०८

अथ सप्तमेऽष्टमोऽनुवाकः।


सप्तमे स्थूलदर्शिनो मन्दस्य स्थूलरूपपृथिव्याद्युपाधिकब्रह्मोपासनमुक्तम्। पूर्वस्मिन्ननुवाके षष्ठे किंचित्सूक्ष्मदर्शिनो मध्यमस्य सुक्ष्मरूपमनआद्युपाधिकब्रह्मोपसनमुक्तम्। अथोत्तमाधिकारिणोऽष्टमानुवाके वेदान्तप्रतिपाद्यप्रणवाभिधेयशुद्धब्रह्मोपासनमुच्यते। तत्रोपास्यस्वरूपं दर्शयति - ओमिति॒ ब्रह्म॑, इति। ओंकारः परमात्मनो वाचकः। तथा च पतञ्जलिप्रोक्तं योगसूत्रं पूर्मेवोदाहृतम् - “तस्य वाचकः प्रणवः” इति। इतिशब्दोऽर्थान्तरव्यावृत्त्यर्थः। ओमित्यनेनैव शब्देन प्रतिपाद्यं यद्ब्रह्म तदेवात्रोपास्यं वस्तु। न ह्यत्र मनाद्युपाधि पृथिव्याद्युपाधि वा चिन्तनीयम्। वाचकर्मोकारमुच्चारयन्वाच्यं ब्रह्मोपासीतेत्यर्थः। ओंकारस्य ब्रह्मवाचकत्वयोग्यतां दर्शयति - ओमिती॒द ँ सर्वम्, इति। ओमत्येतस्मिन्नेवाक्षरे शब्दरूपमर्थरूपं चेदं सर्वे जगदन्तर्भूतम्। तद्यथा शङ्कुनेत्यादिश्रुत्या शब्दान्तर्भाव आम्नातः। तस्य वाक्तन्तिरित्यादिश्रुत्या शब्दद्वारेणार्थान्तर्भावोऽप्याम्नातः। एतच्च सर्वं यश्छन्दसामृषभ इत्यत्र विश्वरूपपदव्याख्याने प्रपञ्चितम्। तथा सति प्रणवस्य सर्वात्मकत्वेन सर्वात्मकब्रह्मवाचकत्वयोग्यता संभवति। ओंकारस्य सर्वसंबन्धं केषुचिद्वैदिकव्यवहारेषूदाहृत्य प्रदर्शयति - ओमित्ये॒तद॑नुकृति ह स्म॒ वा अ॒प्यो श्रा॑वयन्ति। ओमिति॒ सामा॑नि गायन्ति। ओ ँ शोमिति॑ श॒स्त्राणि॑ श ँसन्ति। ओमि-


१ घ. न त्वत्र

[[524]]

