अथ सप्तमे तृतीयोऽनुवाकः। द्वितीयेऽनुवाके दृष्टादृष्टोपकारी ग्रन्थपाठनियमो विहितः। तृतीये त्वैहिकामुष्मिकफलसिद्धये काचिदुपासना विधीयते। तत्राऽऽदौ तावन्मङ्गलाचरणार्थोऽयं मन्त्र आम्नायते। पूर्वोक्तशान्तिमन्त्रेण विघ्नोपशमः प्रार्थितः। अनेन तु मन्त्रेण विद्यातत्फलयोरुत्कर्षः प्रार्थ्यते। तमिमं मन्त्रमाह – स॒ह नौ॒ यशः। *सह नौ ब्र॑ह्मव॒र्चसम्, इति।
विद्यानिमित्तं यद्यशस्तन्नावावयोः शिष्याचार्ययोः सहास्तु। सम्यगनेनोपासनमनुष्ठीयत इति शिष्यस्य यशः। सम्यगुपदिष्टमित्याचार्यस्य यशः। अनेन विद्यायामवैकल्यलक्षण उत्कर्षोऽभिहितो भवति। ब्राह्मणस्योचितं श्रुताध्ययनलक्षणं तेजो ब्रह्मवर्चसम्। एतच्च श्रूयमाणस्य फलस्य सर्वस्याप्युपलक्षणम्। “संधीयते प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन” इति हि श्रूयते। एतच्च ब्रह्मवर्चसादि फलमावयोः शिष्याचार्ययोः सहास्तु। यद्यप्युपासितुः शिष्यस्यैव तत्फलं तथाऽपि तदीयफलसंपत्तेराचार्यपरितोषहेतुत्वादाचार्यपरितोषहेतुत्वादाचार्यस्यापि फलत्वेनोपचर्यते। सोऽयं प्रार्थनारूपो मङ्गलाचरणार्थो मन्त्रः शिष्येण जप्य आचार्यस्य तु कृतार्थत्वान्नानेन कृत्यमस्ति।
यदर्थमिदं मङ्गलाचरणं तामेतां विद्याँ प्रतिजानीते – अथातः स ँहिताया उपनिषदं व्या॑ख्यास्या॒मः। पञ्च- स्वधिक॑रणे॒षु। अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज॑- मध्या॒त्मम्। ता महास ँहिता इ॑त्याच॒क्षते, इति।
अथशब्दः पूर्वानुवाकविहितवर्णस्वराद्युच्चारणाभ्यासानन्तर्यमाचष्टे। अतःशब्दस्तदुच्चारणवासनया युक्तत्वं हेतू करोति। यस्मादुपासनायां प्रवर्तमानः पुरुषश्चिराभ्यस्तवेदपाठेन वासितः सन्वेदपाठसंबन्धरहितेषूपासनेषु चित्तं सहसा प्रवेशयितुं न शकोति। तस्मात्तत्संबन्धिनीं संहिताया उपिनिषदं विस्पष्टमा समन्तात्कथयिष्यामः। वर्णानां परस्परमत्यन्तसामीप्यं संहिता। “परः संनिकर्षः संहिता” इति पाणिनिना सूत्रितत्वात्। उप सामीप्ये निषण्णं प्रजापशुब्रह्मवर्चसादिफलमस्यामित्युपनिषदुपासना ताम्। *अत्र सकाराकारस्य सानुदात्तः पाठोऽपि वैदिकेषु प्रसिद्धः। + अत्र सर्वत्र ग. पुस्तकेऽधिज्योतिषमिति पाठः। १. ख. केऽदृष्टो।
[[495]]
तत्र येयमुपासनीया संहिता सा पञ्चविधेष्वाश्रयेषु व्याख्यास्यते। आश्रयभेदेनोपासनाया भेदशङ्का मा भूदित्येतदर्थमेकैवोपासना पञ्चस्वाश्रयेषु प्रतिज्ञायते। लोकज्योतिर्विद्याप्रजात्मानः पञ्चाऽऽश्रयाः। पृथिव्यादील्लोँकानधिकृत्य वर्तत इत्यधिलोकम्। एवमुत्तरत्रापि दृष्टव्यम्। या एता लोकादिपञ्चविधाश्रयभेदभिन्नाः संहिताः सन्ति ताः सर्वा महासंहिता इत्येवमभिज्ञा उपासका आचक्षते। लोकादिविषयोत्कृष्टदृष्ट्योपासितत्वात्संहितानां महत्त्वम्। प्रतिज्ञातायामुपासनायामुपास्यं प्रथमावयवमाह – अथा॑धिलो॒कम्। पृथिवी पू॑र्वरू॒पम्। द्यौरुत्त॑- ररू॒पम्। आका॑शः सं॒धिः (१)। वायुः॑ संधा॒नम्। इत्य॑धिलो॒कम्, इति।
