अथ सप्तमे एकादशोऽनुवाकः।
दशमे ब्रह्मयज्ञप्रतिनिधित्वेन जप्यो मन्त्र उक्तः। ततो मन्दप्रज्ञस्यापि सुकरो ब्रह्मयज्ञः। तथा तस्य “ऋतं च स्वाध्यायप्रवचने च” इत्येवमुक्तोपासनेन सह श्रौतस्मा- १ ग. दिमार्गेष्वृ। २ग. माणवे। ३ ग. घ. र्मते वे।
[[533]]
[प्रपा० ७ अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। र्तकर्मसमुच्चयः क्रममुक्तिहेतुः सुस्थितः। अथैकादशेऽनुवाके केवलकर्मणामपि विविदिषोत्पादनद्वारेण मोक्षहेतुत्वमभिप्रेत्य तदनुशासनं विधते- वेदमनूच्याऽऽचार्योऽन्तेवासिनम॑नुशा॒स्ति, इति।
आचार्यस्वरूपं मनुना स्मर्यते - “उपनीय तु यः शिष्य वेदमध्यापयेद्द्विजः। सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते”॥इति॥
अन्ते पूर्वोक्तस्याऽऽचार्यस्य समीपे सर्वदा वसतीत्यन्तेवासी। “छायाभूतोऽपरित्यागी नित्यमेव वसेद्गुरौ” इति स्मृतेः। तादृशं शिष्यमाचार्यो वेदमनूच्योपनयनमनु पश्चादध्याप्यानुशास्ति। ग्रन्थग्रहणादूर्ध्वमनुष्ठेयमर्थं ग्राहयति। अनेनैतदवगभ्यते। अधीतवेदेन धर्मजिज्ञासामकृत्वा गुरुकुलान्न निवर्तितव्यमिति। अनुशासनप्रकारं संग्रहेण दर्शयति - सत्यं॒ वद। ध॑र्म॒ चर, इति।
सत्यशब्देन “अहिंसा सत्यमस्तेयम्” इत्यादिस्मृतिप्रसिद्धाः सर्वेऽप्युपलक्ष्यन्ते। धर्मशब्देन प्रत्यक्षश्रुतिविहिता अग्निहोत्रादयो विवक्षिताः। “चोदनालक्षणोऽर्थो धर्मः” इति जैमिनिना सूत्रितत्वात्। श्रौतं स्मार्तं च कर्म सर्वमनुष्ठेयमिति संग्रहवाक्ययोस्तात्पर्यार्थः।
“सकृत्कृते कृतः शास्त्रार्थः” इति न्यायेन श्रौतस्मार्तयोः सकृदनुष्ठितयोः पश्चात्परित्यागप्रसक्तौ तत्परित्यागरूपं प्रमादं निषेधति - स्वाध्याया॑न्मा प्र॒मदः। आतार्याय प्रियं धनमाहृत्य प्रजातन्तुं मान व्य॑वच्छे॒त्सीः। सत्यानेन प्रम॑दित॒व्यम्। धर्मान्न प्रम॑दित॒व्यम्। कुशलान्न प्रम॑दित॒व्यम्। भूत्यै न प्रम॑दित॒व्यम्। स्वाध्यायप्रवचनाभ्यां न प्रम॑दि त॒व्यम् (१)। देवपितृकार्याभ्यां न प्रम॑दित॒व्यम्, इति।
अध्ययनेन गृहीतस्य स्वाध्यायस्य विस्मृतिः प्रमादस्तं मा कार्षीः। “ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम्” इति स्मृतेः। गोसुवर्णवस्त्रादिरूपं यद्धनमाचार्यस्य प्रियं तद्विद्यादक्षिणार्थं संपाद्य गुरवे समर्प्य ततो विवाहं कृत्वा प्रजायाः पुत्रपौत्रादिरूपायास्तन्तुर्विस्तारस्तस्य विच्छेदं मा कार्षीः। पूर्वोक्तयोः सत्यधर्मयोः कदाचिदालस्या-
१ क. ख. ङ. क्षणार्थो।
[[534]]
