०६

अथ सप्तमे षष्ठोऽनुवाकः।


पञ्चमेऽङ्गोपासनमुक्तं षष्ठे त्वङ्गिन उपासनमुच्यते। तत्राऽऽदावुपास्यस्वरूपं दर्शयति – स य ए॒षो॑ऽन्तर्हृ॑दय आका॒शः। तस्मि॑न्न॒यं पुरु॑षो मनो॒मयः॑। अमृ॑तो हिर॒ण्मयः॑, इति।

हृदयपुण्डरीकस्य मध्ये स्वाङ्गुष्ठपरिमित आकाशो वर्तते। स एष इत्येताभ्यां दूरसामीप्यवाचिभ्यां व्यवहितयोगशास्त्रप्रसिद्धः संनिहितश्रुत्यन्तरप्रसिद्धश्चोच्यते। ईदृशो य आकाशस्तस्मिन्नाकाशे पुरुषः संपूर्णः परमात्माऽस्ति। यद्यप्यसौ सर्वत्र वर्तते तथाऽपि तस्योपलब्ध्यर्थमुपासनार्थं च हृदयस्थानमुदिश्यते। हृदयकमलमध्ये हि समाधिना निरुद्धमेकाग्रं मनः परमात्मानं साक्षात्कर्तु प्रभवति। “दृश्यते त्वग्र्यया बुध्द्या” इतिश्रुत्यन्तरात्। अपरोक्षवाचकेनायमित्यनेन शब्देन सेयं साक्षात्कारयोग्यताऽभिधीयते। तादृशः पुरषो हृदयमध्य उपास्यमानः प्रसीदति। अत एव दहरशाण्डिल्यविद्यासु त्हृदयमान्मातम्। तस्मिन्त्दृदय उपासितव्यः पुरुषो मनोमयो मनःप्रधानः। जिज्ञासवो हि तं पुरुषं मनसा साक्षात्कुर्वन्ति, उपासकाश्च मनसा ध्यायन्ति, तदिदं मनोमयत्वम्। अमृतत्वं विनाशराहित्यम्। हिरण्मयो ज्योतिर्मयः स्वप्रकाश इत्यर्थः।

इत्थमुपास्यस्वरूपमभिधायोपासकस्य मार्गविशेषं दर्शयति- अन्त॑रेण॒ तालु॑के। य ए॒ष स्तन॑ इवाव॒लम्ब॑ते। से॑न्द्रयो॒निः। यत्रा॒सौ के॑शा॒न्तो विवर्त॑ते। व्यपोह्य॑ शीर्षकपा॒ले, इति।

मुखबिलस्यान्तर्जिह्वामूलस्योपरि स्थितौ वामदक्षिणभागौ तालुके इत्युच्येते। तालुके अन्तरेण तालुकयोर्मध्ये वत्सतर्याः स्तन इव स्वल्पः कश्चिन्मांसखण्डो लम्बमानस्तिष्ठति १ ख. ध्ये स।

[[511]]

तस्य माँसखण्डस्य योगशास्त्रप्रसिद्धिं द्योतयितुं यच्छब्दः। प्रत्यक्षतां द्योतयितुमेतच्छब्दः। लम्बिकाकरणप्रवीणस्य जिह्वाग्रस्पर्शनेन प्रत्यक्षः। परकीयमुखे तु चक्षुषैव प्रत्यक्षः। स च मांसखण्ड इन्द्रस्य परमेश्वरस्य योनिः स्थानम्। शाखाग्रचन्द्रदर्नन्यायेन स मांसखण्डः स्वसमीपवर्तिनीं योगशास्त्रप्रसिद्धां सुषुम्नाख्यां नाडीमुपलक्षयति। तस्यां च नाड्यां प्रविष्ट चित्तमेकाग्रं भूत्वा परमात्मानं साक्षात्कर्तुं प्रभवति। एतदेवाभिप्रेत्य क्षुरिको-पनिषद्याम्नायते – “एकोत्तरं नाडिशतं तासां मध्ये वरा स्मृता। सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी॥ इडा तिष्ठति वामेन पिङ्गला दक्षिणेन तु। तयोर्मध्ये परं स्थानं यस्तं () वेद स वेदवित्” इति॥

अतः सा नाडी परमेश्वरस्य स्थानम्। किंचामृतत्वप्राप्तेर्मार्गभूतत्वादपि तस्य स्थानम्। तन्मार्गत्वमपि च्छन्दोगैः कठैश्चाऽऽम्नायते – “शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका। तयोर्ध्वमायन्नमृतत्वमेति” इति। सेयमिन्द्रस्य योनिः सुषुम्ना नाडी शिरसो वामदक्षिणकपाले व्यपोह्म विनिर्भिद्य यत्र यस्मिन्मूर्धप्रदेशे केशानामन्तो मूलमस्ति तत्र विशेषेण वर्तते। यथाऽग्रस्योपरि केशानामभावदग्रमन्तशब्देनोच्यते, तथा मूलादधोऽपि तदभावान्मूलमप्यन्तशब्दवाच्यम्। इत्थमुपासकस्य फलप्राप्तये निर्गमनद्वारमभिधायेदानीं फलं दर्शयति – भूरित्य॒ग्नौ प्रति॑तिष्ठति। भुव॒ इति॑ वा॒यौ (१)। सुव॒रित्या॑दि॒त्ये। मह॒ इति॒ ब्रह्म॑णि। आ॒प्नोति॒ स्वारा॑ज्यम्। आ॒प्नोति॒ मन॑स॒स्पति॑म्। वाकप॑ति॒- श्चक्षु॑ष्पतिः। श्रोत्र॑पतिर्वि॒ज्ञान॑पतिः। ए॒तत्ततो॑ भवति। आ॒का॒शश॑रीरं ब्रह्म॑। स॒त्यात्म॑ प्रा॒णारा॑मं॒ मन॑आनन्दम्। शान्ति॑समृद्धम॒मृत॑म्, इति।

