजमजीर्णं भवति। सत्यत्वमिथ्यात्वयोरुभयोरपि व्यावृत्तौ निर्धर्मकं ब्रह्मेति लक्षितं भवति। न च ताद्दशं नास्त्येवेति शङ्कनीयं सदात्मरूपत्वानुपपत्तेः। सद्रूपत्वमात्मरूपत्वं च च्छन्दोगा आमनन्ति “सदेव सोम्येदमग्र आसीत्” इति सद्वस्तु प्रक्रम्य—“तत्सत्यं स आत्मा” इति श्रवणात्। अतो यदत्र सत्यशब्देन विवक्षितं तदेव सद्रूपमात्मरूपं चेत्यवगम्यते। न हि तेजसस्तमस्त्वमिव सतोऽसत्ता संभवति। आत्मनोऽसत्त्वं भाष्यकारवचनमुदाहृत्य पूर्वमेव निराकृतम्। किंच सत्यत्वमिथ्यात्वादिकल्पनाया अधिष्ठानत्वादपि ब्रह्मणो नासत्यत्वम्। न हि निरधिष्ठानो भ्रमः संभवति। एतदेवाभिप्रेत्य च्छान्दोग्ये “तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत” इति परकीयमतत्वेनासत्पक्षमुपन्यस्य “कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेत” इति तं पक्षं दूषयित्वा “सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्” इति सत्पक्षं स्वकीयमतत्वेनोपसंहरति। युक्तश्चा- यमेव पक्षः। असतो जगदुपादानत्वे तु पृथिवी नास्त्यापो न सन्तीति सर्व जगदसदनुविद्धं प्रतीयेत न त्वेवं प्रतीयते। किं त्वस्ति पृथिवी नास्त्याप इत्येव सदनुविद्धमेव सर्वं प्रतीयते। तस्माज्जगत्कारणं ब्रह्म सद्रूपमेव।
यथा छान्दोग्ये ब्रह्मणः कारणत्वमुपजीव्य सत्त्वासत्त्वपक्षयोर्गुणदोषावु- पन्यस्तावेवमत्रापि ब्रह्मणः प्रत्यगात्मरूपत्वमुपजीव्य सत्त्वासत्त्वपक्षयो- स्तावपन्यसिष्येते________________________“असन्नेव स भवति। असद्ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुः” इति। कठाश्चाऽऽमनन्ति—“अस्तीत्येवोपलब्धव्यः” इति। तस्माद्वस्तुतः सत्यत्वर्धमरहितमपि ब्रह्म तत्कल्पनाधिष्ठानत्वात्सद्रूपमेव। “परस्परविरोधे हि न प्रकारान्तरस्थितिः” इतिन्यायेन सत्यत्वमिथ्यात्वोभयराहित्यमयुक्तमिति चेत् । मैवम्। नपुंसकव्यक्तिवदुपपत्तेः। यथा परस्परविरुद्धस्रीत्वपुरुषत्वोभयरहिता सा व्यक्ति-स्तद्वत्। प्रत्यक्षेण प्रमिताऽसौ व्यक्तिरिति चेत्तर्हि ब्रह्मापि श्रुत्या प्रमीयताम्। श्रुतिस्तु सत्यं ब्रह्मेति सत्यशब्दवाच्यत्वं ब्रुवती सत्यत्वर्धममङ्गी करोतीति चेन्न। “यतो वाचो निवर्तन्ते” इति वाच्यत्वप्रतिषेधश्रुतेः। सत्यशब्दस्तु *व्यावहारिकसत्यत्वधर्मवाचकतया लोके व्युत्पन्नः सन्ब्रह्मण्यारोपितं व्यावहारिकसत्यत्वधर्ममुपजीव्य तद्विरुद्धं मिथ्यात्वं निराकुर्वन्धर्मद्वयरहितं सन्मात्रं ब्रह्मतत्त्वं +लक्षयति। यथा पादतले लग्नकण्टकमन्येन कण्टकेनोद्धृत्य कण्टकद्वयं परित्यज्य केवलं(लं)पादमवशेषयंति तद्वत्। तस्मात्सत्यं ब्रह्मेत्येतल्लक्षणं निर्दो-
*व्यावहारिकश्वासौ सत्यत्वधर्मश्वेति समासः। + बोधयसीत्यर्थः।
१ ग. ०वृत्तेः पू०। २ ख. नास्तीति। ३ क. ख. घ. ङ. ०त्मत्वं छन्दो ०। ४ ख. ० ० ० त्मा” इत्युपसंहारात्। ५ ग. घ. ०ति तत्पक्षं। ६ क. ख. ङ. ०कत्वव्य०।
[[558]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] षम्। ननु ज्ञानं ब्रह्मणि क्रिया प्रसज्येत। तथा हि। ज्ञायतेऽनेनेति व्युत्पत्तौ ब्रह्मणो ज्ञानक्रियाकरणत्वं भावार्थव्युत्पत्तौ तु क्रियारूपत्वम्। न चोभयं युज्यते। “निष्कलं निष्क्रियं शान्तम्” इति क्रिया प्रतिषिध्यते। तस्मादेत- ल्लक्षणं दुष्टमिति चेत्। मैवम्। सत्यशब्दवज्ज्ञानशब्दस्यापि लक्षणत्वात्। धात्वर्थस्तु बुद्धेर्वृत्तिः। तथा चोदपदेशसाहस्र्यामभिहितम्— “आत्माभासस्तु तिङ्वाच्यो धात्वर्थश्च धियः क्रिया। अभयं त्वविवेकेन जानातीत्युच्यते मृषा॥ चैतन्यप्रतिबिम्बेन व्याप्तो बोधोऽभिजायते। बुद्धेः शब्दादिनिर्भासस्तेन मोमुह्यते जगत्” इति॥ चैतन्यप्रतिबिम्बयुक्तायां शब्दस्पर्शादिविषयावभासिकायां बुद्धौ व्युत्पन्नो ज्ञानशब्दो ब्रह्मण्यारोपितसर्वद्दश्यभासकत्वधर्मं जडत्वनिवारणायोपजीव्य ततस्तेनापि धर्मेण विरहितं नित्यचैतन्यं प्रत्यगात्मरूपं ब्रह्मतत्त्वमुपलक्षयति। तदेतत्सर्वं वार्तिककारैर्विस्पष्टमभिहितम्– “बुद्धेः प्रत्ययकारित्वं तत्साक्षिण्युपचर्यते। आत्मचैतन्यसंदीप्तां वृत्तिं धीः कुरुते यतः॥ चैतन्यालिङ्गिताः सर्वास्तप्तायोविस्फुलिङ्गवत्। धीवृत्तयो हि जायन्ते न क्वचिच्चिद्विवर्जिताः॥ चैतन्यखचितान्द्दष्ट्वा प्रत्ययान्बुद्धिकर्तृकान्। ज्ञानं क्रियत इत्याज्ञाः कूटस्थमिति मन्वते॥ बुद्ध्यभावादवच्छिन्नं न द्दग्रूपं यथा पुरा। बुद्धयुत्पत्तावपि तथा निष्क्रियं ह्यनुभूयताम्” इति॥ “न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यते। स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्रो रसघन एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव” इत्यादिश्रुतेर्नित्यचैतन्यैकरसस्वभावावगमात्ताद्दशस्यैव निष्क्रियस्यऽऽ- त्मनो ज्ञानशब्देन लक्ष्यमाणत्वाज्ज्ञानं ब्रह्मेत्येतल्लक्षणमपि निर्दोषमेव। नन्वनन्तं ब्रह्मेतिलक्षणे त्रिविधपरिच्छेदनिषेधात्तदभावविशिष्टं ब्रह्मेति प्राप्नुयात्। इह भूतले घटो नास्तीति निषेधेन यथा घटाभाववैशिष्ट्यं भूतलस्य प्रतीयते तद्वत्। तथा च नाखण्डैकरसत्वसिद्धिरिति चेन्मैवम्। वस्तुपरिच्छेदनिषेधेन ब्रह्मव्यतिरिक्तस्य *वास्तवस्याभावस्यापि निषेधान्मायाकार्यमेवाभा
- व्यावहारिकस्येत्यर्थः।
१ ग. ०याखार०। २ ग. ०पितं स०। ३ ख. इत्यज्ञः। ४ ख. मन्यते।
[[559]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। वमुपजीव्य परिच्छेदं व्यावर्त्य कतकरजोन्यायेनैनमप्यभावं व्यावर्त्य सदेक- रसमेव लक्ष्यते। तथा सति श्रुत्यन्तरे “सदेव सोम्य” इत्यवधारणमुपपद्यते। तस्मादनन्तं ब्रह्मेत्येतदपि लक्षणमदुष्टमेव। तदेतदभिप्रेत्य वार्तिककार आह— “कालाकाशादियोनित्वात्सर्वात्मत्वात्तथाऽऽत्मनः। वस्त्वन्तरस्य चाभावान्मुख्यानन्त्यं परात्मनः॥ कल्पितेन परिच्छेदो न ह्यकल्पितवस्तुनः। कल्पितश्चेह कालादिर्वाचारम्भणशास्रतः” इति॥ अनेनैव सत्यादिन्यायेन “विज्ञानमानन्दं ब्रह्म” “अत्रायं पुरुषः स्वयंज्यो- तिर्भवति” “पूर्णमदः पूर्णमिदम्” इत्यादिश्रुतिषूक्ता आनन्दस्वयंज्योतिःपू- र्णादिशब्दाः प्रत्येकं लक्षणत्वेन योजनीयाः। तदर्थमानन्दादयो गुण अपसंहर्तव्याः। ब्रह्मणि निवर्तनीयानां पुरुषभ्रान्तीनां बहुत्वेन लक्षणबाहुल्यम्। न त्वेतावता ब्रह्मणो बहुविधत्वमस्ति। निर्विशेषमेव सर्वैरपि लक्षणैः प्रतिपाद्यते। आनन्दाद्युपसंहारस्तृतीयाध्यायस्य तृतीयपादे चिन्तित: — “अनाहार्या उताऽऽहार्या आनन्दाद्यास्तु नाऽऽहृतिः। वामनीसत्यकामादेरिवैतेषां व्यवस्थितेः॥ विधीयमानधर्माणां व्यवस्था स्याद्यथाविधि। प्रतिपत्तिफलानां तु सर्वशाखासु संहृतिः”॥ “आनन्दो ब्रह्म” “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यान्दसत्यत्वादयस्तैत्तिरीयके परब्रह्मविद्यायां पठ्यन्ते। ते “प्रज्ञानं ब्रह्म” इत्याद्यैतरेयकादिप्रोक्तासु परविद्यासु नोपसंहर्तव्याः। वामनीत्वादिवव्द्यवस्थोपपत्तेः। “एष उ एव वामनीरेष उ एव भामनीः” इति कामनेतृत्वभासकत्वादयो गुणा उपकोसलविद्यायामाम्नाताः। “सत्यकामः सत्यसंकल्पः” इति सत्यकामत्वादयो दहरविद्यायामाम्नाताः। “तत्र यथा परस्परं गुणानुपसंहार एवमानन्दादीनां व्यवस्थाऽस्त्विति प्राप्ते ब्रूम: — विषमो द्दष्टान्तः। वामनीत्वादीनां ध्येयत्वेन विधीयमानत्वाद्यथाविधि व्यवस्था युक्ता। आनन्दादयस्तु प्रतिपत्तिफला इति न विधीयन्ते। अतो व्यावस्थापकविध्यभावात्प्रतिपत्तिफलस्य सर्वत्र समत्वाच्चाऽऽनन्दादय उपसंहर्तव्याः”।
- आनन्दादयः प्रधानस्य। अ॰ ३ पा॰ ३ अ॰ ६ सू॰ ११।
१ घ. ०न्ते। “प्र०। २ क. ख. ङ. ०नीत्यादि०। ३ ग. ०ष ए०। ४ क. ग. घ. ङ. ० ० ०कामाद०। ५ क. ख. ङ. ०नीत्यादी ०।
[[560]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] ब्रह्मणो निर्विशेषत्वं तत्रैव द्वितीयपादे *चिन्तितम्— “ब्रह्म किं रूपि वाऽरूपि भवेन्नीरूपमेव वा। द्विविधश्रुतिसद्भावाद्ब्रह्म स्यादुभयात्मकम्॥ नीरूपमेव वेदान्तैः प्रतिपाद्यमपूर्वतः। रूपं त्वनूद्यते ध्यातुमुभयत्वं विरुध्यते॥ “तदेतच्चतुष्पाद्ब्रह्म” इत्यादिश्रुतयो रूपवद्ब्रह्म प्रतिपादयन्ति। “अस्थूलम- नणु” इत्यादिश्रुतयो नीरूपम्। तस्माद्वस्तुत उभयात्मकं ब्रह्मेति प्राप्ते ब्रूम: — नीरूपमेव शास्रप्रतिपाद्यं मानान्तरासिद्धत्वात्। जगत्कर्तृत्वादिरूपयुक्तं तु ब्रह्म क्षित्यादिकं सकर्तृकं कार्यत्वादित्यनुमानेनावगन्तुं शक्यमत एवोपासनायामनूद्यते न तु तात्पर्येण प्रतिपाद्यते। न चानुमानशास्रसिद्धयोरुभयोर्वास्तवत्वमेकस्मिन्वस्तुनि सरूपत्वनीरूपत्वयोर्विरुद्धत्वात्। तस्मादतात्पर्यविषयस्य सरूपत्वस्य भ्रान्तत्वान्नीरूपमेव तत्त्वतो ब्रह्म। तदेतदखण्डैकरसं ब्रह्म सत्यज्ञानादिवाक्येन लक्षितम्। ब्रह्मविदाप्नोति परमितिसूत्रस्य व्याख्यानरूपायामृचि प्रथमपादेन ब्रह्मशब्दार्थं व्याख्यायावशिष्टेन यो वेदेत्यादिना पादत्रयेण वेदनपरप्राप्ती व्याख्यायेते। यः पुमान्वेद स पुमानश्नुते व्याप्नोति। किं वेदेत्याशङ्क्यैतदुच्यते—गुहायां परमे व्योमन्निहितमिति। अन्नमयाद्यानन्दमयान्तानां वक्ष्यमाणानां पञ्चकोशानां समुदायो गुहा। तथा चान्यत्रोक्तम्-
“देहादभ्यन्तरः प्राणः प्राणादभ्यन्तरं मनः। ततः कर्ता ततो भोक्ता सेयं परम्परा” इति॥ यदेतत्पञ्चकोशोपादानकारणमव्याकृतं तदेतत्परमं व्योमेत्युच्यते। तच्चाव्याकृतं संप्रदायविद्भिर्दर्शितम्–“शरीरद्वयकारणमात्माज्ञानं साभास- मव्याकृतमित्युच्यते” इति। श्रुतिश्च सर्वस्यास्य जगत उत्पत्तेः प्रागव्याकृतत्वं दर्शयति—“तद्धेदं तर्ह्यव्याकृतमासीत्” इति। अस्पष्टदशापन्नत्वमव्या- कृतत्वम्। तच्चाव्याकृतममूर्तत्वसाम्येन वाजसनेयिनोऽक्षरब्राह्मणे गार्गीयाज्ञवल्क्यप्रश्नोत्तरयोराकाशशब्देन समामनन्ति—“कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च” इति प्रश्नः। “एतस्मिन्खल्वक्षरे गार्गि आकाश ओतश्च प्रोतश्च” इत्युत्तरम्। तस्य चाऽऽकाशस्य लोकप्रसिद्धाकाशवाय्वादिपञ्चमहाभूतकारणत्वात्परमत्वम्। तस्मिन्परमाकाशे निहितमवस्थितं ब्रह्म। यद्यप्यविनाशिन्यक्षरशब्दवाच्ये सर्वाधिष्ठाने ब्रह्मण्यव्याकृतपञ्चभूतादिकं जगदारोपितं सदवस्थितम्। तथाऽपि
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि। अ॰ ३ पा॰ २ अ॰ ५ सू॰ ११।
१ घ. नायानू। २ घ. नप्रा । ३ क. ख. ङ. तदिदं। ४ ङ. तात्मकं।
[[561]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। बुभुत्सोर्बुद्धिर्बाह्यान्रूपरसादिविषयानुपेक्ष्यान्नमयादिक्रमेणाव्याकृतपर्यन्तं प्रविश्य निष्प्रपञ्चब्रह्मतत्त्वं साक्षात्करोति। तस्माद्बुभुत्सुद्दष्टिमपेक्ष्य परमे व्योमन्नवस्थितमित्युपचर्यते। यद्वा गुहायां परमे व्योमन्निति सामानाधि- करण्यादव्याकृतमेव गुहाशब्देनाप्यभिधीयते। सर्वस्य जगतस्तत्र निगूढ- त्वात्। अथवा हृदयपुण्डरीकस्य मध्ये स्वाङ्गुष्ठपरिमितो यः प्रसिद्ध आकाशः स एवात्र परमं व्योमेत्युच्यते। जागरणव्यवहारहेतुं स्वप्नव्यवहारहेतुं देहम- ध्यवर्त्याकाशं बाह्याकाशं चापेक्ष्य सर्वदुःखरहितयोः सुषुप्तिसमाध्योः स्थानत्वेन हृदयाकाशस्योत्कृष्टत्वं युक्तम्। तस्मिन्नाकाशेऽवस्थिता बुद्धिर्गुहा तस्यां ज्ञातृज्ञेयज्ञानरूपत्रिपुटीव्यवहारस्य भ्रान्तिविवेकाभ्यां संपादितयोर्भोगमोक्षयोश्च निगूढत्वात्तया बुध्द्योपलभ्यत्वेन ब्रह्म तत्र निहितम्। तत्र हि प्रत्यग्ब्रह्मास्ति। एतच्च वार्तिके स्पष्टमुक्तम्— “ज्ञातुर्हार्दगुहान्तस्थं प्रतीचोऽन्यन्न लभ्यते। सत्यादिमदतो ब्रह्म प्रत्यगात्मैव तद्विदः” इति। स्वरूपत्वेऽपि कामाविद्यादिभिरावृतत्वाद्ब्रहिर्मुखैर्नोपलभ्यते। अन्तर्मु- खैस्तु तदावरणबाधादुपलभ्यते। तदप्युक्तम्— “बुद्धौ निगूढं तद्ब्रह्म कामाविद्याद्युपप्लवात्। प्रत्यग्धियोऽनुपश्यन्ति न तु बाह्यधियोऽपरे। सत्याद्यर्थविरुद्धेभ्यः सम्यग्व्यावृत्तधीर्यतिः। धियः प्रत्यक्प्रविश्याथ सत्यात्मानं प्रपश्यति” इति। ब्रह्मप्रतीचोरेकत्वे सति वेद्यवेदितृवेदनाभावेन वेदनमयुक्तभिति चेन्न। वेदनसर्वकामप्राप्तिमुक्त्यादिव्यवहाराणामौपचारिकत्वात्। तदप्युक्तम्— “ज्ञात्रभेदात्तु तद्ब्रह्म ह्यनीप्सिततमं परम्। ज्ञातुरन्यस्य चाभावाद्यो वेदेत्युच्यते कथम्। सत्यादिलक्ष्याऽज्ञानोत्थासत्याद्यर्थनिषेधधीः। एवं चाऽऽप्तमवाप्नोति केवलाज्ञानहानतः। तद्वज्ज्ञातं विजानाति विमुक्तश्च विमुच्यते। निवर्तते निवृत्तं च त्रिर्वः शपथयाम्यहम्” इति। यथा ज्ञातृज्ञानज्ञेयभेदाभावेऽपि दशमस्त्वमसीतिवाक्येन स्वकीयं दशत्वं बुध्यते तथा स्वकीयं ब्रह्मत्वमप्यवबुध्यताम्। अबुद्धे तु स्वकीये ब्रह्मत्वे ब्रह्मबोधमात्रेण
१ ग. घ. तच्च। २ क. ग. ङ. ०न्तस्थे प्र०। ३ क. ख. ङ. ०र्यतः। धि०। ४ ग. घ. ० धीः। वर्त्मनैवाऽऽप्तमाप्नो ०। ५ घ. एवं ज्ञानं। ६ ग. ०ज्ज्ञानं वि०। ७ ग. ०कीयद०। ७१