दननुष्ठानं प्रमादः सोऽपि न कर्तव्यः। कुशलं क्षेमस्तेन तत्कारणं कर्म विवक्षितम्। तच्च द्विविधं वैदिकं लौकिकं च। “यो ज्योगामयावी स्याद्यो वा कामयेत सर्वमायुरियामिति तस्मा एतामिष्टिं निर्वपेत्” इत्यादिकमायुरारोग्यप्रदं वैदिकम्। विचिकित्सादिकं लौकिकम्। भूतिरैश्वर्यं तया तत्कारणमुपलक्ष्यते। तत्रापि “वायव्य ँश्वेतमालभेत भूतिकामः” इत्यादिकं वैदिकम्। प्रतिग्रहादिकं लौकिकम्। कुशलभूत्योरभावे मुक्तिहेतुकर्मानुष्ठानासंभवात्तयोरप्रमादोऽनुशासनीयः। गृहीतस्वाध्यायास्य विस्मृतिरूपः प्रमादः पूर्वं निवारितः। अत्र त्वध्यापनीयस्वाध्यायब्रह्मयज्ञयोरननुष्ठानरूपः प्रमादो निवार्यते। पौराणिकं विनायकव्रतानन्तव्रतादिकं देवकार्यम्। प्रतिसांवत्सरादिकं पितृकार्यम्। अथ मात्रादिषु मनुष्यत्वबुद्धिपरित्यागेन देवताबुद्ध्या पूजां विधत्ते - मातृ॑देवो॒ भव। पितृ॑देवो॒ भव। आचार्य॑- देवो॒ भव। अतिथि॑देवो॒ भव, इति।
मातैव पूजनीयो रुद्रविष्णुविनायकादिरूपो देवो यस्य सोऽयं मातृदेवः। एवमुत्तरत्रापि। यदुक्तं कुशलान्न प्रमदितव्यम्। भूत्यै न प्रमदितव्यमिति। तत्र कंचिद्विशेषं दर्शयति - यान्यनवद्यानि॑ कर्मा॒णि। तानि सेवि॑- तव्या॒नि। नो इ॑तरा॒णि, इति।
क्षेमैश्वर्यकारणानि कर्माणि द्विविधानि। अनिन्द्यानि निन्द्यानि च। तत्र पूर्वोदाहृतान्यायुष्कामेष्टिप्रतिग्रहयाजनादीन्यनिन्द्यानि कर्माणि सेवितव्यानि। इतराणि त्वाभिचारादीनि शत्रुवधद्वारा क्षेमहेतुत्वेऽपि नरकप्रदत्वेन निन्दितत्वान्न सेव्यानि। ननु शिष्टाचारस्यापि श्रुतिस्मृतिवत्प्रमाणत्वादाचार्यस्य तव संबन्धीनि चरितानि सर्वाण्यपि सेवितव्यानीत्याशङ्कय तत्रापि विशेषं दर्शयति - यान्यस्माक ँ सुच॑रिता॒नि। तानि त्वयो॑पास्या॒- नि (२)। नो इ॑तरा॒णि, इति।
द्विविधं चरितं दैवमासुरं चेति। तदुभयं भगवानुदाजहार- “अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्॥
१ म. लक्षयते।
[[535]]
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्। दया भूतेष्वलोलुत्वं(प्त्वं) मार्दवं ह्वीरचापलम्॥ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता। भवन्ति संपदं दैवीमभिजातस्य भारत॥ दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च। अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम्॥ दैवी संपद्विमोक्षाय निबन्धायाऽऽसुरी मता”॥इति॥
तत्रास्माकं संबन्धीनि यान्यभयादीनि सुचरितानि त्वया तान्येव सेवित-व्यानि। न तु दम्भादीनि। अयं न्यायः सर्वत्र शिष्टाचारे योजनीयः। तथा हि - जामदग्न्यः पितुराज्ञया स्वचननीं जघानेत्यत्रापि पित्राज्ञापालनरूपं सुचरितमादर्तव्यम्। न तु मातृवधरूपं दुश्चरितम्। एवमन्यदप्युदाहार्यम्।
अथ महापुरुषसेवायां कंचिद्विशेषमुपदिशति - ये के चास्मच्छ्रेया॑ ँसो ब्रा॒ह्मणाः। तेषां त्वयाऽऽसनेन प्रश्व॑सित॒व्यम्, इति।