लोकादिपञ्चकविषयोपासनाप्रतिज्ञानन्तरं लोकविषय उपास्यावयव उच्यते। संहितावयवयोः पूर्वोत्तरवर्णयोर्मध्ये यत्पूर्ववर्णस्य स्वरूपं तत्पृथिवीदेवतारूपमिति चिन्तयेत्। यदुत्तरवर्णस्य स्वरूपं तद्द्युलोकाभिमानिदेवतारूपम्। यश्च तयोर्वर्णयोः संधिर्मध्यदेशः सोऽयं द्युलोकपृथिवीलोकमध्यवर्त्याकाशाभिमानिदेवतारूपः। यदपि तयोर्वर्णयोर्मध्यदेशे वर्तमानं संधानं संहितायाः स्वरूपं तदेतद्वायुदेवतारूपम्। इत्येवं लोकविषयं संहिताध्यानमुक्तम्। तदेतदुदाह्रियते – इषे त्वेत्यत्र षकारस्योपरि योऽयमेकारः सोऽयं पृथिवीरूपो यश्चोपरितनस्तकारोऽसौ द्युलोकात्मकस्तयोर्वर्णयोर्मध्यदेश आकाशात्मकस्तस्मिन्देशे संहितानिमित्तो द्विर्भावेनाऽऽपादितो योऽन्यस्तकारः स वाय्वात्मक इति ध्यायेत्। एवमुत्तरेष्वप्युपास्यावयवेषु चतुर्षु योज्यम्।
तत्र द्वितीयमवयवमाह – अथा॑धिज्यौ॒तिषम्। अग्निः पू॑र्वरू॒पम्। आदित्य उत्त॑ररूप॒म्। आ॑पः सं॒धिः वैद्युतः॑। संधा॒नम्। इत्य॑धिज्यौ॒तिषम्, इति।
तृतीयमवयवमाह – अथा॑धिवि॒द्यम्। आचार्यः पू॑र्वरू॒पम् (२)। अन्तेवास्युत्त॑ररू॒पम्। वि॑द्या सं॒धिः। प्रव- चन॑ ँ संधा॒नम्। इत्य॑धिवि॒द्यम्, इति। आचार्येणोपदेष्टव्यः शिष्येण पठनीयो ग्रन्थो विद्या। ग्रन्थस्य पाठः प्रवचनम्।
- ग. घ. भेदाश। २. ग. ताया रू।
[[496]]
चतुर्थमवयवमाह – अथाधि॒प्रजम्। माता पू॑र्वरू॒पम्। पितोत्त॑ररू॒पम्। प्र॑जा सं॒धिः। प्रजनन॑ ँ संधा॒नम्। इत्यधि॒प्रजम् (३), इति।
प्रजा पुत्रपौत्रादिरूपा। प्रजननमुत्पत्तिः। पञ्चममवयवमाह- अथाध्या॒त्मम्। अधरा हनुः पू॑र्वरू॒पम्। उत्तरा हनुरुत्त॑ररू॒- पम्। वाक्सं॒धिः। जिह्णा॑ संधा॒नम्। इत्यध्या॒त्मन्, इति।
देहेन्द्रियादिसाक्षिचैतन्यान्तः संघातोऽत्राऽऽत्मशब्देन विवक्षितः। तस्याहंप्रत्ययगम्यत्वात्। तमात्मानमधिकृत्य वर्तत इत्यध्यात्मम्। वाक्शब्देन कण्ठताल्वादिस्थानगतमिन्द्रियमुच्यते।
प्रतिपादितरूपान्संहितावयवानुपसंहरति – इतीमा म॑हस॒ ँहिताः, इति। फलसाधनत्वेनोपासनां विधत्ते – य एवमेता महास ँहिता व्याख्या॑ता वे॒द। संधीयते प्रज॑या प॒शुभिः। ब्रह्मवर्चसेनान्नाद्येन *सुवर्ग्येण॑ लोके॒न (४), इति॥ संधिराचार्यः पू॑र्वरू॒पमित्यधि॒प्रजं लोके॒न। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके तृतीयोऽनुवाकः॥३॥