व्याहृतित्रयध्यानेनाग्न्यादिषु प्रतितिष्ठति। अग्निवाय्वादित्यानां यद्दैश्वर्यं तत्प्राप्नोति। चुतर्थव्याहृतिध्यानेन ब्रह्मणि सत्यलोकवासिनि प्रतितिष्ठति। ब्रह्मणो यदैश्वर्यं तत्प्राप्नोति। तदेव स्वाराज्यादिवाक्यैः प्रपञ्चयते – अग्न्यादीनामङ्गदेवतानां स्वयमेव राजा भवति। राजत्वादेव सर्वेऽस्मै देवा बलिमावहन्तीत्युक्तम्। न केवलं स्वाराज्यप्राप्तिः किंतु सर्वेषां प्राणिनां यन्मनस्तस्य पतित्वं प्राप्नोति सर्वप्राण्यात्मको भूत्वा १ ख. ग. न मा। २ घ. परस्था। ३ ग. ति। सोऽय। ४ क. मद्वा।

[[512]]

सर्ववागाद्याधिपत्यं द्रष्टव्यम् (?)। एकमेवान्तःकरणं शक्तिभेदेन मनोविज्ञानशब्दाभ्यामभिधीयते। करणशक्त्या मन इत्युच्यते। कर्तृशक्या तु विज्ञानमिति। पूर्वमसावेव देहमात्रवर्तिमनोवागादीनामधिपतिरभूत्। इदानीं तु विद्यासमर्थ्येन सर्वात्मकविराहुपाधिमत्तां प्राप्त सर्वदेहवर्तिमनोवागाद्यधिपतिर्भवति। ततः समष्टिरूपविराट्प्राप्तेरनन्तरमुत्पन्नब्रह्मतत्त्वावबोधः सन्नविद्यायां विनष्टायामेतद्वक्ष्यमाणस्वरूपं भवति। आकाशेत्यादिना तदेतत्स्वरूपमभिधीयते – आकाशवन्मूर्तिरहितं शरीरं स्वरूपं यस्य ब्रह्मणस्तदाकाशशरीरम्। यद्वा सर्वजगत्कल्पनाधिष्टानत्वेन सर्वात्मकत्वादाकाशोऽपि ब्रह्मणःस्वरूपम्। आकाशे हि सच्चिदानन्दरूपोऽधिष्ठानभागो नामरूपात्मक आरोप्यभागश्चेत्युभयं दृश्यते। तत्र नामरूपयोर्मिथ्यात्वेन ब्रह्मत्वाभावेऽप्यधिष्ठानस्य सत्यत्वेन ब्रह्मत्वं युक्तम्। एतदेवाभिप्रेत्य सत्यात्मेत्युच्यते। सत्यमबाध्यं सर्वजगत्कल्पनाधिष्ठानमात्मा स्वरूपं यस्य ब्रह्मणस्तत्सत्यात्म। तथा प्राणस्याऽऽरामः सर्वतः क्रीडारूप उत्पत्त्यादिव्यापारो यस्मिन्ब्रह्मणि तत्प्राणारामम्। प्राणोत्पत्तिश्च ब्रह्मणः सकाशादाम्नायते – “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च” इति। प्रश्नोत्तराभ्यामपि स एवार्थ आम्नायते – “भगवन्कुत एष प्राणो जायते” इति प्रश्नः। “आत्मन एष प्राणो जायते” इत्युत्तरम्। प्राणोत्पत्तिप्रयोजनं चापरमात्मन उत्क्रान्त्यादिव्यपदेशसिद्धिः। एतदप्याम्नातम् - “कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत” इति। ईदृश्याः प्राणक्रीडाया आधारत्वेन प्राणारामम्। तथा मनस आनन्दो यस्मिन्ब्रह्मणि तन्मनआनन्दम्। यदा विषयाभिमुख्यं परित्यज्य मनो ब्रह्माभिमुखं भवति तदा महत्सुखं मनसा प्राप्यते। एतच्च मैत्रेयोपनिषद्याम्नातम् – “समाधिनिर्धूतमलस्य चेतसो निवेशितस्यऽऽत्मनि यत्सुखं भवेत्। न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते” इति।

अत्राप्याम्नायते - “रस ँ ह्मेवायं लब्ध्वाऽऽनन्दो भवति” इति। तथा मनसो विक्षेपराहित्यं शान्तिस्तया शान्त्या समृद्धं संपूर्ण ब्रह्म। न खलु ब्रह्मण्यवगते सति ह्या (स्वा?)नन्दैकरसे निमग्नस्य मनसः कदाचिदपि विक्षेपः संभवति। सेयं शान्तिः श्वेताश्वतरैराम्नायते - “ज्ञात्वा शिवं शान्तिमत्यन्तमेति” इति। भगवताऽप्युक्तम् – “युञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः। शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति” इति।

तस्मान्मनोगतया शान्त्या समृद्धं ब्रह्म। यद्वा ब्रह्मगतैव शान्तिः। यथा माया जगदाकारेण विक्रियमाणा विक्षेप्यते तथा ब्रह्म कदाचिदपि न विक्रियते तस्य कूटस्थनित्यत्वात्। “अज आत्मा महान्ध्रुवः” इत्यादिश्रुतेः। तस्मात्स्वनिष्ठया शान्त्या

  1. घ तुं तदा गिरा स्व।

[[513]]

समृद्धं ब्रह्म। तथा तदेतद्ब्रह्मामृतं मरणरहितम्। मरणं नाम प्राणस्य देहान्निष्क्रमणम्। “मृङ् प्राणत्यागे” इति धातुस्मरणात्। तञ्च मरणं प्राणधारिणो जीवस्य संभवति न तु प्राणरहितस्य परमात्मनः। तद्राहित्यं च “अप्राणो ह्ममनाः शुभ्रः” इति श्रुत्यन्तरादवगन्तव्यम्।

