०१

[[453]]

कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। (तत्र शीक्षोपनिषत्संज्ञकसप्तमप्रपाठकस्याऽऽरम्भः ) प्रथमोऽनुवाकः।


(*) वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे। यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥ १॥ यस्य निश्वसितं वेदा या वेदेभ्योऽखिलं जगत्। निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् (१)॥२॥ तत्कटाक्षेण तद्रूपं दधद्बुक्कमहीपतिः। आदिशत्सायणाचार्य वेदार्थस्य प्रकाशने॥३॥ ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात्। कृपालुः सायणाचार्यो वेदार्थं वक्तुमुद्यतः॥४॥ व्याख्यातः पितृमेधान्तः कर्मकाण्डो नयैः स्फुटम्। अथोपनिषदं न्यायैर्व्याकुर्वे ब्रह्मबुद्धये॥५॥ अत्र२ ह्युपनिपच्छब्दो ब्रह्मविद्यैकगोचरः। तच्छव्दावयवार्थस्य विद्यायामेव संभवात्॥६॥ उपोपसर्गः सामीप्ये तत्प्रतीचि समाप्यते। सामीप्यात्तारतम्यस्य विश्रान्तेः स्वात्मनीक्षणात्॥७॥ त्रिविधः सदिधात्वर्थी विद्यायां संभविष्यति। श्रीमत्सुरेश्वराचार्यैर्विस्पष्टमिदमीरितम्॥८॥ “उपनीयेममात्मानं ब्रह्मापास्तद्वयं स्वतः। निहन्त्यविद्यां तज्जं च तस्माद्रुपनिषद्भवेत्॥९॥ निहत्यानार्थमूलां स्वाविद्यां प्रत्यक्तया परम्। गमयत्यस्तसंभेदमती वीपनिषद्भवेत्॥१०॥ प्रवृत्तिहेतूत्रिःशेषांस्तन्मूलोच्छेदकत्वतः। यतौऽवसादयेद्बिद्या तस्मादुपनिषन्मता।” इति॥११॥

[[454]]

यथोक्तविद्याहेतुत्वाद्ग्रन्थोऽपि तदभेदतः। भवेदुपनिषन्नामा लाङ्गलं जीवनं यथा॥१२॥

तत्र – विषयः कः फलं किं कः संबन्धः कोऽधिकारवान्। इत्याकाङ्क्षानिवृत्त्यर्थं चतुष्टयमुदीर्यते॥१३॥

अनन्यलभ्यो विषय इति हि विषयस्य लक्षणम्। औषधविशेषग्रहप्रचारसुशब्दनिर्णयादीनामायुर्वेदज्योतिःशास्त्रव्याकरणादिभिरेव लभ्यत्वात्तद्विषयत्वं दृष्टम्। अत्रापि तद्वदनन्यलभ्यमद्वैतम्। न खल्वद्वैतमात्मतत्त्वं वेदान्तव्यतिरिक्तेन केनचित्प्रमाणेन लभ्यते। भागान्तरे चाऽऽम्नायते – “नावेदविन्मनुते तं बृहन्तम्” इति। अनया श्रुत्या यथा वेदव्यतिरिक्तं प्रमाणं निषिध्यते तथा श्रुत्यन्तरेणोपनिषद्धतिरिक्तो वेदभागो निषिध्यते। तथा च वाजसनेयिन आमनन्ति – “तं त्वौपनिषदं पुरुषं पृच्छामि” इति। उपनिषत्स्वेवाधिगत औपनिषदः। यस्तु मानान्तरेण गम्यस्वं मन्यते स प्रष्टव्यः। किं प्रत्यक्षेणोतानुमानेनाऽऽहोस्विदागमेनेति। आद्येऽपि किं बाह्येन प्रत्यक्षेण किंवा मानसेन। तत्र बाह्यप्रत्यक्षनिषेधं तलवकारा आमनन्ति “न तत्र चक्षुर्गच्छति” इति। तत्रोपपत्तिं तैत्तिरीयाः कठाः श्वेताश्वेतराश्चाऽऽमनन्ति – “न संद्दशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्।” इति। संद्दशे सम्यग्द्रष्टुमस्य परमात्मनो रूपं नीलपीतह्रस्वाद्याकारं न तिष्ठति न विद्यते। अतः कश्चिदपि ब्रह्यादिस्तम्भान्ते जगति वर्तमानो जन्तुरेनं परमात्मानं चक्षुषा न पश्यति। चक्षुषो रूपैकविषयत्वं सार्वजनीनम्। तैर्थिकानां पामराणां चात्र विसंवादाभावात्। यथा रूपराहित्याच्चक्षुर्विषयत्वं नास्ति तथा शब्दादिराहित्याच्छ्रोत्रादिविषयत्वमपि नास्तीति कठैराम्रायते - “अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्” इति। तस्मान्न बाह्यप्रत्यक्षविषय आत्मा। मानसप्रत्यक्षमपि कीद्दशमिति वक्तव्यम्। किं ममाऽऽत्मा भद्रसेन इत्येवंरूपमुताहं मनुष्यो ब्राह्मणो ब्रह्मचारीत्येवंरूपमथवा मदीयोऽयं देहो देहस्याहं स्वामी चक्षुरादीन्द्रियैर्ज्ञाता वागादीन्द्रियैरभिवदनादिक्रियायाः कर्ता मनसा सुखदुःखयोर्भोक्ता धर्माधर्माभ्यां स्वर्गनरकयोर्गन्तेत्येवंरूपमाहोस्वित्सत्यं ज्ञानमनन्तं ब्रह्मैकमेवाद्वितीयमहमित्येवंरूपम्। नाऽऽद्यः। तस्य गौणात्मविषयत्वेन मुख्यात्मतत्वगोचरत्वाभावात्। त्रिविधो ह्यात्मा गौणत्मा मिथ्यात्मा मुख्यात्मा चेति। यथा त्रिविधः सिंहस्तद्वत्। तद्यथा- सिंहदेवदत्तयोर्भेदं पश्यन्नेव सिंहगतक्रौर्यशौर्यादिगुणानां देवदेत्ते सद्भावात्सिंहोऽयमिति व्यवहरति सोऽयं गौणः सिंहः। अरण्ये मन्दान्धकारे धावन्तं हरिणं द्दष्ट्रा भ्रान्त्या सिंहोऽयमिति निश्चित्य बिभेति सोऽयं मिथ्यासिंहः। अह्नि

[[455]]

स्फीतालोकमध्यवर्तिनं मृगेन्द्रं द्दष्टा सिंहोऽयमिति प्रतिपद्यते सोऽयं मुख्यः सिंहः। एवं सत्यत्र राजा भद्रसेने स्वस्माद्भेदं पश्यन्नेव धनरक्षणादिरूपं स्वकीयं गुणं तस्मिन्नवलोक्य ममाऽऽत्मा भद्रसेन इति प्रयुङ्क्तेऽतोऽयं गौणात्मा। नापि द्वितीयः। अहं मनुष्य इत्यादिप्रत्ययस्य देहगोचरत्वेन मिथ्यात्मपिषयत्वात्। द्विपात्तवाद्याकारतादात्म्यान्मनुष्यत्वाख्या महाजातिः। विशिष्टमातापितृजन्यत्वगम्या ब्राह्माणत्वाख्याऽवान्तरजातिः। उपनयनादिसंस्कारगम्यो ब्रह्माचारित्वाश्रम इत्येते स्थूलदेहधर्माः। स्थूलदेहस्य चानात्मत्वं चार्वाकव्यतिरिक्तानां सर्वेषामपि तैर्थिकानामविवादम्। तस्मादात्मदेहयोर्विद्यामानस्यैव भेदस्य प्रतीत्यभावादहं मनुष्य इति प्रत्ययो मिथ्यात्मविषयः। इदं च देहस्य मिथ्यात्मत्वं प्राणमयकोशावतारे प्रपश्चयिष्यते। नापि तृतीयः। तस्यापि लिङ्गदेहविषयत्वात्। तथा हि – अयं देहो मदीय इत्येवं स्वस्वामिभावः प्रतीयते। तत्र स्वं देह आत्मा तु स्वामी तयोः कर्मनिमित्तः संबन्धः। कर्मणां त पुण्यपापलक्षणानामनेकत्वात्तदुनुसारेणोच्चावचदेहान्पर्यायेण गृह्राति।

एतदेवाभिप्रेत्य भगवतोक्तम् – “वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि। तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही” इति।

तस्य च देहग्रहणस्य कर्मनिमित्तत्वं श्वेताश्वतरा आमनन्ति - “गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता। स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा प्राणाधिपः संचरति स्वकर्मभिः” इति। सत्त्वरजस्तमोगुणैरन्वयो यस्य जीवात्मनः सोऽयं गुणान्वयः। फलं सुखदुःखरूपं तस्य च कारणे पुण्यपापरूपकर्मणी तयोरयं कर्ता। स च कृतस्यैव कर्मण उपभोक्ता न त्वन्यस्य। कृतानां च कर्मणामनेकत्वात्तदनुसारेण बहुदेहस्वीकारादयं विश्वरुपः। गुणत्रयवशेन मार्गत्रयगामित्वात्त्रिवर्त्मा। सत्त्वगुणाधिक्ये सति यमनियमाद्याष्टाङ्गयोगमभ्यस्य सगुणब्रह्मोपासीन उत्तरमार्गेणार्चिरादिना ब्रह्मलोकं प्राप्नोति। रजोगुणाधिक्ये सति काम्यकर्माणि ज्योतिष्टोमादीन्यनुष्ठाय धूमादिना दक्षिणमार्गेण स्वर्गाख्यं सोमलोकं प्राप्रोति। तमोगुणाधिक्ये सति महापातकोपपातकानि कृत्वा नरकलोकं तृतीयमार्गेण प्राप्रोति। इत्थं प्राणानामधिपतिर्जीवात्मा स्वकीयैः कर्मभिर्मार्गत्रये संचरति। तस्य च जीवस्य स्वरूपं तत्रैवाऽऽम्रातम् - “अङ्गुष्ठमात्रो रवितुल्यरूपः संकल्पाहंकारसमन्वितो यः। बुद्वेर्गुणेनाऽऽत्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः” इति। हृदयपुण्डरीकमङ्गुष्ठपरिमितं तन्मध्ये व्यवस्थानाज्जीवोऽप्यङ्गुष्ठमात्रः। हृदि ह्येष आत्मेति

[[456]]