त्य॑ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति। ओमिति॒ ब्रह्मा॒ प्रसौ॑ति। ओमि- त्य॑ग्निहो॒त्रमनु॑जानाति। ओमिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒, - इति। दर्शपूर्णमासादियोगेषु यजुर्वेदोक्तकर्मानुष्ठायिनोऽध्वर्यवो यस्मिन्काल आग्नीध्रं प्रत्याश्रावयेति प्रैषमन्त्रं प्रयुञ्जते तदानीमो श्रावयेति मन्त्रं पठन्ति। अत एवाऽऽपस्तभ्ब आकारादिमोकारादिर्मोकारादिं च तं मन्त्रं विकल्पेनोदाजहार - “आ श्रावयो श्रावयों श्रावयेति श्रावयति” इति। तेषु पक्षेषु द्वितीय ओकारादिपक्षोऽत्र श्रुत्योदात्द्दतः। मन्त्रगत ओकार आग्नीध्रसंबोधनार्थः। हे आग्नीध्र देवान्प्रति हविष्प्रदानावसरं श्रावयेति मन्त्रार्थः। तस्मिन्मन्त्रे यदेतदोकारोच्चारणं तदेतदोमित्येतदनुकृति भवति। प्रणवे मकारात्पूर्वभागरूपो य ओकारस्तस्यानुकृतिरनुकरणं सादृश्यसंपादनं तद्यस्मिन्नुच्चारणे तदिदमोमित्येतदनुकृति । प्रसिद्धिद्योतनार्था ह स्म वा इति त्रयो निपाताः। प्रणवभागसादृश्यमोकारे प्रसिद्धमित्यर्थः। अपशब्दो वक्ष्यमाणोदाहरणसमुच्चयार्थः। अध्वर्यवोऽप्योकारेण प्रणवभागेनैवाऽऽश्रावयन्ति। तथा सामगा उद्गातारोऽपि प्रणवोच्चारणपुरःसरमेव सामगानं कुर्वन्ति। बह्वृचा होतारोऽपि प्रणवोच्चारणेर्नो शोमिति शब्दोच्चारणेनैव शस्त्राणि निष्केवल्यप्रउगादिनामकानि पठन्ति। तथा हि - शस्त्रशंसनस्याध्वर्यु प्रत्यनुज्ञां याचमाना होतारोऽनेन मन्त्रेण याचन्तोऽध्वर्यो शोंसावो-मिति तत्राऽऽदौ शोमिति शब्दोऽन्ते च प्रणव इत्युभयं दृश्यते। तदिदमभिलक्ष्यों शोमिति शस्त्राणि शंसन्तीत्याम्नातम्। हेऽध्वर्यो होतारो वयं किंशंसनं कुर्म इत्यनुज्ञापनं मन्त्रस्यार्थः। यदा होता शस्त्राणि शंसति तदानीमध्वर्युः शंसितारं होतारं प्रति प्रोत्साहनद्योतकं शब्दमुच्चारयति। सोऽयं शब्दः प्रतिगर इत्युच्यते। तं प्रतिगरं यदा प्रतिगृणात्युच्चारयति य(त)दानीमोमिति प्रयुङ्क्ते। तदिदमापस्तम्बो विस्पष्टमाह - “ऋतुपात्रं धारयमाणः सदोबिले प्रत्यङ्तिष्ठन्प्रतिगृणाति प्रह्णो वोऽथा मोद इवेत्यर्धर्चेष्वोऽथा मोद इवेत्यवसानेषु प्रणव एवान्ते” इति। शस्त्रमध्य एकस्या ऋचः पूर्वार्धे समाप्ते सत्यध्वर्युरोऽथा मोद इवेत्येतं प्रतिगरं प्रयुङ्क्ते। ओकारेण होता संबोध्यते। हे होतरथार्धर्चशंसनानन्तरमस्माकं मोद इव हर्ष एव संपन्न इत्यर्थः। ऋचोऽवसाने सति प्रतिगरादौ प्रणवः प्रयोक्तव्यः। स च शस्त्रशंसनस्याङ्गीकारे वर्तते। कृतेस्नस्य शस्त्रस्यावसाने सत्यङ्गिकारार्थः प्रणव एव प्रयोक्तव्यः। अतः प्रतिगरेऽपि प्रणवोऽनुवर्तते। वेदत्रयोक्तप्रयोगज्ञर्त्विग्ब्रह्मा, स च यदा प्रोक्षणादिक्रियास्वन्यानृत्विजः प्रेरयति तदानीर्मो


  • ओमित्येतत्प्राग्वर्तिन ओकाररस्यानुकरणमित्युक्त्यैकदेशविकृतमन-नन्यवत्प्रकृतिवदनुकरणमितिन्यायाभ्यां तस्मिन्पर ओमाङोरिति पररूपमिति सूचितम्।

१ क. ग. ड. वयोमाश्रा। २ क. ङ. ओकार। ३ क. ख. घ. ङ. सरे श्रा। ४ क. स्र, म. ङ. तद्वद्य। ५ ङ तदेतदोमि॰। ६ ख. ग. नाय ह।

[[525]]

