अथ सप्तमे नवमोऽनुवाकः।
अष्टमेऽनुवाके शुद्धब्रह्मतत्त्ववाचिना प्रणवेन ब्रह्मोपासनमुक्तम्। तावतैव क्रममुक्तिलक्षणस्य पुरुषार्थस्य सिद्धत्वादुपासकस्य श्रुतिस्मृत्युदितनि-त्यकर्मवैयर्थ्यमाशङ्क्य नवमेऽनुवाके नित्यकर्मणामुपासनेन सह समुच्चयं विधत्ते - ऋतं च स्वाध्यायप्रव॑चने॒ च। सत्यं च स्वाध्या- यप्रव॑चने॒ च। तपश्च स्वाध्यायप्रव॑चने॒ च। दमश्च स्वाध्यायप्रव॑चने॒ च। शमश्च स्वाध्यायप्रवचने॒ च। अग्नयश्च स्वाध्यायप्रव॑चने॒ च। अग्निहोत्रं च स्वाध्यायप्रव॑चने॒ च। अतिथयश्च स्वाध्यायप्रव॑चने॒ च। मानुषं च स्वाध्यायप्रव॑चने॒ च। प्रजा च स्वाध्यायप्रव॑चने॒ च। प्रजनश्च स्वाध्यायप्रव॑चने॒ च। प्रजातिश्च स्वाध्यायप्रव॑चने॒ च, इति।
यं कंचिदर्थं विवक्षुः पुरुषो मनसा तमर्थं यथावस्तु पर्यालोच्य तद्वाचकं शब्दमनुस्मरति। तदिदं मानसं यथावस्तु भाषणानुचितमृतमुच्यते । स्वाध्यायो नित्यमध्ययनम्। प्रवचनमध्यापनं ब्रह्मयज्ञो वा। न केवलमुपासनमेव मुक्तिकामेनानुष्ठेयम्। किं तर्हि यदृतमुक्तविधं तदप्यनुष्ठेयम्। तथा स्वाध्यायप्रवचने अप्यनुष्ठेये। उपासनेन सह समुच्चयार्थौ चकारौ। वाचा यथार्थभाषणं सत्यम्। अशनपरित्यागरूपं कृच्छ्रचान्द्रायणादिव्रतं तप इत्युच्यते। “तपो नानशनात्परम्” इति श्रुतेः। “यज्ञेन दानेन तपसाऽनाशकेन” इति श्रुत्यन्तरे तपसः पृथगेवानशनं निर्दिष्टमिति चेत्तर्हि तस्मिन्नशने सामर्थ्यरहितस्य धनदानं तपोऽस्तु। “एतत्खलु वाव तप इत्याहुर्यः स्वं ददाति” इति श्रुतेः। चक्षुरादीनां बाह्येन्द्रियाणां निषिद्धविषयेभ्यो निवर्तनं दमः। मनसो निषिद्धानुचिन्तनान्निवर्तनं शमः। आधानादिसंस्कारेण निष्पन्ना आहवनीयादयोऽग्नयः। आहिताग्नौ सायं प्रातश्चानुष्ठेयो होमोऽग्निहोत्रम्। अमावास्यादितिथिविशेषमनपेक्ष्य यदा कदाचिद्याच्ञार्थं परगृहे समागता अतिथयः। मनुष्यैर्विवाहाद्युत्सवेषु क्रियमाणं वध्वादिपूजनं मानुषम्। एतदपि शिष्टाचारप्राप्तत्वाच्छ्रौतस्मार्तवदनुष्ठेयमेव। प्रजाशब्देन पुत्रोत्पत्तिविषया गर्भधानादयः संस्कारा विवक्षिताः। प्रजाश-
१ क. ख. ङ. लोक्य त। २ ग. षणमृतमित्युच्य। ३ घ. नुचिन्तनमृतमित्युच्य। ४ घ. णं बन्ध्वादि।
[[529]]