श्रुत्यन्तरादस्य हृदयेऽवस्थानं द्रष्टव्यम्। मनुष्याश्चाऽऽविद्वदङ्गनाविगोपालं कदाचिदात्मानमहमयमित्यवं हस्तेनाभिनीय प्रदर्शयन्तो हृदयदेशमेव स्पृशन्ति न तु शिरःपृष्ठपादादिप्रदेशम्। अतो हस्तिमशकादिनानाविधदेहसंचारित्वेन संकोचविकासयुक्तस्यापि जीवस्य हृदयपरिमाणमुपचर्याङ्गुष्ठमात्रत्वमुच्यते। स च सूर्यसद्दशः। यथा सूर्यः स्वमण्डलप्रकाशनाय मण्डलव्यतिरिक्तबाह्यं दीपादिप्रकाशं नापेक्षते तथा जीवोऽपि चेतनत्वात्स्वात्मावबोधनाय नान्यत्साधनमपेक्षते। ननु चक्षुराद्यपेक्षाराहित्येऽपि मनोपेक्षा विद्यते। अयमहं सुखी दुःखीत्यादिशब्दव्यवहारस्य ध्यानपूर्वकत्वात्। “यद्धि मनसा ध्यायति तद्वाचा वदति” इति श्रुतेर्वक्तृविवक्षितपूर्विका शब्दप्रवृत्तिरितिशास्त्रकृद्भिरुद्गोषणाच्च। भवत्वेवं शब्दव्यवहारो ध्यानपूर्वकः। तच्च ध्यानं पूर्वप्रतीते वाच्ये वस्तुनि योग्यशब्दप्रयोजनायैव प्रवर्तते। पूर्वमप्रतीते वस्तुन्येतादृशः शब्दो योग्य इति निर्णेतुमशक्यत्वात्। एवं सति जडेषु घटादिषु प्रवृत्तं मनः प्रथमं वक्तुं स्फोरयति। पश्चाद्योग्यं शब्दं ध्यायति। ततः पुमानभिवदति। चैतन्यात्मनि स्वत अव भासमाने शब्दविशेषनियमनायैव ध्यानापेक्षा। न तु स्फोरणाय। अन्यथा ध्यानवृत्तिरहितेषु क्षणेषु सुषुप्तिमूर्छामरणेभ्यः स्वात्मानुभवकृतं वैलक्षण्यं न स्यात्। लोकास्तु महदेव वैलक्षण्यं प्रतियन्ति। तस्माज्जीवात्मा लोकव्यवहारे स्वप्रकाशत्वाद्रवितुल्यरूपः। एतदेवाभिप्रेत्य वाजसनेयिनः समामनन्ति – “विज्ञातारमरे केन विजानीयात्” इति। स च जीवः संकल्पाहंकाराभ्यां समन्वितो व्यवहरसि। प्रयाससाध्यत्वविनश्वरत्वादिदोषैरसमीचीनेऽपि गृहक्षेत्रादौ तात्कालिकोपभोगाभासं दृष्ट्वा समीचीनमिदं गृहादिकमिति कल्पनं संकल्पः। तस्य च गृहादेरहं स्वामीत्येवमभिमानोऽहंकारः। अन्तःकरणस्येदमाकारा वृत्तिर्बहिर्मुखाऽहमाकारा वृत्तिरन्तर्मुखा ततो द्वे एव वृत्ती। तथाऽपीदंवृत्तेर्विषयबाहुल्यादहंवृत्तेश्च कालभेदेन पुनः पुनरावृत्तेरविच्छिन्नो व्यवहारः प्रवर्तते। तस्य च व्यवहर्तुश्चिदचिदात्मकत्वमुच्यते। बुद्वेर्गुणेनाऽऽत्मगुणेन चैव आराग्रमात्र इति। लयोदयरूपो बुद्वेर्गुणः। अहंकर्ता च सुप्तौ लीयते प्रबोधे च पुनरुदेति। स्वयंप्रकाशश्चाऽऽत्मनो गुणः। स च सूर्यद्दष्टान्तेनोपवर्णितः। एतेन गुणद्वयेन युक्तः। आराग्रमात्रः कृषिकाले बलीवर्दप्रतोदाय दण्डाग्रे स्थापितः सूक्ष्मलोह आरा तस्या अग्रं यथाऽत्यन्तसूक्ष्मं तथाऽयमध्यतिसूक्ष्मोऽन्यथा नाडीष्वप्रतिरुद्धसंचारासंभवात्सोऽयमीद्दशो जीवात्मा परमात्मापेक्षयाऽवरो निकृष्टः। सोऽपि प्राणिभिर्द्दष्टश्चक्षुषा रूपमिवाहंप्रत्ययेनानुभूतः। स्वप्रकाशस्यापि शब्दव्यवहारयोग्यत्वापादनेनानुभूत इत्युच्यते। तदिदं जीवस्य मानसप्रत्यक्षत्वम्। यद्यापि चिज्जडोभयात्मत्वादिवि

[[457]]

वेकः शास्त्रकृतस्तथाऽपि जीवस्वरूपमात्रं सर्वैरप्यहमित्यनुभूयत एव। तस्य च जीवस्य स्त्रीत्वादिजातिर्न स्वाभाविकी। किंतु स्थूलशरीरोपाधिकृता।

एतदपि तत्रैवाऽऽम्रातम् –

“नैव स्त्री पुमानेष नैव चायं नपुंसकः। यद्यच्छरीरमादत्ते तेन तेन स युज्यते” इति॥

तत्तन्नाम्रा व्यवह्रियत इत्यर्थः। किंचास्य कर्त्रात्मनः स्वरूपं मैत्रेयो अपि स्पष्टमामनन्ति - “अस्ति खल्वन्योऽवरो भूतात्माख्यः। योऽयं सितासितैः कर्मफलैरभिभूयमानः सदसद्योनिमापद्यते” इति। “अवाचीं वोर्ध्वां वा गतिं द्वंद्वैरभिभूयमानः परिभ्रमति” इति। पूर्वत्र “स वा एष शुद्धः पूतः” इत्यादिनोक्तो यः परमात्मा तस्मादन्योऽवरो निकृष्टोऽस्ति स च भूतात्माख्यः। सूक्ष्माणि पञ्च भूतानि लिङ्गदेहरूपेण विक्रियन्तेऽयःपिण्डेऽग्निवल्लिङ्गदेहे चिदात्मा संक्रामति। अतोऽयं लिङ्गदेहो भूतात्मेत्युच्यते। स च सितासितैः सुखदुःखरूपैः पुण्यपापकर्मफलैरभितः प्राप्यमाणः सद्योनिं ब्राह्मणादिरूपामसद्योनिं शूद्रादिरूपामापद्यते। एवमवाचीमधमां नारकीं वा गतिमूर्ध्वामुत्तमां स्वर्गरूपां वा गतिमापद्यते। द्वंद्वैः शीतोष्णमानावमानादिरूपैस्तिरस्क्रियमाणः पुनः पुनर्जायमानो म्रियमाणश्च परिभ्रमति। तस्य भूतात्मनो लिङ्गदेहप्रधानत्वात्तस्य च स्थूलदेहवन्मिथ्यात्मत्वात्तद्बोधकेनाहं कर्ता भोक्तेत्यनेन मानसप्रत्यक्षेणापि न मुख्यात्मलाभः। कर्त्रात्मनो विज्ञानमयस्य मिथ्यात्वमानन्दमयकोशवतारे प्रपञ्चयिष्यते। ननु ममाऽऽत्मा भद्रसेन इत्यनेन वाऽहं मनुष्य इत्यनेन वाऽहं कर्ता भोक्तेत्यनेन वा मुख्यात्मलोभो मा भूदहं ब्रह्मेत्यनेन तु मानसप्रत्यक्षेण मख्यात्मलाभ इति चतुर्थः पक्षोऽस्त्विति चेत्तत्र वक्तव्यं किमत्र ब्रह्मशब्देन सगुणं ब्रह्म विवक्षितं किंवा निर्गुणं ब्रह्मेति। सगुणत्वेऽपि किं प्राथमिकोऽहं ब्रह्मेतिप्रत्ययो ब्रह्मणि प्रमाणं ध्यानाभ्यासजन्यो वा। आद्ये तस्य शास्त्रजन्यत्वान्न प्रत्यक्षेऽन्तर्भावः। मानसप्रत्ययत्वमात्रेण प्रत्यक्षत्वे धर्मादेरपि प्रत्यक्षत्वप्रसङ्कः। द्वितीये मृतपुत्रसाक्षात्कारवद्भावनाजन्यत्वान्न तस्य प्रामाण्यमस्ति।

अत एव वार्तिककारा आहुः – “भावनाजं फलं यत्स्याद्यच्च स्यात्कर्मण फलम्। न तत्स्थास्न्विति मन्तव्यं पण्यस्त्रीसंगतं यथा” इति॥ निर्गुणब्रह्मणि तु यः साक्षात्कारस्तस्य मानसप्रत्यक्षत्वेऽपि शास्त्रपूर्वकत्वाद्दागम एवान्तर्भावः। तस्मान्न प्रत्यक्षेण ब्रह्मात्मलाभः। नाप्यनुमानेन तल्लाभः संभवति हेतुदृष्टान्तयोरभावात्। अत एवामृतबिन्दूपनिषद्याम्रायते - “निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम्” इति। निर्धर्मकत्वान्न तत्र हेतुः संभवति। अद्वितीयत्वाच्च न दृष्टान्तः।

[[458]]

ननु जन्मादिसूत्रे भाष्यकारा अनुमानमङ्गी चक्रुः। सत्सु तु वेदान्तवाक्येषु जगती जन्मादिकारणवादिषु तदर्थग्रहणदार्ढ्यायानुमानमपि वेदान्तवाक्याविरोधे प्रमाणं भवन्न निवार्यते श्रुत्यैव च तर्कस्याभ्युपेतत्वात्। “श्रोतव्यो मन्तव्यः” इति श्रुतिरिति। नैष दोषः। ब्रह्मणि प्रमाणं वेदान्तवाक्यान्येव पुरुषबुद्धिस्वास्थ्याय त्वनुमानमप्यस्त्विति भाष्याभिप्रायः। तत्रानुमानमारोपितौ हेतुदृष्टान्तावुपजीव्य प्रवर्तते। ब्रह्मसिद्विरपि तेनैवास्त्विति चेन्न। तद्विशेषासिद्वेः। क्षित्यादिकं सकर्तृकं कार्यत्वाद्घटवदित्यनुमानेनेश्वरमात्रसिद्धावपि सत्यज्ञानानन्ताद्वितीयत्वलक्षणो विशेषो न सिध्यति। तस्मान्नानुमानेनापि ब्रह्मलाभः। आगमेऽपि कर्मकाण्डस्य साध्यसाधनभावबोधमात्रपर्यवसायित्वान्न तत्र ब्रह्मलाभशङ्काऽप्यस्ति।

ननु ब्रह्मसिद्धिकारैरेवमुक्तम् – “सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते। प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते” इति॥ युक्तं चैतत्। सञ्चिदानन्दरूपं हि ब्रह्म तत्र प्रमाणैः प्रमीयमाणेषु सर्वेष्वपि वस्तुषु सत्त्वं भानमानन्दं (न्दनं) च विस्पष्टमतो ब्रह्म सर्वप्रत्ययवेद्यम्। बाढम्। सप्रपञ्चमेव ब्रह्म सर्वैः प्रत्ययैर्वेद्यते। न रूपरसगन्धादिविषयान्परित्यज्य चक्षुरादयः शुद्धं तत्त्वं गृह्रन्ति। अन्यथा गुरुशास्त्रनैरपेक्ष्येणैव सर्वे जना मुच्येरन्। पुरुषार्थस्तु निष्प्रपञ्चब्रह्मवेदनादेव। तद्बोधद्वारत्वेन तु शास्त्रेषु तत्र तत्र सप्रपञ्चं ब्रह्मोपन्यस्यते। तच्च पुरुषार्थभूतनिष्प्रपञ्चब्रह्मवेदनं शास्त्रोणैव जन्यते। तदपि तैरेवोक्तम् –

“प्रविलीनप्रपञ्चेन तद्रूपेण न गोचरः। मानान्तरस्येति मतमाम्रायैकनिवन्धनम्” इति॥

तस्मादद्वितीयब्रह्मात्मतत्त्वमनन्यलभ्यत्वादुपनिषदो विषय इति सिद्धम्। एतदेवाभिप्रेत्य भगवान्बादरायणः सूत्रयामास – “शास्त्रयोनित्वात्” (१ -१-३) इति। तस्य च सुत्रस्य द्वितीयवर्णके योनिशब्दस्य ज्ञप्तिकारणत्वमर्थः। ततः शास्त्रप्रमाणत्वादित्युक्तम्। तत्रायं न्यायसंग्रहः – “अस्त्यन्यमेयताऽप्यस्य किंवा वेदैकमेयता। घटवत्सिद्धवस्तुत्वाद्ब्रह्मान्येनापि मीयते॥ रूपलिङ्गादिराहित्यान्नास्य मान्तरयोग्यता। तं त्वौपनिषदेत्यादौ प्रोक्ता वेदैकमेयता” इति॥

[[459]]

