०४

अथ सप्तमे चतुर्थोऽनुवाकः।


तृतीयानुवाके प्रजादिफलसिद्धये संहितोपासनमुक्तम्। तत्र ब्रह्मज्ञानसाधनं चित्तैकाग्र्यमप्यर्थात्संपद्यते। अथ मेधारहितस्य श्रुतग्रन्थार्थविस्मृतौ ब्रह्मज्ञानोदयासंभवाद्रोगादिना शरीरादिपाटवरहितस्याशनाच्छादनादिभिर्वा रहितस्य ब्रह्मज्ञानहेतुभूतश्रवणादिप्रवृत्त्यसंभवान्मेधादिसिध्द्यार्था मन्त्राश्चतुर्थेऽनुवाकेऽभिधीयन्ते। तत्राऽऽदौ मेधाकामेन जप्यं मन्त्रमाह – यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः। छन्दो॒भ्योऽध्य॒मृतात्संब॒भूव॑। स १. घ. व च वा। २. क. ख. ङ. ये सांहि।

[[504]]

मेन्द्रो॑ मे॒धया॑ स्पृणोतु। अ॒मृत॑स्य देव॒ धार॑णो भूयासम्, इति। यः प्रणवो गायत्र्यादिच्छन्दोयुक्तानां वेदानां मध्य ऋषभः श्रेष्ठः। तच्च कठवल्लीषु - “सर्वे वेदा यत्पदमामनन्ति” इत्युपक्रम्य “तत्ते पदं संग्रहेण ब्रवीम्योमिल्येतत्” इत्याम्नातम्। स च प्रणवो विश्वरूपः सर्वजगदात्मकः। अर्थप्रपञ्चस्य शब्दात्मकवाच्यन्तर्भावाद्वाचश्चाकारे प्रणवस्य प्रथमावयवेऽन्तर्भावात्। अर्थप्रपञ्चस्य वाच्यन्तर्भाव ऐतरेयके समाम्नातः - “तस्य वाक्तन्तिर्नामानि दामानि तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितं हीदं नामनि” इति। यथा वणिजः प्रसारितया दीर्घरज्ज्वा संलग्नैर्बहुभिः पाशैर्बहून्बलीवर्दान्बध्नन्ति, तथा तस्य प्रणवोपाधिकस्य परमेश्वरस्य वागेव दीर्घरज्जुर्देवदत्तादिनामानि पाशास्तैः सर्वमर्थप्रपञ्चजातं बद्धम्। तस्मात्सर्व नामनि वर्तते। सर्वो जनः स्वकीयं नाम श्रुत्वा पाशेन बद्ध्वा समाकृष्ट इवाऽऽगच्छतीति तस्य वाक्यस्यार्थः। अन्तर्भावितकृत्स्नार्थप्रपञ्चोपेताया वाचः प्रणवेऽन्तर्भावश्छन्दोगैराम्नायते - “तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवर्मोकारेण सर्वा वाक्संतृष्णा” इति। लोके वटाश्वत्थादिपर्णानि शङ्कुशब्दाभिधेयेन स्वान्तर्गतशलाकाविशेषेण यथा व्याप्तानि तद्वदोंकारेण सर्वाऽपि वाग्व्याप्तेत्यर्थः। प्रणवे वाचोऽन्तर्भावोऽप्यकारद्वारेण द्रष्टव्यः। एतदप्यैतरेयके समाम्नातम् - “अकारो वै सर्वा वाक्सैषा स्पर्शोष्मभिर्व्यज्यमाना वह्णी नानारूपा भवति” इति। कवर्गादिषु स्पर्शनामकेष्वक्षरेषु शषसहेषूप्मनामकेषु चाकारोऽनुगतो मातृकामन्त्रे पठ्यते। तस्मादकारस्य सर्ववाग्रूपत्वमित्यर्थः। तदेवं प्रणवस्य विश्वरूपत्वं सिद्धम्। तादृशः प्रणवश्छन्दोभ्यो वेदेभ्योऽधिकत्वेन सारत्वेन संबभूव सम्यक्प्रजापतेः प्रादुरभूत्। तथा च च्छन्दोगा आमनन्ति - “प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या संप्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि संप्रास्रवन्त भूर्भुवः स्वरिति तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ओंकारः संप्रास्रवत्” इति। अभ्यतपत्सारजिघृक्षया पर्यालोचितवान्। संप्रास्रवत्स-म्यक्सारत्वेन प्रत्यभादित्यर्थः। अमृतादित्यनेन निमित्तमुच्यते। मरणरहितं मोक्षरूपं यदमृतं तदेवोंकारप्रादुर्भुतौ निमित्तम्। अत एव च्छान्दोग्ये च तस्योंकारप्रादुर्भाववाक्यस्योपक्रमे - “ब्रह्मसंस्थोऽमृतत्वमेति” इत्युपक्रान्तम्। प्रणवस्य ब्रह्मवाचकत्वेन प्रणवनिष्ठ एव ब्रह्मसंस्थः। स प्रणववाच्य इन्द्रः परमेश्वरो मेधया ग्रन्थतदर्थधारणशक्त्या मां विद्यार्थिनं स्पृणोतु प्रीणयतु। हे देव त्वत्प्रसादादहममृतस्य मोक्षोपलक्षितस्य मुक्तिहेतोर्ग्रन्थादेर्धारयिता भूयासम्। मेधाहेतुमन्त्रमुक्त्वा रोगादिराहित्यहेतुमन्त्रमाह – शरी॑रं मे॒ विच॑र्षणम्। जि॒ह्वा मे॒ मधु॑मत्तमा। कर्णा॑भ्यां॒ १ घ. तदैव। २ क. ङ. भ्योऽधि ३ घ. हेतुं म ४. क. घ. भ. हेतुं म