यः पुमानेवमुपास्ते स पुमान्प्रजादिभिः संबध्यते। यद्यपि विदिधातुः प्रमाणजज्ञानमभिधत्ते न तु पुरुषतन्त्रमानसक्रियारूपमुपासनम्, तथाऽपि विज्ञानवाचिविदिधातुनाऽत्रोपासनक्रियोपलक्ष्यते। तयोर्मानसत्वसाम्यात्। न खल्वत्र मुख्यार्थः संभवति। अपुरुषतन्त्रस्य ज्ञानास्य विधातुमयोग्यत्वात्पृथिवी पूर्वरूपमित्यादिवाक्येनैव ज्ञानसिद्धौ तद्विधिवैयर्थ्याच्च। न चात्र वेदेत्येष लट्प्रत्ययो न विधायक इति वाच्यम्। विधायकस्य पञ्चमलकारस्याऽऽश्रयणात्। न च वाक्यजन्यमेव ज्ञानं लट्प्रत्ययेनानूद्यतामिति वाच्यम्। ज्ञानमात्रेण प्रजापश्वादिफलासंभवात्। तस्मादुपा- *सुवर्गेणेत्यपि पाठो वैदिकेषु प्रसिद्धः। १. ख. ग. सनं वि। २ ग. संपद्यते। ३ ग. घ. तन्त्र मा। ४. घ. पि ज्ञा। ५. ख मात्रे प्र
[[497]]
सनक्रियां विदिधातुनोपलक्ष्य पञ्चमलकारेण विधत्ते। एवं च सत्युपासनप्रकरणमनुगृह्यते। इति प्राचीनयोग्योपास्स्वेत्यभिधानात्तत्प्रकरणत्वमवगम्यते। अत्र स्वर्गाख्यस्य फलस्याऽऽमुष्मिकत्वमेव। पश्वादिफलस्य तु चित्रान्ययेनाऽऽमुष्मिकत्वं पाक्षिकम्। “चित्रया यजेत पशुकामः” इत्यत्रासति प्रतिबन्धे पशुप्राप्तिरैहिकी, अन्यथा त्वामुष्किकीति चित्रान्यायः। ईदृक्फलसिद्ध्यर्थ पुरुषतन्त्रोपासनक्रियाऽत्र वेदेत्यनेन विधीयते।
अत्र मीमांसा। चतुर्थाध्यायस्य प्रथमपादे *चिन्तितम् – “नास्त्यासनस्य नियम उपास्तावुत विद्यते। न देहस्थितिसापेक्षं मनोऽतो नियमो न हि। शयनोत्थानगमनैर्विक्षेपस्यानिवारणात्। धीसमाधानहेतुत्वात्परिशिष्यत आसनम्। आसीनेनैवोपासितव्यमिति नास्ति नियमः। मानसव्यापारं प्रति देहस्थिति-विशेषस्यानुपयुक्तत्वादिति प्राप्ते ब्रूमः – परिशेषादासनं नियम्यते। तथा हि – न तावच्छयानेनोपासितुं शक्यमकस्मान्निद्रयाऽभिभूतिसंभवात्। नाप्युत्थितेन गच्छता वा देहधारणमार्गनिश्चयादिव्यापारेण चित्तस्य विक्षिप्तत्वादत आसीनेनैवोपासितव्यम्”।
++तत्रैवान्यच्चिन्तितम्- “दिग्देशकालनियमो विद्यतेऽथ न विद्यते। विद्यते वैदिकत्वेन कर्मस्वेतस्य दर्शनात्। ऐकाग्र्यस्याविशेषेण दिगादिर्न नियम्यते। मनोनुकूल इत्युक्तेर्दृष्टार्थं देशभाषणम्” इति।
“ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि” इति दिङ्नियमः। “प्राचीनप्रवणे वैश्वदेवेन यजेत” इति देशनियमः। “अपराह्णे पिण्डपितृयज्ञेन चरन्ति” इति कालनियमः। तदेतन्नियमत्रयं यथा कर्मणि दृश्यते तथोपासनेऽपि द्रष्टव्यम्। वैदिकत्वस्याविशेषादिति प्राप्ते ब्रूमः – ऐकाग्र्यं हि ध्यानस्य प्रधानसाधनं न च तस्य दिगादिनियत्या कश्चिदतिशयो विद्यतेऽतो नास्ति नियमः। अत एव श्रुतिर्योगाभ्यासाय प्रदेशं निर्दिशन्ती मनोनुकूलत्व-मेवाऽऽह। यस्मिन्देशे सौमनस्यं तत्रैव युञ्ज्यान्न तु शास्त्रेण नियमितः कश्चिद्देशोऽस्तीत्यर्थः। “समे शुचौ शर्करावह्निवालुकाविवर्जिते” इति योगा- *आसीनः संभवात्। अध्यायः (४)पादः (१) अधिकरणम् (६)सूत्रम् (७)। यत्रैकाग्रता तत्राविशेषात्। अ ४ पा १ अ ७। सू ११। १. क. ख. ग. ङ. स्याऽऽमुष्मिकत्वं पा।