इत्थमुपास्थस्वरूपं मार्ग फलं चाभिधायोपासनं विधत्ते – इति॑ प्राचीनयो॒ग्योपा॑स्स्व (२), इति। वा॒याव॒मृतमेकं॑ च॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके षष्ठोऽनुवाकः॥६॥ प्राचीनानि पूर्वकाण्डोक्तानि नित्यनैमित्तिककर्माणि, तैः पापे प्रहीणे सत्युपासनायां योग्यो भवति। तादृशं शिष्यं प्रति माहाचमस्यनामको गुरुरुपदिशति। इतिशब्दः “स य एषोऽन्तर्हृदय आकाशः” इत्याद्युक्तप्रकारं परामृशति। यद्यप्येतत्ततो भवतीतिवाक्येन विराट्प्राप्तेरूर्ध्वं ब्रह्मभावलक्षणस्य फलस्य प्रतिज्ञातत्वान्मुक्तिस्वरूपप्रतिपादकमाकाशशरीरादिवाक्यम्, तथाऽपि “तं यथा यथोपासते तदेव भवति” इतिश्रुतावुपास्यफलयोरेकवि-धत्वश्रवणादाकाशशरीरत्वादिगुणानामुपास्यत्वमपि संभवतीति। तस्मा-दाचार्यैरुपास्यगुणत्वेन योजितम्।

अथ मीमांसा – तत्रेदं चिन्तनीयम्। किं पञ्चमषष्ठयोरनुवाकयोरुपासना भिद्यत आरोस्विदेकेति। उपास्यवैलक्षण्यात्फलभेदाच्च भिद्यत इति तावत्प्राप्तम्। पञ्चमे लोकादिदृष्ट्या व्यात्द्दतिरूपं प्रतीकमुपास्यम्। षष्ठे तु मनोमयत्वादिगुणकं ब्रह्मोपास्यमिति वैलक्षण्यम्। फलं च सर्वेऽस्मै देवा बलिमावहन्तीति पञ्चमे श्रुतम्। षष्ठे त्वाप्नोति स्वाराज्यभित्यन्यदेव फलं श्रूयते। तस्मादुपासनाभेद इति प्राप्ते ब्रूमः – एकाधिकारित्वश्रवणादेकमेवोभयत्रोपासनम्। पञ्चमेऽभिहितम्। ता यो वेद स वेद ब्रह्मेति व्यात्द्दत्युपासनफलं च सहैवाऽऽम्नातम्। तस्मादेकमेवोभयत्रोपासनम्। उपास्यवैलक्षण्यं त्वङ्गाङ्गिभावभेदेनाप्युपपद्यते। सर्वेऽस्मै देवा बलिमावहन्तीत्येतदव्यङ्गफलं भविष्यति। “यस्य पर्णमयी जुहुर्भवति न स पापं श्लोकं शृणोति” इत्यादौ पर्णद्रव्यमन्तरेण क्रतुनिष्पत्त्यभावात्क्रत्वर्थत्वे सति फलाकाङ्क्षाया अभावात्फलस्यार्थवादत्वं युक्तम्। इह तु व्यात्द्दतिध्यानमन्तरे- १ ग. य इ। २ ङ. द्युक्त प्र। ३. क. ग. ङ. न पा।

[[514]]

णापि ब्रह्मोपासनसिद्धेः फलायैव व्यात्द्दतिध्यानमुच्यत इति नार्थवादत्वम्। तस्मादङ्गाङ्गिभावेनैकोपासनत्वं युक्तम्। न चानेनैव न्यायेन सप्तमानुवाकोक्तस्य पृथिव्यन्तरिक्षाद्यात्मकब्रह्मोपासनस्यापि पूर्वेण सहैकत्वं शङ्कनीयम्। शाण्डिल्यदहरादिन्यायेन पृथगुपासनत्वात्। स च न्यायस्तृतीयाध्यायस्य तृतीयपादे*चिन्तितः – “न भिन्ना उत भिद्यन्ते शाण्डिल्यदहरादयः। समस्तोपासश्रैष्ठ्याद्ब्रह्मैक्यात्स्यादभिन्नता। कृत्स्रोपास्तेरशक्यत्वाद्गुणैर्ब्रह्मपृथक्त्वतः। दहरादीनि भिद्यन्ते पृथकपृथगुपक्रमात्। छान्दोग्ये दहरविद्या शाण्डिल्यविद्या मधुविद्येत्यादयः पठिताः। तथा शाखान्तरेष्वपि। तत्र पूर्वाधिकरणन्यायेन समस्तोपासनस्य श्रेष्ठत्वाद्वेद्यस्य ब्रह्मण एकत्वाच्च सर्वासामेकविद्यात्वमिति प्राप्ते ब्रूमः – अनन्तासु विद्यास्वेकीकरणेनानुष्ठानं तावदशक्यमिति विद्याभेदोऽप्यवगन्तव्यः। न च वेद्यस्य ब्रह्मण एकत्वं शङ्कनीयं गुणभेदेन व्यवस्थोपपत्तेः। नचैकैकस्या विद्याया इयत्ता निश्चेतुमशक्या प्रत्येकमुपक्रमोपसंहारयोस्तन्निश्चायकत्वात्। तस्माद्विद्यानां नानात्वम्”।