वयोविद्यादिगुणैरस्मत्तो भवदाचार्येभ्यो येऽधिका धर्मनिष्ठाः सन्ति तेषामासनदानपादप्रक्षालनादिशुश्रूषया प्रश्वासः श्रमापनयनं त्वया कर्तव्यम्। अथवा तेषामासने त्वया प्रश्वासोऽपि न कर्तव्यः। पण्डितंमन्यतया विस्रम्मेण वादादि न कर्तव्यमिति किमु वक्तव्यम्। तस्मात्तदुपदिष्टार्थग्राहिणैव त्वया भवितव्यम्। अथ दाने कंचिद्विशेषमुपदिशति - श्रद्ध॑या दे॒यम्। अश्रद्ध॑याऽदे॒यम्। श्रि॑या दे॒यम्। हि॑या दे॒यम्। भि॑या दे॒यम्। संवि॑दा दे॒यम्, इति।
यदा धनं विप्राय दीयते तदा श्रद्धायुक्तेनैव भवता देयम्। अश्रद्धया तु किंचिदप्यदेयम्। श्रद्धया रहितस्य दानस्य लोकद्वयेऽप्यनुपयोगात्। तथा च भगवतोक्तम्। “अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह”॥इति।
अदेयमितिपदच्छेदपक्षे तदिदं व्याख्यानम्। देयमिति वा पदच्छेदः। यथा श्रद्धया युक्तो ददाति तथा श्रद्धाराहित्येऽपि दातव्यम्। सात्त्विकदानफलाभाव एवो-
१ घ. कार्यम्।
[[536]]
दाहृतवाक्येन दर्शितः। राजसतामसदानफलं तु विद्यते। अत एव भगवता दाने त्रैविध्यमुक्तम् - “दातव्यमिति यद्दानं दीयतेऽनुपकारिणे। देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्॥ यत्तु प्रत्युपकारार्थ फलमुद्दिश्य वा पुनः। दीयते च परिक्लिष्टं तद्राचसमुदाहृतम्॥ अदेशाले यद्दानमपात्रेभ्यश्च दीयते। असत्कृतमवज्ञातं तत्तामसमुदात्द्दतम्”॥इति॥
श्रीर्विभवः। ह्रीर्लज्जा भीः शास्त्रभीतिः। संविद्देशकालपात्रविशेषज्ञानम्। एतैर्वाक्यैः पूर्वोक्तं त्रिविधं दानं प्रपञ्च्यते। धनबाहुल्याच्छ्रीर्मम विद्यते तत्र दासा दास्यश्च यथा धनमपहरन्ति तथा ब्राह्मणैरप्यपह्रियतामित्येवमपजानानः श्रिया निमित्तभूतया यद्दानं करोति तत्तामसम्। मत्समाः पुरुषा दानं कुर्वन्ति मम त्वदानेन महती लज्जेत्येवं लज्जया निमित्तभूतया पूर्ववदवज्ञातो यद्ददाति तद्राजसम्। ऋत्विगादिभ्यो यद्दानं शास्त्रेण विहितं तस्यादाने मम प्रत्यवायः स्यादिति भीत्या यद्दानं तत्सात्विकम्। तत्राध्वर्युप्रमुखाश्चात्वारः प्रधानभूताः संपूर्णदक्षिणामर्हन्ति। प्रतिप्रस्थात्रादयस्तदर्धमर्हन्ति। नेष्ट्रादयस्तृतीयशमर्हन्ति। उन्नेत्रादयश्चतुर्थांशमर्हन्तीत्येवं संविदा विवेकज्ञानेन युक्तः सात्त्विको दद्यात्। यद्वा सर्वमप्येतत्सात्त्विकदानविषयमेव। वित्तशाठ्यं भविष्यतीत्येवं लज्जया युक्तः प्रभूतं दद्यात्।
एवमज्ञातमनुष्ठेयमर्थमुपदिश्यानन्तरं संदिग्धेऽनुष्ठेये निर्णयोपायमुपदिशति- अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकि॑त्सा। वा॒ स्यात् (३)। ये तत्र ब्राह्मणाः॑ संम॒र्शिनः। युक्ता॑ आयु॒क्ताः। अलूक्षा॑ धर्म॑कामाः॒ स्युः। यथा ते॑ तत्र॑ वर्ते॒रन्। तथा तत्र॑ वर्ते॒थाः, इति।