[[498]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — [प्रपा० ७ अनु० ३] भ्यासाय देशविशेषः श्रूयत इति चेत्सत्यम्। इष्टसौकर्यार्थं तदिति वाक्यशेषे मनोनुकूलत्वविशेषणान्निश्चीयते। तस्मान्नास्ति दिगादिनियमः। अत्रोपास्यवस्तुस्वरूपस्येयत्तां निश्चेतुमिदमपरं चिन्तनीयम्। ऐतरेयोपनिषद्यपि संहितोपसना काचिदेवमाम्नायते - “अथातः संहिताया उपनिषत्। पृथिवी पूर्वरूपम्। द्यौरुत्तररूपम्” इत्यादि[:] अस्यामैतरेयशाखायां तैत्तिरीयशाखायां चाऽऽम्नाता येयमुपासना सा किमेका भिन्ना वेत्येको विचारः। उपासनैक्यपक्षेऽपि शाखाद्वये परस्परं गुणोपसंहारसद्भावासद्भावविषयो द्वितीयो विचारः। तत्र पञ्चाग्निविद्याप्राणविद्यान्यायेनोपासनैक्यं भवितुमर्हति। स च न्यायस्तृतीयाध्यायस्य तृतीयपादे * सम्यगभिहितः- “सर्ववेदेष्वनेकत्वमुपास्तेरथ वैकता। अनेकत्वं कौथुमादिनामधर्मविभेदतः।” विधिरूपफलैकत्वादेकत्वं नाम न श्रुतम्। शिरोव्रताख्यधर्मस्तु स्वाध्याये स्यान्न वेदने।
छान्दोग्यबृहदारण्यकयोः पञ्चाग्न्युपासनमाम्नायते तदेकं न भवति नामभेदात्। कौथुममिति च्छान्दोग्यगतस्य नाम। वाजसनेयकमिति बृहदारण्यकगसत्य नाम। तथोपासनान्तरेषु योजयितव्यम्। धर्मभेदोऽप्युपासनाभेदगमकः शिरोव्रतलक्षणो दण्डकशाखायां श्रूयते - “तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्” इति। शिरोव्रतं नाम वेदव्रतविशेष आथर्वणिकान्प्रति विहितो नेतरान्प्रति। तस्माच्छाखाभेदादुपासनाभेद इति प्राप्ते ब्रूमः – शाखाभेदेऽपि विध्यभेदादुपासनं न भिद्यते। तथा हि च्छान्दोग्ये - “यो ह वै ज्येष्ठं च श्रेष्ठं च वेद” इति। यादृशः प्राणविद्याविधिस्तादृश एव बृहदारण्यकेऽप्याम्नायते। तथा द्युपर्जन्यपृथिवीपुरषयोषिदाख्मग्निपञ्चकं वेद्यतया पञ्चाग्निविद्यायां यत्स्वरूपं तदुभयोरपि शाखयोः समानम्। फलं च “ज्येष्ठश्च ह वै श्रेष्ठश्च भवति” इत्येवंरूपं प्राणोपास्तिजन्यं शाखाद्वयेऽप्येकविधम्। यस्तु कौथुमादिनामभेद उदाहृतो नासौ श्रुत्याऽभिहितः। किं तर्ह्यध्येतार एव केवलं तत्तच्छाखाप्रवर्तकमुनिनाम्ना तं तं वेदं व्याहरन्ति। योऽपि शिरोव्रताख्यधर्मभेद उक्तः सोऽप्यध्ययनविषय एव नोपास्तिविषयः। नैतदचीर्णव्रतोऽधीत इत्यध्ययनधर्मत्वावगमात्। तस्मादैक्यहेतुसद्भावाद्भेदहेत्वभावाच्च न शाखाभेदादुपासनं भिद्यते”।
अनेनैव न्यायेन संहितोपासनाया अप्यैक्यं द्रष्टव्यम् – य एवमेतां संहितां वेदेति। *सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्। अ ३ पा ३ अ १ सू १। १. ग. नानाध। २ ख. ण्यस्य। ३ क.ङ. कस्य।
[[499]]
तथा पृथिवी पूर्वरूपमित्यादिंक वेद्यस्वरूपमप्युभयत्रैकविधम्। संधीयते प्रजया पशुभिरित्यादिकं फलमप्येकरूपम्। तस्मादुपासनैक्यं युक्तम्।
गुणोपसंहारन्यायश्च तत्रैवाभिहित * - “एकोपास्तावनाहार्या आहार्या वा गुणाः श्रुतौ। अनुक्तत्वादनाहार्या उपकारः श्रुतैर्गुणैः। श्रुतत्वादन्यशाखायामाहार्या अग्निहोत्रवत्। विशिष्टविद्योपकारः स्वशाखोक्तगुणैः समः।