को विषय इत्यस्योत्तरमुक्तम्। अथ किं फलमित्यस्योत्तरमुच्यते – उक्तविषयस्याद्वितीयब्रह्मात्मतत्त्वस्याभिव्यक्तिः साक्षात्फलम्। तच्च बृहदारण्यके दर्शितम् – “आत्मन्येवाऽऽत्मानं पश्यति सर्वमात्मानं पश्यति” इति। पूर्वोक्तो यो गौणात्मा पुत्रभृत्यादिर्यौ च मिथ्यात्मानौ स्थूलदेहलिङ्गदेहौ तेभ्यो व्यतिरिक्तः सांख्यादिसंमतः पुरुषश्चिद्रूपः साक्षी मुख्यात्मा तस्मिन्नेवाऽऽत्मनि जगत्कारणं परमात्मानं वेदान्तमहावाक्येन पश्यति। आत्मन्यात्मानमित्याधाराधेयभेदो राहोः शिर इतिवदेकस्मिन्नेव वस्तुन्यौपचारिकः। जीवात्मानमेव परमात्मत्वेन वेदान्तमहावाक्यैः पश्यतीत्यर्थः। परमात्मा हि सर्वस्य जगत उपादानम्। न ह्युपादानव्यतिरेकेण कार्यं किंचिद्वस्त्वस्ति। मृत्सुवर्णादिव्यतिरेकेण घटकुण्डलादिवस्तूनामदर्शनात्। अतो जगत्कारणं परमात्मानं स्वात्मत्वेन पश्यज्जगदपि सर्वं स्वात्मत्वेनैव पश्यति। न्यायवैशेषिकादिशास्त्राणि मिथ्यात्मन्येव कर्तृत्वादियुक्त उपक्षीणानि। सांख्यशास्त्रं यद्यापि चिदात्मनि मुख्ये प्रवृत्तं तथाऽपि तावत्येव पर्यवसितम्। वेदान्तास्तु तस्य मुख्यात्मन ईश्वरत्वमशेषजगद्रूपत्वं च प्रतिपादयन्तीति विशेषः। एतादृशाद्वितीयत्वबोधः प्रथमफलम् । तद्बोधादूर्ध्वमविद्या निवर्तते। एतञ्चाऽऽथर्वणिकैराम्रायते - “एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य” इति। गुहा बुद्विस्तस्यां निहितं साक्षित्वेनावस्थितमेतद्ब्रह्मात्मतत्त्वं यो वेद स पूमानिह देहे वर्तमान एव सन्नविद्याग्रन्थिं विश्लेषयति। हे सोम्येत्यङ्गिरा गुरुः शिष्यं शौनकं संबोध्य ब्रूते। यथा लोके साकल्येन राहुग्रस्तश्चन्द्रमाः स्वकीयोज्ज्वलत्वस्याऽऽच्छादितत्वेन स्वयं मलिनोऽम्बरे भासमानो राहुं चावभासयंस्तेन राहुणा तादात्म्यं प्राप्त इवावभासते। एवमयमद्वयानन्दैकरसश्चिदात्मा स्वयमनादिरूपाविद्यापटलेनाऽऽवृतः सन्नद्वितीयत्वस्याऽऽनन्दैकरसत्वस्य चाऽऽच्छादितत्वेन बहुविधद्वैतरूपेण जगता युक्तो दुःखी स्वचैतन्येन स्वात्मानमविद्यां चावभासयन्नविद्यया तादात्म्यं प्राप्त इवाहमज्ञ इत्येकीकृत्य व्यवहरति। सोऽयमेकीकारोऽविद्याग्रन्थिः। स त बोधेन विकीर्णो भवति। यथा राहुणा विमुक्तं चन्द्रमण्डलमुज्ज्वलं भासते तथा बोधेनाऽऽच्छादिकायामविद्यायां निवृत्तायामद्वितीयत्वमानन्दैकरसत्वं चाऽऽविर्भवति। तदिदमविद्याग्रन्थेर्विकीर्णत्वम्।

अयमेवार्थः पुराणेऽपि स्मर्यते – “तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते। योगी मायाममेयाय तस्मै विद्यात्मने नमः” इति॥

एकस्यैव भावरूपाज्ञान्स्य स्वाश्रयं प्रत्यावरकत्वाकारेणाविद्यात्वम्। विचित्रकार्यजनकत्वाकारेण मायात्वम्। अतोऽविद्याया इव मायाया अपि तत्त्वज्ञानं निवर्त

[[460]]

कम्। तस्मातत्त्वविदो नाद्वितीयानन्दैकरसस्वभावः कदाचिदप्याव्रियते। नापि जन्मान्तरादिकं नूतनकार्यमुत्पद्यते। एवमविद्याग्रन्थौ विकीर्णे सति ततो हृदयग्रन्थ्यादयोऽपि निवर्तन्ते।

तदपि तत्रैवाऽऽम्रातम् –

“भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे” इति॥

परमुत्कृष्टं जगत्कारणमज्ञानमप्यवरमधमं यस्मात्परमात्मनः सोऽयं परावरः। यद्वा परश्चासाववरश्चेति परावरः सर्वात्मक इत्यर्थः। परावरे तस्मिन्परमात्मनि साक्षात्कृते सति हृदयग्रन्थिर्भिद्यते। हृदयमन्तःकरणं लिङ्गशरीरं तञ्चैतन्यच्छायाव्याप्तत्वेन चेतनमहं कर्तेति प्रतिभासमानं तर्कशास्त्रे पूर्वमीमांसायां च मुख्यात्मत्वेनाङ्गीकृतम्। वेदान्तदृष्ट्या स्थूलदेहवन्मिथ्यात्मरूपं तेन त्दृदयेन सह चिदानन्दैकरसस्याऽऽत्मनो योऽयमेकीभावभ्रमः सोऽयं हृदयग्रन्थिः। अज्ञातस्य शुक्तिरूपस्याऽऽरोपितेन रजतेन सह यथैकीभावस्तद्वदुरुशास्त्रोपदेशरहितः सर्वोऽपि जन्तुरज्ञानावृतचिदानन्दैकरसमात्मतत्त्वं सूक्ष्मभूतकार्यं कर्तृत्वादिधर्मोपेतं त्हृदयं च विवेक्तुमशक्नुवन्नेकीकृत्याहं कर्तेत्यशेषस्वरूपविवक्षा व्यवहरति।सोऽयं हृदयग्रन्थिस्तत्वदर्शनेन भिद्यते विविच्यते । न च तत्त्वविदोऽपि यथापूर्वमहं कर्तोति व्यवहारो दृश्यत इति वाच्यम्। सत्यपि व्यवहारे यथापूर्वत्वाभावात्। अत एव श्रीमच्छारीरकमीमांसायां भगवद्भाष्यकारा आहुः - “नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वम्। यस्य तु यथापूर्वं संसारित्वं नासाववगतब्रह्मात्मभावः” इति।

उपदेशसाहस्र्यामप्युक्तम् – “आत्मज्ञस्यापि यस्य स्याद्धानोपादानतामतिः। न मोक्षार्हः स विज्ञेयो वान्तोऽसौ ब्रह्मणा ध्रुवम्” इति॥

अहं कर्तेतिव्यवहारस्तु चिदात्मानं बुद्ध्या विविच्यापि कर्तुं शक्यते। अहंशब्दार्थस्य त्हृदयस्य तन्निष्ठकर्तृत्वधर्मस्य चा (च?) विद्यमानत्वात्। एतदपि साहस्र्यामभिहितम् – “अहमित्यात्मधीर्या च ममेत्यात्मीयधीरपि। अर्थशून्ये यदा यस्य स आत्मज्ञो भवेत्तदा” इति॥

१. ग. च्छायया व्या। २. क.ङ. नं शा। ३. क. ख. ङ. वेकम। ४ ख. पूर्वसं। ५. क. ख. ङ. पूर्वसं।

चिदात्मत्दृदययोस्तादात्म्यभ्रमरूपः पूर्वसिद्धोऽर्थस्तेनार्थेन शून्ये केवलहृदयवि

[[461]]

वक्षापूर्विके इत्यर्थः। न हि भ्रमहेतावविद्यायां निवृत्तायां भ्रमः संभवति। न खलु स्वप्ने काशीं प्रत्यर्धमार्गं गत्वा प्रबुद्वः पुरुषो निपुणतरोऽपि परेद्युः पुरतो गन्तुं प्रभुर्भवति। तस्मादृदयग्रन्थिभेदो निर्विघ्नः सिद्वः। त्दृदयग्रन्थौ भिन्ने सति सर्वसंशयाश्छिद्यन्ते। अयमात्मा स्थूलदेहरूपो वा सूक्षमदेहरूपो वा ताभ्यामतिरिक्तो वाऽतिरिक्तत्वेऽप्यणुपरिमाणो वा मध्यमपरिमाणो वा सर्वगतो वा जडो वा द्रव्यबोधात्मको वा चिद्रूपो वेश्वरादन्यो वेश्वर एव वा प्रपञ्चः सत्यो वा मिथ्या वा मोक्षसाधनं कर्माणि वा ज्ञानं वेत्यादिका अनन्ताः संशयाः स्वबुद्धिदोषजन्या बहुविधशास्त्राभ्यासेनोत्पादिताश्च सर्वैर्बहिर्मुखैरनुभूयन्ते। ते सर्वेऽपि त्दृदयग्रन्थिपूर्वकाः। असति हृदयग्रन्थौ सुषुप्तिमूर्छासमाधिष्वदर्शनात्। तथा जागरणेऽप्यद्वितीयचिदानन्दैकरसमात्मानमनुभवतोऽन्तर्निपुणस्य हृदयग्रन्थिरहितस्य शास्त्रसहस्रैरपि न ते संशया उत्पादयितुं शक्यन्ते। संशयेषु च्छिन्नेषु ज्ञानस्य फलप्रतिबन्धहेत्वभावादागामिजन्मकारणानि पूर्वानुष्ठितानि पुण्यपापरूपाणि सर्वाणि कर्माण्यपि क्षीयन्ते। यथा गृहस्थे प्रवृत्तानि देवर्षिपितृसंबन्धीनि त्रीण्यृणानि लैकिका गृहक्षेत्रादिविवादाः पारिव्राज्ये सति निवर्तन्ते तद्वत्। युक्तं चैतत्। कर्त्रात्मनिष्ठानि हि कर्माणि। स च कर्त्रात्मा  यावच्चिदात्मना सहैकीभूतस्तावत्कर्माणि चिदात्मानं संस्पृशन्तु। विवेकेन त्वपाकृते कर्त्रात्मसंबन्धे कथं नाम तानि चिदात्मानं संस्पृशेयुः।

एतच्च भगवता विस्पष्टमुक्तम् – “अधिष्ठानं तथा कर्ता करणं त पृथग्विधम्। विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्॥ शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः। न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः॥ तत्रैवं सति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः” इति॥

अधिष्ठानं स्थूलदेहः। तथा कर्ता चैतन्यच्छायोपेतो लिङ्गदेहः। करणानि लिङ्गदेहावयवभूतानि चक्षुरादीनि। प्राणवायुकार्यदर्शनश्रवणगमनादिरूपा विविधा चेष्टा। इन्द्रियप्रेरकमादित्यादिदेवतारूपं दैवम्। शरीरादिसाध्यस्य पुण्यस्य पापस्य चाधिष्ठानादयः पञ्च हेतवः। न तु चिदात्मा। एवं सत्यात्मस्वरूपमज्ञात्वा भ्रान्तैस्तत्र कर्तृत्वमारोप्यते।

१ ग. णि ज्ञा। २ ग. न चेत्या। ३. क. ङ. विधा शा। ४ दृ गरेऽप्य। ५. घ निष्टस्य। ६. ख. स्त्रशनैर। ७. क. ख. ग. दृ. कर्ताऽत्मा।

[[462]]

“यस्य नाहं कृतो भावो बुद्विर्यस्य न लिप्यते। हत्वाऽपि स इमाल्ँ लोकान्न हन्ति न निबध्यते”॥