कर्म श्रौतमग्निहोत्रादिकं स्मार्तं संध्यावन्दनादिकं च। “उदिते जुहोति” “अनुदिते जुहोति” इति वाक्यद्वयं श्रुतवतः श्रौते कर्मणि संदेहः स्यात्। स्मार्तेऽपि संध्यादेवता पुरुषमूर्तिः स्त्रीमूर्तिर्वेति वचनद्वयेन संदेहः। वृत्तं कुलपरम्परागतो लौकिक आचारः। तत्रापि मातुलसुताविवाहमांसभक्षणादिविप्रतिपत्तिदर्शिनः संदेहो भवति। तदानीं यस्मिन्देशे यस्मिन्काले यस्मिन्कुले स्वयं वर्तते तत्र तेषु देशकालकुलविशेषेषु वर्तमानाः संमर्शादिविशेषणविशिष्टा ब्राह्मणास्तत्र तस्मिन्संदिग्धे विषये यथा वर्तेरं
[[537]]
स्तथा त्वमपि वर्तस्व। रागद्वेषौत्सुक्यादिदोषराहित्येन सम्यक्शास्त्रार्थनिर्णयकुशलाः संमर्शिनः। नित्यनैमित्तिकानुष्ठाने स्वयं प्रवृत्ता युक्ताः। तत्राप्या समन्ताद्युक्ता आयुक्ताः। अवैकल्येन सम्यगनुष्ठास्याम इत्येवमभियुक्ता इत्यर्थः। लूक्षेण क्रोधेनाऽऽग्रहेण वा रहिता अलूक्षाः धर्ममेव कामयन्ते न तु लाभपूजादिकमिति धर्मकामाः। इत्थं संदिग्धधर्मनिर्णयोपायमुपदिश्यानन्तरं पातकादिशङ्कया निन्दितेषु पुरुषेष्वव्यवहार्यत्वे निर्णयोपायमुपदिशति - अथाभ्या॑ख्याते॒षु। ये तत्र ब्राह्मणाः॑ संम॒र्शिनः। युक्ता॑ आयु॒क्ताः। अलूक्षा॑ धर्म॑कामाः॒ स्युः। यथा ते॑ तेषु॑ वर्ते॒रन्। तथा तेषु॑ वर्ते॒थाः, इति।
पूर्ववद्व्याख्येयम्।
उक्तमनुशासनमुपसंहरति - एष॑ आदे॒शः। एष उ॑पदे॒शः। एषा वे॑दोप॒निषत्। एतद॑नुशा॒स- नम्। एवमुपा॑सित॒व्यम्। एवमु चैत॑दुपा॒स्यम् (४), इति। स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यं तानि त्वयो॑पास्या॒नि स्यात्तेषु॑ वर्ते॒रन्त्सप्त च॑॥ इति कृष्णयजूर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठक एकादेशोऽनुवाकः॥११॥
सत्यं वदेत्यारभ्य तथा तेषु वर्तेथा इत्यन्तो योऽयं ग्रन्थसंदर्भः स एष आदेशः श्रौतो विधिः। यथा राजा स्वभृत्यमादिशति, तथा वैदिको विधिरनुष्ठातारमादिशति। आदेशस्य समीपवर्तित्वात्स्मार्तो विधिरुपदेशः। स्मृतीनां वेदमूलतया तत्समीपवर्तित्वम्। अप्रत्यक्षश्रुतिमूलासु स्मृतिष्वपि सत्यं वदेत्यादिवाक्यार्थ एवमेवोपलभ्यते। येयं सत्यं वदेत्याद्युक्तिः सैषा वेदोपनिषद्वेदरहस्यं विध्यर्थवादमन्त्रात्मके वेदे विधिरूपः सारभागः। यदेतत्सत्यं वदेत्यादिकं तदेतदनुशासनमीश्वरस्याऽऽज्ञा। श्रुतिस्मृती ममैवाऽऽज्ञे इत्येवमीश्वरेणोक्तत्वात्। यस्मात्सत्यवचनादिकं श्रौतस्मार्तविध्युक्तं वेदरहस्यमीश्वराज्ञारूपं च तस्मादेवमुक्तेन प्रकारेणोपासितव्यमनुष्ठातव्यम्। एवमु चैतदुपास्यमिति पुनर्वचनमादरार्थम्। उ चेत्यव्ययसमुदायोऽवधारणार्थः। उक्तप्रकारेणैतदनुष्ठेयमेव, न तु कदाचिदपि परित्यक्तुं शक्यम्। अत्र केचिदेवमादरं दृष्ट्वा कर्मभिरेव मोक्षं वर्णयन्ति। अपरे तु पुनर्ज्ञानकर्मसमुच्चयेन। तावेतौ
