०२

अथ सप्तमे द्वितीयोऽनुवाकः।

प्रथमानुवाकोक्तमन्त्रजपेन परिहृतविघ्नस्य पुरुषस्योपासनार्थं ब्रह्मावबोधार्थं च तत्प्रतिपादको ग्रन्थो वक्तव्यः। तस्य च ग्रन्थस्यार्थज्ञानप्रधानत्वात्वपाठे मा भूदौदासीन्यमित्येतदर्थं द्वितीयानुवाके शिक्षाध्यायोऽभिधीयते। भवत्वौदासीन्यमिति चेन्न। अनर्थप्रसङ्गात्।

“मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह। स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्” इत्यादिन्यायात्।

इन्द्रशत्रुवृत्तान्तश्च “त्वष्टा हतपुत्रः” इत्यनुवाके विस्पष्टमभिहितः। एवं तर्हि कर्मकाण्डेऽप्ययमध्यायो वक्तव्य इति चैद्बाढम्। अत एव काण्डद्वयशेषत्वा+द्देहलीप्रदीपन्यायेनोभयोः काण्डयोर्मध्येऽभिहितः। न चोभयशेषत्वेन वेदस्योपक्रम एव पठ्यतामिति वाच्यम्। उभयशेषस्यापि विद्यायां प्रयोजनाधिक्यद्योतनाय विद्याकाण्डे पठनीयत्वात्। कर्मकाण्डे क्कचित्स्वरवर्णादिव्यत्ययेन यथाशास्त्रमर्थानवबोधेऽपि प्रायश्चित्तेनानुष्ठानवैकल्यं परिहर्तुं शक्यम्। अत एव प्रायश्चित्ताज्याहुतिमन्त्र एवमाम्नायते - “अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु। अग्ने तदस्य कल्पय त्व ँ हि वेत्थ यथात *एतत्परिगणनं क्कचिन्नोपरभ्यते। +देहली सद्मद्वारसमीपतरभागस्तत्स्थानस्थो दीपो द्वारान्तः प्रदेशं तद्बहिर्भूतं चत्वरं च समुज्ज्वलयति। तथाऽयमध्यायः कर्मज्ञानकाण्डयोर्मध्येऽभिहित इति पर्यवसितम्।

[[493]]

थम्” इति। विद्याकाण्डे त्वयथाशास्त्रमर्थावबोधे सति वैकल्यं न समाधीयेत। न ह्यन्यथाबोधः प्रायश्चित्तेन परिहर्तुं शक्यते। रज्जुसर्पादिभ्रान्तेर्गायत्रीजपादिमिः परिहारादर्शनात्। अत एव कर्मस्विव विद्यायां वैकल्यपरिहाराय प्रायश्चित्तं किमपि नाऽऽम्नातम्। प्रत्युत विद्यामभ्यस्यतः पापे प्रसक्तावप्यन्यप्रायश्चित्ताभावः स्मर्यते – “यदि स्यात्पातकं किंचिद्योगी कुर्यात्प्रमादतः। योगमेव निषेवेत नान्यं मन्त्रं कदाचन” इति।

तस्माद्विद्यायामवैकल्याय यथाशास्त्रं बोद्धुमुपनिषत्पाठे प्रयत्नातिशयं विधातुमत्रैव शिक्षाध्यायोऽभिधीयते – ॐ शीक्षां व्या॑ख्यास्या॒मः। वर्णः॒ स्वरः। मात्रा॒ बलम्। साम॑ संता॒नः। इत्युक्तः शी॑क्षाध्या॒यः (१), इति।

शीक्षां पञ्च॑। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके द्वितीयोऽनु*वाकः॥२॥ “शिक्ष विद्योपादाने” इति धातुः। शिक्ष्यन्ते वेदनीयत्वेनोपदिश्यन्ते स्वरवर्णादयो यत्रासौ शिक्षा सैव शीक्षा तां विस्पष्टमा समन्ताव्द्याख्यास्यामः कथयिष्यामः अकारादिर्वर्णः। उदात्तादिः स्वरः। हृस्वदीर्घादिका मात्रा। स्पृष्टत्वमीषत्स्पृष्टत्वमित्यादिकः प्रयत्नो बलम्। अतिद्रुतत्वमतिविलम्बितत्वं च परिहृत्य यस्य यः काल उचितस्तावति काले तदुच्चारणं साम्यं तदेव सामशब्देनोच्यते। पूर्वोत्तरवर्णयोः संहिता संतानः। त एते वर्णादयः संतानान्ताः षडपि तत्तल्लक्षणलक्षिताः पठनीयाः। इत्यनेन प्रकारेण शिक्षारूपोऽध्याय उक्तः। वर्णादयः षडेव शिक्षणीया न त्वन्यः कश्चिच्छिक्षणीयोऽस्तीति द्योतयितुमध्यायोपसंहारः। अध्येतव्यः पठनीयो ग्रन्थोऽध्यायः। यद्यप्यत्र शीक्षादिशब्दानामेकश्रुत्याऽधीयमानत्वाद्व्याकरणोक्तप्रकृतिप्रत्ययादिप्रयुक्तस्वरो नोपलक्ष्यते तथाऽपि संप्रदायप्रसिद्धः स्वरस्तथैवाभ्यसनीयस्तस्य चार्थविशेषज्ञान उपयोगाभावेऽप्यनेन शीक्षाध्यायेन विधीयमानत्वाददृष्टोपयोगो भविष्यति। तच्चादृष्टमुपासनायां तत्त्वजिज्ञासोस्तत्त्वविद्यायां च प्रतिबन्धपरिहाराय संपद्यते। इति श्रीमत्यायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्य परमेश्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तमप्रपाठके सांहित्यामुपनिषदि द्वितीयोऽनुवाकः॥२॥

  • घ. पुस्तकेऽत्र प्रथमानुवाकसमाप्तिर्वर्तते। एवमग्रेऽपि तृतीयाद्यनुवाकसमाप्तिस्थले द्वितीयाद्यनुवाकसमाप्तिर्वर्तते। १. ख. तमतिमन्दम। २. ग. दिपदाना।

[[494]]