[[505]]

भूरि॒ विश्रु॑वम्। ब्रह्म॑णः को॒शो॑ऽसि मेध॒- याऽपि॑हितः। श्रु॒तं मे॑ गोपाय, इति।

मम विद्याधिकारिणः शरीरं विचर्षणं विचक्षणं रोगादिराहित्येन विद्याभ्यासयोग्यमस्तु। मदीय जिह्वाऽप्यतिशयेन माधुर्योपेता ग्रन्थाभ्यासपटीयसी भवतु। कर्णाभ्यां च विद्योत्पादकं बहुविधग्रन्थजातं श्रूयासं कदाचिदपि बाधिर्यदोषो मा भूत्। हे प्रणव त्वं ब्रह्मणो जगत्कारणस्य परवस्तुनो ध्यानाय कोश आलम्बनभूतोऽसि। यथा चर्ममयः कोशः खड्गरक्षणायाऽऽलम्बनभूतस्तद्वद्ब्रह्मध्यानरक्षणाय प्रणव आलम्बनभूतः। अत एव कठवल्लीर्ष्वोकारं प्रकृत्याऽऽम्नायते - “एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्” इति। तादृशः प्रणवो मेधया धारणशक्त्याऽपिहितो व्याप्तः। तथाविधप्रणवप्रतिपाद्य हे परमेश्वर मदीयं श्रुतं कर्णाभ्यामवगतं वेदार्थरहस्यं विस्मृत्यादिदोषनिवारणेन पालय।

आरोग्यादिसिद्धये जप्यो मन्त्रोऽभिहितः। अथान्नपानवस्त्रादिसिद्धये होमार्थी मन्त्रा उच्यन्ते। तत्र प्रथमं मन्त्रमाह – आ॒वह॑न्ती वितन्वा॒ना (१)। कु॒र्वाणा चीर॑मा॒त्मनः॑। वासा॑ ँ सि॒ मम॒ गाव॑श्च। अ॒न्न॒पाने च॑ सर्व॒दा। ततो॑ मे॒ श्रिय॒माव॑ह। लो॒म॒शां प॒शुभिः॑ स॒ह स्वाहा॑, इति।

हे प्रणवाभिधेय परमेश्वर या श्रीरुक्तविधा तां श्रियं मदर्थमावह सर्वतः संपादय। किंविधेति तदुच्यते। यानि वासांसि याश्च गावो ये चान्नपाने तत्सर्वं सर्वदा मम भोगार्थमावहन्ती सर्वतः संपादयन्ती तथा संपादितं सर्वं वितन्वाना विस्तारयन्ती वर्धयन्ती वर्धितं तत्सर्वमात्मनो विद्यार्थिनो मम चिरं दीर्घकालं कुर्वाणा यथा विनष्टं न भवति तथा स्थापयन्ती। यस्मादेंवविधा श्रीस्ततस्तामावह। पुनरपि कीदृशीम् – पुशभिः सह लोमशामजावयोऽश्वाश्चेत्येवमादयो ये पशवस्तैः सह वर्तमानत्वेन बहुविधरोमयुक्ताम्। तथाविधश्रीप्रदाय देवायेदमाज्यादिहोमद्रव्यं स्वाहा हुतमस्तु।

अथ वस्त्रान्नपानादिसमृद्धया श्रिया युक्तस्य विद्यासंप्रदायप्रवृत्त्यर्थ शिष्यसंपादकहोमार्थान्पञ्च मन्त्रानाह – आ मा॑ यन्तु ब्रह्मचा॒रिणः॒ स्वाहा॑। वि मा॑ऽऽयन्तु ब्रह्मचा॒रि॒णः स्वाहा॑य प्र मा॑ऽऽयन्तु ब्रह्मचा॒रिणः॒ १ क. ख. ङ स्वाहु।

[[506]]

स्वाहा॑। दमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा॑। शमा॑- यन्तु ब्रह्मचा॒रिणः॒ स्वाहा॑ (२), इति।