एवमुपासनयोर्भेदे सत्येकमेवानुष्ठेयं न तूभयम्। एतदपि तत्रैव +चिन्तितम् – “अहंग्रहेष्वनियमो विकल्पनियमोऽथ वा। नियामकस्याभावेन याथाकाम्यं प्रतीयताम्॥ ईशसाक्षात्कृतेस्त्वेकविद्ययैव प्रसिद्धितः। अन्यानर्थक्यविक्षेपौ विकल्पस्य नियामकौ॥ द्विविधान्युपासनान्यहंग्रहाणि प्रतीकानि चेति। आत्मनः सगुणोपासनेष्वहंग्रहस्य चतुर्थाध्याये वक्ष्यमाणत्वात्तान्यहंग्रहाणि। अनात्मवस्तूनि देवतादृष्ट्या संस्कृत्योपास्यमानानि प्रतीकानि। तत्राहंग्रहेषु शाण्डिल्याद्युपासनेष्वेकं द्वे बहूनि वोपासनानि याथाकाम्येनानुष्ठेयानि विकल्पस्य नियामकाभावात्। न हि शाण्डिल्योपासनं दहरोपासनमन्यद्वैकमेवानुष्ठेयं नेतरदिति विकल्पनियमे किंचित्कारणमस्ति। तस्माद्याथाकाम्यमिति प्राप्ते ब्रूमः – अन्यानर्थक्यं तावदेकं नियामकम्। तथाहीश्वरसाक्षात्कार उपासनस्य प्रयोजनं तच्चैकेनैवोपासनेन सिध्यति चेदन्योपासनवैयर्थ्यम्। किंचोपासनेषु न प्रमाणजन्यः साक्षात्कारः। किं तर्हि निरन्तरभावनया ध्येयतादात्म्याभिमानः। स

  • नाना शब्ददिभेदात्। अ. ३. पा. ३ अ ३३ सू ५८ +विकल्पोऽविशिष्टपलत्वात्। अ ३ पा. ३ अ. ३४ सू ५९।

१ क. ग. घ. ङ. त्र स। २ क. ख. ङ. गुणत्वोपा। ३ ख सनस्य न। ४ ख, जन्यसा। ५. घ. स एवाभि।

[[515]]

चाभिमान एकमुपासनमनुष्ठाय तत्परित्यज्यान्यत्र वर्तमानस्य पुरुषस्य चित्तविक्षपे कथं नाम दृढी भवेत्। तस्मादानर्थक्यविक्षेपयोर्नियामकत्वाद्विकल्पो नियम्यते”।

ब्रह्मतत्त्वविद्यायामिव ब्रह्मोपासनेऽप्यहंग्रहः कर्तव्यः। तत्त्वविद्याया-महंग्रहश्चतुर्थाध्यायस्य प्रथमपादे *चिन्तितः – “ज्ञात्रा स्वान्यतया ब्रह्म ग्राह्ममात्मतयाऽथ वा। अन्यत्वेन विजानीयाद्दुःख्यदुःखिविरोधतः॥ औपाधिको विरोधोऽत आत्मत्वेनैव गृह्यते। गृह्णन्त्येवं महावाक्यैः स्वशिष्यान्ग्राहयन्त्यपि॥ यच्छास्त्रप्रतिपाद्यं ब्रह्म तज्जीवेन ज्ञात्रा स्वव्यतिरिक्ततया ग्रहीतव्यम्। दुःख्यदुःखिनोर्जीवब्रह्मणोरेकत्वविरोधादिति प्राप्ते ब्रूमः - “वस्तुतो ब्रह्मरूपस्यैव सतो जीवस्यान्तःकरणेपाधिकृतो दुःखित्वादिसंसारधर्मः” इति वियत्पादे [व्र. सू. अ. २ पा. ३] जीवविचारे प्रपञ्चितम्। अतो वास्तवविरोधाभावादत्मत्वेनैव ब्रह्म गृह्यताम्। अत एव “अहं ब्रह्मास्मि” “अयमात्मा ब्रह्म” इत्यादिमहावाक्यैस्तत्त्वेविद आत्मत्वेनैव ब्रह्म गृह्णन्ति। तथा तत्त्वमस्यादिभिर्महावाक्यैः स्वशिष्यान्ग्राहयन्त्यपि। तस्मादात्मत्वेनैव ब्रह्म ग्रहीतव्यम्”।

एवं सति मनोमयोऽमृतो हिरण्मयः परमात्माऽहमित्युपासनीयम्। मनोमयस्य परमात्मत्वं शाण्डिल्यविद्योदाहरणेन प्रथमाध्यायस्य द्वितीयपादे +चिन्तितम्- “मनोमयोऽयं शारीर ईशो वा प्राणमानसे। हृदयस्थित्यणीयस्त्वे जीवे स्युस्तेन जीवगीः॥ शमवाक्यगतं ब्रह्म तद्धितादिरपेक्षते। प्राणादियोगश्चिन्तार्थश्चिन्त्यं ब्रह्म प्रसिद्धितः॥

छान्दोग्यस्य तृतीयध्याये शाण्डिल्यविद्यायामिदमाम्नायते - “मनोमयः प्राणशरीरो भारूपः” इति। तत्र जीव ईशो वेति संदेहे जीव इति प्राप्तम्। मनःसंबन्धादीनां जीवे सुसंवादत्वात् । मनसो विकारो मनोमय इति मनःसंबन्धः। प्राणःशरीरमस्येति प्राणसंबन्धः। न चेदं द्वयमीश्वरे सुसंवादम् । “अप्राणो ह्यमनाः शुभ्रः” इति निषेधात्। तथा “एष य आत्माऽन्तर्हृदयेऽणीयान्” इति श्रूयमाणं हृदयेऽवस्थामनणीयस्त्वं च निराधारस्य सर्वगतस्य न कथंचिदप्युपपद्यते। तस्माज्जीव

  • आत्मेति तूपगच्छन्ति ग्राहयन्ति च। अ. ४ पा. १ अ. २ सू. ३। + सर्वत्र प्रसिद्धोपदेशात्। अ. १ पा. २ आ. १। सू. १। १. ख. क्षेपात्कथं। २ घ. संपाद। ३. घ. संपाद। ४. क. ख. ङ. येऽन्तस्था।

[[516]]

