कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्॥ (तत्राष्टमप्रपाठकस्याऽऽरम्भः।)
यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्। निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥१॥ साधनं ब्रह्मविद्यायाः सांहित्यामीरितं स्फुटम्। वारुण्युपनिषद्येतद्ब्रह्मतत्त्वं विविच्यते॥२॥
तत्राऽऽदौ शिष्याचार्ययोः परस्परानुकूल्यसिद्धये तत्प्रातिकूल्यशान्तिकरं जप्यं मन्त्रं पठति - ह॒रिः॒ ॐ। स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं करवावहै। ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा- वहै॑। ॐ शान्तिः॒ शान्तिः॒ शान्तिः, * इति।
अत्र नावितिशब्देन शिष्याचार्यावुच्येते। अस्मिञ्जन्मन्यतीतजन्मसु वाऽनुष्ठितैः कर्मकाण्डोक्तैर्नित्यनैमित्तिककर्मभिरुत्पन्नविविदिषः सांहित्यामुपनिषदि प्रोक्तैरुपासनैरन्तर्मुख एकाग्रचित्तः काम्यकर्मादिभिः संपादितानां लोकानामसारत्वं परीक्ष्य ततो निर्विण्णः कर्मणा मोक्षो नास्तीति निश्चित्य मुक्तिहेतुब्रह्मतत्त्वज्ञानार्थं गुरूपसत्तिं यः करोति तादृशोऽत्र शिष्यो विवक्षितः। गुरुश्च श्रोत्रियो वेदशास्त्रार्थपारं(र?)गतत्वेन बोधयितुं कुशलो ब्रह्मनिष्ठत्वेन कदाचिदपि बहिर्मुखत्वरहितो विवक्षितः। तथा चाऽऽर्थवणिका आमनन्ति - “परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः + कृतेन+ तद्विज्ञानार्थं त गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्” इति। कठाश्चाऽऽमनन्ति - “आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः” इति। तत्र गुरोः कृतार्थत्वेन प्रार्थनीयाभावेऽप्यनेन मन्त्रेण शिष्यस्तयोरुभयोः क्षेमं प्रार्थयते। यद्ब्रह्माऽऽचा-र्यप्रसादानन्तरं मया वेदिष्यते तद्ब्रह्म नौ गुरुशिष्यावावाभुभौ सहावतु रक्षतु। तथा भुनक्तु पालयतु। यथा गुरुर्निरालस्य उपदिशति यथा चाहमुप-दिष्टमर्थमप्रतिपत्तिविप्रतिपत्तिरहितो गृह्णामि तथा रक्षणमुपदेशकाले प्रार्थ्यते।
- भाष्यानुरोधेनात्र प्रथमानुवाकसमाप्रिरपेक्षिता। + अकृतो माक्ष इत्यर्थः। +१ कृतेन कर्मणेत्यर्थः।
१ ख. तीर्थ म। २ घ. जप्यम।
[[543]]
एकाकालीनत्वमुभयोरपि रक्षणे सहभावः। उपदिष्टार्थग्रहणेन ममाविद्या यथा निवर्तते तन्निवृत्तिं पश्यन्नाचार्यो यथा परितुष्यति तथा पालनमुत्तरकालीनं प्रथमं प्रार्थ्यते। उक्तप्रयोजनसिद्ध्यर्थमावामुभौ परस्परं सह विद्यायां वीर्य स्वप्रयोजनसामर्थ्यं करवावहै तस्मिंश्च सामर्थ्यकरणे य एष उपायः स प्रार्थ्यते। नौ गुरुशिष्ययोरावयोः संबन्धि यदधीतं ग्रन्थजातं तत्तेजस्वि स्वार्थप्रकाशकमस्तु। आवां च परस्परं द्वेषं मा करवावहै। गुरुणा न सम्यग्व्याख्यातमिति शिष्यस्यापरितोषो द्वेषस्तथा शुश्रूषा न समीचीनेति गुरोरपरितोषस्तदुभयं मा भूदित्यर्थः। प्रणवशान्तिशब्दाः पूर्ववद्व्याख्येयाः॥ इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यार-ण्यपरमेश्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकाभाष्ये सप्तमप्रपाठके वारुण्यामुपनिषदि प्रथमोऽनुवाकः॥१॥