ब्देन पुत्रोत्पत्त्यर्थमृतुकाले दारसंगमो विवक्षितः। प्रजातिशब्देन श्रुतिस्मृत्युदितं सर्व कर्म स्ववर्णश्रमानुसारेणोपासकोऽप्यनुतिष्ठेत्। अन्यथा विहिताकरणप्रत्यवायेन प्रतिबद्धमुपासनं फलपर्यवसायि न स्यात्। न चानेन न्यायेन ब्रह्मतत्त्वज्ञानस्यापि कर्मसमुच्चयः प्राप्नुयादिति शङ्कनीयम्। तत्त्वविदः स्वात्मनि कर्तृत्ववर्णाश्रमाद्यध्यासनिवृत्तौ कर्माधिकाराभावात्। उपासकस्य त्वध्याससद्भावादस्ति कर्माधिकार इति युक्तः समुच्चयः प्राप्नुयादिति शङ्कनीयम्। तत्त्वविदः स्वात्मनि कर्तृत्ववर्णाश्रमाद्यध्यासनिवृत्तौ कर्माधिकाराभावात्। उपासकस्य त्वध्याससद्भावादस्ति कर्माधिकार इति युक्तः समुच्चयः। निरन्तरमुपासीनस्य चित्तविक्षेपहेतावग्निहोत्रादौ बहुप्रयाससाध्ये कर्मणि प्रवृत्तिर्न संभवतीति चेत्तर्ह्यसौ शमदमादिलक्षणमनुकूलं कर्मानुतिष्ठतु। अत एवोपासकं प्रति यमनियमादिप्रतिपादकं योगशास्त्रं प्रवृत्तम्। अग्निहोत्रादीनां शमदमादीनां च पुरुषविशेषं प्रति चित्तसमाधानानुसारेण वैकल्पिकत्वेऽपि स्वाध्यायप्रवचनयोरवश्यमनुष्ठेयत्वमभिप्रेत्य तेन तेन कर्मणा सह समुच्चयं विधातुं पुनः पुनर्वाक्यमभ्यस्तम्। न हि स्वाध्यायः कदाचिदपि परित्यक्तुं शक्यते। तत्परित्यागे शूद्रत्वप्रसङ्गात्। तथा च स्मृतिः - “योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम्। स जीवन्नेव शुद्रत्वमाशु गच्छति सान्वयः” इति॥
प्रवचनपरित्यागनिषेधस्तु ब्रह्मयज्ञप्रकरणे समाम्नायते - “अपहतपाप्मा स्वाध्यायो देवपवित्रं वा एतत्तं योऽनुत्सृजत्यभागो वाचि भवत्यभागो नाके। तदेषाऽभ्युक्ता - यस्तित्याज सखिविद ँ सखायं न तस्य वाच्यपि भागो अस्ति। यदी ँ शृणोत्यलक ँ शृणोति न हि प्रवेद सुकृतस्य पन्थाम्” इति। यस्तु परिव्राट्पूर्वकर्माणि संन्यस्यति तेनापि स्वाध्यायो न परित्याज्यः। तथा च स्मृतिः - “संन्यसेत्सर्वकर्माणि वेदमेकं न संन्यसेत्” इति। नन्वारुण्युपनिषदि स्वाध्यायस्यापि संन्यासः श्रूयते पुत्रान्भ्रातृबन्ध्वादीञ्शिखां यज्ञोपवीतं यागं सूत्रं स्वाध्यायं चेति परित्याज्येषु वस्तुषु स्वाध्यायस्य पठितत्वात्। नायं दोषः। परिव्राजकानामनुपयुक्तस्यैव कर्मभागस्य त्याज्यत्वात्। उपयुक्तस्य तु भागस्याऽऽवृत्तिर्यतिधर्मेष्वाम्नायते - “त्रिसंध्यादौ स्नानमाचरेत्। संधिं समाधावात्मन्याचरेत्। सर्वेषु वेदेष्वारणमावर्तयेत्। उपनिषदमावर्तये-दुपनिषदमावर्तयेत्” इति। अतः स्वाध्यायप्रवचनयोः परित्यागो न कस्या-पीत्यभिप्रायेणऽऽदरार्थोऽयं विधिवाक्याभ्यासः। अथ यथोक्तेषु कर्मसु प्राशस्त्येन मतभेदं दर्शयति - सत्यमिति सत्यवचा॑ राथी॒तरः। तप इति तपोनित्यः पौरुशि॒ष्टिः। स्वाध्यायप्रवचने एवेति नाको