वाजसनेयके प्राणविद्यायामधिको गुणो रेतआख्यः श्रुतः - “रेतो होच्चक्राम” इति। नासौ छान्दोग्ये प्राणविद्यायामुपसंहर्तव्यः। अत्रानुक्तत्वात्। विद्योपकारस्तत्र श्रुतैरेव प्राणवागादिभिर्गुणैर्भविष्यतीति प्राप्ते ब्रूमः – एतच्छाखायामश्रवणेऽपि शाखान्तरे श्रुतत्वादुपसंहार्य एव। अग्निहोत्राद्यनुष्ठानेषु शाखान्तरोक्तगुणयुक्ततयैवानुष्ठानदर्शनात्। न च स्वशाखोक्तगुणैरेव विद्योपकारसिद्धौ गुणोपसंहारो निरर्थक इति वाच्यम्। कर्भूयस्त्वात्फलभूयस्त्वमिति न्यायात्स्वशाखोक्तगुणवत्परशाखोक्तगुणानामप्युपका-रित्वात्। तस्माद्रुणोपसंहारः कर्तव्यः”।
अनेनैव न्यायेनैतरेयकगतं वाक्पूर्वरूपं मन उत्तररूपमित्यादिगुणजातं तैत्तिरीय उपसंहर्तव्यम्। तैत्तिरीयगतं चाग्निः पूर्वरूपमित्यादिकमैतरेय उपसंहर्तव्यम्। तदेवं विद्यैक्ये गुणेपसंहारे च प्राप्ते सत्यत्रोद्गीथविद्यान्यायेनोभयं निराकरणीयम्। सोऽपि न्यायस्तत्रैवाभिहितः – “एका भिन्नाऽथवोद्गीथविद्या छन्दोगकाण्वयोः। एका स्यान्नामसामान्यात्सङ्ग्रामादिसमत्वतः। उद्गीथावयर्वोकार उद्गातेत्युभयोर्भिदा। वेद्यभेदेऽर्थवादादिसाम्यमत्राप्रयोजकम्।
उद्गीथविद्येति समाख्याया एकत्वाच्छान्दोग्यकाण्वशाखयोर्विद्यैकत्वमुचितम्। यद्यपि समाख्या न श्रौती तथाऽपि श्रौताः सङ्ग्रामादय उभयत्र समाः। तथा हि। छान्दोग्ये देवासुरभावं क्रमेण सात्त्विकेन्द्रियवृत्तीनां तामसेन्द्रियवृत्तीनां चाङ्गीकृत्य तत्सङ्ग्रामं निरूप्य वागादिदेवानामसुरविद्धत्वमुक्त्वा प्राणदेवस्यैकस्यैव तदविद्धत्वमुक्तम्। एतत्सर्वं काण्ववेदेऽपि समानम्। तस्मादुभयत्र विद्यैक्ये प्राप्ते ब्रूमः – भिन्ने-
- उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च। अ ३ पा ३ अ २। सू। ५। +अन्यथात्वं शब्दादिति चैन्नाविशेषात्। अ ३ पा ३ आ ३। सू ६।
१. ख. अनु। २ ङ. तदैवं। ३. ग. घ. णस्यै। ४ ख. स्माद्विद्यै।
[[500]]
यमुद्रीथविद्या वेद्यस्वरूपस्य भिन्नत्वात्। छान्दोग्ये तावत्सामभक्तिविशेष-स्योद्गीथस्यावयवो या ओंकारः स एव प्राणदृष्ट्योपासनीयः। काण्ववेदे तु कृत्स्रोद्गीथभक्तेर्य उद्गाता वागिन्द्रियप्रेरकः प्राणः स उद्गातृत्वेनोपास्य इति वेद्यभेदाद्विद्याभेदः। यत्तु सङ्ग्रामसाम्यमुक्तं तदप्रयोजकमार्थवादिकत्वात्। यदपि प्राणस्यासुराविद्धत्वेन श्रेष्ठत्वमुक्तं तद्यद्यप्युपास्यं तथाऽप्युक्तस्य वेद्यभेदस्यानिराकरणाद्भिन्नैवोद्गीथविद्या”। अनेनैव न्यायेन प्रकृतेऽपि वेद्यभेदाद्वेद्याभेदो द्रष्टव्यः। तैत्तिरीयके पञ्चा-धिकरणोपासने पूर्व व्याख्यातानि वेद्यानि। ऐतरेयके त्वधिदैवाध्यात्मभेदभिन्नं वेद्यम्। तथा चाऽऽम्मायते – “वायुश्चाऽऽकाशश्चेत्यधिदैवतम्। अथाध्यात्मं वाक्पूर्वरूपं मन उत्तररूपम्” इत्यादि। यत्तु पृथिवी पूर्वरूपमित्यस्य