[[562]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] स्वतीयो जीवत्वभ्रमो न निवर्तते। तस्माद्गुहानिहितं प्रत्यक्त्वमेव ब्रह्मतया विद्यात्। एतावता सूत्रोक्तं वेदनं व्याख्यातम्। सोऽश्नुत इत्यादिना प्रप्राप्तिर्व्याख्यायते। स ब्रह्मवित्पुमान्सर्वान्कामान्सर्वप्राणिगतान्भोगान्सहाश्नुते युगपदाप्नोति। अज्ञानी पुरुषः क्रमेण विविधानि स्वकर्मफलभूतानि शरीराणि गृहीत्वा चक्षुरादिकरणापेक्ष उपाधिकृतेन जलसूर्यकादिवत्प्रतिबिम्बभूतेन जीवरूपेण तं तं भोगमनुभवति। ज्ञानी तु विपश्चिता ब्रह्मणा सर्वज्ञब्रह्मरूपेण सर्वान्भोगान्युगपदनुभवति। तदेत्पूर्वाचार्यैरप्युक्तम्________________________ “अवगत्याखिलान्कामानेकदा क्रमशून्यया। ब्रह्मज्ञानी सदा वेत्ति ततः सर्वज्ञ ईरितः। आदावन्ते तथा मध्ये धियोऽनेकशरीरगाः। स्वप्रकाशचिता व्याप्ता ह्यनन्यानुभवात्मना” इति। ननु “द्वा सुपर्णा” इतिमन्त्रेण शरीरे चेतनद्वयमाम्नातम्। “तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति” इति। तत्र सोपाधिकेन प्रतिबिम्बरूपेण भोक्त्रा जीवेनैकशरीरमात्रवता भोगः प्राप्यते। अभोक्त्रा तु साक्षिणा ब्रह्मचैतन्येन निरुपाधिकतया सर्वगतेन कृत्स्नमपि भोग्यजातं प्रकाश्यते। तदेतदविद्वद्विदुषोः साधारणम्। तथा सति किंविशेषमभिप्रेत्य विदुषः फलत्वेनोपन्यस्यत इति चेदुच्यते। अत्र विद्वान्हि मदीयं वास्तवस्वरूपं ब्रह्म सर्वभोगप्रकाशकमित्यवगत्य परितुष्यति। मूढस्तु न तथेत्ययमेव विशेषोऽभिप्रेतः। ननु ब्रह्मचैतन्येन सर्वगतशरीरसुखवत्तद्गतदुःखान्यपि प्रकाश्यन्ताम्। ततस्तदवगमेन विदुषः क्लेशोऽपि प्रसज्येतेति चेन्न। ब्रह्मणः साक्षिणो दुःखलेपाभावात्। तथा च कठाः पठन्ति— “सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः। एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः” इति। दुःखवत्सुखेनापि ब्रह्म न लिप्यत इति चेन्माऽस्तु सुखलेपः। सुखं तु ब्रह्मणः स्वरूपमेव। “आनन्दो ब्रह्मेति व्यजानात्” “विज्ञानमानन्दं ब्रह्म” इत्यादिश्रुतिभ्यः। ब्रह्मणः स्वरूपभूतोऽप्यानन्दश्चित्तवृत्त्या परिच्छिद्यमानो विषयानन्द इत्युच्यते। अभीष्टविषयेष्विच्छया प्रवर्तमानः पुरुषस्तदलाभेन क्लिश्यन्कदाचित्पुण्यवशाद्विषयलाभे सति तदिच्छायां निवृत्तायामन्तर्मुखां सात्त्विकीं कांचिद्वृत्तिं लभते। सा च वृत्तिरान्तरं ब्रह्मानन्दं व्यनच्छिनत्ति। सोऽयं परिच्छिन्नो विषयानन्दः। एतदेवाभिप्रेत्य बृहदारण्यके पठ्यते–“एषोऽस्य परमानन्दः। एतस्यैवाऽऽनन्दस्यान्यानि
१ ख. ०त्यक्तत्त्वमे०। २ क. ख. ङ. ०काशान्विता। ३ क. ख. ङ. ०वर्ती भो ०। ४ क. ख. ग. ङ. ०लेशाभा०।
[[563]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। भूतानि मात्रामुपजीवन्ति” इति। ब्रह्मादिस्तम्बन्तेषु प्राणिषु वर्तमानाः सात्त्विकवृत्तिभिरवच्छिन्ना ब्रह्मानन्दस्य लेशरूपा ये विषयानन्दाः सन्ति तेऽत्र सर्वान्कामानित्यनया श्रुत्या विवक्षिताः। काम्यन्त इति कामाः। सुखान्येव प्राणिभिः काम्यन्ते न दुःखानि तेष्वानन्देषु वृत्तिकृतमवच्छेदं विद्यया बाधित्वा तदवच्छेदरहितमानन्दैकरसं वस्तु ब्रह्मरूपेणावगत्य कृतं कृत्यं प्राप्तं प्रापणीयमित्येवं ब्रह्मवित्सर्वदा परितुष्यति। सोऽयं परितोषो मूढाद्विशिष्यते। तदेवं सूत्रव्याख्यानरूपायां सत्यं ज्ञानमित्यादिकायामृचि ब्रह्मतद्वेदनप्राप्तयः कीद्दश्य इत्याकाङ्क्षानिवृत्त्यर्थं त्रयमप्येतन्निरूपितम्। श्रौत इतिशब्द ऋक्समाप्त्यर्थः। वेदो हि मन्त्रब्राह्मणभेदेन द्विविधः। तत्रेयं ब्रह्मवल्ली ब्राह्मणरूपा। ब्राह्मणं चाष्टधा भिन्नम्। तद्भेदास्तु वाजसनेयिभिरा- म्नायन्ते—“इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्रण्यनुव्याख्यानानि व्याख्यानानि” इति। १—भृगुर्वै वारुणिरित्यादिरितिहासः। २—यतो वा इमानि भूतानि जायन्त इत्यादिकं सर्गप्रतिसर्गादिप्रतिपादकं पुराणम्। ३—य एवमेता महास ँ हिता व्याख्याता वेदेत्यादय उपास्तयो विद्याः। ४—रहस्यार्थोपदेशा उपनिषदः, अत एवानुशासनानुवाके पूर्वमेषा वेदोपनिषदित्युक्तम्। ५–श्लोकास्तु तत्र तत्रोदाहरिष्यन्ते। ६—ब्रह्मविदित्यादिकं सूत्रम्। ७—सत्यं ज्ञानमित्यादिकमनुव्याख्यानम्। अनुक्रमेण सूत्रगतानां पदानां तात्पर्यकथनात्। ८—तस्मिन्ननुव्याख्याने यो बुभुत्सितोऽर्थविशेष- स्तस्य विस्पष्टमासमन्तात्कथनं व्याख्यानम्। तदिदमत्र तावत्तस्माद्वा एतस्मादित्यारभ्यान्नात्पुरुष इत्यन्तेन ग्रन्थेनाभिधीयते। अनुव्याख्यानगत-मनन्तत्वमुपपादयितुं तस्मान्ग्रन्थे सृष्टेः प्रतिपाद्यमानत्वात्। तथा च वाक्यवृत्तिकारैरुक्तम्— “यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगौ। तत्कार्यत्वं प्रपञ्चस्य तद्ब्रह्मेत्यवधारय” इति॥ तामेतामानन्त्योपपादनोपयुक्तां सृष्टिं दर्शयति— तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒शः संभू॑तः। आ॒का॒शाद्वा॒युः। वा॒योरग्निः॒। अ॒ग्नेरापः॑। अ॒द्भयः पृ॑थि॒वी। पृ॒थि॒व्या ओष॑धयः। ओष॑धी॒भ्योऽन्न॑म्। अन्ना॒त्पुरु॑षः, इति। तस्माद्वा इत्यादिना। व्यवहिते सूत्रवाक्ये ब्रह्मशब्देन परशब्देन चोपात्तं यद्वस्तु
१ ग. ०तस्यावच्छेदस्य वि०। २ ग. घ. ०धितत्वाद०। ३ ग. ०दनयु०। ४ ग. ०न्नाद्रेतः। रेतसः पुरु०।
[[564]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] तदत्र व्यवहितार्थवाचिना तस्मादित्यनेन तच्छब्देन परामृश्यते। संनिहि- तायां सूत्रव्याख्यानरूपायामृचि सत्यादिशब्देन निहितशब्देन च व्यावहृतं वस्तु संनिहितवाचकेनैतस्मादित्येतच्छब्देन परामृश्यते। वैशब्दोऽवधार- णार्थः। तस्मादेवैतस्मादित्युक्तेसत्यृचा सूत्रेण च प्रतिपादितमेकमेव वस्त्वित्युक्तं भवति। अथवा परोक्षवाचिना तच्छब्देन शास्रगम्यो ब्रह्मत्वाकारोऽभिधीयते। वैशब्दस्तस्मिन्ब्रह्मणि सर्ववेदान्तप्रसिद्धिप्रदर्शनार्थः। प्रत्यक्षवा- चिनैतच्छब्देनापरोक्षानुभवगम्यः प्रत्यगात्मत्वाकारोऽभिधीयते। तदेव विस्पष्टयितुमात्मन इत्युच्यते। तस्मादेतस्मादितिपदद्वयसामानाधिकरण्येण प्रत्यग्ब्रह्मणोस्तादात्म्यमुच्यते। एतदेव पूर्वस्यामप्यृचि ब्रह्मणा विपश्चितेतिसामानाधिकरण्येनोदाहृतम्। सर्वप्राणिनां प्रत्यगात्मभूतं यत्परं ब्रह्म तस्य ब्रह्मण आकाशवाय्वादिकाञ्जायमानपदार्थान्प्रति यत्प्रकृतित्वं तत्पञ्चमीविभक्त्या प्रतिनिर्दिश्यते। “जनिकर्तुः प्रकृतिः” इत्यनेन पाणिनीयसूत्रेणापादानसंज्ञाविधानात्। आकाशः संभूत इतियुक्तत्वादुत्पद्यमान आकाशो जनिकर्ता तस्य प्राकृतिरुपादानकारणं ब्रह्मेत्यमुमर्थं बोधयितुं पञ्चमी प्रयुक्ता। प्रकर्षेण क्रियत उत्पाद्यते कार्यमनयेतिव्युत्पत्त्या प्रकृतिरुपादानं मृदादिकम्। यद्यपि निमित्तकारणेन कुलालेनापि घट उत्पाद्यते तथाऽऽपि कुलालस्य तदुत्पादने प्रकर्षो नास्ति। न हि कुलालो मृत्तिकेव कार्ये घटे सर्वदाऽनुगच्छति। तस्मात्कार्यं प्रत्युपकारप्रकर्षादुपादानवत्प्रकृतिः। ननु प्रकृतित्वं मायाया एव न तु ब्रह्मणः। तथा च श्वेताश्वतरा आमनन्ति— “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्” इति। शक्तित्वमपि तत्रैवाऽऽम्नातम्– “न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च द्दश्यते। पराऽस्य शक्तिर्विविधेव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” इति॥ “ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम्” इति च। न खलु शक्तिः क्वचिदपि स्वाश्रयमुल्लङ्घ्य स्वतन्त्राऽवतिष्ठते। अतः शक्तिरूपाया मायाया यत्प्रकृतित्वं तदेव ब्रह्मणः शक्तिमतः प्रकृतित्वम्। यो- ऽयं प्रकृतिरूपः परमात्मा मायी महेश्वरोऽन्यत्र श्रुतः सोऽयमत्राऽऽत्मन इत्यनेन पञ्चम्यन्तेन निर्दिश्यते। तस्मान्मायिनः परमात्मन आकाशः संभूत उत्पन्नः। परमात्मैवाऽऽकाशवाय्वाद्याकारेण प्रतिभासत इत्यर्थः। यदुपादानकारणं मृद्रूपं तदेतत्स्वस्माद्भिन्नं घटमारभते। क्षीरस्वरूपमुपादानं स्वयं दध्याकारेण परिणमते। रज्जुरूपमुपादानमज्ञानेन सहितं सर्पा-____________________________________________________ १ घ. ०मानान्पदा ०। २ क. ख. ध. ङ. निर्दिश्यते। ३ घ. ०नमेव प्रकृ०। ४ क. ख. ङ. ०रूपप०। ५ घ. ०ण भा। ६ ग. ०तत्तस्मा०।
[[565]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। कारेण विवर्तते। तत्र नैयायिकादयो मृद्धटन्यायेन सर्वं परमाणुभिः पृथिव्यादिकं जगदारभ्यत इत्याहुः। सांख्यास्तु क्षीरदधिन्यायेन सत्त्वरजस्तमो- गुणात्मकं प्रधानमेव महदहंकारादिजगदाकारेण परिणमत इति वर्णयन्ति। वेदान्तास्तु रज्जुसर्पन्यायेन सर्वजगत्कल्पनाधिष्ठानभूतखण्डैकरसं ब्रह्मैव स्वमायावशादाकाशादिजगदाकारेण विवर्तत इत्यभिप्रायेण सृष्टिं प्रतिपादयन्ति। तेषु त्रिषु मतेष्वारम्भपरिणामवादौ शारीरकमीमांसायां निराकृतौ। का तर्हि महर्षिप्रणीतयोर्वादयोर्गतिरिति चेन्मन्दबुद्ध्यनुग्रहार्थमवान्तरसृष्टिविषयौ तौ वादाविदि ब्रूमः। यः पुमाल्लोँकायतमतानुसारेण देहमात्मत्वेनाभिमन्यमानः स्वर्गनरकयोर्गन्तारं देहव्यतिरिक्तमात्मानमज्ञात्वा कर्माणि ज्योतिष्टोमादीनि चाननुतिष्ठन्नुपास्यमीश्वरमज्ञात्वा तदुपासनेऽपि ब्रह्मलोकहेतौ न प्रवर्तते। तादृशस्य जीवेश्वरविवेकाय प्रयतमानो गौतमादिर्महर्षिः परमाणुभ्यः पृथिव्याद्युत्पत्तिमुवाच। मूलकारणात्परब्रह्मण उत्पन्ना आकाशकालदिशः परमाणवश्च यदा व्यवस्थितास्तदा तत आरभ्योत्तरकालीना सृष्टिर्गौतमाद्युक्तप्रकारेण व्यवतिष्ठताम्। किं नश्छिन्नं वेदान्तिनाम्। न चैतावता मायावादस्य हानिः शङ्कनीया। ब्रह्मादिस्तम्बान्तानां सर्वेषां प्राणिनां विचित्रसंसारभ्रममुत्पादयन्त्या माययैव दृश्यस्य गौतमादिमतभ्रमस्योत्पादितत्वात्। अनेनैव न्यायेन वेदान्तैर्या सृष्टिरभिहिता सा भ्रान्तिर्भवेदिति चेत्। भवत्वेवं कृत्स्नायाः सृष्टेर्भ्रान्तित्वं बोधयितुमेव वेदान्तैः प्रवृत्तत्वात्। यथा मन्दाधिकारिणो देहव्यतिरिक्तं स्वर्गप्राप्तियोग्यं कर्त्रात्मानं बोधयितुं गौतमस्योद्योगस्तथा मध्यमाधिकारिणो ब्रह्मबोधयोग्यतायै कर्तृत्वरहितं साक्षिणं चिदात्मानमसङ्गं बोधयितुं कपिलमहर्षिः सांख्यशास्रं निर्ममे। तत्र परमाणुभ्यः प्राचीना चिदचिद्विवेकहेतुरवान्तरसृष्टिः किय- त्यपि वर्णिता। अखण्डैकरसे ब्रह्मणि मायया चिज्जडभेदश्चिदात्मनां परस्परभेदः सत्त्वादिगुणाश्चेत्येते पदार्थाः कल्पिताः। तत उत्तरकालीना सृष्टिः सांख्येनाभिधीयताम्। एवमुपास्यमीश्वरं विवेक्तुं सांख्योक्तेभ्यः पञ्चविंशतितत्त्वेभ्यः पूर्वभावि(वी)न्येकादश तत्त्वानि शैवागमेषु निरूप्यन्ते। श्रुतिस्तु प्रदर्शनार्थत्वेनऽऽकाशादिकां कियतीमपि सृष्टिमुदाजहार। साकल्येन त्वभिधानमशक्यमनुपयुक्तं च। ब्रह्मावबोधद्वारत्वेन तदभिधानम्। तच्च द्वारत्वमल्पाभिधानेऽपि संपद्यते। द्वारत्वेनोपयोगो गौडाचार्यैरुदात्द्दत: — “मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदिताऽन्यथा। उपायः सोऽवताराय नास्ति भेदः कथंचन” इति।
१ क. ख. सर्वप०। २ घ. ०न ज०। ३ क. ख. ङ. कृत्यायाः। ४ क. ख. ङ. ०र्गयो०। ५ क. ख. ङ. कर्तारमात्मा०। ६ ग. ०यते। ए०।
[[566]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] न हि सृष्टिरुपास्यत्वेन ज्ञेयत्वेन ज्ञेयत्वेन वा स्वन्त्रपुरुषार्थाय कल्पते। सृष्टिमुपासीत, सृष्टिविच्छ्रेयः प्राप्नोतीत्येवंवचनाभावात्। अत एव श्रुति- स्मृतिपुराणागमेषु परस्परविरोधेन बहुधा कथ्यमाना सृष्टिः सर्वाऽपि वार्ति-ककारैरङ्गीकृता________________________ “यया यया भवेत्पुंसां व्युत्पत्तिः प्रत्यदगात्मनि। सा सेव प्रक्रियेह स्यात्साध्वी सा चानवस्थिता” इति।
न बहुभिर्द्दष्टेषु बहुविघ्नस्वप्नेषु कश्चिदेवाङ्गीकार्यो न त्वितरेऽङ्गीकार्या इति नियमोऽस्तीत्यलमतिप्रसङ्गेन। योऽयमाकाशो मायाविशिष्टब्रह्मण उपादा-नकारणादुत्पन्नस्तस्मिन्ब्रह्मांशो मायांशश्चोभावनुगतौ। सत्यं ज्ञानमिति यद्ब्रह्म सत्यत्वेनाभिहितं तत्सदात्मकम्। सदेव सोम्येति प्रकृत्या तत्सत्य- मिति श्रुतत्वात्। सत्त्वं चाऽऽकाशेऽनुगच्छत्याकाशोऽस्तीत्येव भासमान- त्वात्। मायात्वं नामाऽऽश्चर्यरूपत्वम्। ऐन्द्रजालिकेन गृहपर्वतादौ निगीर्णे सति मायैवैषेति लोकैर्व्यवह्रियमाणत्वात्। यथा निश्छिद्रे कांस्यघनरूपे दर्पणे भासमानो विशाल आकाशप्रतिबिम्ब आश्चर्यरूपस्तथा निश्छिद्रे सत्यज्ञानानन्तानन्दैकरसे ब्रह्मण्यसंभावितस्याऽऽकाशस्य प्रतिभास आश्चर्यरूपः। यथा गृहादिनिगरणमैन्द्रजालिकव्यतिरेकेण केनापि कर्तुमशक्यत्वादितरैराश्चर्यरूपा इत्युच्यन्ते। एवमीश्वरेण निर्मिता आकाशवाय्वादयो जीवने केनापि निर्मातुमशक्यत्वादाश्चर्यरूपा इत्युच्यन्ते। तदिदमाश्चर्यरूपत्वं मायांशः। यस्तु वस्तूनामवकाशप्रदानयोग्यस्वरूपः सोऽयमाकाशभागः। एवं चास्त्याश्चर्यरूपमवकाशप्रदमित्येवं ब्रह्मांशमायांशाभ्यामनुगत आकाशः प्रतिभासते। स च शब्दगुणकः। गिरिगुहादौ यः प्रतिध्वनिः सोऽय-माकाशसमवेतत्वेन प्रतीयमानत्वादाकाशगुण इत्युच्यते।यथोक्तशब्दमात्रगुणकस्यावका- शप्रदस्याऽऽकाशस्य सर्जने कामसंकल्पावेव तु मायाविशिष्टस्य ब्रह्मणः।आकाशं स्रक्ष्यामीत्येवंविधेच्छा काम इत्युच्यते।यथोक्तस्वरूप आकाशो निष्पद्यतामित्येवंविधा भावना संकल्प इत्युच्यते। ब्रह्मणो मनोराहित्येन मनोवृत्तिरूपाया भावनाया अभावेऽप्यचिन्त्यशक्तिरूपमायैव कामसंकल्पाख्यवृत्तिद्वयाकारेण विक्रियत इति। इन्द्रियरहितस्याप्यचिन्त्यशक्तिबलात्सर्वव्यवहारः श्रूयते—“अपाणिपादो जवनो ग्रहीता पश्यत्यक्षुः स शृणोत्यकर्णः” इति। पूर्वसृष्टावनुष्ठितानि सर्वप्राणिकर्माणि पूर्वमप- क्वानि प्रलयकाले मायाविशिष्टे ब्रह्मणि स्थित्वा शनैः पच्यन्ते। पक्वेषु कर्मसु तत्फलभोगदानाय जगत्सृजति।