यस्य तु तत्त्वविदो भावः सत्तास्वभावश्चिदात्मा नाहं कर्तेतिप्रत्ययेन विषयीकृतो हृदयग्रन्थेर्भिन्नत्वात्। अत एवाहमित्यात्मधीरर्थशून्येति साहस्रीवचनं पूर्वमुदाहृतम्। केवलं लिङ्गदेहमेवाभिप्रेत्याहं कर्तेति तत्त्वविद्व्यवहरति। अत एव बुद्वौ लेपो न विद्यते। लिङ्गदेहृकृतैः कर्मभिर्जन्मान्तरशङ्कालेपबाधे संशयविपर्यययोरभावान्नास्य बुद्विर्लिप्यते। यद्यप्येतादृशस्य योगिनो रागद्वेषादिराहित्येन हननार्था प्रवृत्तिरेव न संभवति। तथाऽपि राज्येऽधिकृतस्य क्षत्रियस्यार्जुनस्य दुष्टशिक्षाशिष्टप्रतिपालनयोः कर्तव्यत्वेन तत्र प्रवृत्तिः संभवत्येव। यथा योगिन आहारनिद्रादौ योगाभ्यासे वा प्रवृत्तिस्तद्वत्। अनेनैव न्यायेन कौषीतकिवाक्यमपि नेतव्यम्। तत्र ह्येवमान्नायते - “स यो मां विजानीयान्नास्य केनचन कर्मणा लोको मीयते न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणहत्यया” इति। अत्र ह्येवं संभावना द्रष्टव्या। क्षत्रियस्य पुत्रः कश्चित्स्वमातृपित्रादिकं स्वगृहेऽवस्थाप्य तत्पोषणार्थं परराष्ट्रे गत्वा राज्ञः समीपे जीवितं गृहीत्वा स्वामिकार्यार्थं धाटीमुखेन रात्रौ समागत्य विचारमन्तरेण स्वमात्रादीन्मारितवान्। यथा जमदग्रेराज्ञया परशुरामः स्वमातरमेव जघान तद्वत्। अतस्तत्त्वविदोऽप्यधिकारविशेषेणैतादृशं संभाव्यते। तच्च तत्त्वदृष्ट्याऽन्यकृतत्वान्न तस्य जन्महेतुः। अन्यकृतत्त्वं च केनचिन्मन्त्रेणोच्यते - “कामोऽकार्षीत्कामः करोति नाहं करोमि कामः कर्ता नाहं कर्ता कामः कारयिता नाहं कारयिता” इति। अयं मन्त्रो विवेकिनं प्रति कामात्मनोः संबन्धाभावं बोधयन्नविवेकिनः प्रायश्चित्तार्थो भवति। ब्रह्मविदोऽपि लोकव्यवहारमनुसरतः कामपुरःसरा प्रवृत्तिः संभवति। अत एवार्जुनं प्रति भगवतोक्तम् – “लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि” इति।

तस्माद्युद्धप्रसक्तियुक्तस्य क्षत्रियस्य “हत्वाऽपि स इमान्” इत्यादिभगवद्वाक्यं कौषीतकिवाक्यं त् ब्रह्मवेदनान्निर्लेपत्वपरम्। इतरस्यापि लोकव्यवहारे हत्या मानसी वाचिकी वा प्रसक्तेति निर्लेपत्वं तेन वाक्यद्वयेन प्रतिपाद्यताम्। जन्मान्तरकृतैरेव विद्यादिभिर्निर्लेपत्वं वाक्यद्वयेनाभिधीयते। सत्स्वपि जन्मान्तरकृतपापेषु परिपक्कैरीश्वरार्पितैः पुण्यकर्मभिर्ब्रह्मविद्योत्पद्यत एव। पूर्वकृतपापाभावे च ब्रह्मविदां शरीरे रोगादिकं नोपलभ्येत। न च ब्रह्मविद्या प्रायश्चित्तत्वेन पापस्य निवर्तिका। किंतु प्रत्यगात्मनोऽसङ्गत्वबोधनेन पूर्वसिद्वमेव पापराहित्यमभिव्यनक्ति। तच्च नित्यसिद्वं पापराहित्यमेवमाम्रातम् - “य आत्माऽपहतपाप्मा” इति। तद्वत्पुण्यराहित्यमप्यसङ्गत्वादेव नित्यसिद्वम्। तदवबोधेन जन्मान्तरकारणानि काम्यानि पुण्यान्यपि कर्माणि क्षीयन्ते।

[[463]]

अत एव वाजसनेयिन आमनन्ति - “एतमु हैवैने न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः” इति। एतमेव ब्रह्मविदमेते मानस्यौ चिन्ते न तरतो न प्राप्नुतः। कीदृश्याविति ते अभिधीयेते। इति शब्दः कर्महेतुभूतरागद्वेषप्रदर्शनार्थः। शत्रुं हनिष्यामीत्येतादृशो यो द्वेषोऽस्त्यतो द्वेषादहमभिचारादिना वधरूपं पापमकार्षम्।स्वर्गं प्राप्स्यामीत्येतादृशो यो रागोऽस्त्यतो रागादहं ज्योतिष्टोमादिरूपं कल्याणमकार्षम्। तत्र पापेन नरको भविष्यतीत्येवं विषादरूपा चिन्तैका। स्वर्गः कदा भविष्यतीत्येवं विलम्बासहिष्णुत्वरूपा चिन्ता द्वितीया। उभे अप्येते चिन्ते एष ब्रह्मविद्युपलङघयति। कृताकृते पुण्यपापे नैनं क्लेशयतः। अज्ञानिनं तु प्रत्यवायः कृतस्तपति। पुण्यं त्वकृतं संतपति। न त्वसावुभयविधः संतापो ब्रह्मविदोऽस्ति। तदेवं जन्मान्तरकारणानि कर्माणि क्षीयन्त इति सिद्धम्। इह जन्मन्यपि हर्षशोकौ क्षीयेते। तथा च कठा आमनन्ति - “अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति” इति। आत्मानमधिकृत्य वर्तत इत्यध्यात्मं तथाविधो योगश्चित्तैकाग्र्यं तस्याधिगमः प्राप्तिस्तेन देवं स्वयंप्रकाशं परमात्मानं मत्वा साक्षात्कृत्य हर्षशोकौ जहाति परित्यजति। न तावदस्य हर्षहेतुरस्ति। द्विधा हि हर्षहेतुः। समीचीनधनादिलाभो विस्मयहेतुरणिमादिसिद्धिश्च। समीचीनत्वबुद्विस्तु न क्काप्यस्य विद्यते।

तदुक्तं वासिष्ठरामायणे – “न केचन जगद्भावास्तत्वज्ञं रञ्जयन्त्यमी। नागरं नागरीकान्तं कुग्रामललना इव” इति॥

विस्मयोऽप्यस्य न क्कापि संभवति। तदपि तत्रैवोक्तम्- “अपि शीतरुचावर्क उष्णे पीयूषमण्डले। अप्यधः प्रसरत्यग्नौ जीवन्मुक्तो न विस्मयी ॥ चिदात्मन इमा इत्थं प्रस्फुरन्तीह शक्तयः। इत्यस्याऽऽश्चर्यजालेऽपि नाभ्युदेति कुतूहलम्” इति॥

शोकस्य तु पुत्रमित्रमरणादिकं निमित्तम्। तच्च नाद्वितीयमात्मानमनुभवनः संभवति॥ तदनुभवश्चाऽऽचार्यैरुदात्दृतः – “अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित्। न तं पश्यामि यस्याहं तं न पश्यामि यो मम” इति।

सोऽयं हर्षशोकपरित्यागो धीरस्यैव न त्वितरस्येत्यभिप्रेत्य धीर इत्युक्तम्।

[[464]]

त्रिविधो हि ब्रह्मवित्। लोकव्यवहारप्रधानो विवेकप्रधानः समाधिप्रधानश्चेति। आरब्धकर्मवशाद्राज्यादिषु योऽधिकारी स व्यवहारप्रधानः। स च मूढवत्तात्कालिकाभ्यां हर्षशोकाभ्यामभिभूयत एव। तमेतमभिलक्ष्य भाष्यकारा आहुः - “पश्वादिभिश्चाविशेषात्” इति। राज्याधिकारवशादेव कृष्णेन बोधितोऽर्जुनो वसिष्ठेन बोधितो रामश्च व्यावहारिकहर्षं शोकं च प्राप्तवन्तौ। विवेकप्रधानस्तु धीरो भूत्वेन्द्रियाणि विजित्य तदा तदा प्रसक्तौ हर्षशोकौ विवेकेन परित्यजति। समाधिप्रधानस्य तु हर्षशोकप्रसङ्ग एव नास्ति। ईदृशमेव विषयीकृत्याऽऽम्रातम् - “पर्याप्तकामस्य कृतात्मनश्च १ इहैव सर्वे प्रविलीयन्ति कामाः” इति। अन्तर्निष्ठ आत्मानमेव कामयते स चाऽऽत्मा नित्यप्राप्तत्वात्सर्वदा स्फुरतीति तदा तदा न विशेषेण कामयितव्यो भवति। अतोऽयमन्तर्निष्ठः पर्याप्तकामः। स च कृतात्मा नियमितान्तःकरणः। अतो बाह्यं न पश्यति। कुतस्तस्य कामः स्यात्। तथा सति कामयितव्यस्य कस्याप्यभावान्निरिन्धनाग्रिवत्सर्वे कामाः प्रलीयन्ते । क्रोधलोभादीनां काममूलत्वात्कामलयेनैव तल्लयः। कामितार्थविघाते हि क्रोध उत्पद्येत। तच्च स्मर्यते - “कामात्क्रोधोऽभिजायते” इति। सोऽयमीदृशः कामक्रोधाद्यरिषड्वर्गरहितोऽन्तर्निष्ठो ब्रह्मविदामुत्तमः। स चैवमाम्नायते - “आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः” इति। आत्मन्येव क्रीडा यस्यासावात्मक्रीडः। यथा लौकिकः पुरुषो द्यूतादौ स्वस्य जयं परस्य पराजयं चैवान्विच्छन्क्रीडति तथा ब्रह्मवित्पुमानात्मनः स्वप्रकाशत्वाद्वितीयत्वादिसाधकश्रुतियुक्तीनां प्राबल्यं तद्विरुद्धानां दौर्बल्यं चान्विच्छन्क्रीडति। यथा च लौकिकः पुरषार्थसिद्वये संध्यावन्दनादिक्रियावांस्तथा ब्रह्मविद आत्मरतिरेव क्रिया न तु बाह्यक्रिया काचिदस्ति। तथा चाऽऽरुण्युपनिषद्युक्तम् - “संधिं समाधावात्मन्याचरेत्” इति। परमहंसोपनिषद्यपि - “परमात्मात्मनोरेकत्वज्ञानेन तयोर्भेद एव विभग्नः सा संध्या सर्वान्कामान्परित्यज्याद्वैते परमे स्थितिः”। एवं सत्यस्य लौकिकवैदिककर्तव्याभावादयं कृतकृत्यः। एतदपि परमहंसोपनिषद्युक्तम् - “यत्पूर्णनन्दैकबोधस्तद्ब्रह्यैवाहमस्मीति कृतकृत्यो भवति” इति।

भगवताऽप्युक्तम् – “यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते” इति।

स्मृत्यन्तरं च – “ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः। नैवास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित्” इति।

[[465]]