ब्रह्मचारिणो वैदिकविद्याभ्यासपराः शिष्या मां संप्रदायप्रवर्तकमाचार्यमायन्तु प्राप्नुवन्तु। विशब्दो विविधत्वमाचष्टे। पश्वादिकामाः स्वर्गलोककामा ब्रह्मलोककामा मोक्षकामाश्चेत्येवं ब्रह्मचारिणां विविधत्वम्। प्रशब्दः प्रकर्षमाचष्टे। विद्याग्रहणे प्रज्ञातिशयः प्रकर्षः। दमित्यनेनाव्ययेन दान्तिरभिधीयते। बाह्मेन्द्रियचेष्टाभ्यो बाललीलाभ्य उपरतिरत्र दान्तिः। शमित्यनेन शान्तिरभिधीयते। क्रोधादिचित्तदोषराहित्यं शान्तिः। वि मायन्त्वित्यादयश्चत्वारो मन्त्राः शाखान्तरगतत्वाभिप्रायेण केषुचिद्देशेषु नाऽऽम्नायते (न्ते)। संप्रदायप्रवृत्तिजनितकीर्तिप्रदौ मन्त्रावाह – यशो॒ जने॑ऽसानि॒ स्वाहा॑। श्रेया॒न्वस्य॑सोऽसानि॒ स्वाहां, इति। हे परमेश्वर त्वत्प्रसादादहं जने सर्वेषु जनेषु यशोऽसानि। आचार्योऽयमित्येवं यशस्वी भवानि। वसु धनं बहुलं यस्य सोऽयं वसुमानतिशयेन वसुमान्वसीयांस्तादृशादप्यहं श्रेयान्प्रशस्यतरो भवानि। यशस्वित्वश्रेयस्त्वहेतुप्रतिपादकांस्त्रीन्मन्त्रानाह - तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा॑। स मा॑ भग॒ प्रवि॑श॒ स्वाहा॑। तस्मि॑न्त्स॒हस्र॑शाखे। नि भ॑गा॒हं त्वयि॑ मृजे॒ स्वाहा॑, इति।

भगशब्द ऐश्वर्यादिषड्गुणवाचकः। “ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। ज्ञानवैराग्ययौश्चैव षण्णां भग इतीङ्गना” इति स्मरणात्।

तेन तद्वानुपलक्ष्यते। हे भगवन्परमेश्वर तं भगवन्तं त्वामहं प्रविशानि तादात्म्येन त्वयि प्रविष्ट इव सर्वदा त्वां भजानि। स ताद्दशस्त्वमपि मां प्रविश मयि प्रविष्ट इवाऽऽदरेण मामनुगृहाण। सहस्रमूर्तिभेदयुक्ते तस्मिंस्त्वयि मामहं निमृजे नितरां शोधयामि। त्वद्भजनमेव श्रेयोहेतुरित्यर्थः। दृष्टान्तपुरःसरं बहुशिष्यसंपादकं मन्त्रमाह – यथाऽऽपः॒ प्रव॑ता॒ऽऽयन्ति॑। यथा॒ मासा॑ अहर्ज॒रम्। ए॒वं मां

१. ऱ. प्रतिज्ञाति। २. ख. स्त्वप्र। ३. ख. श. प्र।

[[507]]

ब्र॑ह्मचा॒रिणः॑। धात॒राय॑न्तु स॒र्वतः॒ स्वाहा॑, इति। आपो लोके प्रवता प्रवणवता निम्नदेशगतेन मार्गेण यथा त्वरया समागच्छन्ति। यथा च मासाश्चैत्रवैशाखादयः सर्वेऽप्यहर्जरं संवत्सरमायन्ति। अहानि षष्ट्युत्तरशतत्रयसंख्याकानि जीर्णान्यन्तर्भवन्ति यस्मिन्संवत्सरे सोऽयमहर्जरः। न खलु कश्चिदपि मासः संवत्सरमतिक्रामति। हे धातः सर्वस्य जगतो विधातः सर्वेऽपि ब्रह्मचारिणो मासन्यायेन मामनतिक्रामन्तो जलन्यायेन त्वरोपेताः सर्वस्मादपि देशान्मामागच्छन्तु।

होममन्त्रानभिधायोपस्थानमन्त्रमाह – प्र॒ति॒वे॒शो॑ऽसि॒ प्र मा॑ भाहि॒ प्र मा॑ पद्यस्व (३), इति। वितन्वाना शमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा॒ धात॒राय॑न्तु स॒र्वतः॒ स्वाहैकं च॥ इति कृष्णयर्जुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके चतुर्थोऽनुवाकः॥४॥

श्रमापनयनस्थानं गृहं प्रतिवेश इत्युच्यते। हे धातस्त्वं मम प्रतिवेशोऽसि। अतो मां प्रभाहि प्रकाशय ब्रह्मविद्याचार्यत्वेन प्रख्यातं कुरु। तदर्थं मां प्रपद्यस्व प्राप्नुह्यनुगृहाणेत्यर्थः॥

इति श्रीमत्सायणार्चार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधव- विद्यारण्यपरमेश्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तमप्रपाठके सांहित्यामुपनिषदि चतुर्थोऽनुवाकः॥४॥