१ ग. घ. कल्प्यते। २ग. सा वाऽन०। ३ क. ख. ङ. ०विधं स्व०। ४ घ. ०जाल- व्यतिरिक्ते के। ५ ०तिरिक्तेन के०। ६ घ. ०नेच्छासं०।
[[567]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। तदेतच्छैवागमसारसंग्रहरूपायां तत्त्वप्रकाशिकायामुक्तम्________________________ “संसारे खिन्नानां निखिलानां प्राणिनां प्रभुः कृपया। कुरुते महार्थसंत्द्दतिमेतेषामेष विश्रान्त्यै। कर्मविपाचनहेतोः पशुदयया पुनरपीह परमेशः। सृष्टिं विधाय तेषां कर्म विपाचयति देहभृताम्” इति। अतः प्राणिकर्मपरिपाकवशात्परमेश्वरस्य सिसृक्षा स्रष्टव्यपदार्थसृष्टि- गोचरसंकल्पश्चोपजायते। तदीयेच्छासंकल्पावनुसृत्य स्रष्टव्यपदार्थोऽपि तथैवोत्पद्यते। अत एव परमात्मप्रकरणे—“सत्यकामः सत्यसंक्लपः” इत्याम्नातम्। एवं सत्युत्तरोत्तरपदार्थान्यथा यथाऽसौ संकल्पयति तथा तथा ते सर्वेऽप्युत्पद्यन्ते। प्रथमं सृष्टेनाऽऽकाशेनोपहितान्मायाविशिष्टब्रह्मणो वायुः संभूतः। मायाब्रह्मणोः सर्वसाधारणकारणत्वात्तदुपाधिभूतस्याऽऽकाशस्य वायु प्रत्यसाधारणलक्षणां प्रत्यासत्तिमपेक्ष्याऽऽकाशाद्वायुरित्याम्नातम्। तस्य यो वायोर्गुणः स्पर्शः स चानुष्णाशीतरूपः। आकाशस्यावकाशप्रदानवद्वहनं वायोः कृत्यम्। कारणधर्माश्च तस्मिन्वायावनुगच्छन्ति। अस्ति वायुरित्यभिधीयमानं सत्त्वं ब्रह्मधर्मः। वस्त्वन्तरेष्वद्दष्टत्वेनाऽऽश्चर्यरूपो यो वायौ स्वभावः सोऽयं मायाधर्मः। समृद्रतीरादौ प्रसरतो वायोर्यो घोषः सोऽयं शब्द आकाशधर्मः। एवं वायोरग्रिरित्यादौ योजनीयम्। भास्वररूपमग्नेर्गुणः। प्रकाशनमग्रेः कार्यम्। तत्राप्यग्नेः सत्त्वं ब्रह्मधर्मः। इतरसर्ववस्तु- विलक्षणत्वेनाऽऽश्चर्यकरत्वं मायाधर्मः। ज्वलतोऽग्नेर्योऽयं भुगुभुग्वि- तिशब्दः सोऽयमाकाशधर्मः। यस्तूष्णः स्पर्शः सोऽयं वायुधर्मः। तत्र शब्दस्प- र्शयोराकाशवायुनिष्ठशब्दादिवैलक्षण्यं भासमानं यदस्ति तदप्याश्चर्यहेतु- त्वान्मायाप्रयुक्तमेव। यथोक्तादग्नेरापः संभूताः। अपां मधुररसो विशेषगुणः। कारणधर्माश्च तत्रानुगच्छन्ति। आपः सन्ति। ताश्चेतरविलक्षणेन द्रवत्वेनाऽऽश्चर्यरूपाः। पाषाणबहुलनदीप्रवाहादौ बुलुबुल्वित्येवं शब्दः श्रूयते। स्पर्शः शीतलः। रूपं श्वेतम्। ताद्दशीभ्योऽद्भयः पृथिवी संभूता। गन्धस्तस्या विशेषगुणः। अस्ति पृथिवी। सा च काठिन्येनेतरविलक्षणनाऽऽश्चर्यरूपा। तस्यां च मूर्तद्रव्यसंयोगेन कटकटेत्येवंशब्दः श्रूयते। स्पर्शः कठिनः। रूपम नीलपीताद्यनेकविधम्। रसो मधुरादिलक्षणः। एतत्सर्वं पञचभूतविवेके संगृह्योक्तम्________________________ “शब्दस्पर्शौ रूपरसौ गन्धो भूतगुणा इमे। एकद्वित्रिचतुष्पञ्च गुणा व्योमादिषु क्रमात्॥ प्रतिध्वनिर्वियच्छब्दो वायौ बीसीति शब्दनम्। अनुष्णाशीतसंस्पर्शो वह्नौ भुगुभुगुध्वनिः॥
१ क. ०नुस्मृत्य।
[[568]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] उष्णः स्पर्शः प्रभा रूपं जले बुलुबुलुध्वनिः। शतिः स्पर्शः शुक्लरूपं रसो माधुर्यमीरितम्॥ भूमौ कटकटाशब्दः स्पर्शः कठिन ईर्यते। नीलादिकं च भूरूपं मधुराम्लादिको रसः॥ सुरभीतरगन्धौ द्वौ गुणाः सम्यग्विवेचिताः” इति। इत्थमाकाशादिपृथिव्यन्तानां पञ्चभूतानां सृष्टिरुक्ता। ओषध्यन्नपुरुषा भौतिकास्तेषां सृष्टिकथनेन गिरिनदीसमृद्रादिकृत्स्नभौतिकसृष्टिरुपलक्ष्यते। यद्यपि मिथुनजन्याः पश्वदिदेहाः सर्वेऽप्यन्नमयास्तथाऽपि मनुष्यदेहस्य ज्ञानकर्माधिकारित्वेन प्राधान्यमभिप्रेत्य तेषु पुरुषसृष्टिरत्राभिहिता। तच्च प्राधान्यमैतरेयके स्पष्टं प्रतीयते—“पुरुषे त्वेवाऽऽविस्त रामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामृतमीप्सत्येवं संपन्नोऽथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोकालोकौ” इति। एतस्या आकाशादिपुरुषान्ताया भूतभौतिकसृष्टेः स्वयमुपादानरूपा स्वाश्रये ब्रह्मण्यपि प्रकृतित्वमापादयन्ती या माया तस्याः स्वभावविशेष उत्तरतापनीये विस्पष्टमाम्नात: — “माया च तमोरूपाऽनुभूतेस्तदेतज्जडं मोहात्मकमनन्तं तुच्छमिदं रूपमस्यास्य व्यञ्जिका नित्यं नित्यनिवृत्ताऽपि मूढैरात्मैव दृष्टाऽस्य सत्त्वमसत्त्वं च दर्शयति सिद्धत्वासिद्ध- त्वाभ्यां स्वतन्त्रास्वतन्त्रत्वेन” इति। अस्याः श्रुतेरभिप्रायश्चित्रदीपे प्रपञ्चित: — “माया चेयं तमोरूपा तापनीये तदीरणात्। अनुभूतिस्तत्र मानं प्रतिजज्ञे श्रुतिः स्वयम्॥ जडं मोहात्मकं तच्चेत्यनुभावयति श्रुतिः। आबालगोपं स्पष्टत्वादानन्त्यं तस्य साऽब्रवीत्॥ अचिदात्मघटादीनां यत्स्वरूपं जडं हि तत्। यत्र कुण्ठी भवेद्बुद्धिः स मोह इति लौकिकाः॥ इत्थं लौकिकदृष्ट्यैतत्सर्वैरप्यनुभूयते। युक्तिदृष्ट्या त्वनिर्वाच्यं नासदासीदिति श्रुतेः॥ नासदासीद्विभातत्वान्नो सदासीच्च *बाधनात्। विद्यादृष्ट्या श्रुतं तुच्छं तस्य नित्यनिवृत्तितः॥
*नेह नानाऽस्ति किंचनेतिश्रुत्या निषेधादित्यर्थः।
१ ग. घ. ०शनापि०। २ ग. ०रूपस्वा०। ३ ग. ०ज्जडमो०।
[[569]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। तुच्छाऽनिर्चवनीया च वास्तवी चेत्यसौ त्रिधा। ज्ञेया माया त्रिभिर्बोधैः श्रौतयौक्तिकलौकिकैः॥ अस्य सत्त्वमसत्त्वं च जगतो दर्शयत्यसौ। प्रसारणाच्च संकोचाद्यथा चित्रपटस्तथा॥ अस्वतन्त्रा हि माया स्यादप्रतीतेर्विना चितिम्। स्वतन्त्राऽपि तथैव स्यादसङ्गस्यान्यथाकृतेः॥ कूटस्थासङ्गमात्मानं जगत्त्वेन करोति सा। चिदाभासस्वरूपेण जीवेशावपि निर्ममे॥ कूतस्थमनुपद्रुत्य करोति जगदादिकम्। दुर्घटैकविधायिन्यां मायायां का चमत्कृतिः॥ द्रवत्वमुदके वह्नावौष्ण्यं काठिन्यमश्मनि। मायायां दुर्घटत्वं च स्वतः सिध्यति नान्यतः॥ न वेत्ति मायिनं लोको यावत्तावच्चमत्कृतिम्। धत्ते मनसि पञ्चात्तु मायैषेत्युपशाम्यति। प्रसरन्ति हि चोद्यानि जगद्वस्तुत्ववादिषु। न चोदनीयं मायायां तस्यां चोद्यैकरूपतः। चोद्येऽपि यदि चोद्यं स्यात्त्वच्चोद्ये चोद्यते मया। परिहार्यं ततश्चोद्यं न पुनः प्रतिचोद्यताम्। विस्मयैकशरीराया मायायाश्चोद्यरूपतः। अन्वेष्यः निश्चेयमिति चेत्तर्हि निश्चिनु। लोकप्रसिद्धमायाया लक्षणं यत्तदीक्ष्यताम्। न निरूपयितुं शक्या विस्पष्टं भासते च या। सा मायेतीन्द्रजालादौ लोकाः संप्रतिपेदिरे। स्पष्टं भाति जगत्तस्मादीक्षस्वापक्षपाततः। निरुपयितुमारब्धे निखिलैरपि पण्डितैः। अज्ञानं पुरतस्तेषां भाति कक्ष्यासु कासुचित्। देहेन्द्रियादयो भावा वीर्येणोत्पादिताः कथम्। कथं वा तत्र चैतन्यमित्युक्ते ते किमुत्तरम्।
१ क. ङ. ०यैवेत्यु०। २ ख. तस्याश्चोद्यै०। ७२
[[570]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ]
वीर्यस्यैव स्वभाषश्चेत्कथं तद्विदितं त्वया। अन्वयव्यतिरेकौ यौ भग्नौ तौ व्यर्थवीर्यतः। न जानामि किमप्येतदित्यन्ते शरणं तव। अत एव महान्तोऽस्य प्रवदन्तीन्द्रजालताम्। एतस्मात्किमिवेन्द्रजालमपरं यद्गर्भवासस्थितं। रेतश्चेतति हस्तमस्तकपदप्रोद्धतनानाङ्कुरम्। पर्यायेण शिशुत्वयौवनजावेषैरनेकैर्वृतं पश्यत्यत्ति शृणोति जिघ्रति तथा गच्छत्यथाऽऽगच्छति। देहवद्वटधानादौ सुविचार्य विलोक्यताम्। क्व धानाः कुत्र वा वृक्षस्तस्मान्मायेति निश्चिनु। निरुक्तावभिमानं ये दधते तार्किकादयः। हर्षमिश्रादिभिस्ते तु खण्डनादौ सुशिक्षिताः। अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्। अचिन्त्यरचनाशक्तिबीजं मनसाऽपि जगत्खलु। अचिन्त्यरचनाशक्तिबीजं मायेति निश्चनु। मायाबीजं तदेवैकं सुषुप्तावनुभूयते” इति। ईदृङ्मायाधिष्ठानत्वेन मायी महेश्वरो यः स श्वेताश्वतरैराम्नातः। तस्य स्रष्टृत्वं त एवाऽऽमनन्ति—“अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया संनिरुद्धः” इति। सृष्टिप्रयोजने मतभेदा माण्डूक्यशाखायामाम्नायन्ते— “विभूतिप्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः। स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता। इच्छामात्रं प्रभोः सृष्टिरिति सृष्टिर्विनिश्चिता। कालात्प्रसृतिं भूतानां मन्यन्ते कालचिन्तकाः। भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे। देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा” इति। यः प्रसवो जगदुत्पत्तिः सेयमीश्वरस्य विभूतिस्तित्प्रकटनार्थमीश्वरः सृतजी- त्येकं मतम्। यथा स्वप्नो विचारमन्तरेणाकस्मादुत्पद्यते तद्वदिति द्वितीयं मतम्। इन्द्रजालरूपा माया यथा लोके चमत्काररूपा तथा चमत्कारप्रदर्शनार्थमिति तृतीयं मतम्। यथा सत्स्वपि बहुषु भक्ष्यभोज्येषु कश्चित्किंचित्स्वी करोतीत्यत्र तदिच्छैव नियामिका तद्वदिति चतुर्थं मतम्। यथा वसन्ताद्यृतुलिङ्गानि पुष्पोद्गमादीनि कालविशेषाधी-
१ घ. ०चार्यावलो०। २ क. ख. घ. ङ. ०र्केषु यो ०। ३ क. ख. ङ. तद्वत्त्व।
[[571]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। नानि तद्वदिति पञ्चमं मतम्। यथा कृषिवाणिज्यादिकं स्वभोगार्थं क्रियते तद्वदिति षष्ठं मतम्। यथाऽक्षद्यूतादिकं स्वभावस्तथा मायाविशिष्टस्य सृष्टिस्थितिसंहाराः स्वभावभूता अतो निस्पृहस्य प्रयोजनविशेषो न कल्पनीय इत्यष्टमं मतम्। एतदेव सिद्धान्तरहस्यम्। ननु कर्माण्येव स्वस्वफलदानाय प्राणिदेहानुत्पादयन्ति किमनेनेश्वरेणेति चेन्न। ईश्वर एव फलदातेति तृतीयाध्यायस्य द्वितीयपादे* चिन्तितत्वात्। “कर्मैव फलदं यद्वा कर्माराधित ईश्वरः। अपूर्वावन्तरद्वारा कर्मणः फलदातृता॥ अचेतनात्फलासूतेः शास्रीयात्पूजीतेश्वरात्। कालान्तरे फलोत्पत्तेर्नापूर्वपरिकल्पना॥ अन्वक्षविनाशिनोऽपि कर्मणोऽपूर्वव्यवधानेन कालान्तरभाविफलप्रदत्व-संभवादीश्वरकल्पने गौरवमिति प्राप्ते ब्रूम: — अचेतनस्य कर्मणोऽपूर्वस्य तारतम्येन प्रतिनियतफलं दातुं न सामर्थ्यमस्ति। लोके सेवादिक्रियायामचेतनायां तददर्शनात्ततः सेवितराजवत्पूजितेश्वरात्फलसिद्धिरभ्युपेया। न च कल्पनागौरवं शास्रसिद्धत्वेनेश्वरस्याकल्पनीयत्वात्। “एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते। एष उ एवसाधु कर्म कारयति तं यमधो निनीषते " इति श्रुतिरीश्वरस्यैव धर्माधर्मयोः फलदातृत्वं तत्कारयितृत्वं चाभिदधाति। सति चेश्वरस्य प्रामाणिकत्वे तवैव प्रत्युताश्रुतस्यापूर्वस्य कल्पने गौरवं भवेत्। तस्मात्कर्मभिराराधित ईश्वरः फलदाता”। तस्येश्वरस्योभयविधकारणत्वं प्रथमाध्यायस्य चतुर्थपादे+ चिन्तितम्— “निमित्तमेव ब्रह्म स्यादुपादानं च वेक्षणात्। कुलालवन्निमित्तं तन्नोपादनं मृदादिवत्॥ बहु स्यामित्युपादानभावोऽपि श्रुत ईक्षितुः। एकबुध्द्या सर्वधीश्च तस्माद्ब्रह्मोभयात्मकम्॥ जगत्कारणत्वप्रतिपादकानि सर्वाणि वाक्यानि विषयः। तत्र किं ब्रह्म निमि- त्तकारणमेवोतोपादानकारणमपीति संदेहे निमित्तकारणमेवेति तावत्प्रप्तम्। कुतः। तदैक्षतेति सृज्यकार्यविषयपर्यालोचनश्रवणात्। पर्यालोचनं च निमित्तकारणमेवेति प्राप्ते ब्रूम: — “तदैक्षत बहु स्यां प्रजायेय " इतीक्षितुरेव प्रकर्षोणोत्पत्त्या बहुभावः श्रूयते। तत
*फलमत उपपत्ते: — अ॰ ३ पा॰ २ अ॰ ८ सू॰ ३८। + प्रतिज्ञाद्दष्टान्तानुपरो-धात्—अ॰ १ पा॰ ४ अ॰ ७ सू॰ २३।
२ ख. अनुक्षणवि०।
[[572]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] उपादानत्वमप्यस्ति। किंच येनाश्रुतं श्रुतं भवतीत्यादीना ब्रह्मण्येकस्मिञ्श्रुते सत्यश्रुतमपि जगच्छ्रुतमेव भनतीति प्रतिपाद्यते। तदेतदेकविज्ञानेन सर्वविज्ञानम्। तच्च ब्रह्मणः सर्वोपादानत्वे सति ब्रह्मव्यतिरेकेण कार्याभावादुपपादयितुं सुशकम्। केवलनिमित्तत्वे तु सर्वेषु ब्रह्मव्यतिरिक्तेषु सत्सु कथं नामैकविज्ञानेन सर्वविज्ञानं प्रतिपाद्येत। तस्मादुभयविधकारणं ब्रह्म”।
तस्योभयविधकारणत्वस्य प्रतिपादको वेदान्तसमन्वयः श्रुत्यन्तरविसंवादपरिहारेण तत्रैव* समर्थित: — “समन्वयो जगद्योनौ न युक्तो युज्यतेऽथ वा। न युक्तो वेदवाक्येषु परस्परविरोधतः॥ सर्गक्रमविवादेऽपि नासौ स्रष्टरि युज्यते। अव्याकृतमसत्प्रोक्तं युक्तोऽसौ कारणे ततः” इति।