वेद्यस्योभयत्र समानत्वमुक्तम्। नैतावता विद्यैकत्वं संभवति। वैलक्षण्यस्य बहुलत्वाद्बह्वनुग्रहस्य च न्याय्यत्वात्। सति च विद्याभेदे गुणोपसंहारो न युक्तः। यथा दर्शपूर्णमासगुणानां भिन्नाग्निहोत्राख्ये कर्मणि नोपसंहारस्तद्वदत्र विद्याभेदे गुणानामनुपसंहारे च स्थिते सत्यन्यदपि चिन्तयितुं विभज्यते – द्विविधान्युपासनान्यहंग्रहयुक्तानि प्रतीकविषयाणि चेति। येषु परमात्मा सगुणः सन्नुपास्यते तान्यहंग्रहयुक्तानि। तद्यथा - “स य एषोऽन्तर्त्हदय आकाशः। तस्मिन्नयं पुरुषो मनोमयः। अमृतो हिरण्मयः” इत्यत्र हृदयाकाशमध्यवर्ती परमात्माख्यः पुरुषो मनोमयत्वादिगुणयुक्त उपासितव्यः परमात्माऽहमिति। स चाहंग्रहश्चतुर्थाध्याये - “आत्मेति तूपगच्छन्ति ग्राहयन्ति च” [ब्र सू अ ४ पा १ सू ३] इति सूत्रेऽभिहितः। परमात्मव्यतिरिक्तानि लौकिकानि वस्तून्युत्कृष्टदेवतादृष्ट्या ब्रह्मदृष्टया वा संस्कृत्य यत्रोपास्यन्ते तानि प्रतीकविषयाणि। तद्यथा – पृथिवी पूर्वरूपमित्यत्र भूदेवतादृष्ट्या संस्कृतं पूर्ववर्णस्वरूपमुपास्यम् । मनो ब्रह्मेत्युपासीतेत्यादौ ब्रह्मदृष्ट्या संस्कृतं मनःप्रभृतिकमुपास्यम्। तच्च प्रतीकमुपासकेन न स्वात्मतया ग्रहीतव्यम्। *प्रतीकस्य ब्रह्मकार्यत्वेनोत्कृष्टदृष्टिप्रत्यालम्बनत्वात्प्रतीकमित्युच्यते। तस्मिंश्च प्रतीकेऽहंग्रहो नास्तीति चतुर्थाध्यायस्य प्रथमपादे xचिन्तितम्- “प्रतीकेऽहंदृष्टिरस्ति न वा ब्रह्माविभेदतः। जीवप्रतीकयोर्ब्रह्मद्वाराऽहंदृष्टिरिष्यते। प्रतीकत्वोपासकत्वहानिर्ब्रह्मैक्यवीक्षणे। अवीक्षणे तु भिन्नत्वान्नास्त्यहंदृष्टियोग्यता” इति।
- अस्मिन्वाक्ये यत इति शेषः। x न प्रतीके न हि सः। अ ४पा १अ ३ सू ४।
१. ङ. यः अन्तरेण तालुके” इ। २.ग. पूर्व व। ३. ग. घ. तच्चोत्कृष्ट।
[[501]]
“मनो ब्रह्मेत्युपासीत” “आदित्यो ब्रह्मेत्यादेशः” इत्यादौ ब्रह्मदृष्ट्या संस्कृतं मनआदित्यादिप्रतीकमुपास्यम्। तच्च प्रतीकमुपासकेन स्वात्मतया ग्रहीतव्यम्। प्रतीकस्य ब्रह्मकार्यत्वेन ब्रह्मणा सह भेदाभावाज्जीवस्य च ब्रह्माभिन्नत्वाद्ब्रह्मद्वारोपास्यस्य प्रतीकस्योपासकजीवस्य च भेदाभावेनैकत्वसंभवादिति प्राप्ते ब्रूमः – यदि ब्रह्मकार्यस्य प्रतीकस्य ब्रह्मैक्यमवलोक्येत तदा जीवत्वस्यापाये सत्युपासकत्वं हीयेत। अथोपास्योपासकस्वरूपलोभेन कार्यकारणैक्यं जीवब्रह्मैक्यं च न पर्यालोच्येत तदा गोमहिषवदत्यन्तभिन्नयोः प्रतीकोपासकयोर्नास्त्येकत्वयोग्यता। तस्मान्न प्रतीकस्याहं-दृष्टिः।
