अथ सप्तमे दशमोऽनुवाकः। नवमेऽनुवाके ब्रह्मोपासनेन समुच्चित्य श्रौतस्मार्तकर्मानुष्ठेयमित्युक्तम्। तत्प्रसङ्गाद्ब्रह्मयज्ञस्योत्तमतपस्त्वमुक्तम्। यस्तु श्रद्धालुरपि प्रज्ञामान्द्यादिदोषेण वेदपाठाभावद्ब्रद्ययज्ञे समर्थो न भवति तस्य ब्रह्मयज्ञफलसिद्धये जप्यं मन्त्रं दशमानुवाके दर्शयति - अ॒हं वृ॒क्षस्य॒ रेरिवा। की॒र्तिः पृष्ठं गि॒रेरि॑व। ऊ॒र्ध्वप॑वित्रो वाजिनी॑व स्व॒मृग॑मस्मि। द्रवि॑ण॒ ँ सव॑र्चसम्। सुमेधा अ॑मृतो॒क्षितः। इति त्रिशङ्कोर्वेदा॑नुव॒चनम् (१), इति। अ॒ह ँ षट्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके दशमोऽनुवाकः॥१०॥ वृश्च्यते तत्त्वज्ञानेनोच्छिद्यत इति वृक्षः संसारः। स चाऽऽरुणकेतुकप्रकरणे केनचिन्मन्त्रेण स्पष्टीकृतः - “ऊर्ध्वमूलमवाक्शाखं वृक्षं यो वेद संप्रति” इति। ऊर्ध्व सर्वस्माज्जगत उत्कृष्टं परं ब्रह्म मूलं कारणं यस्य संसारवृक्षस्य सोऽयमूर्ध्वमूलः। अवाञ्चः सुरनतिर्यग्देहाः शाखा यस्य सोऽयमवाक्शाखः। कठवल्लीष्वप्याम्नायते - “ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः” इति। अनित्यतया श्वो न तिष्ठतीत्यश्वत्थः। सनातनत्वमनादित्वम्। भगवताऽप्यसौ वृक्षोऽभिहितः - “ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्”॥ इति।
मुमुक्षुरहं तस्य संसाररूपस्याश्वत्थवृक्षस्य रेरिवा विषयवैराग्यरूपेण शस्त्रेण च्छेत्ता भूयासमिति शेषः। “री हिंसायाम्” इति धातोरयं शब्दो निष्पन्नः। वैराग्यशस्त्रेण च्छेदो भगवतोक्तः - “अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन च्छित्त्वा। ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः”॥इति॥
संसारवृक्षे छिन्ने सति मदीया कीर्तिर्गिरेः पृष्ठमिव भवति। यथा पर्वतस्यो-परिभागोऽत्यन्तमुन्नतः । या मदीया मोक्षविषया कीर्तिरत्यन्तमुन्नता सती देवलोकेष्वपि प्रसरति। ततो देवा अपि मदीयं पुरुषार्थं विहन्तुं न क्षमन्ते। तथा च श्रूयते -
१ ग. घ. त्यन्त उन्न।
[[532]]
“तस्य ह न देवाश्चनाभूत्या ईशते” इति। वाजिनि स्वमृतमिवाहमूर्ध्वपवित्रोऽस्मि। वाजो गतिस्तद्वानादित्यो वाजी। स हि सर्वदा वेगेनैव गच्छति। तथा चोक्तम् - “योजनानां सहस्रे द्वे द्वे शते द्वे च योजने। एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते”॥ इति॥
तस्मिन्वाजिन्यादित्ये शेभनममृतं विद्यते। अत एव च्छन्दोगा मधुविद्याया-मादित्यमण्डलस्य मधुरूपत्वं तदीयप्रागादिभागेष्वृग्वेदादिप्रोक्तकर्मफलरूपाणि रोहितशुक्लादिवर्णयुक्तान्यमृतानि चाऽऽम्नातानि तद्यत्प्रथमममृतं तद्वसव उपजीवन्तीत्यादिना तेषाममृतानां वस्वाद्युपजीव्यत्वमा (त्वं चाऽऽ)मनन्ति। तदिदमादित्यमण्डलगतममृतं शोभनमत्यन्तं शुद्धम्। तद्वदहमप्यूर्ध्वपवित्र ऊर्ध्व पवित्रमुत्कृष्टा शुद्धिर्यस्य मम सोऽहमूर्ध्वपवित्रः। तादृशस्य मम सवर्चसं द्रविणं सिध्यतु। द्विविधं हि द्रविणम्। मानुषं दैवं च़। तत्र चक्षुषा दृश्यमानं सुवर्णरजतादिकं मानुषम्। श्रोत्रेण श्रूयमाणं वेदे प्रतीयमानं ब्रह्मज्ञानादिकं दैवम्। अत एव वाजसनेयिनः कस्मिंश्चिदुपासने चक्षुःश्रोत्रयोर्मानुषदैववित्तदृष्टिमामन्ति - “चक्षुर्मानुषं वित्तम्। चक्षुषा हि तद्विन्दते। श्रोत्रं दैवम्। श्रोत्रेण हि तच्छृणोति” इति। तत्र दैववित्मभिप्रेत्य सवर्चसमिति विशेष्यते। वर्चो बलं तद्योगात्सवर्चसं बलवत्त्वं च दैववित्तस्य ब्रह्मज्ञानस्य सर्वसंसारनिवर्तकत्वादुपपन्नम्। ब्रह्मज्ञानरूपेण दैववित्तेनात्र द्रविशब्दवाच्येन संपन्नोऽहं सुमेधा अमृतोक्षितश्च भूयासम्। शोभना मेधा ब्रह्मज्ञानप्रतिपादकग्रन्थतदर्थावधारणशक्तिर्यस्य मम सोऽहं सुमेधाः। अत एवाहममृतेन ब्रह्मानन्दरसेनोक्षितः सेचितः। इत्यहं वृक्षस्येत्यादिमन्त्रस्त्रिशङ्कुनामकस्य मुनेर्मतं वेदानुवचनं वेदस्य गुरुपूर्वकमध्ययनमनु पश्चाद्वचनं ब्रह्मयज्ञस्वाध्यायतप इत्यर्थः॥
इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्या- रण्यपरमेश्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीया- रण्यकभाष्ये सप्तमप्रपाठके सांहित्यामुपनिषदि दशमोऽनुवाकः॥ १०॥