योऽयं वेदान्तानां समन्वयो जगत्कारणविषयः सार्धैस्रिभिः पादैः प्रतिपा-दितस्तमाक्षिप्य समाधातुमयमारम्भः। न युक्तोऽयं समन्वय इति तावत्प्राप्तम्। कुतः। वेदान्तेषु बहुशो विरोधप्रतीतेः। प्रामाण्यस्यैव दुःसंपादत्वात्। तथा हि—“आत्मन आकाशः संभूतः " इति तैत्तिरीयके वियदादीन्प्रति स्रष्टृत्वं श्रूयते। छान्दोग्ये—“तत्तेजोऽसृजत” इति तेजआदीन्प्रति। ऐतरेयके—“स इमाल्लोँकानसृजत” इति लोकान्प्रति। मुण्डके—“एतस्माज्जायते प्राणः " इति प्राणादीन्प्रति। न केवलं कार्यद्वारेणैव विरोधः किंतु कारणस्वरूपपोपन्यासेऽपि। “सदेव सोम्येदमग्र आसीत् " इति च्छान्दोग्ये सद्रूपत्वं कारणस्यावगम्यते। तैत्तरीयके तु—“असद्वा इदमग्र आसीत्” इत्यसद्रूपत्वम्। ऐतरेयके च —“आत्मा वा इदमेक एवाग्र आसीत् " इत्यात्मरूपत्वम्। अतो विरोधान्न युक्तः समन्वय इति प्राप्ते ब्रूम: — भवतु नाम सृज्येषु वियदादिषु तत्क्रमे च विवादः। वियदादीनामतात्पर्यविषय(त्वाद)द्वितीयब्रह्मबोधायैव तदुपन्यासः। तात्पर्यविषये तु जगत्स्रष्टरि ब्रह्मणि न क्वापि विवादोऽस्ति। क्वचित्सच्छब्देनोक्तस्य ब्रह्मणोऽन्यत्र सर्वजीवस्वरूपत्वविवक्षयाऽऽत्मशब्देनाभिधानात्। यत्त्वसच्छब्देनाभिधानं तदव्याकृताभिप्रायम्। न त्वत्यन्तासत्त्वाभिप्रायम्। “कथमसतः सज्जायेत” इति श्रुत्यन्तरे चासत्कारणत्वनिषेधात्। तस्मादेकवाक्यतायाः सुसंपादत्वाद्युक्तो जगत्कारणे समन्वयः।
*कारणत्वेन चाऽऽकाशादिषु यथा व्यपदिष्टोक्ते: — अ॰ १ पा॰ ४ सू॰ १४
१ ग. ०पाद्यते। त०।
[[573]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। तत्रैव पुनरपि परमाण्वादिकारणानां श्रौतत्वनिराकरणेन स एव *समर्थित : — “अण्वादेरपि हेतुत्वं श्रुतं ब्रह्मण एव वा। वटधानादिद्दष्टान्तादण्वादेरपि तच्छ्रुतम्॥ शून्याण्वादिष्वेकबुध्द्या सर्वबुद्धिर्न युज्यते। स्युर्ब्रह्मण्यपि धानाद्यास्ततो ब्रह्मैव कारणम्॥ वेदान्तो विषयः। तत्र किं ब्रह्मण इव परमाणुशून्यादीनामपि क्वचिज्जगत्कारणत्वं श्रुतमस्ति। अथवा सर्वत्र ब्रह्मण एव कारणत्वं प्रतिनियतमिति संशयः। अण्वादेरपि कारणत्वं श्रुतम्। कुतः। वटधानादिदृष्टान्तश्रवणात्। तथा हि—छान्दोग्ये षष्ठाध्याये श्वेतकेतुं प्रत्युपदिशन्नुद्दालकः सूक्ष्मतत्त्वे स्थूलस्य जगतोऽन्तर्भावं प्रतिपादयितुं महावृक्षगर्भितानि वटबीजानि दृष्टान्तत्वेनोदाजहार। अतस्तत्सदृशाः परमाणवो दार्ष्टान्तिकत्वेन श्रुता भवन्ति। शून्यस्य त— “असद्वा इदमग्र आसीत्” इति साक्षादेव कारणत्वं श्रुतम्। “स्वभावमेके कवयो वदन्ति कालं तथाऽन्ये” इति स्वभावकालपक्षौ श्रुतौ। तस्मात्परमाण्वादीनामपि श्रौतं कारणत्वमिति प्राप्ते ब्रूम: — एकविज्ञानेन सर्वविज्ञानं शून्यादिमतेषु नोपपद्यते। शून्यादिभिरजन्यस्य ब्रह्मणः शून्यादिज्ञानेनाज्ञातत्वात्। धानादिदृष्टान्तस्तु ब्रह्मणोऽपीन्द्रियागम्यतया सूक्ष्मत्वादुपपद्यते। असच्छब्दस्य नामरूपराहित्याभिप्रायश्चतुर्थाधिकरणे वर्णितः। स्वभावकालपक्षौ तु पूर्वपक्षत्वेन श्रुत्योपन्यस्तौ। तस्माद्ब्रह्मैव श्रुत्यभिहितं जगत्कारणं न परमाण्वादीति सिद्धम्”। तस्यैतस्य समन्वयस्य स्मृतिविरोधतर्कविरोधौ द्वितीयाध्यायस्य प्रथमपादे त्रयोदशाधिकरणैः परिहृतौ। तत्र संग्रहकारः +प्रथमाधिकरणमारचयति— “सांख्यस्मृत्याऽस्ति संकोचो न वा वेदसमन्वये। धर्मे वेदः सावकाशः संकोच्योऽनवकाशया॥ प्रत्यक्षश्रुतिमूलाभिर्मन्वादिस्मृतिभिः स्मृतिः। अमूला कापिली बाध्या न संकोचोऽनया ततः॥ अस्मिन्पादे सर्वेष्वधिकरणेषु पूर्वाध्यायोक्तः समन्वयो विषयः। तत्रास्मिन्नधिकरणे वैदिकस्य समन्वयस्य सांख्यस्मृतेरनवकाशत्वेन प्रबलत्वात्। सांख्यस्मृतिर्हि
*एतेन सर्वे व्याख्याता व्याख्याता: — अ॰ १ पा॰ ४ अ॰ ८ सू॰ २८। + स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्–अ॰ २ पा॰ १ अ॰ १ सू॰ १।
१ क. ग. ङ. ०ति सिद्धान्तस्यै०।
[[574]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] वस्तुतत्त्वनिरूपणायैव प्रवृत्ता न त्वनुष्ठेयं धर्मं क्वचिदपि प्रतिपादयितुम्। यदि तस्मिन्नपि वस्तुन्यसौ बाध्येत तदा निरवकाशा स्यात्। वेदस्तु धर्मब्रह्मणी प्रतिपादयन्ब्रह्मण्येकस्मिन्बाध्यमानोऽपि धर्मे सावकाशः। तस्मादनवकाशया स्मृत्या सावकाशस्य वेदस्य संकोचो युक्त इति प्राप्ते ब्रूम: — सांख्यस्मृत्या वेदस्य संकोचो न युक्तः। कुतः। मन्वादिस्मृतिभिर्ब्रह्मकारणवादिनीभिर्बाधितत्वात्। प्रबला हि मन्वादिस्मृतयः। प्रत्यक्षवेदमूलत्वात्। न तु तथा कापिली स्मृतिः। न हि प्रधानकारणवादिन्या मूलभूतं कंचन वेदमुपलभामहे। दृश्यमानवेदवाक्यानां ब्रह्मपरत्वस्य पूर्वमेव निर्णीतत्वात्। तस्मान्न सांख्यस्मृत्या वेदस्य संकोचो युक्तः “। *द्वितीयाधिकरणमारचयति— “योगस्मृत्याऽस्ति संकोचो न वा योगो हि वैदिकः। तत्त्वज्ञानोपयुक्तश्च ततः संकुच्यते तया॥ प्रमाऽपि योगे तात्पर्यादतात्पर्यान्न सा प्रमा। अवैदिके प्रधानादावसंकोचस्तयाऽप्यतः॥ योगस्मृतिः पातञ्जलशास्त्रं तत्रोक्तोऽष्टाङ्गयोगः प्रत्यक्षवेदेऽप्युपलभ्यते। श्वेताश्वतरादिशाखासु योगस्य प्रपञ्चितत्वात्। किंचायं योगस्तत्त्वज्ञानोप- योगी। दृश्यते त्वत्र्यया बुध्द्येति योगसाध्यस्य चित्तैकात्र्यस्य ब्रह्मसाक्षात्कार- हेतुत्वश्रवणात्। अतः प्रमाणभूतं योगशास्त्रम्। तच्च प्रधानस्यैव जगत्कारणतां वक्ति। तस्माद्योगस्मृत्या वेदस्य संकोच इति प्राप्ते ब्रूम: — अष्टाङ्गयोगे तात्पर्यभूताऽपि सती योगस्मृतिरवैदिके प्रधानादौ न प्रमाणं तत्र तात्पर्याभावात्। तथा हि— “अथ योगानुशासनम् " इति प्रतिज्ञाय “योगश्चित्तिनिरोधः " इति योगस्यैव लक्षणमुक्त्वा तमेव कृत्स्नशास्त्रेण प्रपञ्चयामासेति तस्य योगे तात्पर्यम्। प्रधानादीनि तु न प्रतिपाद्यतया प्रतिजज्ञे किं तर्हि द्वितीयपादे यमनियमादिसाधनप्रतिपादके हेयं हेयहेतुं हानं हानहेतुं च विवेचयन्प्रसङ्गात्सांख्यस्मृतिप्रसिद्धानि प्रधानादीनि व्याजहारैव ततो न तत्र तात्पर्यम्। तस्मान्न योगस्मृत्या वेदस्य संकोचः। +तृतीयाधिकरणमारचयति________________________ “वैलक्षण्याख्यतर्केण बाध्यतेऽथ न बाध्यते। बाध्यते साम्यनियमात्कार्यकारणवस्तुनोः॥
*एतेन योगः प्रत्युक्ता: — अ॰ २ पा॰ १ अ॰ २ सू॰ ३। न विलक्षणत्वादस्य तथात्वं च शब्दात्—अ॰ २ पा॰ १ अ॰ ३ सू॰ ४ ।
१ घ. न त ०। २ ग. व्यवजहारैव।
[[575]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। मृद्धटादौ समत्वेऽपि दृष्टं वृश्चिककेशयोः। स्वकारणेन वैषम्यं तर्काभासो न बाधकः॥ अचेतनं जगच्चेतनाद्ब्रह्मणो न जायते विलक्षणत्वत्। यद्येन विलक्षणं तत्तस्मान्न जायते। यथा गोर्महिषीत्यनेन तर्केण समन्वयो बाध्यत इति प्राप्ते ब्रूम: — ये ये कार्यकारणे ते ते सलक्षणे इत्यस्या व्याप्तेर्वृश्चिककेशयोर्व्यभिचारो दृश्यते। अचेतनाद्गोमयाद्वृश्चिकस्य चेतस्योत्पत्तेश्चेतनाच्च पुरुषादचेतनानां केशानामुत्पद्यमानत्वात्। अतो वेदनिरपेक्षः शुष्कतर्को न कुत्रापि प्रतितिष्ठति। तदुक्तमाचार्यै: — “यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः। अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते " इति॥ तस्मादाभासत्वाद्वैलक्षण्यहेतुर्न बाधकः”। *चतुर्थाधिकरणमारचयति________________________ “बाधोऽस्ति परमाण्वादिमतैर्नो वा यतः पटः। न्यूनतन्तुभिरारब्धो दृष्टोऽतो बाध्यते मतैः॥ शिष्टेष्टाऽपि स्मृतिस्त्यक्ता शिष्टत्यक्तं मतं किमु। न तैर्बाधो विवर्ते तु न्यूनत्वनियमो न हि॥
सांख्ययोगस्मृतिभ्यां तदीयतर्केण च बाधो माऽस्तु नाम। कणादबुद्धा- दिस्मृतिभिस्तदीयतर्केण च समन्वयो बाध्यताम्। कणादो हि परमर्षिः परमाणूनां जगत्कारणत्वं स्मरति स्म, तर्कं च तस्मिन्नर्थे प्रोवाच। विमतं व्द्यणुकादिकं स्वन्यूनपरिमाणेनाऽऽरब्धम्। कार्यद्रव्यत्वात्। यथा तन्तुभिः पट इति। बुद्धश्च भगवतो विष्णोरवतारः। स चाभावं जगद्धेतुं स्मरति स्म, तर्कं च तदनुकूलमाह। विमतं भावरूपं जगदभावपुरःसरं भावरूपत्वाद्यथा सुषुप्तिपुरःसरः स्वप्नप्रपञ्च इति। तस्मात्तैः प्रबलैः कणादादिमतैर्बाध इति प्राप्ते ब्रूम: — यदा वैदिकशिरोमणिभिः पुराणकर्तृभिस्तत्र तत्र प्रसङ्गादुदाहृता प्रकृतिपुरुषादिप्रतिपादिका सांख्ययोगस्मृतिर्जगत्कारणविषये दौर्बल्येन परित्यक्ता तदा निखिलैः शिष्टैरुपेक्षितानां कणादादिमतानां दौर्बल्यमिति किमु वक्तव्यम्। न खलु ब्राह्मपाद्मादिषु पुराणेषु क्वचिदपि प्रसङ्गाद्व्द्यणुकादिप्रक्रियोदाहृता। प्रत्युत—“हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्” इति बहुशो निन्दोपलभ्यते। यस्तु न्यूनारभ्य त्वनियम उक्तो नासौ विवर्तवादेऽस्ति। दूरस्थपर्वताग्रस्थितैर्महद्भिर्वृक्षै-
*एतेन शिष्टापरिग्रहा अपि व्याख्याता: — अ॰ २ पा॰ १ अ॰ ४ सू॰ १२।
१ ख. ०त्पत्तिः। अचेत०। २ ख. ०ते स तैः। ३ घ. ०न्बलवृ०। ४ ख. ०भ्यनि०।
[[576]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] रत्यल्पदूर्वाग्रभ्रमस्य जन्यमानत्वात्। यदप्यभावपुरःसरत्वानुमानं तत्रापि साध्यविकलो दृष्टान्तः। सुषुप्तेरवस्थात्वेनावस्थावत आत्मनः सद्रूपस्याङ्गीकरणीयत्वे सति स्वप्नस्य भावपुरःसरत्वात्। तस्मादेतैर्मतैर्नास्ति बाधः”। *पञ्चमाधिकरणमारचयति— “अद्वैतं बाध्यते नो वा भोक्तृभोग्यविभेदतः। प्रत्यक्षादिप्रमासिद्धो भेदोऽसावन्यबाधकः॥ तरङ्गफेनभेदेऽपि समुद्राभेद इष्यते। भोक्तृभोग्यविभेदेऽपि ब्रह्माद्वैतं न बाध्यते " इति॥ समन्वयेनावगम्यमानमद्वैतं प्रत्यक्षादिप्रसिद्धेन भोक्तृभोग्यविभेदेन बाध्यत इति चेत्। न। तरङ्गादिरूपेण भेदस्य समुद्ररूपेणाभेदस्य च दृष्टत्वेन भेदाभेदयोर्विरोधाभावात्। भेदाभेदविरोधव्यवहारस्याऽऽकारभेदेनापि रहितेऽत्यन्तमेकस्मिन्नपि वस्तुनि सावकाशत्वात्। तस्माद्ब्रह्माकारेणाद्वैतं भोक्तृभोग्याकारेण द्वैतमित्याकारभेदावद्यवस्थासिद्धौ न कोऽपि बाधः”। +षष्ठाधिकरणमारचयति— “भेदाभेदौ तात्त्विकौ स्तो यदि वा व्यावहारिकौ। समुद्रादाविव तयोर्बाधाभावेन तात्त्विकौ॥ बाधितौ श्रुतियुक्तिभ्यां तावतो व्यावहारिकौ। कार्यस्य कारणाभेदादद्वैतं ब्रह्म तात्त्विकम्॥ स्पष्टौ संशयपूर्वपक्षौ। “नेह नानाऽस्ति किंचन " इति श्रुतिर्भेदं बाधते। युक्तिश्च परस्परोपमर्दात्मकयोर्भेदयोरेकत्रासंभवादेकस्मिंश्चन्द्रमसि द्वित्वासंभवात्। यदुक्तं पूर्वाधिकरण आकारभेदाद्भेद इति तदप्यसत्। अद्वैते वस्तुन्याकारभेदस्यासंप्रतिपत्तेः। समुद्रादौ तु दृष्टाविति च्चेन्न। ब्रह्मणः शास्त्रैकसमधिगम्यत्वात्। तस्माच्छ्रुतियुक्तिभ्यां बाधितत्वाव्द्यावहारिकौ भेदाभेदौ। किं तर्हि वस्त्विति चेदद्वैतमेवेति ब्रूमः। कार्यस्य कारणाव्यतिरेकेण कारणमात्रस्य वस्तुत्वात्। तथा च श्रुतिर्मृत्तिकादिदृष्टान्तैः कारणस्यैव सत्यत्वं प्रतिपादयति—“यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमेवं सोम्य स आदेशो भवति " इति।
*भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत्—अ॰ २ पा॰ १ अ॰ ५ सू॰ १३। तदनन्यत्वमारम्भणशब्दादिभ्य: — अ॰ २ पा॰ १ अ॰ ६ सू॰ १४।
१ ख. ०रल्पत्वदू०। २ ख. ०दूर्वाङ्कुरावगम्०। ३ क. ग. ङ. सौम्यैकेन। ४ ग. सौम्य।
[[577]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। अस्यायमर्थः। प्रौढो मृत्पिण्डः कारणं तद्विकारा घटशरावादयः। तत्र मृद्वस्त्वन्यद्धटादीनि चान्यानि वस्तूनीति तार्किका मन्यन्ते। तत्र घटादीनां पृथग्वस्तुत्वनिरासाय विकारशब्देन श्रुतिस्तान्व्यवहरति। मृद्वस्तुनो विकाराः संस्थानविशेषा घटादयो न पृथग्वस्तुभूताः। यथा देवदत्तस्य बाल्ययौवनस्थाविरादयस्तद्वत्। एवं च सति घटाद्याकारप्रतिभासदशायामपि मृन्मात्रमेव स्वतन्त्रं वस्तु। ततो मृद्यवगतायां घटादीनां यत्तात्त्विकं स्वरूपं तत्सर्व-मवगतम्। आकारविशेषो न ज्ञायत इति चेन्मा ज्ञायतां नाम। तेषामवस्तुभू-तानामजिज्ञासार्हत्वात्। चक्षुषा प्रतिभासमाना अपि विकारा निरूपिताः सन्तो मृव्द्यतिरेकेण न स्वरूपं किंचिल्लभन्ते। घटोऽयं शरावोऽयमिति वाङ्निष्पाद्यनामधेयमात्रं लभन्ते। अतो निर्वस्तुकत्वे सत्युपलभ्यमानत्वरूपेण मिथ्यात्वलक्षणेनोपेतत्वादसत्या विकाराः। मृत्तिका तु विकारव्यतिरेकेणापि स्वरूपं लभत इति सत्या। तथा ब्रह्मोपदेशोऽवगन्तव्यः। ब्रह्मणि मृत्तिकान्यायस्य जगति घटादिन्यायस्य च योजयितुं शक्यत्वादिति। तस्माज्जगतो ब्रह्माभेदादद्वैतं ब्रह्मतात्त्विकम्। एवंविधविचारशून्यानां पुरुषाणामापातदृष्ट्या वेदेनाभ्युपेताद्वितीयब्रह्मप्रतिपत्तेः प्रत्यक्षादिभिर्भेदप्रतिपत्तेश्च सद्भावात्समुद्रतरत्समुद्रतरङ्गन्यायेन भेदाभेदौ भासमानौ व्यावहारिकावेवेति स्थितम्”।
*सप्तमाधिकरणमारचयति— “हिताहितक्रियादिः स्यान्नो वाऽभेदं प्रपश्यतः। जीवाहितक्रिया स्वार्था स्यादेषा न हि युज्यते॥ अवस्तुजीवसंसारस्तेन नास्ति मम क्षतिः। इति पश्यत ईशस्य न हिताहितभागिता।
परमेश्वरो हि केषांचिज्जीवानां संसारासक्तानां वैराग्यादिकं हितं निर्मिमीते। अहितं च नरकहेतुमधर्मं निर्मिमीते। निर्मिमाणश्च स्वस्य जीवैरभेदं सर्वज्ञतया पश्यति। तस्मात्स्वस्यैव हिताकरणमहितकरणं च प्रसज्येयाताम्। एतच्च न युक्तम्। न हि लोके प्रेक्षावान्कश्चिदपि स्वस्य हितं न करोत्यहितं वा करोति। तस्माद्धिताकरणादिदोष इति प्राप्ते ब्रूम: — सर्वज्ञत्वादीश्वरो जीवसंसारस्य मिथ्यात्वं स्वस्य निर्लेपत्वं च पश्यत्यतो न हिताहितभाक्त्वदोषः।
*इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्ति: — अ॰ २ पा॰ १ अ॰ ७ सू॰ २१।
१ ग. ०स्थावि०। २ ग. ०टाका०। ३ क. ग. ङ. ०षाणां माया तद्द्रृष्ट्या।
[[578]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] *अष्टमाधिकरणमारचयति— “न संभवेत्संभवेद्वा सृष्टिरेकाद्वितीयतः। नानाजातीयकार्याणां क्रमाज्जन्म न संभवि। अद्वैतं तत्त्वतो ब्रह्म तच्चाविद्यासहायवत्। नानाकार्यकरं कार्यक्रमोऽविद्यास्थशक्तिभिः " इति। एकमेवाद्वितीयमिति ब्रह्मणः स्वगतसजातीयविजातीयभेदैः शून्यत्वमवगम्यते। स्रष्टव्यानि चाऽऽकाशवाय्वादीनि विचित्राणि। न ह्यविचित्रे कारणे कार्यस्य विचित्रत्वं युक्तम्। अन्यथैकस्मादपि क्षीराद्दधितैलाद्यनेकविचित्रकार्यप्रसङ्गात्। क्रमश्चाऽऽकाशादीनां श्रुताववगम्यते। न च तस्य व्यवस्थापकं किंचिदस्ति। तस्मादनेककार्याणां क्रमेण जन्माद्वितीयब्रह्मणो न संभवतीति प्राप्ते ब्रूम: — यद्यपि तत्त्वतो ब्रह्माद्वैतं तथाऽप्यविद्यासहायोपेतमिति श्रुतियुक्त्यनुभवैरवगम्यते। “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्"इति इति श्रुतिः। मायैवाविद्या। उभयोरप्यनिर्वचानीयलक्षणस्यैकत्वात्। न च मायाङ्गीकारे द्वैतापत्तिर्वास्तवस्य द्वितीयस्याभावात्। अत एकमपि ब्रह्माविद्यासहायवशान्नानाकार्यकारं भविष्यति। न च कार्यक्रमस्य व्यवस्थापकाभावः। अविद्यागतानां शक्तिविशेषाणां व्यवस्थापकत्वात्। तस्मादद्वितीयाद्ब्रह्मणो नानाकार्याणां क्रमेण सृष्टिः संभवति।
- नवमाधिकरणमारचयति________________________ “न युक्तो युज्यते वाऽस्य परिणामो न युज्यते। कार्त्स्न्याद्ब्रह्मानित्यताप्तिरंशात्सावयवं भवेत्। मायाभिर्बहुरूपत्वं न कार्क्स्न्यान्नापि भागतः। युक्तोऽनवयवस्यापि परिणामोऽत्र मायिकः। आरम्भणाधिकरणे (ब्र॰ सू॰ २–१–६)—कार्यकारणयोरणेदः प्रतिपादितः। अतो न वैशेषिकादिवदारम्भवादो ब्रह्मवादिनोऽभिमतः। तस्मात्क्षीरदधिन्यायेन परिणामोऽभ्युपगन्तव्यः।तत्र किं ब्रह्म कार्त्स्न्येन परिणमत उतैकदेशेन। नाऽऽद्यः।अशेषपरिणामे ब्रह्मणः क्षीरवदनित्यत्वप्रसङ्गात्। द्वितीये सावयवत्वप्रसङ्गः। तस्मान्न परिणाम इति प्राप्ते ब्रूम: — “इन्द्रो मायाभिः पुरुरूप ईयते " इति श्रुतेर्ब्रह्मणो मायाशक्तिभिर्जगद्रूपत्वं परिणामो न त्वसौ वास्तवः। तेन कृत्स्नैकदेशविकल्पयोर्नावकाशः। तस्माद्युज्यते परिणामः”।
*उपसंहारगर्शनान्नेति चेन्न क्षीरवद्धि—अ॰ २ पा॰ १ अ॰ ८ सू॰ २४ । + कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा—अ॰ २ पा॰ १ अ॰ ९ सू॰ २६।
१ क. ख. ङ. ०कचि०। २ ख. ०तीयब्रह्म०।
[[579]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। *दशमाधिकरणमारचयति— “नाशरीरस्य मायाऽस्ति यदि वाऽस्ति न विद्यते। ये हि मायाविनो लोके ते सर्वेऽपि शरीरिणः॥ बाह्यहेतुमृते यद्वन्मायया कार्यकारिता। ऋतेऽपि देहं मायैवं ब्रह्मण्यस्तु प्रमाणतः॥
लोके मायाविनामैन्द्रजालिकानां सशरीरत्वदर्शनादशरीरस्य ब्रह्मणो न माया संभवतीति प्राप्ते ब्रूमः- गृहादिनिर्मातृणां स्वव्यतिरिक्तमृद्दारुतृणादिबाह्यसाधनसापेक्षत्वदर्शनेऽप्यैन्द्रजालिकस्य बाह्यसाधननैरपेक्ष्येन यथा गृहादिनिर्मातृत्वं तथा लौकिकमायाविनः शरीरसापेक्षत्वदर्शनेऽपि ब्रह्मणो मायासिद्धयर्थं तदपेक्षा मा भूत्। अथोच्येत। ऐन्द्रजालिकस्य बाह्यसाधननैरपेक्ष्येण निर्मातृत्वे प्रत्यक्षप्रमाणमस्तीति। तर्हि ब्रह्मणोऽपि शरीरनैरपेक्ष्येण मायासद्भावे “मायिनं तु महेश्वरम् " इति श्रुतिः प्रमाणमस्तु”। +एकादशाधिकरणमारचयति________________________ “तृप्तोऽस्रष्टाऽथ वा स्रष्टा फलवाञ्छने। अतृप्तिः स्यादवाञ्छायामुन्मत्तनरतुल्यता॥ लीलाश्वासवृथाचेष्टा अनुद्दिश्य फलं यतः। अनुन्मत्तैर्विरच्यन्ते तस्मात्तृप्तस्तथा सृजेत्” इति॥ “आनन्दो ब्रह्म " इति शास्त्रान्नित्यतृप्तः परमेश्वरः। तादृशस्य सृष्टिविष-यायामिच्छायामभ्युपगम्यमानायां नित्यतृप्तिर्व्याहन्येत। अनभ्युपगम्यमानायामबुद्धिपूर्विकां सृष्टिं विरचयत उन्मत्तनरतुल्यता प्रसज्येतेति प्राप्ते ब्रूम: — बुद्धिमद्भिरेव राजादिभिरन्तरेण प्रयोजनं लीलया मृगयादिप्रवृत्तिः क्रियते। श्वासोच्छ्वासव्यवहारस्तु सार्जनीनः। व्यर्थचेष्टश्च बालकैः क्रियमाणा बहुशो दृश्यन्ते। तद्वन्नित्यतृप्तोऽपीश्वरः प्रयोजनमन्तरेणाप्यनुन्मत्तः सन्नशेषं जगत्सृजतु”।
*द्वादशाधिकरणमारचयति— “वैषम्याद्यापतेन्नो वा सुखदुःखे नृभेदतः। सृजन्विषम ईशः स्यान्निर्घृणश्चोपसंहरन्॥
*सर्वोपेता च दद्दर्शनात्–अ॰ २ पा॰ १ अ॰ १० सू॰ ३०। + न प्रयोजनव- त्त्वात्—अ॰ २ पा॰ १ अ॰ ११ सू॰ ३२। *वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति –अ॰ २ पा॰ १ अ॰ १२ सू॰ ३४।
१ क. ख. ग. ङ. ०नां शरीरित्वं०। २ ग. ०था मृदादि०। ३ ग. अथोच्यते।
[[580]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] प्राण्यनुष्ठितकर्मादिमपेक्ष्येशः प्रवर्तते। नातो वैषम्यनैर्घृण्ये संसारस्तु न चाऽऽदिमान् " इति। ईश्वरो देवादीनत्यन्तसुखिनः सृजति पश्वादीनत्यन्तदुःखिनो मनुष्यांश्च मध्यमानेवं तारतम्येन पुरुषविशेषेषु सुखदुःखे सृजन्नीश्वरः कथं विषमो न स्यात्। कथं च नीचैरप्यत्यन्तजुगुप्सितं देवतिर्यङ्मनुष्याद्यशेषजगदुपसंहारं कुर्वन्निर्घृणो न भवेत्। तस्माद्वैषम्यनैर्घृण्ये प्रसज्येयातामिति प्राप्ते: — न तावदीश्वरस्य वैषम्यप्रसङ्गोऽस्ति। प्राणिनामुत्तममध्यमाधमलक्षणवैषम्ये तत्तत्कर्मणामेव प्रयोजकत्वात्। न चैतावतेश्वरस्य स्वातन्त्र्यहानिः। अन्तर्यामितया कर्माध्यक्षत्वात्। न त्वेतं सति *घट्टकुटिप्रभातन्याय आपद्यते। ईश्वरे वैषभ्यं परिहर्तुं कर्मणां वैषम्ये हेतुत्वमुक्त्वा पुनरपीश्वरस्य स्वातन्त्र्यसि- द्धये तत्कर्मनियामकत्वेऽभ्युपगम्यमाने सत्यन्ततो गत्वा चेश्वरस्यैव वैषम्यहेतु-त्वप्रसङ्गात्। शक्तयस्तु मायाशरीरभूताः। न तु तासामुत्पादक ईश्वरः। ततः स्वशक्तिवशात्तत्तत्कर्मणां वैषम्यहेतुत्वेऽपि न व्यवस्थापकस्येश्वरस्य वैषम्यप्रसङ्गः। संहारस्य सुषुप्तिवददुःखजनकत्वात्प्रत्युत सर्वक्लेशनिवर्तकत्वाच्च। ततः सघृणत्वमेव। नन्ववान्तरसृष्टिषु पूर्वपूर्वकर्मापेक्षया सृजत ईश्वरस्य वैषम्याभावेऽपि प्रथमसृष्टौ पूर्वकर्मासंभवाद्वैषम्यदोषस्तदवस्थ इति चेन्न। सृष्टिपरम्पराया अनादित्वात्। नान्तो न चाऽऽदिरित्यादिशास्रात्। तस्मान्न कोऽपि दोषः। +त्रयोदशाधिकरणमारचयति________________________ “नास्ति प्रकृतिता यद्वा निर्गुणस्यास्ति नास्ति सा। मृदादेः सगुणस्यैव प्रकृतित्वोपलम्भनात्॥ भ्रमाधिष्ठानताऽस्माभिः प्रकृतित्वमुपेयते। निर्गुणोऽप्यस्ति जात्यादौ सा ब्रह्म प्रकृतिस्ततः॥
प्रकृतित्वं नाम कार्याकारेण विक्रियमाणत्वम्। तच्च लोके सगुण एव मृदा- दावुपलब्धम्। अतो निर्गुणस्य ब्रह्मणः कथं प्रकृतितेति प्राप्ते ब्रूम: — यद्यपि प्रक्रियतेऽनयेतिव्युत्पत्त्या विक्रियमाणत्वं प्रतीयते तथाऽपि तद्विक्रियमाणत्वं द्वेधाऽपि संभवति। क्षीरादिवत्परिणामित्वेन वा रज्ज्वादिवद्भ्रमाधिष्ठानत्वेन वा। तत्र निर्गुणस्य परिणा-
*यथा कश्चित्सायं पान्थो द्रव्यलिप्सुर्घट्टपालभिया(घट्टो पर्वतीयविषम- मार्गः) तान्प्रतारयितुं पलायनमार्गभ्रंशात्पुनरपि प्रातर्घट्टकुट्यामेवाऽऽ-यातीति। +सर्वधर्मोपपत्तेश्च– अ॰ २ पा॰ १ अ॰ १३ सू॰ ३४।
१ क. घ. ङ. गत्वेश्वरवै०।
[[581]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। मित्वासंभवेऽपि भ्रमाधिष्ठानत्वमस्तु। द्दश्यते हि निर्गुणेऽपि जात्यादौ भ्रमाधिष्ठानता। मलिनं ब्रह्मणं द्दष्ट्वा शूद्रोऽयमिति भ्रान्तिव्यवहारदर्शनात्। तस्मान्निर्गुणमपि ब्रह्म प्रकृतिरिति सिद्धम्”। द्वितीयपादेऽष्टाभिरधिकरणैर्मतान्तरनिराकरणेन ब्रह्मणो जगत्कारणत्वं प्रतिष्ठापितम्। तत्र *प्रथमाधिकरणमारचयति________________________ “प्रधानं जगतो हेतुर्न वा सर्वे घटादयः। अन्विताः सुखदुःखाद्यैर्यतो हेतुरतो भवेत्। न हेतुर्योग्यरचनाप्रवृत्त्यादेरसंभवात्। सुखाद्या आन्तरा बाह्या घटाद्यास्तु कुतोऽन्वयः॥
सुखदुःखमोहात्मकं प्रधानं जगतः प्रकृतिः। जगति सुखाद्यन्वयदर्शनात्। घटपटादयो लभ्यमानाः सुखाय भवन्त्युदकाहरणप्रावरणादिकार्यकारित्वात्। अत एव घटादयोऽन्यैरपह्रियमाणास्तस्यैव दुःखजनकाः। यदा तूदकानयनादिकार्यं नापेक्षितं तदा न सुखदुःखे जनयन्ति। केवलमुपेक्षणीयत्वेनातिष्ठन्ते। तदिदमुपेक्षाविषयत्वं मोहः। मुह वैचित्य इतिधातोर्मोहशब्दनिष्पत्तेः। उपेक्षणीयेषु च चित्तवृत्त्यनुदयात्। अतः सुखदुःखमोहान्वयदर्शनात्प्रधानं प्रकृतिरिति सांख्या मन्यन्त इति प्राप्ते ब्रूम: — न प्रधानं जगतो हेतुः। देहेन्द्रियमहीधरादिरूपस्य विचित्रस्य प्रतिनियतसंनिवेशविशेषस्य जगतो रचनायामचेतनस्य प्रधानस्य योग्यत्वासंभवात्। लोके हि प्रतिनियतकार्यस्य विचित्रप्रासादादेरतिबुद्धिमत्कर्तृकत्वोपलम्भनात्। आस्तां तावदियं रचना तत्सिद्ध्यर्थं प्रवृत्तिरपि नाचेतनस्योपपद्यते। चेतनानधिष्ठिते शकटादौ तददर्शनात्। अथ पुरुषस्य चेतनस्य प्रकृत्यधिष्ठातृत्वमभ्युपगम्येत तर्ह्यसङ्गत्वं पुरुषस्य हीयेतेत्यपसिद्धान्तापत्तिः। यदुक्तं सुखदुःखमोहान्विता घटादय इति। तदसत्। सुखादीनामान्तरत्वाद्धटादीनां बाह्यत्वात्। तस्मान्न प्रधानं जगद्धेतुः”। +द्वितीयाधिकरणमारचयति— “नास्ति काणाददृष्टान्तः किंवाऽस्त्यसद्दशोद्भवे। नास्ति शुक्लः पटः शुक्लतन्तोरेव हि जायते॥ अणुव्द्यणुकमुत्पन्नमनणोः परिमण्डलात्। अदीर्घाद्व्द्यणुकाद्दीर्घं त्र्यणुकं तन्निदर्शनम्॥
*रचनानुपपत्तेश्च नानुमानम्–अ॰ २ पा॰ २ अ॰ १ सू॰ १। +महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम्–अ॰ २ पा॰ २ अ॰ २ सू॰ ११।
१ ग. ०णे जा०। २ ग. ०ति व्य०। ३ क. ङ. सुखदुःखा०। ४ ख. ०न्ते यदि०। ५ ग. घ. अस्ति। ६ क. ख. ग. ङ. ०मणवः प०।
[[582]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] पूर्वस्मिन्पादे चेतनाद्ब्रह्मणो विलक्षणचेतनं जगज्जायत इत्यत्र सांख्यान्प्रति लोकसिद्धं गोमयवृश्चिकादिनिदर्शनमभिहितम्। तावता सांख्यैः क्रियमाणस्याऽऽक्षेपस्य परिहृतत्वात्स्वपक्षसाधनं संपन्नम्। परपक्षदूषणं चास्मिन्पादे प्रकम्य पूर्वाधिकरणे सांख्यमतं दूषितम्। इतःपरं वैशेषिकमतं दूषयितव्यम्। तन्मतस्य च प्रक्रियाबहुलत्वात्तद्वासनावासितः कश्चित्पुरुषस्तत्प्रक्रियासिद्धं विलक्षणोत्पत्तिदृष्टान्तरमन्तरेण ब्रह्मकारणवादं न बहु मन्यते।अतो विसदृशोत्पत्तौ काणादमतसिद्धो दृष्टान्तोऽस्ति वा न वेति विचार्यते। नास्तीति तावत्प्राप्तम्। यतः शुक्लः पटः शुक्लेभ्य एव तन्तुभ्यो जायते न तु रक्तेभ्यस्तस्मान्नास्तीति प्राप्ते ब्रूम: — अस्त्येव विसदृशोत्पत्तौ दृष्टान्तः। तथा हि। परमाणवः पारिमाण्डल्यपरिमाणयुक्ताः। न त्वणुपरिमाणयुक्ताः। द्वाभ्यां परमाणुभ्यामणुपरिमाणरहिताभ्यामणुपरिमाणोपेतं व्द्यणुकमुत्पद्यते। इदमेकं निदर्शनम्। तथा ह्रस्वपरिमाणोपेतत्वाद्दीर्घपरिमाणरहितं व्द्यणुकं तादृशेभ्यस्त्रिभ्यो व्द्यणुकेभ्यो दीर्घपरिमाणोपेतमणुपरिमाणरहितं त्र्यणुकमुत्पद्यते। इदमपरं निदर्शनम्। एवमन्यान्यपि तत्प्रक्रियाप्रसिद्धानि निदर्शनान्युदाहरणीयानि”।
*तृतीयाधिकरणमारचयति________________________ “जनयन्ति जगन्नो वा संयुक्ताः परमाणवः। आद्यकर्मजसंयोगाद्व्द्यणुकादिक्रमाज्जनिः॥ सनिमित्तानिमित्तादिविकल्पेष्वाद्यकर्मणः। असंभवादिसंयोगे जनयन्ति न ते जगत्” इति॥ प्रलीने पूर्वसिद्धे जगति यदा महेशस्य सिसृक्षा भवति तदा प्राणिकर्मवशा- न्निश्चलेषु परमाणुष्वाद्यं कर्मोत्पद्यते। तस्मात्कर्मण एकः परमाणुः परमाण्व- न्तरेण संयुज्यते। तस्मात्संयोगाद्व्द्यणुकमारभ्यते। तेभ्यस्त्रिभ्यो व्द्यणुकेभ्य- स्त्र्यणुकमित्यादिक्रमेण कृत्स्नस्य जगत उत्पत्तौ बाधकाभावात्संयुक्ताः परमाणवो जगज्जनयन्तीति प्राप्ते ब्रूम: — यदेतदाद्यं कर्म तत्सनिमित्तमनिमित्तं वा। अनिमित्तत्वे नियामकाभावात्सर्वदा तदुत्पत्तौ प्रलयाभावप्रसङ्गः। सनिमित्तत्वेऽपि तन्निमित्तं दृष्टमदृष्टं वा। न तावदृष्टम्। प्रयत्नस्वा वाऽभिघातस्य वा शरीरोत्पत्तेः प्रागसंभवात्। ईश्वरप्रयत्नस्य नित्यस्य कदाचित्कीमाद्यकर्मोत्पत्तिं प्रत्यनियामकत्वात्। नाप्यदृष्टमाद्यकर्मनिमित्तम्। आत्मसमवेतस्यादृष्टस्य परमाणुभिरसंबन्धात्। अत एवमादिविकल्पदोषप्रसरे सत्याद्यकर्मासंभवान्न परमाणुसंयोगो जायते। ततः संयुक्तेभ्यः परमाणुभ्यो जगज्जनिरितिमतं दूरापास्तम्।
*उभयथाऽपि न कर्मातस्तदभाव: — अ॰ २ पा॰ २ अ॰ ३ सू॰ १२।
१ ग. ०दाद्यक०।
[[583]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।