तत्राहंग्रहोपासनानां सर्वेषामपि ब्रह्मसाक्षात्कारफलत्वादेकेनोपासनेन ब्रह्मणि साक्षात्कृते सत्युपासनान्तरवैयर्थ्यादुपासनान्तरप्रवृत्तौ पूर्वसाक्षात्कारविक्षेपप्रसङ्गाच्च बहुषूपासनेषु ब्रह्मसाक्षात्कारार्थिनः प्राप्तेष्विदं वा तद्वा यत्किंचिदेकमेवानुष्ठेयमित्येतादृशी विकल्पो निर्णीतः। इह तु संहितोपासनमेकं वा द्वयं वा यथेच्छमनुष्ठेयम्। एतदपि तृतीयाध्यायस्य तृतीयपादे *निर्णीतम्- “प्रतीकेषु विकल्पः स्याद्याथाकाम्येन वा भितिः। अहंग्रहेष्विवैतेषु साक्षात्कृत्यै विकल्पनम्। देवी भूत्वेतिवन्नात्र काचित्साक्षात्कृतौ मितिः। याथाकाम्यमतोऽमीषां समुच्चयविकल्पयोः।”
प्रतीकोपासनेषु पूर्वाधिकरणन्याय इति प्राप्ते ब्रुमः – अस्त्यत्र महद्वैषम्यम्। “देवो भूत्वा देवानप्येति” इति जीवन्नेव भावनाप्रकर्षवशाद्देवभावसाक्षात्कारं प्राप्य मृतो देवत्वमुपैतीति यथाऽहंग्रहेष्ववगम्यते न तथा प्रतीकेषु साक्षात्कारफलत्वे किंचिन्मानमस्ति। साक्षात्कारफलत्वाभावे च तत्र तत्र प्रोक्ता भोग्यवस्तुप्राप्तयः फलत्वेनाभ्युपगन्तव्याः। तथा सति भिन्नफलत्वान्नान्यानर्थक्यं विक्षेपशङ्का तु दूरापेता। एकं प्रतीकं केषुचित्क्षणेषूपास्य क्षणान्तरेषु प्रतीकान्तरोपासने तु पूर्वोपास्तिजन्यस्यापूर्वस्याविनाशात्। तस्माद्विकल्पेनैकमेव वा बहूनि वा समुच्चित्य वा याथाकाम्येन प्रतीकमुपासितव्यम्”।
“पृथिवी पूर्वरूपम्” इत्यत्र प्रथमनिर्दिष्टत्वेनोद्देश्यतया यद्यपि पृथिव्याः प्रतीकत्वं
- काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात्। अ ३ पा ३ अ ३५ सू ६९। १ ग. र्यत्वेन ब्रह्मणा सहैक्यं प्रतीकस्य तदा प्रतीक। घ. र्यत्वेनैक्यं प्र। २ घ. स्य प्रती। ३ ग. घ वे त। ४ ख नाभिग।
[[502]]
प्राप्तम्। तथा चरमनिर्दिष्टत्वेन विधेयतया पूर्ववर्णस्य दृष्टिपरत्वं प्राप्तम्। तथाऽपि पृथिव्या उत्कृष्टत्वात्तद्दृष्टिरेव पूर्ववर्णे कर्तव्या। यथोत्कृष्टविष्णुशिवादिदृष्टिर्निकृष्टे शालग्रामादौ क्रियते न तु विपर्ययस्तद्वत्। उत्कर्षन्यायश्चतुर्थाध्यायस्य प्रथमपादे * चिन्तितः – “किमन्यधीर्ब्रह्मणि स्यादन्यस्मिन्ब्रह्मधीरुत। अन्यदृष्ट्योपासनीयं ब्रह्मात्र फलदत्वतः। उत्कर्षेतिपरत्वाभ्यां ब्रह्मदृष्ट्याऽन्यचिन्तनम्। अन्योपास्त्या फलं दत्ते ब्रह्मातिथ्याद्युपास्तिवत्।”
“मनो ब्रह्म” इत्यत्राब्रह्मरूपमनोदृष्टिं ब्रह्मणि कृत्वा ब्रहोपासनीयम्। ब्रह्मणः फलप्रदत्वेनोपास्यतार्हत्वादिति प्राप्ते ब्रूमः – ब्रह्मण उत्कृष्टत्वात्तद्दृष्टिर्निकृष्टे मनसि कर्तव्या। लोके हि निकृष्टे भृत्ये राजदृष्टिं कृत्वा राजवत्तं पूजयन्ति। न तु विपर्ययः। किंच “मनो ब्रह्मेत्युपासीत” इत्यत्र ब्रह्मशब्द इतिशब्दपरत्वेन दृष्टिलक्षको भविष्यति। मनःशब्दश्चानितिपरत्वान्मुख्यार्थवाची। यथा स्थाणुं चोर इति प्रत्येतीत्यत्र स्थाणुशब्दो मुख्यार्थवाची चोरशब्दो दृष्टिलक्षकस्तद्वत्। न चाब्रह्मस्वरूपस्य मनस उपास्यत्वे ब्रह्मणः फलप्रदत्वानुपपत्तिः। अब्रह्मरूपस्यातिथेरुपासने कर्माध्यक्षत्वेन यथा फलं प्रयच्छति तद्वदत्रापि संभवात्। तस्मादब्रह्मणि प्रतीके ब्रह्मधीः कर्तव्या”।
