अथ सप्तमे सप्तमोऽनुवाकः।
षष्ठेऽनुवाके मनोमयत्वादिगुणविशिष्ठस्य ब्रह्मण उपासनमुक्तम्। तस्य ब्रह्मणश्चक्षुर्गम्यगुणविशेषाभावेनोत्तमाधिकारिविषयत्वान्मन्दाधिकारिणं प्रति चक्षुर्गम्यगुणोपेतब्रह्मोपासनं सप्तमेऽनुवाकेऽभिधीयते। तत्र प्रथममाधिभौतिकं गुणपञ्चकत्रयं दर्शयति – पृ॒थि॒व्य॑न्तरि॑क्षं॒ द्यौर्दिशो॑ऽवान्तरदि॒शाः। अ॒ग्निर्वा- युरा॑दि॒त्यश्चन्द्रमा॒ नक्ष॑त्राणि। आप॒ ओष॑धयो॒ वन॒- स्पत॑य आका॒श आ॒त्मा। इत्य॑धिभू॒तम्, इति।
पृथिव्यादिकं लोकपञ्चकम्। अग्न्यादिकं देवतापञ्चकम्। आप इत्यादिकं द्रव्यपञ्चकम्। तत्राऽऽत्मशब्देन समष्टिरूपो विराट्पुरुष उच्यते। इत्येवमुक्तं पञ्चकत्रयमधिभूतमहंप्रत्ययग्राह्मेभ्यो वक्ष्यमाणेभ्यः प्राणादिभ्यो व्यतिरि-क्तानीदंप्रत्ययग्राह्याणि पृथिव्यादीनि भूतान्याश्रित्य वर्तत इत्यधिभूतम्। भूतविषयमुपासनमुक्तमित्यर्थः। १ग. ष्टेनानुवाकेन म। २ ग. दिशः अ। ३ क. ग. घ.ङ. दि. द्र। ६६
[[522]]
वक्ष्यमाणेनासंकीर्णत्वायोक्तं विभज्य प्रतिज्ञापुरःसरमन्यत्पञ्चकत्रयं दर्शयति – अथाध्या॒त्मम्। प्रा॒णो व्या॒नो॑ऽपा॒न उ॑दा॒नः संमा॒नः। चक्षुः॒ श्रोत्रं॒ मनो॒ वाक्त्वक्। चर्म॑ माँ॒स ँ स्नावास्थि॑ म॒ज्जा, इति।
अथ भूतविषयपञ्चकत्रयकथनानन्तरमध्यात्ममात्मविषयपञ्चकत्रयमभिधीयत इति शेषः। यस्मिन्देहेन्द्रियादिसंघाते शास्त्रसंस्काररहितस्य जनस्याहमिति बुद्धिः सोऽयं लोकप्रसिद्ध आत्मा तमधिकृत्य यदुपासनं वर्तते तदध्यात्मम्। देहमध्यवर्तिन एकस्यैव वायोः प्राणादयः पञ्च वृत्तिभेदाः। अत एव प्राणविचारे भगवता व्यासेन सूत्रितम् - “पञ्चवृत्तिर्मनोवद्व्यपदिश्यते” [ब्र. सू. अ. २ पा. ४ सू. १२] इति। तासां च वृत्तीनां स्थानभेदः पूर्वैरुदाहृतः – “हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः। उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः” इति।
तदेतद्वायुपञ्चकम्। चक्षुरादिकमिन्द्रियपञ्चकम्। चर्मादि धातुपञ्चकम्। स्नावशब्देन वसाऽभिधीयते। यदेतदधिभूतपञ्चकत्रयं यच्चाध्यात्मपञ्चकत्रयं तेनोभयेन ब्रह्मण उपाधिभूतं कृत्स्नं जगदभिधीयते। तदेतज्जगदुपाधिविशिष्टं ब्रह्मस्वरूपमुपासितव्यम्। अथार्थवादेनोपास्तौ विधिमुन्नयति – ए॒तद॑धिवि॒धाय॒ ऋषि॒रवो॑चत्। पाङ्क्तं॒ वा इ॒द ँ सर्व॑म्। पाङ्क्तेनै॒व पाङ्क्त॑ ँ स्पृणो॒तीति (१), इति। सर्व॒मेकं च॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके सप्तमोऽनुवाकः॥७॥ ऋषिरतीन्द्रियस्य शास्त्रार्थस्य द्रष्टा कश्चिन्मुनिरेतत्पृथिव्यन्तरिक्षादिकमु-पास्यस्वरूपमधिविधायाधिकं साक्षात्कारपर्यन्तं यथा भवति तथोपास्य स्वानुभवेन सर्वात्मकं विराड्रूपं प्राप्य स्वानुभवसिद्धमर्थं शिष्येभ्यः प्रोक्तवान्। किमुक्तवानिति तदभिधीयते- इदं प्रतीयमानं सर्वं जगद्विराड्रूपं पाङ्क्तं पक्तिच्छन्दसः संबन्धि। वैशब्देन तत्प्रसिद्धिरुच्यते पङ्क्तिश्छन्दः पञ्चसंख्योपेतम्। तथा जगदपि पञ्चसंख्योपेतम्। पञ्चीकृतपञ्चमहाभूतानि तत्कार्यं च सर्वं विराडित्युच्यत इति संप्रदायविद्भिरभिधानात्। तथा १ क. ख. ङ. नुभावे।
[[523]]
सति जगतः पङ्क्तिच्छन्दसा सह सादृश्यलक्षणस्य संबन्धस्य विद्यमानत्वात्पाङ्क्तत्वम्। तथा पृथिव्याद्युपासनमपि पञ्चकैरुपेतत्वात्पाङ्क्तम्। तेन पाङ्क्तेनैवोपासनेन पाङ्क्तं विराड्रूपमुपासकः स्पृणोति प्रीणयति प्राप्नोतीत्यर्थः। एतेनार्थवादेन पाङ्क्तरूपविराट्प्राप्तिकाम एवमुपासीतेति विधिरुन्नीयते। सत्यां च विराट्प्राप्तौ तत्त्वज्ञानोत्पत्तिद्वारा क्रममुक्तिः पूर्वोक्तन्यायेनावगन्तव्या॥ इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यार-ण्यपरमेश्वरसंबन्धिवेदार्थप्रकाशे कृण्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तमप्रपाठके सांहित्यामुपानिषदि सप्तमोऽनुवाकः॥७॥