अथ सप्तमे द्वादशोऽनुवाकः।
एकादशे शिष्यं प्रत्याचार्यस्यानुशासनमुक्तम्। तावता ब्रह्मतत्त्वविद्याया बहिरङ्गसाधनान्युपासनानि कर्माणि च सन्तीत्यवगतानि। अथ तद्ग्रन्थपाठतदर्थज्ञानतदनुष्ठानानामवसाने जपितव्यं शान्तिमन्त्रं द्वादशे दर्शयति - शं नो॑ मि॒त्रः शं वरु॑णः। शं नो॑ भवत्वर्य॒मा। शं न॒ इन्द्रो॒ बृह॒- स्पतिः॑। शं नो॒ विष्णु॑रुरुक्र॒मः। नमो॒ ब्रह्म॑णे। नम॑स्ते वायो। त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि। त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषम्। ऋ॒त- म॑वादिषम्। स॒त्यम॑वादिषम्। तन्मामा॑वीत्। तद्वक्तार॑मावीत्। आवी॒न्माम्। आवीद्व॒क्तार॑म्। ॐ शान्तिः॒ शान्ति॒ शान्तिः॑ (१), इति।
स॒त्यम॑वादिषं॒ पञ्च॑ च॥ इति कृष्णयजुर्वेदीयतैतत्तिरीयारण्यके सप्तमप्रपाठके द्वादशोऽनुवाकः॥१२॥
अक्षरार्थस्तूपक्रमे समाम्नातमन्त्रवदवगन्तव्यः। उपक्रमकाले ब्रह्मणः पूर्वमनुक्तत्वाद्ब्रह्म वदिष्यामीति पठितम्। तथा विघ्नपरिहारस्य प्रार्थनीयत्वादवत्विति पठितम्। निष्पन्नस्य विघ्नपरिहारस्य पुनः परामर्शः कृतघ्नत्वनिवारणार्थः। अन्यथा मित्रावरुणादिदेवकृतमुपकारमजानानस्य मुमुक्षोः कृतघ्नत्वं प्रसज्येत तच्चायुक्तम्। “ब्रह्माघ्ने निष्कृतिर्दृष्टा कृतघ्ने नास्ति निष्कृतिः” इति स्मरणात्। निष्पन्नेऽपि साधनानुष्ठाने कृतघ्नत्वदोषेण फलं प्रतिबध्येत। तन्मा भूदित्याध्यात्मिकादिविघ्नानां शान्तिर्निष्पन्नेत्येवं देवकृत उपकारः परामृश्यते।
इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधुरमाधवविद्यारण्य-परमेश्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सांहित्यामुपनिषदि द्वादशोऽनुवाकः॥१२॥
शं नः॒ शीक्षा ँ स॒ह नौ॒ यश्छन्द॑सां॒ भूः स यः पृ॑थि॒व्योमित्यृतं चा॒हं वेदमनूच्य शं नो॒ द्वाद॑श॥१२॥
[[541]]
१ घ. थिव्यमोमि।
शं नो॑ मह॒ इत्या॑दि॒त्यो नो इ॑तरा॒णि त्रयो॑विँशतिः॥२३॥
*शं नो॑ मि॒त्रः शं वरु॑णः॥ शं नो॑ भवत्व- र्य॒मा। शं न॒ इन्द्रो॒ बृह॒स्पतिः। शं नो॒ विष्णु- रुरुक्र॒मः। नमो॒ ब्रह्म॑णे। नम॑स्ते वायो। त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि। त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि। ऋ॒तं व॑दिष्यामि। स॒त्यं व॑दि- ष्यामि। तन्माम॑वतु। तद्व॒क्तार॑मवतु। अव॑तु॒ माम्। अव॑तु व॒क्तार॑म्।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
हरिः॑ ॐ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमः प्रपाठकः समाप्तः॥७॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्। पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधरश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तमः प्रपाठकः समाप्तः॥७॥
समाप्ता च सांहित्युपनिषत्॥
- इयं शान्तिर्ग, पुस्तके नास्ति।