*चतुर्थाधिकरणमारचयति________________________ “समुदायावुभौ युक्तावयुक्तौ वाऽणुहेतुकः। एकोऽपरः स्कन्धहेतुरित्येवं युज्यते द्वयम्॥ स्थिरचेतराहित्यात्स्वयं चाचेतनत्वतः। न स्कन्धानामणूनां वा समुदायोऽत्र युज्यते॥ बाह्यास्तित्ववादिनो बौद्धा मन्यन्ते। द्वौ समुदायौ बाह्य आभ्यन्तरश्चेति। तत्र बाह्यो भूनदीसमुद्रादिकः। आन्तरश्चित्तचैत्यात्मकः। तदेतत्समुदायद्वयमेवाशेषं जगत्। तत्र बाह्यसमुदायस्य परमाणवः कारणम्। ते च परमाणवश्चतुर्विधाः। केचित्खराः पार्थिवाख्याः। अपरे स्निग्धा आप्याख्याः।अन्ये चोष्णास्तैजसाख्याः।अन्ये चलनात्मका वायवीयाख्याः।तेभ्यश्चतुर्विधेभ्यः परमाणुभ्यो युगपत्पुञ्जीभूतेभ्यो बाह्यः समुदायो जायते। आन्तरस्य समुदायस्य स्कन्धपञ्चकं कारणम्। रूपस्कन्धो विज्ञानस्कन्धो वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कस्कन्धश्चेति पञ्च स्कन्धाः। तत्र चित्तेन निरूप्यमाणाः शब्दस्पर्शादयो रूपस्कन्धः। तदभिव्यक्तिर्विज्ञानस्कन्धः। तज्जन्यसुखदुःखे वेदनास्कन्धः। देवदत्तादिनामधेयं संज्ञास्कन्धः। एतेषां वासना संस्कारस्कन्धः। तेभ्यः पञ्चस्कन्धेभ्यः पुञ्चीभूतेभ्य आन्तरसमुदायो जायते। तस्माद्युज्यते। तस्माद्युज्यते समुदायद्वयमिति प्राप्ते ब्रूम: — किमणूनां स्कन्धानां च संघातापत्तौ निमित्तभूतश्चेतनोऽन्योऽस्ति। किंवा स्वयं संहन्यन्ते। आद्येऽपि स चेतनः स्थायी क्षणिको वा स्यात्। स्थायित्वेऽपसिद्धान्तः। क्षणिकत्वे प्रथमं स्वयमलब्धात्मकः पञ्चात्संघातापत्तिं करोतीति वक्तुमशक्यम्। द्वितीये त्वचेतनाः स्कन्धा अणवश्च नियामकं चेतनमन्तरेण प्रतिनियताकारेण कथं संहन्यन्ताम्। तस्मान्न युक्तं समुदायद्वायम्”। पञ्चमाधिकरणमारचयति— “विज्ञानस्कन्धमात्रत्वं युज्यते वा न युज्यते। युज्यते स्वप्नदृष्टान्ताद्बुध्द्यैव व्यवहारतः॥ अबाधात्स्वप्नवैषम्याद्बाह्यार्थस्तूपलभ्यते। बहिर्वदिति तेऽप्युक्तिर्नातो धीरर्थरूपभाक् " इति। केचिद्बौद्धा बाह्यार्थमपलपन्तो विज्ञानस्कन्धमात्रं तत्त्वमित्याहुः। न चात्र व्यवहारानुपपत्तिः स्वप्ने बाह्यार्थाननपेक्ष्य केवलया बुध्द्या व्यवहारदर्शनात्। तथैव जाग्रव्द्यव-
- समुदाय उभयहेतुकेऽपि तद्प्राप्ति: — अ॰ २ पा॰ २ अ॰ ४ सू॰ १८। + नाभाव उपलब्धे: — अ॰ २ पा॰ २ अ॰ ५ सू॰ २८।
१ क. ख. ङ. ०चित्स्थिराः। २ ग. चान्तरिक्षात्मका। घ. च तरलात्मका। ३ ख. ग. घ. ०नां सं०।
[[584]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] हारस्याप्युपपत्तेः। तस्माद्विज्ञानस्कन्धमात्रत्वं युज्यत इति प्राप्ते ब्रूम: — विष- मो हि स्वप्नदृष्टान्तः प्रबोधदशायां स्वप्नस्य बाध्यमानत्वात्। जाग्रव्द्यवहारस्य न क्वचिद्बाधं पश्यामः। न च बाह्यार्थसद्भावे प्रमाणाभावः।उपलब्धेरेव प्रमाणत्वात्। उपलभ्यन्ते हि घटादयो बहिष्ठत्वेन। अथोच्येत। बुद्धिरेव बाह्यघटादिवदवभासते। तथा चाऽऽहु: — “यदन्तर्ज्ञेयं तत्त्वं तद्बहिर्वदवभासते " इति। एवं तर्हि त्वदुक्तिरेव बाह्यार्थसद्भावे प्रमाणमिति ब्रूमः। क्वचिदपि बाह्यार्थसद्भावे तद्व्युत्पत्तिरहितत्वाद्बहिर्वदित्युपमानोक्तिर्न संगच्छते। तस्माद्बाह्यार्थसद्भावाद्विज्ञानमात्रत्वं न युक्तम्”। *षष्ठाधिकरणमारचयति— “सिद्धिः सप्तपदार्थानां सप्तभङ्गीनयान्न वा। साधकन्यायसद्भावात्तेषां सिद्धौ किमद्भुतम्॥ एकस्मिन्सदसत्त्वादिविरुद्धप्रतिपादनात्। अपन्यायः सप्तभङ्गी न च जीवस्य सांशता॥
अत्राऽऽर्हता मन्यन्ते। जीवोऽजीवश्चेति द्वौ पदार्थौ। जीवश्चेतनः शरीरपरिमाणः सावयवः। अजीवः षड्विधः। तत्र महीधरादिरेकः। आस्रवसंवरनिर्जरबन्धमोक्षाख्याः पञ्च। आस्रवत्यनेन जीवो विषयेष्वित्यास्रव इन्द्रियसंघातः। संवृणोति विवेकमित्यविवेकादिः संवरः। निःशेषेण जीर्णत्यनेन कामक्रोधादिरिति केशोल्लुञ्चनतप्तशिलारोहणादिकं तपो निर्जरः। कर्माष्टकेनाऽऽपादिता जन्ममरणपरम्परा बन्धः। चत्वारि घातकर्माणि पापविशेषरूपाणि। चत्वारि चाघातकर्माणि पुण्यविशेषरूपाणि। शास्त्रोक्तोपायेन तेभ्योऽष्टभ्यः कर्मभ्यो विनिर्गतस्य जीवस्य संततोर्ध्वगमनं मोक्षः। त एते सप्त पदार्थाः सप्तभङ्गीरूपेण न्यायेन व्यवस्थाप्यन्ते—१ स्यादस्ति, २ स्यान्नास्ति, ३ स्यादस्ति च नास्ति च, ४स्यादवक्तव्यः, ५स्यादस्ति चावक्त-व्यश्च, ६स्यान्नास्ति चावक्तव्यः, ७स्यादस्ति च नास्ति चावक्तव्यश्चेति सप्तभङ्गीनयः। अस्यायमर्थः। स्याच्छब्द ईषदर्थवाची निपातः। प्रतिवादिनो हि चतुर्विधाः। सद्वादिनोऽसद्वादिनः सदसद्वादिनोऽनिर्वचनीयवादिनश्चेति। पुनरप्यनिर्वचनीयमतेन मिलितानि सदसदादीनि मतानि त्रिविधानि। तानेतान्सप्तविधान्वादिनः प्रति सप्तविधा न्यायाः प्रयोक्तव्याः। तद्यथा। सद्वादी समागत्याऽऽर्हतं प्रति किं त्वन्मते मोक्षोऽस्तीति पृच्छति। तत्राऽऽर्हत उत्तरं ब्रूत ईषदस्तीति। एवमन्यानपि वादिनः प्रतीषन्नास्तीत्यादीन्युत्तरा
*नैकस्मिन्नसंभवात्—अ॰ २ पा॰ २ अ॰ ६ सू॰ ३३।
१ ग. घ. घातिक०। २ ग. घ. ०घातिक०। ३ घ. ०स्त्रोक्तेनोपा०। ४ घ. मिश्रितानि ५ घ. सदादिम०।
[[585]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। ण्युदाहर्तव्यानि। तावता वादिनः सर्वे निर्विण्णाः सन्तो नोत्तरं प्रतिपद्यन्ते। अतोऽस्य सप्तभङ्गीरूपस्य साधकन्यायस्य सद्भावाज्जीवादीनां सप्तपदार्थानां सिद्धौ किमत्राऽऽश्चर्यमिति प्राप्ते ब्रूम: — सप्तभङ्गीरूपेऽयमपन्यायः। एकस्य जीवपदार्थस्य सद्वादिनं प्रति सद्रूपत्वमसद्वादिनं प्रत्यसद्रूपत्वं चेत्येवमादिविरुद्धर्धमप्रतिपादकत्वात्। न च जीवस्य सावयवत्वं युज्यतेऽनित्यत्वप्रङ्गात्। तदनित्यत्वे च मोक्षः कस्य पुरुषार्थः स्यात्। तस्मान्न्यायाभासेन सप्तभङ्ग्याख्येन जीवादिपदार्थानां न सिद्धिः। *सप्तमाधिकरणमारचयति— “तटस्थेश्वरवादो यः स युक्तोऽथ न युज्यते। युक्तः कुलालदृष्टान्तान्नियन्तृत्वस्य संभवात्॥ न युक्तो विषमत्वादिदोषाद्वैदिक ईश्वरे। अभ्युपेते तटस्थत्वं त्याज्यं श्रुतिविरोधतः॥ पूर्वाध्यायस्योपान्त्याधिकरणे जगतो निमित्तमुपादानं चेश्वर इत्यागमबलादुक्तम्। तदेतदसहमानास्तार्किकशैवादयः केवलं निमित्तत्वमीश्वरस्य मन्यन्ते। युक्तिं चाऽऽहु: — यथा कुलालोऽनुपादानादिभूतो दण्डचक्रादीन्नियच्छन्पर्ता भवति तथा तटस्थ ईश्वर इति प्राप्ते ब्रूम: — न युक्तं केवलनिमित्तत्वं वैषम्यनैर्घृण्यादिदोषस्य दुष्परिहरत्वात्। कथं त्वया परिहृतो दोष इति चेत्प्राणिकर्मसापेक्षत्वादिति ब्रूमः। तथात्वे चाऽऽगमोऽस्माकं प्रमाणं, त्वयाऽप्यन्ततो गत्वाऽऽगमश्चेदङ्गी क्रियते तर्हि तटस्थत्वमीश्वरस्य त्याज्यं स्यात्। बहु स्यां प्रजायेयेत्युपादानत्वश्रुत्या विरोधात्। तस्मान्न युक्तस्तटस्थेश्वरवादः “। +अष्टमाधिकरणमारचयति— “जीवोत्पत्त्यादिकं पाञ्चरात्रोक्तं युज्यते न वा। युक्तं नारायणव्यूहतत्समाराधनादिवत्॥ युज्यतामविरुध्दोंऽशो जीवोत्पत्तिर्न युज्यते। उत्पन्नस्य विनाशित्वे कृतनाशादिदोषतः॥ पाञ्चरात्रिका भागवता मन्यन्ते—भगवानेको वासुदेवो जगत उपादानं निमित्तं च। तत्समाराधनज्ञानध्यानैर्भवबन्धविच्छेदः। तस्माच्च वासुदेवात्संकर्षणाख्यो जीवो जायते। जीवाच्च प्रद्युम्नाख्यं मनः। मनसश्चानिरुद्धाख्योऽहंकारः। त एते वासुदेवादयश्चत्वारो व्यूहाः सर्वात्मका इति प्राप्ते ब्रूम: — तत्र वासुदेवं तत्समाराधना
*पत्युरस्मञ्जस्यात्—अ॰ २ पा॰ २ अ॰ ७ सू॰ ३७। उत्पत्त्यसंभवात्–अ॰ २ पा॰ २ अ॰ ८ सू॰ ४२।
१ घ. ०दानभू०। २ घ. ०था सत्याग०।
[[586]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] दिकं च श्रुत्यविरोधादभ्युपगच्छामः यत्तु जीव उत्पद्यत इत्युक्तं तदसत्। कृत-नाशाकृताभ्यागमप्रङ्गात्। पूर्वसृष्टौ यो जीवस्तस्मिन्नुत्पत्तिमत्त्वेन प्रलयदशायां विनष्टे सति तत्कृतयोर्धर्माधर्मयोरफलप्रदत्वेन विनाशः प्रसज्यते। अस्मिंश्च कल्प उत्पद्यमानस्य नूतनजीवस्य धर्माधर्मयोः पूर्वमननुष्ठितयोः सतोरिह सुखदुःखप्राप्तिर्भवतीत्यकृत्यकृताभ्यागमः प्रसज्येत। तस्माज्जीवोत्पत्त्यादिकं न युक्तम्”। तृतीयपादे नवभिराधिकरणैराकाशादिसृष्टिर्विचारिता। तत्र *प्रथमाधि- करणमारचयति– “व्योम नित्यं जायते वा हेतुत्रयविवर्जनात्। जनिश्रुतेश्च गौणत्वान्नित्यं व्योम न जायते॥ एकज्ञानात्सर्वबुद्धेर्विभक्तत्वाज्जनिश्रुतेः। विवर्ते कारणैकत्वाद्ब्रह्मणो व्योम जायते॥ तैत्तिरीये—” तस्माद्वा एतस्मादात्मन आकाशः संभूतः " इति श्रूयते। तत्राऽऽकाशं नित्यं न तु जन्मवत्। कुतः। आकाशोत्पादकस्य समवाय्य समवायिनिमित्ताख्यकारणत्रितयस्य दुःसंपादत्वात्। संभूत इति जनिश्रुतिस्तु संप्रतिपन्नब्रह्मकार्यवद्व्योम्नि सत्ताश्रयत्वगुणयोगात्प्रवृत्ता। तस्मादनाद्यनन्तं व्योम न जायत इति प्राप्ते ब्रूम: — एकविज्ञानेन सर्वविज्ञानं तावदशषेषु वेदान्तेषु डिण्डिमः। तच्च व्योम्नो ब्रह्मकार्यत्वे मृद्धटन्यायेन ब्रह्माव्यतिरेकादुपपादयितुं सुशकम्। नान्यथा। किंचाऽऽकाशं जायते विभक्तत्वाद्धटवत्। न चायमसिद्धो हेतुः। वाय्वादिवैलक्षण्यस्याऽऽकाशे प्रसिद्धत्वात्। नापि ब्रह्मण्यनैकान्तिकत्वम्। सर्वात्मकस्य ब्रह्मणः कस्माच्चिदपि विभक्तत्वस्य दुर्भणत्वात् ।जनिश्रुतिश्चोत्पत्तिवादिनाऽनुगृहीता भवति। यत्तु काऱणत्रितयासंभव इत्युक्तम्। तदसत्। आरम्भवादे त्रितयापेक्षायामपि विवर्तवादे तदनपेक्षत्वात्। तस्मादेतेभ्यो हेतुभ्यो ब्रह्मणः कारणाव्द्योम जायते “। +द्वितीयाधिकरणमारचयति— “वायुर्नित्यो जायते वा छान्दोग्येऽजन्यकीर्तनात्। सैषाऽनस्तमिता देवतेत्युक्तेश्च न जायते॥ श्रुत्यन्तरोपसंहाराद्गौण्यनस्तमयश्रुतिः। वियद्वज्जायते वायुः स्वरूपं ब्रह्म कारणम्॥
+न वियदश्रुते: — अ॰ २ पा॰ ३ अ॰ १ सू॰ १। + एतेन मातरिश्वा व्याख्या- त: — अ॰ २ पा॰ ३ अ॰ २ सू॰ ८।
१ ग. घ. ०मत्त्वे प्र०। २ ख. ०सज्येतेति कृतविप्राणाशः। अ०। ३ ग. ०सज्यते। त०। ४ ख. ०शेषवे०।
[[587]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। तैत्तिरीय एवाऽऽकाशाद्वायुरिति श्रूयते। सेयमुत्पत्तिर्गौणी। छान्दोग्ये सृष्टिप्रकरणे तेजोवन्नानामेवोत्पत्त्यभिधानाद्वायोरुत्पत्तयनभिधानात्। ननु क्वचिदश्रवणमन्यत्र श्रुतं न निवारयितुमुत्सहत इति न्यायेन तैत्तिरीयश्रुतेः कुतो गौणत्वामितिचेच्छ्रुत्यन्तरविरोधादिति ब्रूमः। बृहदारण्यके—“सैषाऽनस्तिमिता देवता यद्वायुः " इति वायोर्विनाशप्रतिषेधादुत्पत्तिमत्त्वे च तदयोगात्तस्मान्न जायते वायुरिति प्राप्ते ब्रूम: — श्रुतमेव च्छान्दोग्ये वायुजन्म। अनस्तमयश्रुतिस्तु न मुख्या। उपासनप्रकरणपठितत्वेन स्तुत्यर्थत्वात्। आकाशोत्पत्तिहेतवश्चात्रानुसंधेयाः। न च वायोराकाशकार्यत्वेन ब्रह्म- ण्यनन्तर्भावाद्ब्रह्मज्ञानेन वायुज्ञानं न सिध्येदिति शङ्कनीयम्। पूर्वपूर्वकार्यविशिष्टस्य ब्रह्मण उत्तरोत्तरकार्यहेतुत्वस्य वक्ष्यमाणतया वियद्रूपापन्नस्य ब्रह्मण एव वायुकारणत्वात्। तस्माद्वायुर्जायते”। *तृतीयाधिकरणमारचयति— “सद्ब्रह्म जायते नो वा कारणत्वेन जायते। यत्कारणं जायते तद्वियद्वाय्वादयो यथा॥ असतोऽकारणत्वेन खादीनां सत उद्भवात्। व्याप्तेरजादिवाक्येन बाधात्सन्नैव जायते॥ छान्दोग्ये—“सदेव सोम्येदमग्र आसीत् " इति श्रूयते। तत्सद्रूपं ब्रह्म जन्म- वद्भवितुमर्हति कारणत्वाद्वियदादिवदिति प्राप्ते ब्रूम: — सद्रूपं ब्रह्म न जायते। कुतः। तज्जनकस्य कारणस्य दुर्निरूपत्वात्। तथा हि न तावदसत्कारणं कथमसतः सज्जायेतेति निषेधात्। नापि सदेव सतः कारणमात्माश्रयापत्तेः। नापि वियदादिकं सतः कारणं वियदादीनां सतो जायमानत्वात्। या तु व्याप्तिर्यद्यत्कारणं तत्तज्जायत इति, सा —स वा एष महानज आत्मेत्यादिश्रुतिबाध्या। तस्मात्सद्ब्रह्म नैव जायते”। +चतुर्थाधिकरणमारचयति— “ब्रह्मणो जायते वह्निर्वायोर्वा ब्रह्मसंयुतात्। तत्तेजोऽसृजतेत्युक्तेर्ब्रह्मणो जायतेऽनलः॥ वायोरग्निरितिश्रुत्या पूर्वश्रुत्यैकवाक्यतः। ब्रह्मणो वायुरूपत्वपत्वमापन्नादग्निसंभवः॥
असंभवस्तु सतोऽनुपपत्ते: — अ॰ २ पा॰ ३ अ॰ ३ सू॰ ९। +तेजोऽतस्तथा ह्याह—अ॰ २ पा॰ ३ अ॰ ४ सू॰ १०।
१ ग. ०व सौम्ये०।
[[588]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] छान्दोग्ये तत्तेजोऽसृजतेति ब्रह्मजत्वं श्रूयते। तैत्तिरीयके वायोरग्निरिति वायुजत्वम्। तत्र वायोरिकि पञ्चम्या *आनन्तर्यार्थत्वस्यापि संभवात्केवलब्रह्मजन्यं तेज इति प्राप्ते ब्रूम: — अनुवर्तमानेन संभूतशब्देनान्विताया वायोरितिपञ्चम्या +उपादानार्थत्वस्यैव मुख्यत्वादुभयोः श्रुत्योरेकवाक्यत्वे सति वायुरूपापन्नाद्ब्रह्मणस्तेजो जायत इति लभ्यते “।
*पञ्चमाधिकरणमारचयति________________________ “ब्रह्मणोऽपां जन्म किंवा वह्नेर्नाग्नेर्जलोद्भवः। विरुद्धत्वान्नीरजन्म ब्रह्मणः सर्वकारणात्॥ अग्नेराप इति श्रुत्या ब्रह्मणो वह्नयुपाधिकात्। अपां जन्म विरोधस्तु सूक्ष्मयोर्नाग्निनीरयोः॥ यद्यपि तदपोऽसृजत। अग्नेराप इत्युभयोश्छान्दोग्यतैत्तिरीययोस्तेजोजन्यत्वमेवापां श्रूयते तथाऽपि न तद्युक्तम्। निवर्त्यनिवर्तकयोरग्निजलयोर्विरुद्धयोर्न हेतुहेतुमद्भाव इति पूर्वः पक्षः। पञ्चीकृतयोर्दृश्यमानयोर्विरोधेऽप्यपञ्चीकृतयोः श्रुत्येकसमधिगम्ययोर्विरोधकल्पनायोगात्संतापाधिक्ये स्वेदवृष्टयुद्भवदर्शनाच्च श्रुतिद्वयानुसारेण तेजोरूपापन्नाद्ब्रह्मणोऽपां जनिरिति राद्धःन्तः “। +षष्ठाधिकरणमारचयति— “ता अन्नमसृजन्तेति श्रुतमन्नं यवादिकम्। पृथिवी वा यवाद्येव लोकेऽन्नत्वप्रसिद्धितः॥ भूताधिकारात्कृष्णस्य रूपस्य श्रवणादपि। तथाऽद्भयः पृथिवीत्युक्तेरन्नं पृथ्व्यन्नहेतुतः॥