यद्यप्यधिलोकमितिशब्देन पृथिव्या अधिकरणत्वाभिधानात्प्रतीकत्वं प्रतिभाति तथाऽपि पृथिवीदृष्टिरेवात्र पूर्ववर्णात्मके युक्ता। यथा लोकेषु पञ्चविधं सामोपासीतेत्यत्राधिकरणत्ववाचिन्या सप्तम्या निर्दिष्टानां लोकानां दृष्टिः कर्माङ्गे साम्नि प्रतीके संपादिता तद्वत्। एतदपि यदि “आदित्यादिमतयश्चाङ्ग उपपत्तेः” [ब्र. सू. अ. ४ पा. १ सु. ६] इति साम्न उपास्तिक्रियाकर्मत्वेनाभिधानाद्दृष्टिलक्षत्वं लोकशब्दस्य युक्तमित्यभिप्रेत्य लोकदृष्ट्या सामाख्यं प्रतीकमुपास्येत तर्ह्मत्रापि महासंहिता व्याख्याता वेदेतिसंहिताशब्देन विदिक्रियाकर्मणो निर्देशात्पृथिव्यादिदृष्ट्या संहितोपास्यताम्। पृथिव्याः प्रतीकत्वाभावेऽपि दृष्टिविषयत्वाभिप्रायेणाधिलोकमिति निर्देश उपपद्यते। तत्रेदमपरं चिन्तनीयम्। उपासनं नाम किं सकृत्प्रत्यय आहोस्वित्प्रत्ययावृत्तिरिति। तत्र यथा “अष्टवर्ष ब्राह्मणमुपनयीत” इत्यत्र सकृदनुष्ठानाद्विधिसिद्धिस्तद्वत्सकृत्प्रत्ययेनैव विधेश्चरितार्थत्वान्नाऽऽवृत्तिरिति चेन्न वेदाध्ययनवदा
[[503]]
वर्तनीयत्वात्। यथा “स्वाध्यायोऽध्येतव्यः” इत्यत्र वेदोच्चारणमावर्त्यते तथा प्रत्यय आवर्तनीयः। तत्रोच्चारणावृत्तिरेवाध्ययनशब्दार्थ इति चेत्तर्ह्मत्रापि प्रत्ययावृत्तिरेवोपासनाशब्दार्थोऽस्तु। अत एव भगवद्भिर्भाष्यकारैरावृत्त्यधिकरणेऽभिहितम् - “अपि चोपासनं निदिध्यासनं चेयत्यन्तर्णीतावृत्तिगुणैव क्रियाऽभिधीयते। तथा हि। लोके गुरुमुपास्ते राजानमुपास्त इत्यत्र यस्तात्पर्येण गुर्वादीननुवर्तते स एवमुच्यते। तथा ध्यायति प्रोषितनाथा पतिमिति या निरन्तरस्मरणा पतिं प्रति सोत्कण्ठा सैवमभिधीयते” इति। यद्यपि पुरश्चरणादौ जप्यमन्त्रावृत्तिसंख्येव प्रत्ययावृत्तेरियत्ता न क्कचिच्छ्रुता तथाऽपि यस्मिन्प्रतीके यद्देवतादृष्टिर्विहिता तत्प्रतीकं तद्देवतारूपमिति निरूढोऽभिमानो यावत्संपद्यते तावदावर्तयेत्। अत एव वार्तिककारैरुक्तम् –
“शास्त्रार्पितधियोपेत्य यत्तादात्म्याभिमानतः। चिरासनं भवेद्यत्र तदुपासनमुच्यते” इति।
यथा प्रबुद्धा अमात्याः कंचिद्राजकुमारं बालं राज्येऽभिषिच्य यावता कालेनायं सर्वासां प्रजानां राजेत्यभिमानेन तदाज्ञावशवर्तित्वं संपद्यते तावदप्रमत्तास्तं प्रयत्नेन पालयन्ति तद्वत्। संपन्ने तु प्रतीकविषये देवत्वाभिमाने स पुनर्नापैति। यथा जीर्णदेवालये पूजारहितामपि प्रतिमां दृष्ट्वा देवत्वबुद्धिरनुवर्तते तद्वत्। तस्मात्प्रतीके देवत्वाभिमानदार्ढ्यपर्यन्तमुपासीनस्य यथोक्तं फलं सिध्यति। इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्या- रण्यपरमेश्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीया- रण्यकभाष्ये सप्तमप्रपाठके सांहित्यामुपनिषदि तृतीयोऽनुवाकः॥ ३॥