कृतकृत्यस्य १ स्वरूपं तृप्तिदीप उदाहृतं विस्पष्टम् – “ऐहिकामुष्मिकव्रातसिद्धयै मुक्तेश्च सिद्धये। बहु कृत्यं पुराऽस्याभूत्तत्सर्वमधुना कृतम्। तदेतत्कृतकृत्यत्वं प्रतियोगिपुरःसरम्। अनुसंदधदेवायमेवं तृप्यति नित्यशः। दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया। परमानन्दपूर्णोऽहं संसरामि किमिच्छया। अनुतिष्ठन्तु कर्माणि परलोकयियासवः । सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथम्। व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा। येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः। निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च। द्रष्टारश्चेत्कल्पयन्ति किं मे स्यादन्यकल्पनात्। गुञ्जापुञ्जादि दह्येत नान्यारोपितवह्निना। नान्यारोपितसंसारधर्मानेवमहं भजे। शृण्वन्त्वज्ञाततत्त्वास्ते जानन्कस्माच्छृणोम्यहम्। मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः। विपर्यस्तो निदिध्यासेत्किं ध्यानमविपर्यये। देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम्। अहं मनुष्य इत्यादिव्यवहारो विनाऽप्यमुम्। विपर्यासं चिराभ्यस्तवासनातोऽवकल्पते। आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते। कर्माक्षये त्वसौ नैव शाम्येद्धयानसहस्रतः। विरलत्वं व्यवहृतेरिष्टं चेद्धयानमस्तु ते। अबाधिकां व्यवहृतिं पश्यन्ध्यायाम्यहं कृतः। विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम। विक्षेपो वा समाधिर्वा मनसः स्याद्विकारिणः। नित्यानुभवरूपस्य को मेऽत्रानुभवः पृथक्। कृतं कृत्यं प्रापणीयं प्राप्तमित्येव निश्चयः। व्यवहारो लौकिको वा शास्त्रीयो वाऽन्यथाऽपि वा॥

[[466]]

ममाकर्तुरलेपस्य यथारब्धं प्रवर्तताम्। अथवा कृतकृत्योऽपि लोकानुग्रहकाम्यया॥ शास्त्रीयेणैव मार्गेण वर्तेऽहं का मम क्षतिः” इति।

तस्यैतस्य कृतकृत्यस्य योगिनः सर्वदा मनस्यानन्द एवाऽऽविर्भवति। स चैवमाम्नायते - “रसो वै सः। रस ँ ह्येवायं लब्ध्वाऽऽनन्दी भवति” इति। स परमात्मा रसो वै परमानन्दस्वाभाव एव। तमेतं रसं परमानन्दस्वभावं परमात्मानं लब्ध्वा साक्षात्कृत्यायं योगी स्वमनस्यानन्दी भवति। विद्याजन्येन हर्षेण युक्तो भवति। हर्षशोकौ जहातीत्यत्र विषयभोगजन्यो हर्षो निषिद्धः। न तु विद्याजन्यः। तं च विद्याजन्यं हर्षश्रुतिः सामोदाहरणेन स्वष्टी चकार - “इमाल्ँ लोकान्कामान्नी कामरूप्यनुसंचरन्। एतत्साम गायन्नास्ते हा३वु हा३वु हा३वु। अहमन्नमहमन्नमहमन्नम्। अहमन्नादोऽ३हमन्नादोऽ३हमन्नादः। अह ँ श्लोककृदह ँ श्लोककृदह ँ श्लोककृत्” इत्यादि। ब्रह्मादीनां तिर्यग्रूपगोमहिषादिपर्यन्तानां १ प्राणिनां मध्ये येन येन यदन्नं भुज्यते तन्मुखेन तदन्नं ब्रह्मविदेव भुङ्के। सर्वदेहानां स्वकीयत्वात्।

तदुक्तमुपदेशसाहस्र्याम् – “ब्रह्माद्याः स्थावरान्ता ये प्राणिनो मम पूः स्मृता। कामक्रोधादयो दोषा जायेरन्मे कृतोऽन्यतः” इति। एवं च सति काम्यमानं सर्वमन्नमस्यास्तीति कामान्नी। अनेनैव न्यायेन देवमनुष्यादिरूपाणां सर्वेषां स्वकीयत्वात्कामरूपित्वम्। तथा सर्वलोकसंचारश्च। साम्नि त्वहोशब्दस्य गानार्थेन वर्णविकारेण हा३वुशब्दनिष्पत्तिः। एकदेहमात्रपरिच्छिन्नस्य ब्रह्मात्मत्वावबोधमात्रेण सर्वात्मकत्वलाभरूपमाश्चर्यमहोशब्दो ब्रूते। आदरार्थस्त्रिरभ्यासः। सर्वात्मत्वमेवोत्तरवाक्यैरुदाह्रियते। यदन्नं व्रीहियवगोधूमादिविकाररूपं यस्त्वन्नादो ब्राह्मणक्षत्रियादिरूपो भोक्ता यश्च श्लोककृत्काव्यनाटकादिकर्ता तत्सर्वमप्यहमेव। सर्वस्यापि ज्ञानसन्मात्ररूपत्वान्नामरूपविकाराणां च वाचारम्भणमात्रत्वात्। अस्मिन्नर्थे संशयनिवृत्त्यर्थस्त्रिरभ्यासः। सोऽयं विद्याजन्य आनन्दस्तृप्तिदीपेऽप्युदाहृतः –

“कृतकृत्यतया तृप्तः प्राप्तप्राप्यतया पुनः। तृप्यन्नेवं स्वमनसा मन्यतेऽसौ निरन्तरम्॥ धन्योऽहं धन्योऽहं नित्यं स्वात्मानमञ्जसा वेद्मि। धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम्॥ धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य। धन्योऽहं धन्योऽहं स्वस्याज्ञानं पलायितं क्कापि॥

[[467]]

धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किंचित्। धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमद्य संपन्नम्। धन्योऽहं धन्योऽहं तृप्तेर्मे कोपमा भवेल्लोके॥ धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनर्धन्यः। अहो पुण्यमहो पुण्यं फलितं फलितं दृढम्॥ अस्य पुण्यस्य संपत्तेरहो वयमहो वयम्। अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः॥ अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम्” इति। इत्थं फलपरम्परा प्रतिपादिता। सर्वात्मकपरब्रह्मस्वरूपात्माविर्भावः प्रथमं फलम्। तत ऊर्ध्वमविद्याग्रन्थेर्विकीर्णत्वं हृदयग्रन्थेर्भेदः संशयच्छेदः कर्मक्षयो हर्षशोकपरित्यागः कामप्रविलय आत्मन्येव क्रीडाऽऽत्मरतिरेव क्रिया कृतकृत्यत्वमानन्दित्वं चेत्येषा फलपरम्परा। को विषयः किं फलमित्यनयोरुत्तरमुक्तम्। अथ कः संबन्ध इत्यस्योत्तरमुच्यते – ज्ञानकाण्डस्य कर्मकाण्डेन सह साध्यसाधनभावलक्षणः संबन्धः। ज्ञानं साध्यम्। कर्माणि तु संस्कारकत्वेन वा विविदिषोत्पादनेन वा ज्ञानस्य साधनानि। संस्कारकत्वमेवं स्मर्यते - “यस्यैते चत्वारिंशत्संस्काराः स ब्रह्माणः सायुज्यं सलोकतां जयति” इति। गर्भाधानं पुंसवनं सीमन्तो जातकर्म नामकरणान्नप्राशनं चौलमुपनयनं चत्वारि *वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः +पञ्च महायज्ञाः *सप्त पाकयज्ञाः +सप्त हविर्यज्ञाः * सप्त सोमयज्ञा इत्येवं चत्वारिंशदेतैः कर्मभिः पुरुषस्य चित्तं संस्क्रियते ज्ञानयोग्मतामापद्यते। विविदिषाहेतुत्वं तु वाचसेनयिभिराम्नायते - “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इति।

विविदिषासंस्कारपक्षयोरवान्तरविशेषो वार्तिकसारे दर्शितः – “जाता विविदिषाऽवश्यं संपाद्याखिलसाधनम्। स्वफलं जनयेदाशु बुभुक्षदिर्यथा तथा।


  • १ प्राजापत्यम्. २. सौम्यम्. ३. आग्नेयम्. ४. वैश्वदेवम्. इति।
  • १ देवयज्ञः. २ भूतयज्ञः. ३. पितृयज्ञः. ४ ब्रह्मयज्ञः. ५ मनुष्ययज्ञ हति।
  • १ अष्टका. २ पार्वणः. ३. श्राद्वम्. ४ श्रावणी. ५ आग्रहायणी. ६. चैत्री. ७. आश्वयुजीति।
  • १ अगन्याधानम्. २ अग्निहोत्रम्. ३ दर्शपूर्णमासौ. ४ आग्रयणम् ५ चातुर्मास्यानि, ६ निरूदृपशुबन्धः. ७ सौत्रानणीति
  • १ अग्निष्टोमः. २ अत्यग्निष्टोमः. ३ उकथ्यः. ४ षोडशी. ५ वाजपेयः ६ अतिरात्रः. ७ अप्तोर्याम इति।

१ ग. थमक। २ श. दकत्वेन। ३ ख. ग. घ. त्वं वा।

[[468]]

प्रतिबन्धकपाप्मानं नाशयेच्चित्तसंस्कृतिः। साधनानि तु बोधस्य संपाद्यानि प्रयत्नतः। वर्णाश्रमादिशास्त्रेण प्रेरितोऽकरणे भयम्। पश्यन्करोति यत्कर्म तत्संस्कारकमुच्यते। तमेतमिति वाक्येन प्रेरितो बोधवाञ्छया। अन्तर्यामिण्यर्पयेद्यत्तत्स्याद्विविदिषाकरम्। कर्मणा पितृलोकः स्यादित्येवं नित्यकर्मणाम्। फलमुक्तं तथाऽप्येतैर्वेदनेच्छाऽपि तच्छुतेः। नित्येषु शुद्धेः प्राधान्याद्भोगोऽप्यप्रतिबन्धकः। भोगं भङ्गुरमीक्षन्ते बुद्धिशुद्ध्यनुरोधतः। काम्येष्वपि मुमुक्षुश्चेत्फलं देवे समर्पयेत्। एतद्भगवता प्रोक्तं कर्मबन्धनिवृत्तये। यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्। शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः। कर्मण्येवाधिकारस्ते मा फलेषु कदाचन” इति।

तस्मादीश्वरार्पितानि कर्माणि नित्यानि काम्यान्यपि वेदनेच्छां जनयन्ति। यद्यपि श्रुतिवाक्यैर्वेदनसौन्दर्येऽवगते सति तदिच्छोत्पद्यते तथाऽपि वेदनेऽरुचिः कर्मभिर्जन्यते। यथा क्षीरप्रियस्य पुरुषस्य पित्तरोगग्रस्तस्य सत्यामपि क्षीरेच्छायां मुखे रुचिर्नास्ति। सा रुचिः पुनरौषधक्रियया पित्तोपशमने सत्युत्पद्यते। तथा निःशेषदुःखोच्छेदं निरतिशयानन्दप्राप्तिहेतुत्वं ब्रह्मवेदनस्य श्रुतवतः सत्यामपि वेदनेच्छायां पापप्रतिबन्धाद्वेदनसाधनेषु श्रवणादिषु रुचिर्न जायते।

तथा चाभिहितं पुराणे – “महापापवतां नृणां ज्ञानयज्ञो न रोचते। प्रत्युत ज्ञानयज्ञस्तु प्रद्वेष्यो भासते स्वतः” इति।

तस्मिंश्च ज्ञानप्रतिबन्धके महापापे परमेश्वरार्पितैः कर्मभिर्नाशिते सति श्रवणादौ रुचिरुत्पद्यते। सेयं रुचिरत्र विविदिषाशब्देनोच्यते। अतः परम्परया कर्माणि ज्ञानसाधनभावं प्रतिपद्यन्ते।

[[469]]

तञ्च पारम्पर्य वार्तिकसारे दर्शितम् – “रुचिद्वारोपकुर्वन्ति कर्माण्यात्मविमुक्तये। अज्ञानस्याविरोधित्वान्न साक्षादात्मबोधवत्। अविद्याया न चोच्छित्तौ ज्ञानादन्यदपेक्षते। ज्ञानोत्वत्तौ तु नैवान्यच्छमादिभ्यो ह्यपेक्षते। शमाद्युत्पत्तये नान्यद्बुद्धिशुद्धेरपेक्षते। बुद्धिशुद्धौ च नित्यादिकर्मभ्यो नान्यदिष्यते। पारम्पर्येण कर्मैवं वेदनायोपयुज्यते। साधनं कर्म तेनैतत्साध्यं ब्रह्मात्मवेदनम्। इत्येवमभिसंबन्धः कर्मविज्ञानकाण्डयोः। इतोऽन्यथाऽपि संबन्धे न किंचिन्मानमीक्ष्यते ३” इति।