१ क. ख. ग. घ. ङ. रूक्षेण। २ क. ख. ग. ङ. न्तो यो ग्र।
[[538]]
पक्षावस्माभिः पूर्वोत्तरकाण्डसंबन्धकथनप्रसङ्गेनैव निराकृतौ। कर्मणां साक्षान्मोक्षहेतुत्वाभावेऽपि विविदिषोत्पादनद्वारेण तद्धेतुत्वमभिप्रेत्य विद्याप्रकरणे तदनुशासनमाम्नातम्। विद्याफले मोक्षे कर्मनैरपेक्ष्यं तृतीयाध्यायस्य चतुर्थपादे * चिन्तितम्- “आत्मबोधः फले कर्मपेक्षो नो वा ह्यपेक्षते। अङ्गिनोऽङ्गेष्वपेक्षायाः प्रयाजादिषु दर्शनात्॥ अविद्यातमसोर्ध्वस्तौ दृष्टं हि ज्ञानदीपयोः। नैरपेक्ष्यं ततोऽत्रापि विद्या कर्मानपेक्षिणी” इति।
विमतो ब्रह्मतत्त्वावबोधः स्वफलदाने स्वाङ्गभूतकर्मापेक्षोऽङ्गित्वात्प्रया-जाद्यपेक्षदर्शपूर्णमासादिवत्। यद्यपि प्रथमाधिकरणे विद्यायाः स्वतन्त्रपुरु-षार्थत्वप्रतिपादनेन कर्माङ्गत्वं निवारितम्। तथाऽप्यङ्गित्वं न निवारितम्। अतो नासिद्धो हेतुः। अतः कर्मापेक्षो बोध इति प्राप्ते ब्रूमः - विमतं ब्रह्मज्ञानं स्वनिवर्त्यनिवर्तनेऽन्यापेक्षं न भवति प्रकाशकत्वात्प्रदीपवद्घटज्ञानवच्च। यत्त्वङ्गित्वमुक्तम्। तत्र कर्मणः कीदृशमङ्गत्वं भवतोऽभिप्रेतं किं प्रयाजादिव-त्फलोपकार्यङ्गत्वमुतावघातादिवत्स्वरूपोपकार्यङ्गत्वम्। नाऽऽद्यः। मुक्तेः कर्मजन्यत्वेनानित्यत्वप्रसक्तेः। द्वितीये साध्यविकलो दृष्टान्तः प्रयाजादीनां स्वरूपोपकार्यङ्गत्वाभावात्। तस्मादुत्पन्ना विद्या स्वफलप्रदाने कर्माणि नापेक्षते। विद्यायाः स्वोत्पत्तौ कर्मापेक्षाऽपि तत्रैव +चिन्तिता - “उत्पत्तावनपेक्षेयमुत कर्माण्यपेक्षते। फले यथाऽनपेक्षैवमुत्पत्तावनपेक्षता॥ यज्ञशान्त्यादिसापेक्षं विद्याजन्म श्रुतिद्वयात्। हलेऽनपेक्षितोऽप्यश्वो रथे यद्वदपेक्ष्यते”॥
ब्रह्मविद्या स्वफले यथा कर्माणि नापेक्षते तथा स्वोत्पत्तावपि। अन्यथा क्कचिदपेक्षते इत्यर्धजरतीयन्यायः प्रसज्येतेति प्राप्ते ब्रूमः। नार्धजरतोयत्वदोषोऽत्रास्ति। योग्यतावशेनैकस्यैव कार्यविशेषेष्वपेक्षानपेक्षयोरुभयोरुपपत्तेः - यथा लाङ्गलवहनेऽनपेक्षितोऽप्यश्वो रथवहनेऽपेक्ष्यते तद्वत्। न च विद्यायाः स्वोत्पत्तौ कर्मापेक्षायाः प्रमाणाभावः। “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इति प्रवृत्तिरूपाणां वेदानुवचनादीनां विविदिषोत्पादनद्वारा बहिरङ्गसाधनत्वावगमात्। “शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति” इति निवृत्तिरूपाणां शमदमादीनां विद्योत्पत्तौ साधनत्वेन विधीयमा-