छान्दोग्ये ता अन्नमसृजन्तेत्यद्भयोऽन्नस्य जन्म श्रूयते। तत्रान्नशब्दस्य लोकप्रसिध्द्या व्रीहियवादिकमर्थ इति प्राप्ते ब्रूम: — पृथिव्यत्रान्नशब्दार्थः। कुतः। पञ्चमहाभूतसृष्टेरधिकृतत्वात्। किंच यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येति श्रुतम्। कृष्णरूपं पृथिव्यां बहुलमुपलभ्यते, न तु व्रीहियवादौ। तथाऽद्भयः पृतिवीति तैत्तिरीयश्रुत्येकवाक्यताबलादत्रान्नं पृथिवी। न चान्नशब्दस्य तत्र प्रवृत्त्यनुपपत्तिः। कार्यकारणयोरन्नपृथिव्योरभेदविवक्षया तदुपपत्तेः। तस्मादन्नं पृथिवी”।
*पञ्चादित्यर्थः। +जनिकर्तुः प्रकृतिरितिसूत्रात्। *आप: — अ॰ २ पा॰ ३ अ॰ ५ सू॰ ११। पृथिव्यधिकाररूपशब्दान्तरेभ्यं: — अ॰ २ पा॰ ३ अ॰ ६ सू॰ १२।
१ घ. युक्तम्। २ ख. श्रुत्यैक०। ३ ख. कृष्णं रू०। ४ घ. ०दन्नं।
[[589]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। *सप्तमाधिकरणमारचयति— “व्योमाद्याः कार्यकर्तारो ब्रह्म वा तदुपाधिकम्। व्योम्नो वायुर्वायुतोऽग्निरित्युक्तेः खादिकर्तृता॥ ईश्वरोऽन्तर्यमयतीत्युक्तेर्व्योमाद्युपाधिकम्। ब्रह्म वाय्वादिहेतुः स्यात्तेजआदीक्षणादपि॥ पूर्वाधिकरणेषु पूर्वपूर्वकार्योपाधिकाद्ब्रह्मण उत्तरोत्तरकार्योत्पत्तिरिति यदेतत्सिद्धवत्कृत्य सिद्धान्तितम्। तदयुक्तम्। व्योम्नो वायुर्वायुतोऽग्निरित्यादौ ब्रह्मनिरपेक्षात्केवलाव्द्योमादेरुत्तरकार्योत्पत्तिश्रवणातिदि प्राप्ते ब्रूम: — “य आकाशमन्तरो यमयति यो वायुमन्तरो यमयति " इत्यादिनाऽन्तर्यामिब्राह्मणे व्योमादेः स्वातन्त्र्यं निवारितम्। तथा—“तत्तेज ऐक्षत ता आप ऐक्षन्त” इति तेजआदेरीक्षणपूर्वकं स्रष्टृत्वं श्रूयते। तच्चेक्षणं चेतनब्रह्मनिरपेक्षाणामचेतनानां न संभवति। तस्माव्द्योमाद्युपाधिकस्य ब्रह्मण एव कारणत्वम् “। +अष्टमाधिकरणमारचयति________________________ “सृष्टिक्रमो लये ज्ञेयो विपरीतक्रमोऽथवा। क्लृप्तं कल्प्याद्वरं तेन लये सृष्टिक्रमो भवेत्॥ हेतावसति कार्यस्य न सत्त्वं युज्यते ततः। पृथिव्यप्स्विति चोक्तत्वाद्विपरीतक्रमो लये॥ आकाशादिक्रमः सृष्टौ क्लूप्तोऽतः प्रलयेऽपि स एव क्रम इति प्राप्ते ब्रूम: — प्रथमतः कारणे लीने सति निरुपादानानां कार्याणां कंचित्कालमवस्थानं प्रसज्येत। किंच— “जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते। ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते “॥ इति पुराणे विपरीतक्रमस्योक्तत्वात्क्लृप्त एवायं क्रमः। तस्मात्सृष्टिविपरीतेन पृथिव्यादिक्रमेण प्रविलयः “। *नवमाधिकरणमारचयति________________________ “किमुक्तक्रमभङ्गोऽस्ति प्राणाद्यैर्नास्ति वाऽस्ति हि। प्राणाक्षमनसां ब्रह्म वियतोर्मध्य ईरणात्॥
- तदभिध्यानादेव तु तल्लिङ्गात्स: — अ॰ २ पा॰ ३ अ॰ ७ सू॰ १३। + विप- र्ययेण तु क्रमोऽत उपपद्यते च—अ॰ २ पा॰ ३ अ॰ ८ सू॰ १४। *अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्—अ॰ २ पा॰ ३ अ॰ ९ सू॰ १५।
१ घ. ०वलव्योमा०। २ ग. घ. प्रसज्यते। ३ घ. प्रलयः।
[[590]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] प्राणाद्या भौतिका भूतेष्वन्तर्भूताः पृथक्क्रमम्। नेच्छन्त्यतो न भङ्गोऽस्ति प्राणादौ न क्रमः श्रुतः॥ मुण्डके श्रूयते________________________“एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायु- र्ज्योतिरापः पृथिवी विश्वस्य धारिणी " इति। तत्र प्राणादीनां वियदादिभ्यः पूर्वं श्रूयमाणत्वादाकाशादिकः पूर्वोक्तसृष्टिक्रमो भज्येतेति प्राप्ते ब्रूम: — “अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् " इति प्राणादीनां भौतिकत्वश्रवणाद्भूतेष्वेवान्तर्भावेन पृथक्क्रमो नापेक्षितः। न च मुण्डकश्रुतिः क्रमवाचिनी। आकाद्वायुर्वायोरग्निरित्यादाविव क्रमस्याप्रतीयमानत्वात्। तदुत्पत्तिमात्रं तु केवलं ब्रूते। तस्मान्नानया श्रुत्या पूर्वोक्तक्रमभङ्गोऽस्ति”। तैरेतैरधिकरणैर्मायाविशिष्टाद्ब्रह्मण आकाशादिका पुरुषान्ता जगदुत्पत्तिः सुस्थिता। तस्यां च सुस्थितायां कारणव्यतिरेकेण कार्यस्याभावाद्ब्रह्मणो देशकालसर्ववस्त्वात्मकत्वेनानन्तत्वं सुस्थितम्। तस्य सत्यं ज्ञानमन न्तमिति प्रतिज्ञातमनन्तत्वं समर्थ्य यो वेद निहितं गुहायामित्युक्तं गुहानिहितत्वं समर्थयितुमन्नमयादिभ्य आनन्दमयान्तेभ्यः पञ्चभ्यः कोशेभ्यो ब्रह्मतत्त्वं विवेक्तुकाम आदावन्नमयकोशं दर्शयति— स वा एष पुरुषोऽन्न॑रस॒मयः, इति।
यः पुरुषः शिरःपाण्यादिमानाकृतिविशेषः सृष्ट्यादावाकाशादिक्रमेणोत्पन्नः स एवैष इदानीमस्मद्देहत्वेनानुभूयते। यद्यप्ययं न सृष्ट्यादावुत्पन्नस्त-थाऽप्याकाशादिपरम्पराप्राप्तान्नकार्यत्वेन सजातीयतया स एवोच्यते। तामेतां विवक्षां स्पष्टीकर्तुमन्नरसमयशब्दः। मधुराम्ललवणतिक्तकटुकषायात्मकः षड्विधोऽन्नस्य रसस्तस्य च विकारोऽन्नरसमयः। मातापितृभ्यां भुक्तान्नरसस्तयोः शरीरे त्वगसृङ्मांसमेदोस्थिमज्जाशुक्राख्यसप्तधातुरूपेण क्रमात्परिणतः सन्गर्भाशये प्रविश्य पुनर्देहरूपेण विक्रियते। तथा च गर्भोपनिषद्याम्नायते–“षड्विधो रसो रसाच्छोणितं शोणितान्मांसं मांसान्मेदोमेदसोऽस्थीन्यस्थिभ्यो मज्जा मज्जायाः शुक्रं शुक्रशोणितसंयोगादावर्तते गर्भः " इति। एतेनान्नरसमयेन स्थूलदेहेन तदन्तर्वर्ती सूक्ष्मदेहोऽप्युपलक्ष्यते। तस्यापञ्चीकृतभूतकार्यत्वाद्भुक्तेनान्नादिना पोष्यमाणत्वाच्च। तत्र भूतकार्यत्वमाचार्यैरुदाहृतम्—“अपञ्चीकृतपञ्चमहाभूतानि तत्कार्यं च सप्तदशकं लिङ्गं भौतिकम् " इति। अन्नादिपोष्यत्वं छन्दोगैराम्नायते—“अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् " इति। उपवासेन प्रक्षीणशक्तिकस्य मनसः पारणेनाऽऽप्यायनं जन्तूनामन्वयव्यतिरेकसिद्धम्। तथा मार्गश्रमेण प्रक्षीणशक्तेः प्राणो जलपानेनाऽऽप्यायमानो लोके दृश्यते। तथा
१ घ. ०तेष्वन्त०। २ घ. ०या पू०। ३ घ. ०शादिपु०। ४ क. ख. घ. ङ. ०हाहि०। ५ ग. भुक्तोऽन्न०। ६ ख. ग. ०शुक्लाख्य०। ७ ख. ग. घ. शुक्लं शुक्लशो०। ८ घ. था च मा०।
[[591]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। घृततैलादितैजसद्रव्यसेवया कण्ठशुद्धिं कृत्वा वाचं पोषयन्तो गायका उपलभ्यन्ते। ईदृशेन मनःप्राणवागादिना लिङ्गदेहेन संयुतो योऽन्नकार्यः स्थूलदेहोऽस्माभिरुपलभ्यते सोऽयमाध्यात्मिकः। एतेनाऽऽधिदैविको वैराजदेहो ब्रह्माण्डरूप उन्नेयः। सोऽप्याचार्यैर्वार्तिके दर्शित: — “दिगादिकरणो देवः पञ्चभूतशरीरभृत्। सर्वोऽस्मीत्यभिमानेद्धो विराडेवमजायत " इति॥ सोऽयमन्नमयः कोशः शाखाग्रचन्द्रदर्शनन्यायेन ब्रह्मतत्त्वं बोधयितुमुपन्यस्तः। अथास्य कोशस्य चित्याग्निवत्पक्ष्याकारेणोपासनार्थं पञ्चावयवानुपन्यस्यति________________________ तस्येद॑मेव॒ शिरः। अयं दक्षि॑णः प॒क्षः। अयमु- त्त॑रः प॒क्षः। अयमात्मा॑। इदं पुच्छं॑ प्रति॒ष्ठा, इति। यथा श्येनकङ्कादिपक्ष्याकारेण चीयमानस्याग्नेः शिरः पक्षौ मध्यशरीरं पुच्छं चेति पञ्चावयवा एवमत्रापि द्रष्टव्यम्। तस्योपासितव्यस्यान्नमयस्य ग्रीवाया उपरि प्रसिद्धत्वेन दृश्यमानमिदमेव शिरः। नात्रोपचारः कश्चिदस्ति। तथा दृश्यमानौ हस्तावेव पक्षत्वेन ध्यातव्यौ। कण्ठादधस्तान्नाभेश्चोपरिष्टाद्दृश्यमानोऽयं शरीरभाग आत्मा जीवावस्थानक्षमदेशरूपो मध्यदेहः “मध्यं ह्येषामङ्गानामात्मा " इति श्रुतेः। नाभेरधोवर्ति यदङ्गमस्ति तदिदं पक्ष्याकारस्य पुच्छस्थानीयम्। तच्च प्रतिष्ठा शरीराधारः, प्रतितिष्ठत्यस्या-मिति शब्दस्य व्युत्पत्तिः। मनुष्याशरीरे नाभेरधोभागस्योर्ध्वभागं प्रत्याधारत्वं प्रसिद्धम्। गवादिशरीरे मक्षिकादिनिवारणेन पुच्छस्याऽऽधारत्वं द्रष्टव्यम्। पुच्छस्याऽऽधारतोक्तिरुपासनार्था।
तदेवमन्नमयकोशस्योपासनीय आकारः प्रतिपादितः। अथास्य कोशस्य तदुपासनस्य च ब्राह्मणवाक्येनाभिहितस्य संवादेन दार्ढ्यार्थं कंचिन्मन्त्रमुदाहरति— तदप्येष श्लो॑को भ॒वति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमःप्र- पाठके प्रथमोऽनुवाकः॥ १॥
वैदिकमतानुसरणेन मूलक्रमतोऽत्रानुवाकपरिसमाप्तिरस्ति, परं च भाष्यकारमतेनात्रानुवाकसमप्तिर्नैव। किंतु तेषां मतेनास्य प्रपाठकस्यानु- वाकद्वयमेव। तत्र प्रथमोऽनुवाकः शान्तिसमाप्तावेवावसितः। द्वितीयश्च ब्रह्मविदाप्नोति परमित्यारभ्य प्रपाठकसमाप्तौ समापितः। अतोऽत्र वैदिक मतानुसरणेनैव मूले क्रमः प्रतिनिविष्टो भाष्ये भाष्यकारमतानुसरणेन। एवं पुरतः सर्वत्रोहनीयम्।
१ ग. उपलक्ष्यन्ते। २ ग. ०दिलि०। ३ घ. संयुक्तो। ४ घ. मध्यं श०। ५ क. ख. ङ. ०चारात्कश्चि०। ६ ग. घ. ०नदे०।
[[592]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] अन्ना॒द्वै प्र॒जाः प्र॒जाय॑न्ते। याः काश्च॑ पृथि॒ ँ श्रि॒ताः। अथो॒ अन्ने॑नै॒व जी॑वन्ति। अथै॑न॒दपि॑यन्त्यन्त॒चः। अन्न॒ ँ हि भू॒तानां॒ ज्येष्ठ॑म्। तस्मा॑त्सर्वौष॒धमु॑च्यते। सर्वं॒ वै तेऽन्न॑माप्नु- वन्ति। येऽन्नं॒ ब्रह्मोपास॑ते। अन्न॒ ँ हि भू॒तानां॒ ज्येष्ठ॑म्। तस्मा॑- त्सर्वौष॒धमु॑च्यते। अन्ना॑द्भू॒तानि॒ जाय॑न्ते। जाता॒न्यन्ने॑न वर्धन्ते। अद्यतेऽत्ति च॑ भूता॒नि। तस्मादन्नं तदुच्य॑त इ॒ति, इति।
तदपि तस्मिन्नप्यर्थे ब्राह्मणोक्तेऽन्नमयकोशे संवादबुद्धिजनक एष वक्ष्यमाणोऽन्नाद्वै प्रजा इत्यादिकस्तस्मादन्नं तदुच्यत इत्यन्तः श्लोकः पादबद्धो मन्त्रो विद्यते। पूर्व सूत्रोक्तेऽर्थे काचिदृगुदाहृता। तत्समुच्चयमभिप्रेत्यात्रापिशब्दः प्रयुक्तः। चतुर्दशभिः पादैरुपेतोऽयं श्लोकः। ईद्दशस्य लोकप्रसिद्धस्य च्छन्दोविशेषस्याभावेऽपि वैदिकं किंचिदतिच्छन्दो भविष्यति। जरायुजाण्डजादिदेहरूपाः प्रजा याः काश्चित्पृथिवीमाश्रित्योपलभ्यन्ते। ताः सर्वा अन्नदेवोत्पद्यन्ते। तच्च पूर्वमेव प्रपञ्चितम्। अपि चान्नेनैव जीवन्ति प्राणान्धारयन्ति तत्तु लोके प्रसिद्धम्। अथ जीवनानन्तरमन्तत आयुषोऽन्ते ताः प्रजा एतदन्नमपियन्ति प्रविशन्ति अन्ने लीयन्ते। मृगादिदेहानां व्याघ्राद्यन्नत्वेनान्ने लयो द्रष्टव्यः। हि यस्मात्कारणादन्नं भूतानां प्राणिदेहानां ज्येष्ठमुक्त- रीत्या कारणम्। तस्मात्कारणात्सर्वौषधं सर्वेषां प्राणिनां क्षुद्रोगनिवर्तकमित्युच्यते। निवर्तिते हि क्षुद्रोगे जीवनरूपायाः स्थितेः कारणं भवति। अतः स्थितिहेतुत्वसिद्धये क्षुन्निवर्तकत्वं युक्तम्। अनेनोत्पत्तिस्थितिलयकारणत्वप्रतिपादनेनान्नमयकोशः प्रपञ्चितः। सर्वं वा इत्यादिना सफलमुपासनं विधीयते। ये पुरुषा अन्नं ब्रह्मोपासतेऽन्ने प्रतीके ब्रह्मदृष्टिं कुर्वन्ति ब्रह्मदृष्ट्या संस्कृतमन्नं देहाकारेण परिणतं सच्छिरआदिभिः पुच्छान्तैरवयवैरुपेतमिति ध्यायन्ति, ते ध्यातार सर्वमेवान्नं भक्ष्यभोज्यलेह्यचोष्यरूपं प्राप्नुवन्ति। यद्वा वियदादिपरम्परया ब्रह्मणः सकाशान्निष्पन्नमन्नमाध्यात्मिकमानुषदेहरूपे-णाऽऽधिदैविकविराड्रूपेण चावस्थितं तेनान्नोपाधिना विशिष्टं ब्रह्मोपासकाः पुरुषाः सर्वात्मकं विराड्रूपं प्राप्य ब्रह्मादिस्तम्बान्तानां सर्वेषां प्राणिनां यद्यदुचितमन्नं तत्ततत्सर्वं प्राप्नुवन्ति। पूर्वत्र बुभुत्सुं प्रति बोधसाधनभूतकोशप्रतिपादनार्थमन्नं हि भूतानामित्युक्तम्। अत्र तूपास्यवस्तुप्रशंसार्थं पुनरप्युच्यते। अस्मदादीनां विराट्पर्यन्तानां प्राणिदेहानां यस्मादन्नं ज्येष्ठमतिशयेन वृद्धं कारणभूतम्, तस्मात्सर्वस्य संसारव्याधेरौषधं निवर्तकम्। यथोक्तोपासनं हि विराट्प्राप्तिद्वारा क्रममुक्तिहेतुः। सर्वप्राणिदेहानामु-
१ क. ०मयः को०। २ क. ङ. ०शिष्टब्र०।
[[593]]