इति प्राप्ते ब्रूमः – “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत” इत्ये-तस्मिञ्शमविधिपरे पूर्ववाक्ये श्रूयमाणं यद्ब्रह्म तदेव मनोमयः प्राणशरीर इत्येताभ्यां तद्धितबहुव्रीहिभ्यां विशेष्यत्वेनापेक्ष्यते। शमवाक्यस्यायमर्थः। यस्मात्सर्वमिदं ब्रह्म तज्जत्वात्तल्लत्वात्तदनत्वात्तस्मात्सर्वात्मके ब्रह्मणि रागद्वेषविषयासंभवादुपास्तिकाले शान्तो भवेदिति। तथा तद्वाक्यगते ब्रह्मणि विशेष्यत्वेनान्विते मनोमयवाक्यमपि ब्रह्मपरं भविष्यति। न च ब्रह्मणो मनःप्राणसंबन्धानुपत्तिः । निरुपाधिके तदनुपपत्तावपि सोपाधिकस्योपास्यस्य चिन्तनार्थतया तदुपपत्तेः। तस्मात्सर्वेष्वपि वेदान्तेषु यद्ब्रह्मोपास्यत्वेन प्रसिद्धं तदेवात्राप्युपास्यम्। न हि क्कचिदपि वेदान्ते जीवस्योपास्यत्वं प्रसिद्धम्। ततो ब्रह्मैवेति राद्धान्तः”। तत्र यथा शमवाक्यगंत ब्रह्म मनोमयत्वविशेषणेन विशेष्यत एवमत्रापि परिपूर्णवाचिपुरुषशब्दोक्तः परमात्मा मनोमयशब्देन विशेष्यते। परिपूर्णवाचित्वं च श्रेयोमार्गे दर्शितम् - “पुरुषः पुरि शयनाद्वा पूर्णत्वाद्वाऽमुनाऽस्य वा पूर्तेः” इति। पुरिशयनपक्षे जीवपरत्वमपि भविष्यतीति चेन्न। “ता यो वेद स वेद ब्रह्म” इत्येवं ब्रह्मणः प्रक्रान्तत्वात्। “आकाशशरीरं ब्रह्म” इत्युपसंहाराच्च। हिरण्मयशब्दस्य तु ब्रह्मपरत्वम् “य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते” इतिवाक्ये निर्णीतम्। स च निर्णयः प्रथमाध्यायस्य प्रथमपादेऽ*भिहितः – “हिरण्मयो देवतात्मा किं वाऽसौ परमेश्वरः। मर्यादाधाररूपोक्तेर्देवतात्मैव नेश्वरः॥ सार्वात्म्यात्सर्वदुरितराहित्याच्चेश्वरो मतः। मर्यादाद्या उपासार्थमीशेऽपि स्युरुपाधिगाः॥ छान्दोग्यस्य प्रथमाध्याय उद्गीथोपासनाया उपसर्जनान्युपास्यान्यभिधाय” प्रधानमुपास्यं विधातुमिदमाम्नायते - “अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते” इति। तत्राऽऽदित्यमण्डले विद्याकर्मातिशयवशात्कश्चिज्जीवो देवरूपमुपेत्य जगदधिकारं निष्पादयन्नवतिष्ठते। ईश्वरश्च सर्वगतत्वान्मण्डलेऽपि वर्तते। अतस्तयोः संशयः। तत्र देवतात्मेति तावत्प्राप्तम्। कुतः। मर्यादाधाररूपाणामुच्यमानत्वात्। “ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च” इत्यैश्वर्यमर्यादोक्तिः।अन्तरादित्य इत्याधारोक्तिः। हिरण्मय इति रूपोक्तिः। न हि सर्वेश्वरस्य सर्वाधारस्य नीरूपस्य परमे-श्वरस्यैश्वर्यमर्यादाधाररूपाणि संभवन्ति। तस्मद्देवतात्मेति प्राप्त उच्यते – हिरण्मय

  • अन्तस्तद्धर्मोपदेशात्। अ. १ पा. १. अ. ७। सू. २। १. घ. न्धाद्यनु। २ क. ख. ङ. शब्द एकः प। ३. ङ. गत्वा।

[[517]]

ईश्वरो भवेत्। कुतः। सर्वात्मत्वश्रवणात्। “सैवर्क्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म” इतिवाक्ये तच्छब्दैः प्रकृतं हिरण्मयं पुरुषं परामृश्य तस्यर्क्सा-माद्यशेषजगदात्मकत्वमुपदिश्यते। तच्चाद्वितीये परमेश्वरे मुख्यमुपपद्यते न तु सद्वितीयायां देवतायाम्। तथा “स एष सर्वेभ्यः पाप्मभ्य उदितः” इति श्रूयमाणं सर्वपापराहित्यं ब्रह्मणोऽसाधारणं लिङ्गम्। यद्यपि देवतायाः कर्मण्यनधिकारात्क्रियमाणकरिष्यमाणपुण्यपापयोरभावस्तथाऽप्यसुरा-दिजनितनिमित्तदुःखसद्भावाद्दुःखहेतुभूतजन्मान्तरसंचितदुरितमनुवर्तत एव। मर्यादाधाररूपाणि तूपाधिधमर्तया सोपाधिके परमात्मन्यपास्ये वर्तितुमर्हन्ति। तस्मादीश्वरो हिरण्मयः”।