प्रोक्षेत्येवं प्रणवपुरःसरमेव प्रसौति प्रेरयति। अग्निहोत्रहोमेऽध्वर्युर्होमद्रव्यं क्षीरं तत्पात्रादग्निहोत्रहवणीनामके पात्रे यदा स्रुवेणोन्नयति तदानीमोमुन्नेप्यामि हव्यं देवेभ्य इत्यादिमन्त्रेण यजमानं प्रत्यनुज्ञां याचते। स च यजमान ॐकारेणानुज्ञां प्रयच्छति। तथा च सूत्रकार आह - “ओमुन्नयेत्युच्चैरनुजानाति” इति। तथा ब्रह्मयज्ञं चिकीर्षुर्ब्राह्मणो ब्रह्मयज्ञनामकस्य प्रवचनस्याऽऽदौ प्रणवं प्रयुङ्क्ते। तथा च ब्रह्मयज्ञप्रकरणे समाम्नातम् - “दक्षिणोत्तरौ पाणी पादौ कृत्वा सपवित्रावोमिति प्रतिपद्यते” इति। प्रतिपद्यते ब्रह्मयज्ञं प्रारभत इत्यर्थः। तदेवं वैदिकैरुदाहरणैरोंकारव्याप्तिः प्रपञ्चिता। अथ फलकथनव्याजे-नोपासनविधिमुन्नयति- ब्रह्मोपा॑प्नवा॒नीति॑। ब्रह्मैवोपा॑प्नोति (१), इति। ओं दश॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठकेऽ- ष्टमोऽनुवाकः॥८॥

यः पुमान्ब्रह्म प्राप्नवानीति कामयते स पुमानोमित्यनेन शब्देन वाच्यं ब्रह्मोपासीत तेनोपासनेन ब्रह्म प्राप्नोत्येव। अथ मीमांसा - अत्रैतच्चिन्तनीयम्। ओमिति ब्रह्मेतिवाक्ये किर्मोकारे प्रतीके ब्रह्मदृष्टिर्विधीयते किंवोपास्यं ब्रह्मोमित्यनेन विशेषणेन विशेष्य्त इति। तत्र य ओमिति शब्दस्तद्ब्रह्मेत्येवमोंकारप्रतीकमाधारत्वेनोद्दिश्य तत्र ब्रह्मदृष्टिर्विधीयते। तथा सत्युद्देश्यविधेययोः क्रमनिर्देशस्योपपन्नत्वादिति प्राप्ते ब्रूमः - उद्गीथन्यायेनात्रोंकारस्य विशेषणत्वं द्रष्टव्यम्। स च न्यायस्तृतीयाध्यायस्य तृतीयपादे *दर्शितः- “किमध्यासोऽथ वा बाध ऐक्यं वाऽथ विशेष्यता। अक्षरस्यात्र नास्त्येकं नियतं हेत्वभावतः॥ वेदेषु व्याप्त ओंकार उद्गीथेन विशेष्यते। अध्यासादौ फलं कल्प्यं संनिकृष्टांशलक्षणा॥ “ओमित्येतदक्षरमुद्गीथमुपासीत” इत्यक्षरोद्गीथयोः सामानाधिकरण्यं श्रूयते। तत्र चतुर्धा संशयः। तथा हि - “नाम ब्रह्मेत्युपासीत” इत्यत्र नामनि ब्रह्मदृष्ट्यध्यासाय सामानाधिकरण्यं श्रुतम्। तथा बाधादिष्वप्युदाह्रियते - “यश्चोरः स स्थाणुः” इति चोरत्वस्य बाधः। “यो जीवस्तद्ब्रह्म” इत्येकत्वम्। “यन्नीलं तदुत्पलम्” इति विशे-


  • व्याप्तेश्च समञ्जसम्। अ॰ ३ पा॰ ४सू॰ ९।

१ क. ध. वणिना। २ ग. न्ब्रह्मोपाप्र। ३ ग. न्ब्रह्मोपाप्र।

[[526]]

