०५

अथ सप्तमे पञ्चमोऽनुवाकः।


चतुर्थे मेधादिसिद्ध्यर्था मन्त्रा उक्ताः। अथ पञ्चमषष्ठयोर्ब्रह्मोपासनमुच्यते। तत्राप्यङ्गदेवतानामुपासनं पञ्चमे। षष्ठे त्वङ्गिनो ब्रह्मण इति विभागः। अङ्ग-देवताध्यानस्य प्रतीकत्वेन व्याहृतित्रयं दर्शयति – भूर्भुवः॒ सुव॒रिति॒ वा ए॒तास्तिस्रो व्याहृ॑तयः, इति।

भूरित्येका भुवरिति द्वितीया। सुवरिति तृतीया। एतास्त्रिसंख्याका व्याहृतिशब्दवाच्याः। व्याहरणमुच्चारणं तद्विषयत्वान्मन्त्राणां व्याहृतित्वम्। यद्वा विविधेकर्मण्याह्रियन्ते प्रयुज्यन्त इति व्याहृतयः। तत्प्रयोगप्रसीद्धिद्योतनार्थो वैशब्दः।

[[508]]

अग्निहोत्रहविष उपसादने दर्शपूर्णमासचातुर्मास्यहविषामासादने च प्रयोग एवमाम्नायते - “अग्निहोत्रमेताभिर्व्याहृतिभिरुपसादयेत्” इति। “दर्शपूर्णमासौ चातुर्मास्यान्यालभमान एताभिर्व्याहृतिभिर्हवीँप्यासादयेत्” इति च। एवमाधानादावुदाहार्यं कर्मकाण्डप्रसिद्धं व्याहृतित्रयं दर्शयित्वा तथैव प्रतीकत्वेन व्याहृत्यन्तरं दर्शयति – तासा॑मु ह स्मैतां च॑तु॒र्थीम्। माहा॑च- मस्यः॒ प्रवे॑दयते। मह॒ इति॑, इति। महान्सोमपानार्थश्चमसः पात्रविशेषो यस्य मुनेः स मुनिर्महाचमसः। बहुषु सोमयागेषु वर्तमानत्वाच्चमसस्य महत्त्वम्। तस्यापत्यं माहाचमस्यनामक ऋषिः। स तासां भूरादीनां तिसृणां व्याहृतीनां चतुर्थो चतुःसंख्यापूरणीमेतां मह इतिव्याहृतिं प्रवेदयते प्राधान्येनोपासनायोपदिशति। उ ह स्मेति निपातत्रयसमुदायः प्रसिद्ध्यर्थः। ऋषेर्नामग्रहणमुपासनायामनुस्मरणार्थम्। तस्मिन्व्याह्रतिचतुष्टये दृष्टिविशेषं विधत्ते – तद्ब्रह्म॑। स आ॒त्मा। अङ्गा॑न्य॒न्या दे॒वताः॑, इति। यदेतन्मह इति चतुर्थव्याहृतिरूपमस्ति तदैतद्ब्रह्म वस्त्विति चिन्तयेत्। ब्रह्मत्वादेव चतुर्थव्याहृतिरूपः सोऽयं शरीरमध्येऽवस्थित आत्मा। अन्यास्तु व्याहृतिदेवता हस्तपादादिसदृशान्यङ्गानीति चिन्तयेत्। यद्वा चतुर्थव्याहृतिः प्रशस्यते। महःशब्दस्य पूजावाचिधातुनिष्पन्नत्वात्। पूज्यब्रह्मवस्तुरूपेण स्तुतिर्युक्ता। यथा शरीरगतावयवापेक्षया चेतन आत्मोत्कृष्टस्तथा व्याहृत्यन्तरापेक्ष्या मह इति चतुर्थव्याहृतिरुत्कृष्टा। उक्तामु व्याहृतिषु लोकदृष्टिं विधत्ते – भुरिति॒ वा अ॒यं लो॒कः। भुव॒ इत्यन्तरि॑क्षम्। सुव॒रित्य॒सौ लो॒कः (१)। मह॒ इत्या॑दि॒त्यः। आ॒दि॒त्येन॒ वाव सर्वे लो॒का मही॑यन्ते, इति।