तत्र यथा सार्वत्भ्यादिकं ब्रह्मलिङ्गमस्त्येवमत्राप्यमृतत्वसत्यात्मत्वादिकं लिङ्गमवगन्तव्यम्। अतो मनोमयत्वादिगुणकः परमात्माऽत्रोपास्यः। छन्दोगाः शाण्डिल्यविद्यायामेवमामनन्ति - “मनोमयः प्रणशरीरो भारूपः सत्यसंकल्पः” इति। वाजसनेयिनश्च बृहदारण्यके पठन्ति - “मनोमयोऽयं पुरुषो भाः सत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं कि॑च” इति। तथा शाखाभेदेऽपि पञ्चाग्निविद्यान्यायेन मनोमयत्वादिगुणकस्य वेद्यस्वरूपस्य प्रत्यभिज्ञानाद्विद्यैक्यं द्रष्टव्यम्। स च न्यायस्तृतीयानुवाके प्रदर्शितः। सति च विद्यैक्ये तिसृष्वपि शाखासु परस्परं विशेषगुणा उपसंहर्तव्याः। उपसंहारन्यायश्च तत्रैव प्रदर्शितः। उपसंहृतसर्वगुणोपेते ब्रह्मणि तादात्म्याभिमानरूपः साक्षात्कारो यावद्भवति तावत्प्रत्ययावृत्तिः कर्तव्या। उपास्स्वेत्युक्तस्योपासनशब्दस्य तद्वाचित्वात्। एतदपि तत्रैव प्रर्दशितम्। श्रुतिश्च - “देवी भूत्वा देवानप्येति” इत्येतस्मिन्नेव जन्मनि देवभावलक्षणं साक्षात्कारं दर्शयति। उत्पन्नेऽपि साक्षात्कारे ब्रह्मोपासनमरणमावर्तितव्यम्। तदेतच्चतुर्थाध्यायस्य प्रथमपादे *चिन्तितम् – “उपास्तीनां यावदिच्छमावृत्तिः स्यादुताऽऽमृति। उपास्त्यर्थाभिनिष्पत्तेर्यावदिच्छं न तूपरि। अन्त्यप्रत्ययतो जन्म भाव्यतस्तत्प्रसिद्धये। आमृत्यावर्तन न्याय्यं सदा तद्भाववाक्यतः। विजीतीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाह उपास्तिशब्दस्यार्थः। स च कियताऽपि कालेन संपद्यतेऽतो यावदिच्छमावृत्तिर्न त्वामरणमिति प्राप्ते ब्रूमः – भाविजन्मनः प्रयोजकोऽन्त्यप्रत्यय आमरणावृत्तिमन्तरेण न सुलभोऽत एव स्मृतिः - “सदा।

  • आ प्रायणात्तत्रापि हि दृष्टम्। अ. ४ पा. १ अ. ८ सू ९२। १ ङ. त्वदर्शनात्। २ क. ग. ङ रणलि।

[[518]]

तद्भावभावितः” इत्याह। कथं तर्हि ज्योतिष्टोमादिकर्मणा स्वर्गं गच्छतोऽन्त्यप्रत्ययः, कर्मजन्यापूर्वादिति ब्रूमः। उपासनेऽप्यपूर्वमस्तीति चेद्बाढम्। नैतावता निरन्तरावृत्तिलक्षणो दृष्टोपायः परित्याज्यो भवति। अन्यथा सर्वस्य सुखदुःखादेरपूर्वजन्यत्वेन भोजनाद्यर्थो दृष्टः प्रयत्नः परित्यज्येत। ततो दृष्टोपायत्वादामरणमावर्तनं कर्तव्यम्”। तथाविधावृत्तियुक्तस्योपासकस्योत्क्रान्तौ विशेषश्चतुर्थाध्यायस्य द्वितीयपादे*चिन्तितः – “अविशेषो विशेषो वा स्यादुत्क्रान्तेरुपासितुः। हृत्प्रद्योतनसाम्योक्तेरविशेषोऽन्यनिर्गमात् ॥ मूर्धन्ययैव नाड्याऽसौ व्रजेन्नाडीविचिन्तनात्। विद्यासामर्थ्यतश्चेति विशेषोऽस्त्यन्यनिर्गमात्॥

उपासकस्य येयमुत्क्रान्तिः सेयमितरोत्क्रान्त्या मार्गोपक्रमपर्यन्तं समेत्युक्तम्। अथ मार्गोपक्रमेऽपि समैव भवितुमर्हति त्द्दत्प्रद्योतनादेः समत्वश्रवणात्। तथा हि - “तस्य हैतस्य हदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वा ऽन्येभ्यो वा शरीरदेशेभ्यः” इति श्रूयते। अयमर्थः। वाङ्मनसि संपद्यत इति क्रमेण सजीवं लिङ्गशरीरं शक्त्यवशेषं परमात्मनि यदा लीयते तदा पूर्वजन्म समाप्तं भवति। अथ जन्मान्तराय तल्लिङ्गं पुनर्हृदये प्रादुर्भवति। तस्मिन्नवसरे हृदयाग्रेऽवस्थितस्य लिङ्गस्य गन्तव्यभाविजन्मालोचनात्मकोऽन्त्यप्रत्ययत्वेन लोके प्रसिद्धः कश्चित्प्रद्योतो भवति तेन युक्तः सन्नाडीभ्यो निर्गच्छतीति। एतच्च सर्वेषां समानम्। तस्मान्नोपासकस्येतरेभ्यो विशेष इति प्राप्ते ब्रूमः – मूर्धन्ययैव नाड्योपासको निर्गच्छतीतराभ्य एव नाडीभ्य इतरे। कुतः। उपासकेन मूर्धन्यनाड्याश्चिन्तितत्वात्सगुणब्रह्मविद्यासामर्थ्याच्च। श्रुत्यन्तरे चायमर्थः स्पष्टमवगभ्यते – “शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति” इति॥

अन्या नाड्य उत्क्रमणाय युज्यन्ते न त्वमृतत्वप्राप्तय इत्यर्थः। तस्मादस्त्युपासकस्य विशेषः”। अस्मान्मूर्धन्यनाडीनिष्क्रमणरूपाद्विशेषात्प्राचीनो योऽयमुत्कान्तिप्रकारस्तत्र शाखान्तरवाक्योदाहरणेन पञ्च विचाराः प्रवृत्ताः। तद्वाक्यं च च्छन्दोगैराम्नायते - “अस्य सोम्य पुरषस्य प्रयतो वाङ्मनसि संपद्यते। मनः प्राणे। प्राण-

  • तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शाताधिकया। अ. ४ पा. २ अ. ९. सू. १७। १ ख. साम्ये को विशोषोऽन्यस्य नि। २ घ. अस्याय।

[[519]]

स्तेजसि। तेजः परस्यां देवतायाम्” इति। तत्र म्रियमाणस्य पुरुषस्य वागुपलक्षितानां दशेन्द्रियाणां मनसि स्वरूपप्रविलयो न भवति किंतु वृत्तिमात्रप्रविलय इत्येको विचारः। तस्य च मनसः प्राणे वृत्तिप्रविलय इति द्वितीयः। तस्य च प्राणस्य स्वत्मनि जीवे वृत्तिप्रविलय इममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्तीति बृहदारण्यकवाक्यादिति तृतीयः। सेयं वृत्तिप्रविलयरूपो-त्क्रान्तिर्नाडिनिष्क्रमणरूपमार्गोपक्रमपर्यन्ता धर्माधर्मप्रवृत्तस्योपासकस्य तत्त्वज्ञानिनश्च त्रयाणामेतेषां समानैव न तु विषमेति चतुर्थः। बाह्मेन्द्रियमनःप्राणा यस्मिञ्जीवात्मनि वृत्त्या प्रविलीयन् स जीवात्मा यस्मिंस्तेजःप्रधाने भूतपञ्चके वृत्त्या प्रविलीयते तद्भूतपञ्चकं ब्रह्मतत्त्वानभिज्ञस्य पुरुषस्य परमात्मनि वृत्त्यैव प्रविलीयते न तु स्वरूपेणेति पञ्चमः। एवमेतैः पञ्चभिर्विचारैः सर्वसाधारणोत्क्रान्तिर्विचारिता। अत्र परमात्मनि योऽयं पञ्चभूतरूपलिङ्गशरीरप्रविलयस्तेन पूर्वजन्म समाप्तम्। अथोपासकस्य ब्रह्मलोकप्राप्तये मूर्धन्यनाडीनिष्क्रमणरूपो विशेषो विचारितः। स चात्रान्तरेण तालुके इत्यारभ्य व्यपोह्य शीर्षकपाले इत्यन्तेन समाम्नातः। तच्च ब्रह्मलोकप्राप्तिपर्यन्तस्य मार्गस्योपलक्षणां द्रष्टव्यम्। तस्मिंश्च मार्गे शाखान्तरवाक्योदाहरणेन षड्विचाराः प्रवृत्ताः। तत्र च्छन्दोगाः - “अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वं आक्रमते” इति वाक्येन मूर्धन्यनाड्या निष्क्रान्तस्याऽऽदित्यरश्मिसंबन्धमामनन्ति। तत्राहर्मृतस्य तत्संभवे-ऽपि नाडीरश्मिसंबन्धस्य यावद्देहभावित्वादस्ति रश्मिप्राप्तिरिति प्रथमो विचारः। एतस्मिन्नादित्यरश्म्यादिक उत्तरमार्ग उत्तरायणश्रवणाद्दक्षिणायने मृतस्योपासकस्य विद्याफलं नास्तीति पूर्वपक्षीकृत्योत्तरायणशब्देन तदभिमानिदेवताया विवक्षितत्वात्फलमस्तीत्युक्तम्। सोऽयं द्वितीयः। छन्दोगबृहदारण्यकयोः “तेऽर्चिषमभिसंभवन्ति” इत्यादिना पञ्चाग्निविद्यायामर्चिरादिको मार्ग आम्नातः। विद्यान्तरे तु वाजसनेयिभिः “स वायुमागच्छति” इत्यादिना वाय्वादिकः पठितः। पर्यङ्कविद्यायां कौषीतकिभिः - “स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छन्ति” इत्यग्निलोकादिकः पठितः। तस्मादुत्तरमार्गो नानाविध इति पूर्वपक्षीकृत्य वाय्वग्निलोकादीनामेकस्मिन्नेव मार्गे पर्वविशेषत्वेनान्वयसंभवादेक एवार्चिरादिको मार्ग इत्युक्तः (क्तम्?)। सोऽयं तृतीयः। कौषीतकिप्रोक्तस्य वायुलोकस्य मार्गमध्ये संनिवेशासंभवमाशङ्क्य बृहदारण्यके वायुप्रत्तेन मार्गेणाऽऽदित्यादिप्राप्तिश्रवणादादित्यादर्वाग्वायोः संनिवेश उक्तः। सोऽयं चतुर्थः। तथा कौषीतकिप्रोक्तानां वरुणेन्द्रप्रजापतिलोकानां मार्गमध्ये संनिवेशासंभवमाशङ्क्य विद्युद्वरुणयोर्वृष्टिद्वारा संबन्धसंभवाद्विद्युल्लोकादूर्ध्वं १ ख. प्रल। २ क. ख. ङ. स्य त्वात्म। ३ क. ग. घ. ङ. प्रल।

[[520]]