ष्यता। अतोऽक्षरस्य चतुर्धा संदेहे सतीदमेवेत्यध्यवसायो नास्ति नियामकस्य हेतोरभावादिति प्राप्ते ब्रूमः - अक्षरस्योद्गीथेन विशेष्यता नियन्तुं शक्यते। ओंकार ऋग्यजुःसामसु त्रिषु पठ्यते। तत्र कस्योपास्यत्वमित्यपेक्षायामुद्गीतभागगतस्य न त्वितरस्येति सामवेदगतस्य विशेषणीयत्वात्। अध्यासबाधैक्यपक्षेषु फलमपि कल्पनीयं प्रसज्येत। स्वतन्त्रोपासनत्वेन फलस्याऽऽकाङ्क्षितत्वात्। विशेषणपक्षे तु वक्ष्यमाणरसतमत्वादिगुणोपासनाय प्रतीकत्वेनोंकार उद्गीथेन विशेष्यते न तु स्वतन्त्रमुपासनम्। तदा न पृथक्कल्पनीयं फलम्। ननूद्गीथशब्दः कृत्स्नभक्तिवाचकः। ओंकारस्तु तदवयवः। अत ओंकारं विशेषयितुमुद्गीथशब्दे तदंशलक्षणा स्वीकरणीया स्यात्। बाढम्। तथाऽप्यध्यासपक्षात्समीचीनो विशेषणपक्षः। अध्यासपक्षे तु यथा विष्णुशब्दः स्वार्थ सर्व परित्यज्यार्थान्तरभूतां शिल्पिप्रतिमां लक्षयति। तथो-द्गीथशब्दोऽपिति विप्रकर्षः। अंशलक्षणायां तु स्वार्थैकदेशस्यैव परित्याग इति संनिकर्षः। ओंकारादितरदक्षरजातं यदस्ति सोऽयं परित्यक्तव्यस्तदेकदेशः। तस्माद्वेदान्तरगर्तोकारव्यावृत्त्यर्थमुद्गीथावयवत्वेनेदमक्षरं विशेष्यते”। अनेन न्यायेनात्रापि ब्रह्मशब्देन मनोमयत्वादिगुणकं पृथिव्यादिगुणकं शुद्धं चेति त्रिविधब्रह्मप्राप्तौ सत्यां सगुणत्वं व्यावर्त्य शुद्धब्रह्मसमर्पणार्थमोमिति विशेषणम्। ओमित्यनेनैव वाचकेन शब्देन वाच्यं यत्परं ब्रह्म तदुपासितव्यमित्युक्तं भवति। प्रतीकपक्षे त्वोंकारस्य शब्दात्मकस्य ब्रह्मदृष्ट्योपासनायां शब्दोपासनमेव स्यान्न तु ब्रह्मोपासनम्। तथा सति प्रतीकोपासकस्य ब्रह्मलोकप्राप्तिरेव तावन्न संभवति। कुतो ब्रह्मतत्त्वप्राप्तिः। तदभावे च ब्रह्मलोकप्राप्तिर्ब्रह्मतत्त्वज्ञानद्वारेण विदेहमुक्तिलक्षणा ब्रह्मप्राप्तिश्चोपपद्यते। तस्मादोंकारवाच्यत्वेन ब्रह्मतत्त्वं विशेषणीयम्। ननु ब्रह्मतत्त्वस्य प्रमाणजन्यं वेदनमेव संभवति न तूपासनम्। अत एव दहरशाण्डिल्यादिविद्यासु सर्वत्र सगुणस्यैव ब्रह्मण उपासनं विधीयते। न तु क्कचिदपि शुद्धस्य ब्रह्मतत्त्वस्य। किंच वेदान्तवाक्येन शुद्धे ब्रह्मतत्त्वेऽवगते सति कृतकृत्यत्वान्नानेनोपासनेन किंचित्प्रयोजनमस्ति। नापि ब्रह्मविदां कर्तृत्वेऽपगते सत्युपासकत्वं संभवतीति। नायं दोषः। द्विविधं हि वेदान्तवाक्यम्। अवान्तरवाक्यं महावाक्यं चेति। जगत्कारणब्रह्मणो यत्तात्त्विकं रूपं तस्य बोधकमवान्तरवाक्यम्। जीवब्रह्मणोस्तादात्म्यबोधकं महावाक्यम्। तत्र महावाक्येन तादात्म्यं विदितवतस्त्वदुक्तरीत्या प्रयोजनाभाव उपासकत्वाभावश्च भवतु नाम। यस्त्ववान्तरवाक्यमात्रेण जगत्कारणस्य तत्त्वमात्रं बुध्यते तस्य तावता कर्तृत्वानपायादुपासकत्वं संभवति। प्रयोजनं च ब्रह्मलोकप्राप्तिर्ब्रह्मतत्त्वा-