१ क. ख. घ. ङ. कालदा। २ ग. न्भ्रातृन्बन्ध्वा।
[[530]]
मौद्ग॒ल्पः। तद्धि तप॑स्तद्धि॒ तपः (१), इति।
प्रजा च स्वाध्यायप्रव॑चने॒ च षट् च॑॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके नवमोऽनुवाकः॥९॥
रथीतराख्यस्य मुनेः पुत्रः कश्चित्सर्वदा सत्यमेव वक्त्यतः सत्यवचा इति तस्य नामधेयम्। स हि सत्यमेवोत्तमं कर्मेति ब्रूते। पुरुशिष्ट्याख्यस्य मुनेः पुत्रः कश्चित्तपसि नियतो वर्तते। अतस्तपोनित्य इति तस्य नामधेयम्। स त्वनशनधनदानरूपमेव कर्मोत्तममिति ब्रूते। मुद्गलाख्यस्य मुनेः पुत्रः कश्चिन्मौद्गल्यः सर्वदा स्वाध्यायप्रवचनाभ्यां तुष्टः सन्दुःखरहितो वर्तते। अतो नाक इति तस्य नामधेयम्। स तुस्वाध्यायप्रवचने एवोत्तमे कर्मणी इति ब्रूते। ननु - “तपसा देवा देवतामग्न आयन्। तपसर्षयः सुवरन्वविन्दन्” इत्यादि-श्रुतेस्तपस एवोत्तमत्वं युक्तमिति चेदस्तु नाम तावता स्वाध्यायप्रवचनवादिनो मौद्गल्यस्य न हानिः कदाचिदस्ति यस्मात्तत्स्वाध्यायप्रवचनानुष्ठानं तपोरूपम्। तस्मात्तदेव प्रशस्तम्। तद्धि तपस्तद्धि तप इत्यभ्यासो मुख्यतपस्त्वद्योतनार्थः। मुख्यतपोरूपत्वादेवानध्यायेष्वपि ब्रह्मयज्ञस्वाध्यायोऽध्येतव्यः। तथा चाऽऽम्नायते - “य एवं विद्वान्मेघे वर्षति विद्योतमाने स्तनयत्यवस्फूर्जति पवमाने वायावमावास्याया ँ स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्यायः” इति। वाक्यान्तरेणाप्ययमेवार्थः स्पष्टी क्रियते " उत तिष्ठन्नुत व्रजन्नुताऽऽसीन उत शयानोऽधीयीतैव स्वाध्यायं तपस्वी पुण्यो भवति। य एवं विद्वान्स्वाध्यायमधीते" इति। तस्मादनशनरूपं धनदानरूपं वा यत्तपोऽस्ति ततोऽप्यधिकफलहेतुत्वादेतदुत्तमं तपः। एतदप्याम्नातम् - “यावन्त ँ ह वा इमां वित्तस्य पूर्णा ददत्स्वर्ग लोकं जयति तावन्तं लोकं जयति भूया ँसं चाक्षय्यं चाप पुनर्मृत्युं जयति ब्रह्मणः सायुज्यं गच्छति” इति॥
इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्या-रण्यपरमेश्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तमप्रपाठके सांहित्यामुपनिषदि नवमोऽनुवाकः॥९॥
१ क. ख. घ. ष्टः स दुः।
[[531]]