वरुणलोकस्याऽऽगन्तूनामन्ते संनिवेश इति न्यायेनेन्द्रप्रजापतिलोकयोर्वरुणलोकादूर्ध्व संनिवेश इत्युक्तम्। सोऽयं पञ्चमः। तस्मिन्मार्गे श्रुतानामर्चिरादीनां मार्गचिह्णत्वं भोगभूमित्वं च निराकृत्याऽऽतिवाहिकदेवत्वमुक्तम्। सोऽयं षष्ठः। एतैः षड्भिर्विचारैर्निर्णीतो यो मार्गस्तस्य मार्गस्य ब्रह्मतत्त्वावबोधब्रह्मोपासनयोः साधारणत्वमाशङ्क्योपासनविषय एवायं मार्ग इति निर्णीतम्। उपासनेष्वपि यत्र मार्गश्रवणं तत्रैवेत्याशङ्क्य सर्वोपासनसाधारणत्वं मार्गस्य निर्णीतम्। तेन मार्गेणोपासकस्य ब्रह्मप्राप्तिर्भवति। “तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयति” इत्यमानवेन विद्युल्लोकवर्तिना पुरुषेण ब्रह्मप्रापणस्योक्तत्वात्। तत्र परब्रह्मैव प्राप्यमित्याशङ्क्य परब्रह्मणि गत्यसंभवाल्लोकविशेषरूपं कार्यमेव ब्रह्मोपासकेन प्राप्यमिति निर्णीतम्। एवं कार्यब्रह्मलोकप्राप्तिः प्रतीकोपासकानामप्यस्तीत्याशङ्क्य ब्रह्मोपासकानामेव नेतरेषामिति निर्णीतम्। योऽयमर्चिरादिमार्गेण प्राप्यो ब्रह्मलोकः स एव “भूरित्यग्नौ प्रतितिष्ठति” इत्यारभ्य “विज्ञानपतिः” इत्यन्तया श्रुत्या प्रपञ्च्यते। तत्र ब्रह्मलोकप्राप्तौ सत्यां व्यष्ट्यभिमानः समष्ट्यभिमानश्चेत्युभयं संपद्यते। तयोर्मध्ये व्यष्ट्यभिमानेनाग्निवाय्वादित्यादिदेवतानां तादात्म्यं प्राप्य तदीयेष्वैश्वर्येषु प्रतितिष्ठति। समष्ठ्यभिमानेन तु भूलोकाद्यधिष्ठातृब्रह्मरूपो भूत्वा स्वाराज्यमाप्नोति। तथाविधब्रह्मरूपत्वसिद्धयर्थमेव ब्रह्मलोकगामिनं योगिनं प्रति कौषीतकिनः पर्यङ्कविद्यायामेवमामनन्ति - “तं पञ्च शतान्यप्सरसां प्रतिधावन्ति शतं चामरहस्ताः शतं मालाहस्ताः शतमाञ्जनहस्ताः शतं वासोहस्ताः शतं फलहस्तास्तं ब्रह्मालंकारेणलं कुर्वन्ति।” स ब्रह्मालंकारेणालंकृतो ब्रह्म विद्वान्ब्रह्मैवाभिप्रैति” इति। तदिदं ब्रह्मप्राप्तिलक्षणं स्वाराज्यमेव विविच्य चतुर्भिर्विचारैर्निर्णीतम्। ब्रह्मलोकवासिनो योगिनो भाग्यवस्तुसंपादने मनुष्यलोकवासिवद्ब्रह्मसाधनमपेक्षितमित्याशङ्क्य संकल्पमात्रस्य तत्सा [ध] नत्वं निर्णीतम्। सोऽयं प्रथमो विचारः। तस्य संकल्पमात्रेण भोग्यजातं सृष्टवतो योगिनो भोगाधिष्ठानस्य देहस्य भावाभावौ श्रुतिद्वयप्रोक्तौ पुरुषभेदेन व्यवस्थितावित्याशङ्क्यैकस्यैव पुरुषस्यैच्छिकौ देहभावाभावाविति निर्णीतम्। सोऽयं द्वितीयः। यदाऽयं योगी स्वेच्छया युगपदेव बहून्देहान्सृजति तदानीं तेष्वेक एव देहो जीवात्मोपेत इतरे तु तद्रहिता इत्याशङ्क्यैकस्य चित्तानुवर्तिभिः पृथगेव जीवात्म-भिरुपेतातास्ते सर्वे देहा इति निर्णीतम्। सोऽयं तृतीयः। तस्य योगिनो भोग्य-वस्तुदेहजीवत्मनां सृष्टिः संकल्पमात्रेण यथा भवति तथैवाऽऽकाशादिपञ्चमहाभूतानां भौतिकस्य ब्रह्माण्डादेर्जगतश्च सृष्टिरस्तीत्याशङ्क्यानादेर्नित्यसिद्धस्य परमेश्वरस्यैव जगत्स्रष्टृत्वं न तु योगिन इति निर्णीत्म्। सोऽयं चतुर्थः। तैरेतैश्चतुर्भिर्विचारैर्निर्णीतं स्वाराज्यं प्राप्तवतो योगिन-

  1. ख. ङ. गन्तुकाना। २. क. ख. घ. ङ. न्ते नि। ३ ख. ग. अतान्त्र। ४ ग. विधाधिष्टातृव्र। ५ क. ग. घ. चूर्णहस्ताः। ६ ख. तमञ्च। ७ ग त स्वर्णह। ८ ख. नुवृत्तिभिः।

[[521]]

स्तस्मिन्नेतद्ब्रह्मलोके निर्गुणब्रह्मतत्त्वसाक्षात्कारे सति ब्रह्मलोकस्यावसाने विदेहकैवल्यं भवतीति। अयमर्थ एतत्ततो भवतीत्यादिना समाम्नातः। एतदेवाभिप्रेत्य भगवता व्यासेनापि सूत्रितम् - “कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्” [ब्र. सू. अ. ४ प. ३ सू. १०] इति। कार्यस्य ब्रह्मलोकस्यात्यये प्रलये सत्यत ऊर्ध्वं तल्लोकाध्यक्षेण चतुर्मुखेन(ण) ब्रह्मणा सह परं ब्रह्म प्राप्नोतीति श्रुतिस्मृत्योस्तथाऽभिधानात्। “वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः। ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे। इति श्रुतिः। “ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्”। इति स्मृतिः। तदेवं ब्रह्मोपासकस्य ब्रह्मलोकप्राप्तिपूर्विका क्रमभुक्तिर्भवतीति स्थितम्॥ इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधव- विद्यारण्यपरमेश्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तमप्रपाठके सांहित्यामुपनिषदि षष्ठोऽनुवाकः॥६॥