अत्रैतं यथोक्तं २ संबन्धमसहमानाः प्रतिवादिनो बहुधोत्तिष्ठन्ति। तेषां मध्ये केचिद्ब्रह्मज्ञाननैरपेक्ष्येणैव मोक्षं वर्णयन्ति। अन्ये ज्ञानकर्समुच्चयेन मुक्तिं ब्रुवते। अपरे ज्ञानस्यैव मुक्तिहेतुत्वमङ्गीकृत्यापि सोपानपङ्क्तिन्यायेन वा कामप्रविलापनेन वा प्रपञ्चलयेन वा कर्मकाण्डस्योपयोगमिच्छन्ति। तत्र ज्ञाननैरपेक्ष्यवादिनां मतं वार्तिकसारे दर्शितम् – “निषिद्धस्य निरस्तत्वान्नारकीं नैत्यधोगतिम्। नित्यानुष्ठानतश्चेमं प्रत्यावायो न संस्पृशेत्। आगामिजन्मनोऽसत्त्वे निर्विघ्नं स्वास्थ्यमिष्यताम्। शरीरारभ्भकं कर्म भोगेन क्षीयते ततः। विनाऽप्येकात्मसंबोधान्मुक्तिः सिद्धाऽन्तरात्मनः” इति।

अस्य पक्षस्य दूषणमपि तत्रैवोक्तम् – “सूक्ष्मापराधसंदृष्टेरतियत्नवतामपि। निषिद्धकाम्ये निःशेषं वर्जयेन्निपुणोऽपि कः। मुमुक्षुः पापकाम्ये द्वे वर्जयेदिति चोदना। नास्ति वेदे क्कचिद्येन वचसा तत्प्रकल्प्यते। काम्यादिवर्जनं त्वेतत्स्वकपोलप्रकल्पितम्। अतः प्रामादिकात्काम्यान्निषिद्धाच्च पुनर्जनिः। नित्यस्य फलमिष्टं चेदुपात्तदुरितक्षयः।


  1. ख. नमिष्यते। २. ग. ध. थोक्तसं। ३. ग. हुधा तिष्ट ४. ख. माणिका।

[[470]]

तथाऽपि काम्यपुण्यानां क्षयो नादुरितत्वतः। उपपातकमल्पं तैत्क्षीयतां नित्यकर्मणा। अनन्तदेहहेतूनां हत्यादीनां कुतः क्षयः। नित्यकर्मभिरप्यस्ति स्वर्गः काम्याग्निहोत्रवत्। आपस्तम्बेन तत्प्रोक्तमाम्रवृक्षनिदर्शनात्। फलार्थ निमिते त्वाम्रे छायागन्धाववारितौ। तथा वर्णाश्रमाचारादनुगच्छेत्त्रिविष्टपम्। निषिद्धकाम्यनित्यानि पूर्वजन्मसु चात्र च। कृतानि सन्त्यनेकानि स्वास्थ्यं तत्राऽऽत्मनः कुतः। ऐकात्म्यबोधतः कर्मक्षयं चेदात्थ तर्हि ते। निर्विघ्ना मुक्तिरस्त्येवं ममेव न हि संशयः” इति। “अपरे मन्वते मोक्षे ज्ञानकर्मसमुच्चयम्। प्रधानगुणभावेन त्रिविधोऽसौ समुच्चयः। ज्ञानं प्रधानं केषांचिदन्येषां कर्ममुख्यता। समप्राधान्यमुभयोरपरेषां मते स्थितम्। एकदेशे चैककाले स्थितयौरविरुद्धयोः। समुच्चयः फलैक्ये स्यान्न त्वसौ ज्ञानकर्मणोः। बाध्यबाधकभावेन पञ्चास्योरणयोरिव। एकदेशानवस्थानान्न समुच्चय एतयोः। साध्यसाधकरूपत्वादेककालानवस्थितिः। हेतुस्वरूपकार्येषु विरोधस्त्वनयोः स्फुटः। अध्यासः कर्मणो हेतुः प्रमाणं बोधकारणम्। न भासकं कर्मरूपं बोधरूपं तु भासकम्। कर्मकार्य भावि जन्म तन्निवृत्तिस्तु बोधजा। समुच्चयो दुर्लभोऽतस्तेन मुक्तिः कथं भवेत्। सोपानपङ्क्तिगत्येव हर्म्यपृष्ठाधिरोहणम्। अशेषकर्मक्रमतोऽधिकारं केचिदूचिरे। संध्यावन्दनमारभ्य क्रमानुष्ठितकर्मभिः। सहस्रवर्षसत्रान्तैर्ज्ञानितामधिरोहति। यथैव नगराध्वस्थग्रामगत्युपदेशनम्।

  1. क. ख. ग. यते नि। २. घ. धनरू . ३ घ. ङ. ष्ठादिरो।

[[471]]

नगराध्योपदेशस्त शेषत्वं प्रतिपद्यते। तथैव मोक्षमार्गस्थस्वर्गादिगतिभाषणम्। मोक्षमार्गोपदेशस्य शेषत्वं किं न गच्छति। यद्वोपच्छन्दनार्थानि स्वर्गादीनि विमुक्तये। नगराप्तौ तदध्वस्थग्रामादिगुणगीरिव। एवं च सति दृष्टेन द्वारेणैवोपकारिणः। आत्मज्ञानाधिकारार्था विधयः सकला अपि। मैवं ग्रामगतेः पुंसामध्वत्वादस्तु शेषता। स्वयमेव पुमर्थत्वात्स्वर्गादेः शेषता कथम्। यदुपच्छन्दनार्थत्वं नृवाक्ये तत्समञ्जसम्। वेदेषु वक्तू राहित्यादभिप्रायाद्यसंभवः। यद्वा तत्रैव तात्पर्यं यत्रोपच्छन्द्य नीयते॥ ततश्च विधितात्पर्यं स्वर्ग एव न मोक्षणे। दृष्टद्वारं च रागादिप्रवृत्तिप्रतिषेधनम्॥ यदि तर्हि निषेधेषु द्वारं भवतु तत्तथा। विधयस्तु निरुन्धन्ति न रागं भोगप्रदानतः। अशेषकर्मानुष्ठानमल्पायुषि न संभवेत्॥ सोपानपङ्क्तिन्यायोऽतो मन्दबुद्धिप्रकल्पितः। अन्ये त्वाहुर्न शक्नोति कामसंदूषिताशयः॥ द्रष्टुं तत्परमद्वैतं सर्वाकामासमाप्तितः। कर्मभिर्विविधैर्धीमान्स विराडाद्युपासनैः॥ वैराजान्तं फलं भुक्त्वा तदैकात्म्यं प्रपद्यते। सर्वभोगोपभोगेन कृत्स्नकामलयाध्वना॥ यान्ति मुक्तेरानुगुण्यं कर्माणि निखिलान्यपि। ब्रह्मानन्दो मतोऽप्यत्र चित्तेनाविषयीकृतः॥ दृष्टानन्दाभिलाषं स न मन्दीकर्तुमप्यलम्। कामप्रविलयायातो विधयः कर्मकाण्डगाः। प्रलीनकामो विज्ञानकाण्डेऽधिक्रियते पुमान्। मैवं न कामसंप्राप्त्या तन्नाशोऽब्दशतैरपि॥

  1. ग. वक्तृरा. २. क. ख. ङ. यादसं। ३. क. ख. ग. ङ. राजाद्यु।

[[472]]

तत्सेवातो विवृद्धिः स्यान्निवृत्तिर्दोषदर्शनात्। न जातु कामः कामानामुपभोगेन शाम्यति॥ हविषा कृष्णवर्त्मैव भूय एव विवर्धते। गुणस्यादर्शनाद्दोषदृष्टेर्वा क्षीणकामतः। सर्वक्लेशोपशान्त्यर्थमात्मज्ञानं समाश्रयेत्। कामाश्रितो विधिः कामं दोषवन्न विलापयेत्॥ कामुकः सन्प्रवर्तेत नाऽऽत्मज्ञाने कदाचन। उद्विजेताथ वा ज्ञानात्सर्वपुंभोगघस्मरात्॥ तथाच रागिगीतायां पठ्यते वचनं त्विदम्। अपि वृन्दावने शून्ये सृगालत्वं स इच्छति॥ न तु निर्विषयं मोक्षं कदाचिदपि गौतम। वैराजान्तं फलं भुक्त्वा मुच्येतेति यदीरितम्॥ क्रममुक्तौ तत्तथाऽस्तु न तु सद्योविमोचने। द्वारं न नियतं मुक्तेः प्राजापत्यं पदं भवेत्॥ न ह्मुपाधिषु तत्त्वस्य विशेषः कश्चिदीक्ष्यते। नाऽऽकाशस्य विशेषोऽस्ति कुम्भद्रोण्याद्युपाधिषु॥ दूरान्तिकादिभिन्नेषु कल्पिताकल्पितेष्वपि। अतः प्रजापतौ तत्त्वं क्रिमौ वा न विशिष्यते॥ तर्कादागमतश्चापि तद्यो य इति हीदृशात्। प्रत्यबुध्यत देवानां मध्ये यो यः स एव तत्॥ अभवन्नान्य इत्याह श्रुतिर्वैषम्यवारिणी। एको देवः सर्वभूतेष्विति चाऽऽहापरा श्रुतिः॥ अतश्चोपाधिवैषम्यान्नाऽऽत्मतत्त्वं विशिष्यते। सद्योमुक्तिं वाञ्छतोऽतो दोषदृष्ट्या विलीयते॥ कामोऽतः कर्मकाण्डस्य तात्पर्यं नैव तल्लये। अन्ये तु मन्वते केचिद्गम्भीरन्यायवेदिनः॥ भेदस्य विलयो वेदे गम्यते कस्यचित्क्वचित्। देहात्मभावविलयः स्वर्गकामपदे खलु॥ देहाद्भिन्नोऽधिकार्यत्र स्वर्गभोग्येऽवगम्यते। रागाद्युत्थप्रवृत्तीनां निषेधेषु लयोऽञ्जसा॥

१. क. ङ. वितालयेत्। २. ऱ. न्ये शृगा।

[[473]]

विधिष्वपि लयस्तासां कार्यान्तरनियोगतः। लोकेऽपि चानभिप्रेतात्पथः साक्षान्निवारणम्॥ मार्गान्तरोपदेशाद्वा वेदेऽप्येवं प्रतीयताम्। एवं रागादिहेतूत्थप्रवृत्तिलयवर्त्मना। आत्मज्ञानाधिकारार्था निःशेषा विधयः स्थिताः । मैवं किं भेदविलयो विधीनां फलकाङ्क्षया। तात्पर्याद्वाऽऽत्मबोधस्य हेतुत्वाद्वाऽवकल्प्यते। नाऽऽद्यस्तावद्यतोऽशेषा न कर्मविधयः फलात्। स्ववाक्यावगतात्किंचिदपेक्षन्ते फलान्तरम्। तात्पर्यं च विधीनां स्यात्कर्मानुष्ठान एव हि। अन्तरेण ह्मनुष्ठानं स्वर्गपश्वाद्यसंभवात्। श्रुतेर्विलयतात्पर्ये फलमाकस्मिकं भवेत्। फलार्था चेल्लयो न स्यान्नोभयं वाक्यभेदतः। श्रुतेऽपि स्वर्ततात्पर्ये कल्पना चेल्लयेऽर्थतः। तन्न प्रत्यक्षवचनाद्देहादिलयसिद्धितः । साक्षाद्वस्तिनि दृष्टे हि न हि हस्तिपदानुमा। अस्थूलादिवचः साक्षाद्देहादिप्रतिषेधकृत्। नाऽऽत्मबोधोऽपि देहस्य लयाद्भवति कुत्रचित्। अलयेऽप्यूपपन्नत्वाल्लये सुप्ताववक्षिणात्। गुरुशास्त्राद्याविलये बोधोऽयमुपपद्यते। लयमात्रेण चेद्बोधः सुप्तौ केन निवार्यते। सर्पाभासलयेऽपीयं रज्जुस्तमसि नेक्ष्यते। प्रत्युताऽऽभाससर्पोऽयं लीयते रज्ज्ववेक्षणात्। अथ प्रपञ्चनाशेन नाश्यते भेदकारणम्। मैवं न कार्यनाशेन कारणं नश्यति क्कचित्। कारणं किमविद्या स्याद्वस्तु वा तत्त्वबोधतः। अविद्यानाशनात्तत्र प्रपञ्चविलयोऽफलः। वास्तवोऽयं प्रपञ्चश्चेत्स विलाप्यो न केनचित्। अन्यथा स्वात्मतत्त्वस्य विलयः केन वार्यते। किंच कृत्स्नस्य विलयः कर्तुं शक्यो न जन्मभिः।