- अत एव चाग्नीन्धनाद्यनपेक्षा। अ॰ ३ पा॰ ४ अ॰ ५ सू॰ २५।
- सर्वपेक्षा च यज्ञादिश्रुतेरश्ववत्। अ॰ ३ पा॰ ४ अ॰ ६ सू॰ २६।
१ ग. घ. क्षायां प्र।
[[539]]
नतयाऽन्तरङ्गसाधनत्वावगमात्। तस्माद्यज्ञादीनि शमदमादीनि च विद्या स्वोत्पत्तावपेक्षते"। विद्याहेतुभिरेवाऽऽश्रमसिद्धिश्च तत्रैव *चिन्तिता - “विद्यार्थमाश्रमार्थं च द्विः प्रयोगोऽथवा सकृत्। प्रयोजनविभेदेन प्रयोगोऽपि विभिद्यते॥ श्राद्धार्थभुक्त्या तृप्तिः स्याद्विद्यार्थेनाऽऽश्रमस्तथा। अनित्यनित्यसंयोग उक्तिभ्यां खादिरे मतः” इति।
यानि यज्ञादीनि विद्याहेतुत्वेन विविदिषावाक्ये विहितानि तान्येवाऽऽश्रमधर्मत्वेन पूर्वकाण्डे विहितानि तेषां प्रयोजनद्वैविध्याद्द्विरनुष्ठानमिति प्राप्ते ब्रूमः - यथा श्राद्धार्थभोजने तृप्तिर्नान्तरीयकतया सिध्यति तथा विद्यार्थमनुष्ठितैराश्रमधर्मः सिध्यतु। न च विद्याहेतूनां काम्यत्वादाश्रमधर्माणां नित्यत्वाच्च सकृत्प्रयोगे नित्यानित्यसंयोगविरोध इति वाच्यम्। वचनद्वयबलेनैकस्यैव कर्मण आकारद्वयोपपत्तेः। यथा “खादिरो यूपो भवति” “खादिरं वीर्यकामस्य यूपं कूर्वीत” इत्यत्र वचनद्वयेनैकस्य नित्यत्वकाम्यत्वे च तद्वत्। तस्मादुभयविधानां यज्ञादीनां सकृदेव प्रयोगः। अनाश्रमिकर्मणामपि विद्याहेतुत्वं तत्रैव +चिन्तितम्- “नास्त्यनाश्रमिणो ज्ञानमस्ति वा नैव विद्यते। धीशुद्ध्यर्थाश्रमित्वस्य ज्ञानहेतोरभावतः॥ अस्त्येव सर्वसंबन्धिजपादेश्चित्तशुद्धितः। श्रुता हि विद्या रैक्कादेराश्रमे त्वतिशुद्धता” इति।
पूर्वमाश्रमं समाप्य केनापि कारणेनोत्तरमाश्रममप्रतिपन्नोऽनाश्रमी स्नातको विधुरादिस्तस्य तत्त्वज्ञानं न संभाव्यते। बुद्धिशुद्धिहेतोराश्रमस्याभावादिति प्राप्ते ब्रूमः - संभवत्येवानाश्रमिणामपि ज्ञानम्। आश्रमनिरपेक्षस्य जपादेर्बुद्धिशुद्धिहेतुत्वात्। “जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः” इति स्मृतेः। श्रुतश्च संवर्गविद्यायामधिकारोऽनाश्रमिणोऽपि विवाहार्थिनो रैक्कस्य। एवमाश्रमरहिता गार्ग्यादय उदाहार्याः। न चैवं सत्याश्रमवैयर्थ्यम्। शुद्ध्यतिशयहेतुत्वात्। तस्मादनाश्रमिणोऽपि संभवति विज्ञानम्॥ इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्या-रण्यपरमेश्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तमप्रपाठके सांहित्यामुपनिषद्येकादशोऽनुवाकः॥११॥
- विहितत्वाच्चाऽऽश्रमकर्मापि। अ॰ ३ पा॰ ४ अ॰ ८ सू॰ ३२। + अन्तरा चापि तु तद्दृष्टेः। अ॰ ३ पा॰ ४ अ॰ ९ सू॰ ३६।
१ ग योगे वि।
[[540]]