[ प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। त्पत्त्यभिवृद्धिहेतुत्वादप्युपास्यमन्नं प्रशस्तम्। अन्नशब्दनिर्वचनपर्यालोचनेऽपि सर्वदेहकारणत्वेनान्नस्य प्रशस्तत्वमवगम्यते। अद्यते सर्वैः प्राणिभिर्जीवनार्थं भक्ष्यत इत्यन्नम्। यद्वा सर्वान्प्राणिनोऽत्ति भक्षयति संहरतीत्यन्नम्। सर्वेऽपि देहा अन्नरसवैषम्योत्पादितरोगादिना म्रियन्त इति लोके प्रसिद्धम्। श्रौत इतिशब्द उदाहृतश्लोकसमाप्त्यर्थः कोशसमाप्त्यर्थश्च। यः पुमान्गुहाहितं ब्रह्मतत्त्वं बुभुत्सते तं प्रति बोधद्वारभूतोऽयमन्नमयकोशोऽभिहितः। द्वारत्वं चास्य पुत्रमित्रगृहक्षेत्रादिबाह्यविषयासक्तिं निवार्य देहमात्रपर्यवसायित्वसंपादनादुपपद्यते। प्राणिनां हि स्वाभावत एव पुत्रादि-ष्वात्मव्यवहारो भवति। तं च श्रुतिरनुवदति—“आत्मा वै पुत्रनामासि” इति। ऐतरेयकेऽप्याम्नायते—“सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयतेऽथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति " इति। अस्यायमर्थ: — पुत्ररूप आत्मा श्रौतस्मार्तपुण्यकर्मानुष्ठानार्थं गृहेऽवस्थाप्यते। पितृरूपस्तु स्वस्य कर्तव्यानि सर्वाणि कृत्वा वयोगत आयुष्येण विरहितो म्रियत इति। ईदृशं पुत्रादावात्मत्वारोपं भगवान्भाष्यकार उदाजहार—“पुत्रभार्यादिषु विकलेषु सकलेषु वाऽहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यति " इति। स्वस्माद्भेदस्य पुत्रे प्रतीयमानत्वात्तस्मिन्नात्मत्वव्यवहारः सिंहो देवदत्त इतिवत्। तर्ह्यमुमेव मुख्यताभावं बोधयितुं पुत्रमित्रादिकाद्बाह्यात्सर्वस्माल्लोकाव्द्यावर्त्याऽऽत्मतत्त्वबुद्धिं देहे संकोचयितुमन्नमय आत्मोपदिश्यते। एतमेवाभिप्रायमुपरिष्टाद्विस्पष्टी करिष्यति—“स य एवंवित्। अस्माल्लोकात्प्रेत्य। एतमन्नमयमात्मानमुपसंक्रामति” इति। यस्तु बाह्यविष-यासक्तिवासनाप्राबल्यात्सकृदुपदेशमात्रेणान्नमयात्मनि न पर्यवस्यति तस्य तत्पर्यवसनार्थं तद्विषयोपासनोपदिष्टा। स चोपासको निरन्तरमन्नमयमात्मानमुपासीनो बाह्यविषयेभ्यो व्यावृत्तोऽर्थादन्नमये पर्यवस्यति। यदि कश्चिदल्पायुः सन्नुपरितनस्य प्राणमयादिविवेकस्याभावेन ब्रह्मतत्त्वबोधस्य संपूर्त्यभावादुक्तोपासनं कुर्वन्नेव म्रियेत। तदानीमुक्तरीत्या तस्य सर्वान्नप्राप्तिर्भवति। ईदृशमेव विषयमभिप्रेत्य भगवतोक्तम्— “प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते " इति॥ तदेवं विषयाभिमुख्यनिवृत्त्यर्थमन्नमयकोशमुपदिश्य प्रसङ्गात्तदुपासनं तत्फलं चोक्तम्। अथ विषयेभ्यो निवृत्तस्यान्नमयकोशादप्यन्तःप्रवेशाय प्राणमयकोशमुपदिशति— तस्माद्वा एतस्मादन्न॑रस॒मयात्। अन्योऽन्तर आत्मा॑ प्राण॒मयः। तेनै॑ष पू॒र्णः, इति।
१ ग. द्वारं चा०। २ घ. ०त्मत्वबु०। ३ ग. ०वृत्त्यार्था०। ४ ग. म्नियते। तत्तदा०। ७५
[[594]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] यः परमात्मा स्वयमाकाशादिक्रमेणान्नमयतां प्राप्त इति ब्राह्मणेन प्रतिपादितः स एव पुनः श्लोकेन स्पष्टीकृतः। तस्मादेव ब्रह्मणोक्तादेतस्माच्छ्लोकेन प्रतिपादितादहं मनुष्य इत्यनुभूयमानाव्द्यतिरिक्तोऽभ्यन्तरप्रदेशवर्ती कश्चित्प्राणमय आत्मा विद्यते। तेन प्राणमयेनैषोऽन्नमयः पूर्णः। देहस्यान्तरापादमस्तकं प्राणमयो व्याप्य वर्तते। लिङ्गशरीरे ज्ञानशक्तिः। क्रियाशक्तिश्चेतिद्वयं विद्यते। तयोर्मध्ये क्रियाशक्तिकार्यभूतः कश्चित्प्रा- णाख्यः पदार्थः। तस्य च प्राणस्य विकारः पञ्चवृत्तिसमूहः प्राणमयः। वृत्तयश्च प्राणापानव्यानोदानसमानाख्यास्तस्य प्राणपदार्थस्य व्यापारविशेषास्ते च हृदयादिप्रदेशेषु निष्पद्यन्ते। तथा चोक्तम्— “त्द्ददि प्राणो गुदेऽपानः समानो नाभिसंस्थितः। उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः " इति॥ तस्यैतस्य वृत्तिसमूहरूपस्य प्राणमयस्याऽऽत्मन्यारोपितत्वादहं प्राणि- मीत्येवमुच्छ्वासादिकर्तृत्वेनाहंप्रत्ययगम्यत्वाच्चाऽऽत्मत्वं द्रष्टव्यम्। आत्मत्वं नाम प्रत्यक्स्वरूपत्वम्। तत्र यथा पुत्रापेक्षया प्रतीच्यन्नमयदेह आत्मत्वेनोपदिष्टे सति पराग्रूपे पुत्रादौ मुख्यात्मबुद्धिर्निवृत्ता । तथा देहादप्यान्तरे प्राणमयात्मन्युपदिष्टे सति देहस्य मुख्यात्मत्वं निवारितं भवति। पुत्रदेहयोर्मुख्यात्मत्वाभावसाम्येऽप्यवान्तरवैषम्याद्गौणात्मत्वं मिथ्यात्मत्वं चास्ति। तच्च भगवद्भिर्भाष्यकारैरेवमुदाहृतम्—“गौणमिथ्यात्मनोः सत्त्वे पुत्रदेहादिबाधनात् " इति। तयोरात्मत्वव्यहारदशायां स्वस्माद्भेदप्रतीत्यप्रतीतिभ्यां वैषम्यं द्रष्टव्यम्। देहात्मनोर्भेदमजानद्भिर्लौकायतिकैश्चोच्यमानं देहस्याऽऽत्मत्वं मिथ्येति यदत्र प्राणमयात्मोपदेशेनार्थात्संपादितम्, तदेतत्तृतीयाध्यायस्यतृतीयपादे
- निर्णीतम्________________________
“आत्मा देहस्तदन्यो वा चैतन्यं मदशक्तिवत्। भूतमेलनजं देहे नान्यत्राऽऽत्मा वपुस्ततः॥ भूतोपलब्धिर्भूतेभ्यो विभिन्ना विषयित्वतः। सैवाऽऽत्मा भौतिकाद्देहादन्योऽसौ परलोकभाक्॥ पूर्वत्र मनश्चिदादीनां क्रत्वर्थता नास्ति किंतु पुरुषार्थत्वमित्युक्ते सति कोऽसौ पुरुष इतिप्रसङ्गाद्विचार्यते। तदेतदधिकरणं पूर्वोत्तरयोर्मीमांसयोः शेषभूतम्। देहव्यतिरिक्तस्य स्वर्गमोक्षभागिन आत्मनः प्रतिपादकत्वात्। तत्र लोकायतिका देह _____________________________________________________ एक आत्मनः शरीरे भावात्—अ॰ ३ पा॰ ३ अ॰ ३ सू॰ ४३।
१ ख. तत्तृ०। २ ग. ०रमीमां०।
[[595]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। एवाऽऽत्मेति मन्यन्ते। अन्वयव्यतिरेकाभ्यां चैतन्यस्य देह एवोपलम्भात्। सति च देहे चैतन्यमुपलभ्यते न त्वसति। न च चैतन्यस्य जात्यन्तरतया देहव्यतिरिक्तात्मत्वं शङ्कनीयम्। क्रमुकनागवल्लीचूर्णानां संयोगान्मदशक्तिरिव देहाकारपरिणतेभ्यो भूतेभ्यो जायमानं चैतन्यं कथं नाम जात्यन्तरं स्यात्। तस्माच्चेतनो देह आत्मेति प्राप्ते ब्रूम: — पृथिव्यादीनां भूतानामुपलब्धिर्भूतेभ्यो व्यतिरिक्ता भवितमर्हति विषयित्वात्। यद्यद्विषयि तत्तद्विषयाव्द्यतिरिक्तम्। यथा रूपाच्चक्षुः। तथा सति ताद्दशचैतन्यस्याऽऽत्मत्वं वदन्तं प्रति कथं भौतिकदेहरूपत्वमापाद्यते। सत्येव देहे चैतन्यमुपलभ्यते नासतीति यावन्वयव्यतिरेकावुक्तौ तत्र व्यतिरेकोऽसिद्धः। असत्यपि देहे परलोकगामिनश्चिदात्मनः शास्त्रेणोपलम्भात् ।शास्त्रस्य च प्रामाण्यं समर्थनीयम् “।
अनात्मत्वेन निर्णीतादस्माद्देहादभ्यन्तरो यः प्राणस्तस्योत्पत्तिर्द्वितीयाध्य- यस्य चतुर्थपादे* चिन्तिता— “मुख्यप्राणः स्यादनादिर्जायते वा न जायते। आनीदिति प्राणचेष्टा प्राक्सृष्टेः श्रूयते यतः॥ आनीदिति ब्रह्मसत्त्वं प्रोक्तं वायुनिषेधनात्। एतस्माज्जायते प्राण इत्युक्तेरेष जायते " इति॥
मुखबिले संचरन्नुच्छ्वासनिश्वासकारी वायुर्मुख्यप्राणः। सोऽनादिः। कुतः। नासदासीदितिसूक्ते आनीदवातमित्यानीच्छब्देन सृष्टेर्वाक्प्राणचेष्टाश्रवणादिति प्राप्ते ब्रूमः। सदेव सोम्येदमग्र आसीदित्यादिभिः सृष्टिप्रागवस्थाप्रातिपादकश्रुत्यन्तरैः समानार्थत्वात्। एतस्माज्जायते प्राण इति श्रुतिस्तु स्पष्टमेव प्राणजन्म प्रातिपादयति। तस्मादिन्द्रियवत्प्राणो जायते। +तत्रैवान्यच्चिन्तितम्________________________ “वायुर्वाऽक्षक्रिया वाऽन्यो वा प्राणश्रुतितोऽनिलः। सामान्येन्द्रियवृत्तिर्वा सांख्यैरेवमुदीरणात्। भाति प्राणो वायुनेति भेदोक्तेरेकताश्रुतिः। वायुजत्वेन सामान्यवृत्तिर्नाक्षेष्वतोऽन्यता " इति। बाह्यवायुरेव वेणुरन्ध्रवन्मुखच्छिद्रे प्रविश्यावस्थितः प्राणनाम्ना व्यपदि- श्यते। न तु
*श्रेष्ठश्च—अ॰ २ पा॰ ४ अ॰ ८। + न वायुक्रिये पृथगुपदेशात्–अ॰ २ पा॰ ४ अ॰ ५ सू॰ ९।
१ क.ख. ग. ङ. ०ति दे०। २ ख. न चै०। ३ क. ख. ग. ङ. ०सका०।
[[596]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] प्राणो नाम किंचित्तत्त्वान्तरमस्ति। कुतः। यः प्राणः स वायुरिति श्रुतेः। अथवा पञ्जरस्था यथा बहवः पक्षिणः स्यवं चलन्तः पञ्जरमपि चालयन्ति, एवमेकादशाक्षाणि स्वस्वव्यापारद्वारा देहं चेष्टयन्ते। तत्र देहचालनाख्यो योऽयं सर्वेन्द्रियसाधारणो व्यापारः स प्राणो भविष्यति। तथा च सांख्यैरुक्तम्—“सामान्या करणवृत्तिः प्राणाद्या वायवः पञ्च” इति। तस्मान्न तत्त्वान्तरं प्राण इति प्राप्ते ब्रूम: — “प्राण एव ब्रह्मणश्चतुर्थः पादः। स वायुना ज्योतिषा भाति " इति श्रुत्यान्तरे चतुष्पाद्ब्रह्मोपासनप्रसङ्गेनाऽऽध्यात्मि-कप्राणस्याऽऽधिदैविकवायोश्चानुग्राह्यानुग्राहकरूपेण विभेदः स्पष्टमेव निर्दिष्टः। अतो यः प्राणः स वायुरित्येकत्वश्रुतिः कार्यकारणयोरभेदवृत्त्या नेतव्या। यत्तु सांख्यैरुक्तं तदसत्। इन्द्रियाणां सामान्यवृत्त्यसंभवात्। पक्षिणां तु सामान्यचलनान्येकविधानि पञ्जरचलनस्यानुकूलानि।न तु तथेन्द्रियाणां दर्शनश्रवणमननादिव्यापारा एकविधाः। नापि देहचलनानुकूला। तस्मात्तत्त्वान्तरं प्राण इति परिशिष्यते। *तत्रैव पुनरप्यन्यच्चिन्तितम्— “प्राणोऽयं विभुरल्पो वा विभुः स्यात्प्लुष्युपक्रमे। हिरण्यगर्भपर्यन्ते सर्वदेहे समोक्तितः॥ समासव्यासरूपेण विभुतैवाऽऽधिदैविकी। आध्यात्मिकोऽल्पः प्राणः स्याददृश्यश्च यथेन्द्रियम्॥
प्लुषिर्नाम मशकादेरपि न्यूनकायः पुक्तिकाख्यो जीवस्तमारभ्य हिरण्यगर्भपर्यन्तेषु देहेषु तैस्तैर्देहैः समत्वं प्राणस्य श्रूयते—“समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण " इति। तस्माव्द्यापी प्राण इति प्राप्ते ब्रूम: — आधिदैविकस्य हिरण्यगर्भप्राणस्य समष्टिरूपेण व्यष्टिरूपेण चावस्थानाद्विभुत्वमस्तु। वायुरेव व्यष्टिर्वायुः समष्टिरिति श्रुतेः। तदेव विभुत्वं समः प्लुषिणेत्यादिश्रुतावुपासनार्थं प्रपञ्चितम्। आध्यात्मिकस्तु प्राण इन्द्रियवददृश्यः परिच्छिन्नश्च “। यस्त्वनेकजन्माभ्यस्तदेहात्मत्ववासनाप्राबल्यात्प्राणमयात्मोपदेशमात्रेणऽऽत्मत्वबुद्धिं देहे परित्यक्तुं न शक्नोति तं प्रत्युपासनान्तरं विधातुमुपास्यस्वरूपं दर्शयति— स वा एष पुरुषवि॑ध ए॒व। तस्य पुरु॑षवि॒धताम्। अन्वयं॑ पुरुष॒विधः। तस्य प्राण॑ एव॒ शिरः।
*अणुश्च—अ॰ २ पा॰ ४ अ॰ ६ सू॰ १३।
१ घ. ०ण भे०। २ ग. घ. तु च सा०। ३ घ. ०ननव्या०। ४ घ. ०हचाल०। ५ ग. ०रन्य०। ६ ख. घ. ०सनां वि०।
[[597]]
[प्रपा॰ ८ अनु॰ २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। व्यानो दक्षि॑णः प॒क्षः। अपान उत्त॑रः प॒क्षः। आका॑श आ॒त्मा। पृथिवी पुच्छं॑ प्रति॒ष्ठा, इति। देहादभ्यन्तरत्वेन यः प्रोक्तः स एवैष प्राणिमीत्येवमनुभूयमानः प्राणमयः पुरुषविध एव। यद्यप्यस्य शिरआद्यवयवाः स्वतो न सन्ति तथाऽपि तान्संपाद्य पुरुषाकार एव उपासनीयः। न चात्र दुःसंपादत्वं शङ्कनीयम्। तस्य पूर्वोक्तस्यान्नमयस्य पुरुषप्रकारतामनुसृत्य तन्मध्ये पूर्णत्वेन वर्तमानोऽयं प्राणमयोऽपि पुरुषप्रकार इति वक्तुं शक्यत्वात्। यथा मूषायां निषिक्तं द्रुतताम्रं प्रतिमाकारं संपद्यते तद्वत्। तत्र हृदयादूर्ध्वं मुखनासिकयोः संचारी प्राणाख्यो वृत्तिविशेषः शिरस्त्वेन चिन्तनीयः। सर्वासु नाडीषु लंचारी व्यानाख्यो यो वृत्तिविशेषः। यश्चापानाख्यो वृत्तिविशेषो हृदयादधो निर्गच्छति, तावुभौ पक्षद्वयरूपेण चिन्तनीयौ। आकाशशब्देनोदरमध्यवर्ती नाभिविशेष उच्यते। तेन तत्रावस्थितः समानो वायुरुपलक्ष्यते। स च वायुरात्मा प्राणमयकोशस्य मध्यभागः।पृथ्वीशब्देनावशिष्ट उदानवायुरुपलक्ष्यते।मुख्यार्थस्वीकारे हि प्राणमयकोशाधिकारो बाध्येत। यथा पृथिवी प्राणिनामवस्थानहेतुत्वात्प्रतिष्ठा। तथैवोदानवायुः प्राणादिवायूनां देहेऽवस्थानहेतुः। यावदयमुदानवायुरुत्क्रान्तिं न जनयति तावत्प्राणापानादीनां देहेऽवस्थानम्। अतः प्रातिष्ठा। उदानाख्यवृत्तिविशेषयुक्तस्य पञ्चविधवृत्तिकर्तुः प्राणपदार्थस्योत्क्रान्तिप्रतिष्ठयोः स्वातन्त्र्यमाथर्वणिका आमनन्ति—“स ईक्षांचक्रे कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि। कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति। स प्राणमसृजत” इति। अतः प्रतिष्ठाहेतोः प्राणपदार्थस्य वृत्तिविशेष उदानः पक्ष्याकारेण ध्येयस्य प्राणमयकोशस्य पुच्छस्थानीयः। ये शिरःपक्षादिरूपेण परिकल्पिताः प्राणापानादिवृत्तिविशेषाः। यच्च वृत्तिमत्प्राणतत्त्वं तत्सर्वं मैत्रेयोपनिषदि स्पष्टमाम्नातम्—“प्रजापतिर्वा एक एवाग्रेऽतिष्ठत्स नारमतैकः। स आत्मानमभिध्यायन्बह्वीः प्रजा असृजत। ता अश्मेवाप्रबुद्धा अप्राणाः स्थाणुरिव तिष्ठमाना अपश्यत्स नारमत। सोऽमन्यतैतासां प्रतिबोधनायाभ्यन्तरं विविशामीति। स वायुरिवाऽऽत्मानं कृत्वाऽभ्यन्तरं प्राविशत्स एको नाशकत्स पञ्चधाऽऽत्मानं प्रविभज्योच्यते यः प्राणोऽपानः समान उदानो व्यान इति। अथ योऽयमूर्ध्वमुत्क्रामत्येष वाव स प्राणः। अथ योऽयमवाङ्संक्रामत्येष वाव सोऽपानः। अथ येन वा एता अनुगृहीता इत्येष वाव स व्यानः। अथ योऽयं स्थविष्ठमन्नधातुमपाने स्थापयत्यणिष्ठं चाङ्गेऽङ्गे समानयत्येष
१ घ. ०रुषाका०। २ घ. द्रुतं ता०। ३ घ. ०ख्यो वृ०। ४ ख. ०स्मिन्वाह०। ग. ०स्मिन्नह०। ५ क. ख. ङ. अस्मै वा प्राबुद्धयाप्रा०। ६ क. ख. ङ. ०विश्य स ए०। ७ ग. ०नं वि०। ८ ग. ०पानो व्यानः। ९ घ. ०दान इ०।
[[598]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ ८ अनु॰ २ ] वाय समानसंज्ञोत्तरं व्यानस्य रूपं चैतेषामन्तरा प्रसूतिरेवोदानस्याथ योऽयं पीतमशितमुद्गिरति निगिरति चैषो वाव स उदानः " इति। पुरा प्रजापतिः स्वयमेकाकित्वेन क्रीडारहितस्तत्सिद्ध्यर्थं देहान्सृष्ट्वा सृष्टानां तेषां व्यवहारसिद्ध्यर्थं प्राणवायूपाधिकजीवात्मरूपेणान्तः प्रविश्य पञ्चधा विभज्य व्यवहरतीति श्रुतेरर्थः। पूर्वोक्तान्नमयवत्प्राणमयेऽपि श्लोकमुदाहरति— तदप्येष श्लो॑को भ॒वति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारतैत्तिरीयारण्यकेऽष्टमप्रपाठके द्वितीयोऽनुवाकः॥ २॥