१ ग. स्मृता। २ क. ख. घ. यमिच्छतः। ३. क.ङ. चोद्वोधः। ४. ग. घ. नैवं।

[[474]]

लेशास्तु लीयते स्वापे स्वत एव न शास्त्रतः। किंच भावी न चोच्छेद्यो भूतोऽप्युपरतः स्वतः। प्रपञ्चो वर्तमनस्तु कार्यत्वान्नश्यति स्वतः। किंच भेदलयेनैव सर्वानर्थप्रहाणतः। पुरुषार्थस्य संसिद्धेर्विद्यानैष्कल्यमापतेत्। अत ऐकात्म्ययाथात्म्यज्ञानादज्ञानहानतः। सिद्धे पुमर्थे विलयकल्पना निष्प्रयोजना। इष्टसाधनता बोध्या विधिभिः सकलैरपि। अनिष्टसाधनत्वं तु निषेधैरिति हि स्थितिः। तस्मात्कामलये भेदलये सोपानवर्त्मनि। समुच्चये च संबन्धो न युक्तः काण्डयोर्द्वयोः। परिशेषात्पुरा प्रोक्तः साध्यसाधनलक्षणः। संबन्धोऽत्रावगन्तव्यो ज्ञानकर्माख्यकाण्डयोः”।

को विषयः किं फलं कः संबन्ध इत्येतेषां त्रयाणामुत्तरमुक्तम्। अथ कोऽधिकारवानित्यस्योत्तरमुच्यते – अत्रेदं चिन्त्यते, किं चिकीर्षोरुपनिषद्यधिकारः किंवा जिज्ञासोरिति। चिकीर्षोरिति तावत्प्राप्तम् कुतः। वेदान्तानां कार्यपरत्वात्। विमता वेदान्ताः कार्यपरा वेदभागत्वात्कर्मकाण्डवत्। ननु कर्मकाण्डस्यापि प्रमाणत्वाद्बोधकत्वमेव न तु कारकत्वम्। कर्मकाण्डाभिज्ञानामपि बहूनां कर्मसु प्रवृत्त्यदर्शनात्। नायं दोषः। नदीप्रवागवेगवत्प्रबलवायुवच्च चोदनाभावेऽपि ममेदं कर्तव्यमितिबुद्ध्युत्पादनेन राजाज्ञादिवत्प्रवर्तकत्वात्। अत एव भाष्यकारैः प्रथमसूत्रेऽभिहितम् – “या हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयति” इति। बहूनामप्रवृत्तिस्त्वश्रद्धाद्रव्यराहित्यादिप्रतिबन्धवशदुपपद्यते। अतः कर्मकाण्डवद्वेदान्तानामपि सिद्धार्थे पर्यवसानाभावाच्चिकीर्षोरेवात्राधिकारः। तस्माचित्तनिरोधं प्रतिपत्तिं प्रसंख्यानं वा यः कर्तुमिच्छति तस्यैव चोपनिषद्याधिकारः। न तु जिज्ञासुत्वधर्ममात्रेणेत्येवं प्राप्तेऽत्राभिधीयते। वेदान्तानां कार्यपरत्वं कुत इति वक्तव्यम्। किं सिद्धार्थे व्युत्पत्त्यभावात्किंवा सत्यामपि व्युत्पत्तौ प्रयोजनाभावादाहोस्वित्कार्यव्यतिरिक्तप्रेम – यस्यासंभवात्। नाऽऽद्यः। वृद्धव्यवहारे गामानयेत्यत्र यथा कार्येषु व्युत्पत्तिस्तथा पुत्रस्ते जात इत्यत्र सिद्धे व्युत्पत्तिदर्शनात्। अत्र च पूर्वाचार्यैर्बहुभिः पराक्रान्तम्। नापि द्वितीयः। ब्रह्मात्मतत्त्वाविर्भावमुपक्रम्य कृतकृत्यत्वानन्दाभिव्यक्तिपर्यन्तायाः प्रयोजनपरम्परायाः प्रपञ्चितत्वात्। नापि तृतीयः। चिदात्मनस्तत्प्रमेयत्वात्।

१. ग. म्। वे। २. क. सिद्धान्ते। ३. घ. र्ये व्यु। ४. ग. ह्मात्मावि।

[[475]]

अत एवोक्तम् –

“न मेयाभावशङ्काऽस्ति सर्वव्यापृतिसाक्षिणः। चिदात्मनोऽपलापे तु जगदान्ध्यप्रसङ्गतः” इति।

न च कर्मकाण्डस्यापि कृत्स्नस्य कार्यपरत्वमस्ति। ब्राह्मणो न हन्तव्य इत्यादिषु निषेधेष्वनुष्ठेयस्य कस्याप्यभावात्। एवमर्थवादादीनामपि देवताविग्रहादौ सिद्धार्थे तात्पर्यमुदाहरणीयम्। एतच्च देवताधिकरणे प्रपञ्चितम्। अतो वेदान्तानां कार्यपरत्वाभावान्न चिकीर्षोरत्राधिकारः। इत्थं वेदान्तानां कार्यपरत्वे निराकृते सति विरोधवादिनः पुनः प्रत्वतिष्ठन्ते। चिदात्मा न वेदान्तैर्बोधनीयस्तस्यान्वयव्यतिरेकसिद्धत्वात्। जाग्रत्स्वप्नसुषुप्तेषु परस्परव्यावृत्तेषु चिदात्मा तत्रानुवृत्तोऽनुभूयते। अनुवृत्तं व्यावृत्ताद्भिन्नमिति जातिव्यक्त्यादौ दृष्टम्। यथा विश्वामित्रकठकौण्डिन्यव्यक्तिषु ब्राह्मणत्वं दृष्टम्। अतोऽन्वयव्यतिरेकाभ्यामेव चिदात्मा सिद्धः।

एतदेवाभिप्रेत्य वार्तिकसारेऽभिहितम् – “मानान्तरेण तत्सिद्धेर्नात्र व्याप्रियते वचः। वासनानां निरोधेऽतः पुमाञ्श्रुत्या नियुज्यते। अनिरोधे वासनानामन्त्यकालेऽनुवर्तनात्। भाविजन्मानिवार्य स्यादन्त्यप्रत्ययकारितम्। यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम्। तं तमेवैति कौन्तेय सदा तद्भावभावितः। जाग्रत्स्वप्नसुषुप्त्याख्या या अनात्मार्थवासनाः। निरोधनीयास्ताः सर्वा बिभ्यता भाविजन्मतः । अनात्मप्रत्ययानन्तरितस्वात्मैकभावना। कार्या तया निरुध्यन्ते वासना जन्महेतवः। उपासीत स्वमात्मानमिति साक्षाद्विधिः श्रुतः। तस्याङ्गभावसिद्धयर्थं चिदात्माऽनूद्यते श्रुतौ। आत्मैकप्रत्ययो यावत्स्वभावात्संततो भवेत्। कुर्यादुपासनं तावत्क्षीयन्ते वासनास्ततः। अन्यदृष्ट्या जाग्रदाद्याः कल्पन्तां क्षीणवासने। विदुष्ययं स्वदृष्ट्या तु स्वात्मनोऽन्यन्न पश्यति। देहं विनश्वरमवस्थितमुत्थितं वा सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम्।

१. ङ. न्मनः। अ। २ क. ख. घ. ङ. कल्प्यन्तां

[[476]]

दैवादुपेतमथ दैववशादपेतं वासो यथा परिकृतं मदिरामदान्धः। तस्मादशेषवेदान्ता वासनानां निरोधने। नियुञ्जते हि पुरुषमात्मोपासनमार्गतः। अथवा मनसो रोधे मुमुक्षुं संनियुञ्जते। तस्मिन्निरुद्धे निखिला निरुध्यन्ते हि वासनाः। तावन्मनो निरोद्धव्यं यावद्धृदि गतं क्षयम्। इति श्रुतिर्मनोरोधं विदधाति विमुक्तये। पातञ्जलं योगशास्त्रं मनोरोधे समापितम्। प्रवृत्तिर्मनसी बन्धस्तन्निवृत्तिर्विमुक्तता। वासनामात्रहेतुत्वादात्मनोऽनर्थसंगतेः। अन्योपायोऽस्तु वा मा वा निरोधादेव मुक्तता। स्वयंज्योतिःस्वभावत्वान्निरुद्धस्वान्तवासनः। प्रमान्तरानपेक्षोऽपि स्वयमात्मा प्रकाशते। एवं कार्यमुखेनै(णै)व ज्योतिष्टोमादिवाक्यवत्। वेदान्तानां प्रमाणत्वं नाक्षवद्वस्तुनीष्यते। इति व्याचक्षते मन्दा नियोगार्थैकरागिणः। नैतत्साध्वभ्यधाय्यत्र नियोगस्यानपेक्षणात्। कामितार्थस्य संसिद्धेर्लौकिकादेव मानतः। वैदिकेन नियोगेन किं कार्यं वद बुद्धिमन्। मनसो वासनानां च भावेऽनर्थोऽस्तु जाग्रति। तदभावे सुषुप्तादावनर्थो नैव वीक्ष्यते। अन्वयव्यतिरेकाभ्यां निरोधोऽनर्थवारणे। उपाय इति विज्ञातः किमपूर्व विधीयते। उपासनाचित्तरोधौ विधेयावुदितौ त्वया। तौ स्तां तथैव बोधस्य हितुत्वेनाभ्युपैमि तौ। लौकिकव्यवहारेषु प्रवृत्ता धीरुपासनात् । अन्तर्मुखा सती स्वात्मविचारक्षमतां व्रजेत्। शब्दस्पर्शादिरहितमात्मानं स्थूलधीर्न हि। द्रष्टुं शक्नोति सौक्ष्म्यार्थं धीनिरोधो विधीयताम्। एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मयेति श्रुतेर्वचः।

[[477]]