१ क. ख. ङ. ब्देन तदंशे ल। २ घ. विदः क।

[[527]]

वबोधे विदेहमुक्तिलक्षणं संभाव्यते। तस्मात्तादृशः पुमान्ब्रह्मतत्त्वमुपासीत। अत एवोत्तरतापनीयोपनिषदि निर्गुणब्रह्मतत्त्वविषयाण्येव बहून्युपासनानि विहितानि। स्मृतिश्च ब्रह्मतत्त्वध्यानं विदधाति - “उपपातकसंघेषु पातकेषु महत्सु च। प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत्”। इति। तदेतद्ब्रह्मतत्त्वस्य ध्यानं प्रथमाध्यायस्य तृतीयपादे *चिन्तितम्। “त्रिमात्रप्रणवे ध्येयमपरं ब्रह्म वा परम्। ब्रह्मलोकफलोक्त्यादेरपरं ब्रह्म गभ्यते। ईक्षितव्यो जीवघनात्परस्तत्प्रत्यभिज्ञया। भवेद्धयेयं परं ब्रह्म क्रममुक्तिः फलिष्यति।

प्रश्नोपनिषदि श्रूयते - “यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत” इति। तत्र ध्येयं वस्तु हिरण्यगर्भाख्यमपरं ब्रह्मोत परं ब्रह्मेति संशये सति ह्यपरमिति प्राप्तम्। कुतः। “स सामभिरुन्नीयते ब्रह्मलोकम्” इति कमलासनलोकप्राप्तिफलश्रवणात्परब्रह्मध्यानस्य परमपुरुषार्थत्वस्य ताव-न्मात्रफलत्वानुपपत्तेः। परं पुरुषमिति परब्रह्मविशेषणमपरस्मिन्नपि ब्रह्मण्युपपद्यते। तस्याप्यन्यापेक्षया परत्वादिति प्राप्ते ब्रूमः - परमेव ब्रह्माभिध्येयम्। कुतः। ईक्षितव्यस्य परस्य ध्येयत्वेन प्रत्यभिज्ञानात्। “स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते” इति वाक्यशेषे श्रूयते। तस्यायमर्थः। य उपासनया ब्रह्मलोकं प्राप्तः स एतस्मात्सर्वजीवसमष्टिरूपादुत्कृष्टाद्धिरण्यगर्भादप्युत्कृष्टं सर्वप्राणिहृदयेशयं परमात्मानं पश्यतीति। तत्रेक्षितव्यो यः परमात्मा स एव वाक्योपक्रमे ध्यानविषयत्वेनाभिप्रेत इत्यवगभ्यते। परपुरुषशब्दाभ्यां तस्य प्रत्यभिज्ञानात्। न च ब्रह्मलोकमात्रमत्र फलं क्रममुक्तिसंभवात्। तस्माद्ब्रह्मैव ध्येयम्”। तदेवं शुद्धब्रह्मतत्त्वस्याप्युपास्तिसंभवाद्ब्रह्मोपाप्नवानीत्येवं कामयमानः प्रणवमुच्चारयंस्तदर्थरूपं ब्रह्मतत्त्वमुपासीत। तेन चोपासनेन ब्रह्म प्राप्नोत्येव॥ इति श्रीमत्सायाणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्या-रण्यपरमेश्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरोयारण्यकभाष्ये सप्तमप्रपाठके सांहित्यामुपनिषद्यष्टमोऽनुवाकः॥८॥



  • ईक्षतिकर्मव्यंपदेशात्सः। अ॰ १ पा॰ ३ अ॰ ४ सू॰ १३।

[[528]]