यस्मादादित्येन प्रकाशिताः सन्तः सर्वे लोकाः पूज्या व्यवहारक्षमा भवन्ति, तस्मान्मह इतिव्याहृतेरादित्यरूपत्वं युक्तम्। अथ तास्वेव व्याहृतिषु देवविशेषदृष्टिं विधत्ते – भूरिति॒ वा अग्निः। भुव॒ इति॑ वा॒युः। सुव॒रित्या॑दि॒त्यः। मह॒ १. क. ख. ग. ङ. हृतीभि। २. क. ख. ग. ङ. हृतीभि। ३ क. ख. ङ त्रयं स

[[509]]

इति॑ च॒न्द्रमाः॑। च॒न्द्रस॑सा वाव सर्वा॑णि॒ ज्योती॑ ँषि॒ मही॑यन्ते, इति।

सन्ति हि चन्द्रमण्डले परितोऽवस्थितानि नक्षत्रज्योतींषि सर्वाण्यपि पूज्यानि भासन्ते। अथ तास्वेव वेददृष्टिं विधत्ते – भूरिति॒ वा ऋचः॑। भुव॒ इति॒ सामा॑नि। सुव॒रिति॒ यजू॑ ँषि (२)। मह॒ इति॒ ब्रह्म॑। ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यन्ते, इति। वेदत्रयगता मन्त्रविशेषा ऋगादयः। ब्रह्म त्वोंकारस्तेन हि सर्वे वेदाः पूज्यन्ते वेदोच्चारणस्य प्रणवपूर्वकत्वात्। अथ प्राणदृष्टिं विधत्ते – भूरिति॒ वै प्रा॒णः। भुव॒ इत्य॑पानः। सुव॒रिति॑ व्यानः। मह॒ इत्यन्न॑म्। अन्ने॑न॒ वाव सर्वे प्राणा मही॑यन्ते, इति। अन्नेन हि भुक्तेन प्राणास्तृप्यन्ति। यथोक्तलोकादिदृष्टिभिरुक्ता व्याहृतीरुपसंहरति – ता वा ए॒ताश्चत॑स्रश्चतु॒र्धा। चत॑स्रश्चतस्रो॒ व्याहृ॑तयः, इति।

या भूरित्यादिव्याहृतयस्ता एताश्चतस्रो व्याहृतयो लोकदेववेदप्राणदृष्टिभिश्चतुर्धा भिद्यन्ते। तथा सति भूरित्येका व्याहृतिः पृथिव्यग्निर्ऋग्वेदः प्राण इत्येवं चतुर्विधा। ततश्चतस्रो व्याहृतयो भवन्ति। एवं भुव इत्यादिष्वपि प्रत्येकं चतुष्ट्वे सति षोडश संपद्यन्ते। तासां सर्वासामपि संग्रहाय चतस्रश्चतस्र इति वीप्सा।

तासां व्यात्द्दतीनामुपासनं विधत्ते – ता यो वेद॑। स वे॑द॒ ब्रह्म॑। सर्वे॑ऽस्मै दे॒वा बलिमाव॑हन्ति (३), इति। अ॒सौ लो॒को यजुँ॑षि॒ वे॒द द्वे च॑॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके पञ्चमोऽनुवाकः॥५॥

ताः पृथिव्यादिदृष्टिभिर्युक्ता व्याहृतीर्यो वेदोपास्ते तस्मा उपासकाय सर्वे देवा इन्द्रादयो बलिं पूजामावहन्ति संपादयन्ति। ननु यथोक्तव्याहृतिरूपप्रतीकोपासकस्य ब्रह्मलोकप्राप्तिर्नास्ति, “अप्रतीकालम्बनान्नयतीति बादरायणः” [ब्र. सू. अ. ४ पा. ३ सू. १५] इति सूत्रे प्रतीकरहितब्रह्मोपासकानामेव तत्प्राप्तिनिर्णयात्। ततो ब्रह्मप्राप्तभावेन सर्वदेवपूज्यत्वं न युक्तम्। नायं दोषः। यस्माद्यः पुमान्व्या

[[510]]

हृतीर्वेद स पुमान्वक्ष्यमाणानुपाकोक्तं ब्रह्मोपास्ते। ब्रह्मोपासनमेवात्र प्रधानम्। व्याहृत्युपासनमङ्गम्। तस्माद्ब्रह्मप्राप्तौ सत्यां सर्वदेवपूज्यत्वं युक्तम्॥ इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्या-रण्यपरमेश्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरोयारण्यकभाष्ये सप्तमप्रपाठके सांहित्यामुपनिषदि पञ्चमोऽनुवाकः॥५॥