ब्रह्मात्मबोधहेतुत्वं वासनाधीनिरोधयोः। मानान्तरानधिगतं तेनास्तु विधिरेतयोः। ज्ञानेऽधिकारसिद्धिः स्यादुपासाधीनिरोधतः। सिद्धेऽधिकारे पश्चात्तु वेदान्ता आत्मबोधिनः। अतोऽत्र वासनारोधे धीरोधे वा चिकीर्षया। न वेदान्तेऽधिकारः स्यात्किंतु तत्त्वबुभुत्सया। चित्ततद्वासनारोधतात्पर्येऽत्र निराकृते। प्रतिपत्तिविधौ शास्त्रतात्पर्यं केचिदूचिरे। आत्मा द्रष्टव्य इत्येवं प्रतिपत्तिविधिः श्रुतः। कोऽसावात्मेति वीक्षायां सर्वमात्मेति वर्ण्यते। सत्यज्ञानादिवाक्यानि तत्त्वमस्यादिकान्यपि। विधिशेषतया ब्रह्म स्वात्मत्वेनार्पयन्ति हि। एवं विधिमिहेच्छन्ति विध्ययोगेऽपि वस्तुनि। विधिरागवशात्केचित्तान्प्रतीदमिहोच्यते। किमैकात्म्यं विधेयं स्यात्किंवा तद्दर्शनं वद। नाऽऽद्योऽस्य नित्यसिद्धत्वात्पुंव्यापारानपेक्षणात्। दर्शनं च प्रमाणेन जन्यते न त्वनुष्ठितेः। चक्षुषा दृश्यते रूपं नानुष्ठित्या कदाचन। समन्वयस्य सूत्रे हि पूर्वाचार्यैरिति स्फुटम्। निराकृतो विधिर्बोधे पुंव्यापाराप्रवेशनात्। तस्माद्द्रष्टव्य इत्येष प्रतिपत्तिविधिर्न हि। बहिर्मुखत्वव्यावृत्तिर्विधेयार्हार्थताऽथवा ।” आत्मबोधो वेदवाक्यजन्यो न तु विधिं स्पृशेत्। किं त्वैन्द्रियकविज्ञामिव सिद्धार्थनिष्ठितम् । एवं च सति वेदान्ता ब्रह्मतत्त्वमलौकिकम्। प्रबोधयन्ति विध्वस्तनिखिलद्वैतमव्ययम्। ऐकात्म्यवस्तुयाथात्म्यप्रकाशनपटीयसः। वचसस्त्वतिरेकेण किं मानं तद्धुरं वहेत् । शाब्दज्ञानविधावेवं वेदान्तेषु निराकृते।

१.ङ. सिद्धित्वा। २. ग. र्हाऽर्थतोऽथ। ३. घ. ष्टितः। ए। ४. ङ. हरेत्। ५. ङ. त्। शब्द।

[[478]]

अपरे पण्डितंमन्या विध्यन्तरमिहोचिरे। अन्योऽप्यनुभवोपायो मननध्यानलक्षणः। सोपायो विहितोऽस्त्येव प्रतिपत्तिविधिं विना। उपायाः शान्तिदान्त्याद्यास्तेषु सत्सु निरन्तरम्। अविक्षेपेण मननं ध्यानं वा सुकरं भवेत्। अवान्तरमहावाक्यरूपात्सिद्धावबोधकात्। शास्त्राद्ब्रह्मात्मतामादौ पुरुषः प्रतिपद्यते। तत्त्वे शास्त्रात्प्रपन्नेऽपि पारोक्ष्यानपहारतः। तत्साक्षात्करणायैव प्रसंख्यानं विधीयते। आवृत्तिर्हि प्रसंख्यानं शब्दयुक्त्योरिदं त्विह। मननध्यानरूपत्वात्साक्षात्कारयितुं क्षमम्। श्रवणं शाब्दविज्ञाने यथोपायस्तथा द्वयम्। अनुभूतौ च मननं निदिध्यासनमित्यदः। तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत तत्त्ववित्। इत्यादिना प्रसंख्यानं विधेयमनुभूतये। एवमैकात्म्यतात्पर्ये शास्त्रस्येष्टेऽपि युक्तिभिः। केचित्कार्यमपीच्छन्ति तदेतन्नैव युज्यते। किमात्मभानायाभ्यास आपरोक्ष्याय वाऽथवा। व्यवधानापनुत्त्यर्थं मानजन्यफलाय वा । मानलोपस्य शङ्कापनुत्त्यर्थ वोत मुक्तये। सर्वथाऽपि प्रयासस्ते विध्यर्थोऽत्यन्तनिष्फलः। प्रमात्रानादित्रयं यस्मात्संविन्मात्रवपुर्भृतः। भाति पूर्वमभातं सत्तद्भाने किमपेक्षते। अहंकारः प्रमाता स्याद्धीवृत्तिर्मानमुच्यते। घटादिकं प्रमेयं स्याच्चिद्भासा भाति तत्त्रयम्। परोक्षमपि देहादि यस्य भासाऽऽपरोक्ष्यवत्। विभात्यात्मेव तस्य स्यादापरोक्ष्यमहेतुकम्। अज्ञानमपि निःशेषप्रमेयव्यवधानकृत्। येनाव्यवहितं भाति तत्केन व्यवधीयते। स्वमहिम्नैव यत्सिद्धं तत्तमो हन्ति शास्त्रधीः। किं ततोऽन्यत्फलं मानजन्यं यद्विधितो भवेत्।

  1. ग. त्सिद्ध्यव। २. घ. वा। भान।

[[479]]

मात्रादित्रयलोपेऽपि लोपक्षितयेक्ष्यते। योऽसावलुप्तचैतन्यस्तल्लोपः शङ्कयते कथम्। ऐकात्म्यस्य स्वतो मुक्तेरज्ञानात्तस्य बद्धता। ज्ञानादज्ञानहानौ स्यात्किमपेक्ष्यं विमुक्तये। परोक्षत्वेन शास्त्रेण बुद्धं न त्वनुभूयते। प्रसंख्यानमतोऽपेक्ष्यमिति चेद्युज्यते न तत्। मेयस्वभावात्पारोक्ष्यं किंवा शब्दस्वभावतः॥ आद्ये किं ब्रह्मता तत्र परोक्षा स्यादुताऽऽत्मता। यत्साक्षादपरोक्षं तद्ब्रह्मेति ब्रह्मणः श्रुतौ॥ मुख्यापरोक्ष्यमुदितं पारोक्ष्यं शङ्क्यते कुतः। आत्मनस्तत्र पारोक्ष्यं पूर्वमेव निराकृतम्॥ शब्दः स्वयमुदासीनः परोक्षत्वापरोक्ष्ययोः। देशादिभिर्व्यवहितं पारोक्ष्येणावबोधयेत्। इतरत्वापरोक्ष्येण दशमस्त्वमसीतिवत्। देशात्कालाद्वस्तुतो वा व्यवधानं मनागपि॥ ऐकात्म्यवस्तुनो नास्ति तत्र पारोक्ष्यधीः कुतः। तमोमात्रान्तरायत्वादैकात्म्याख्यस्य वस्तुनः॥ असाध्यसाधने तस्मिन्काऽपेक्षा भावनां प्रति। ननु विज्ञाय कुर्वीत प्रज्ञामित्यनुशासनात्॥ कर्तव्या भावनेत्येवं यदि ब्रूषेऽस्तु भावना। नैतावताऽवकाशोऽस्ति त्वन्मतस्यात्र कश्चन॥ नैवानुभूतिसिध्द्यर्थमिदं श्रौतानुशासनम्। विज्ञायेत्यनुभूतिं तां वाक्यजन्यामुपेत्य तु॥ विदधाति तदैकाग्र्यं बहिश्चित्तनिवृत्तये। विवक्षितोपयोगोऽत्र वाक्यशेषेण वर्णितः॥ नानुध्यायाद्बहूञ्शब्दान्वाचो विग्लापनं हि तत्। किं बहूक्त्याऽत्र वेदान्ता बोधमात्रावसायिनः॥ बुभुत्सोरधिकारोऽतश्चिकीर्षोस्तु न कस्यचित्” इति।

इत्थमुपनिषदो विषयप्रयोजनसंबन्धाधिकारिणो निरूपिताः। “अधिकारिणः प्रमितिजनको वेदः” इति न्यायेनेयमुपनिषद्बुभुत्सोर्ब्रह्मात्मतत्त्वे प्रमितिं जनयति। न

  1. ग. स्य विदिति।

[[480]]

चोपनिषदः प्रामाण्ये विवादितव्यम्। तत्प्रामाण्यस्य स्वतस्त्वाङ्गीकारादप्रामाण्ये कारणाभावाच्च। किमबोधफलकत्वादप्रामाण्यमुत बाधितत्वादथवाऽनुवादकत्वात्। नाऽऽद्यः। सत्यं ज्ञानमनन्तं ब्रह्मेत्याद्यावान्तरवाक्यानामयमात्मा ब्रह्मेति महावाक्यानां च श्रवणमात्रेण बोधोपलम्भात्। नन्वात्मा ब्रह्मेतिपदयोरर्थौ लौकिकावलौकिकौ वा। नाऽऽद्यः। वेदस्यानुवादकत्वप्रसङ्गात्। द्वितीये संबन्धग्रहणासंभवादबोधकत्वम्। अथोच्येत। पदार्थयोर्लौकिकत्वेन संबन्धग्रहणम्। वाक्यार्थस्य लौकिकत्वाभावादननुवादकत्वम्। एतदेवाभिप्रेत्य धर्ममीमांसायां निर्णीतम् – “लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः” इति। तदसत्। वाक्यार्थस्य दुर्निरूपत्वात्। किं संसर्गो वाक्यार्थः किंवा विशिष्ट उताखण्डैकरसः। तत्राभिहितान्वयवादिनो भट्टाः पदैरभिहितानां पदानियोगं वाक्यार्थमाहुः। एवमत्राप्यात्मब्रह्मणोः संसर्गस्याऽऽत्मविशिष्टब्रह्मणो वा वाक्यार्थत्वे सत्यपसिद्धान्तस्तव प्रसज्येत। त्वदभिमतस्याखण्डैकरसार्थस्यासिद्धेः। तर्ह्यखण्डैकरस एव वाक्यार्थोऽस्त्विति चेन्न दृष्टान्ताभावात्। कथंचित्सत्यपि दृष्टान्ते हानोपादानराहित्येन पुरुषार्थाभावात्। किंचाखण्डैकरसत्वसिध्द्यर्थं जगतो मिथ्यात्वे वेदस्यापि मिथ्यात्वादप्रामाण्यं स्यात्। अत्रोच्यते – त्वया हि दूष्यत्वेन परमतमनुवदितुमखण्डैकरसं वस्त्विति यद्वाक्यं प्रयुज्यते तस्यैव वाक्यस्य दृष्टान्तत्वमभ्युपेयम्। न हि तत्र संसर्गस्य विशिष्टस्य वा वाक्यार्थत्वम्। तथा सत्यदूष्यत्वप्रसङ्गात्। न खलु तदुभयं त्वया दूष्यते स्वमतत्वेन स्वीकारात्। तस्मादनुवादकमखण्डैकरसं वस्त्विति वाक्यं तत्रैको दृष्टान्तः। पूर्वाचार्या अपि वर्णयन्ति – सत्यज्ञानादिवाक्यमखण्डार्थनिष्ठं लक्षणवाक्यत्वात्प्रकृष्टप्रकाशश्चन्द्र इतिवाक्यवत्। प्रकृष्टशब्देन नक्षत्रप्रकाशव्यावृत्तिः। प्रकाशशब्देन मेघादिव्यावृत्तिः। ततो बुभुत्सितं चन्द्रं (न्द्र) प्रातिपदिकार्थमात्रमखण्डमनेन वाक्येन बोध्यते। तथा तत्त्वमस्यादिवाक्यमखण्डार्थनिष्ठमकार्यकारणद्रव्यनिष्ठत्वे सति समानाधिकरणत्वात्सोऽयं देवदत्त इतिवाक्यवत्। परस्परविरुद्धाभ्यां तद्देशकालाभ्यामेतद्देशकालाभ्यामुपरक्षितस्य देवदत्तव्यक्त्यैक्यस्य प्रतिपाद्यत्वादखण्डार्थत्वम्।

वार्तिकसारेऽप्यखण्डार्थत्वं वाक्यस्य प्रतिपादितम्- “प्रसिद्धात्मन्यात्मशब्दप्रयोगात्स हि लौकिकः। ब्रह्मार्थोऽपि महत्त्वेन प्रसिद्धो व्यवहारतः। एवं पदात्परिज्ञाते पदार्थे लोकमानतः। वाक्यार्थोऽतीन्द्रियो वेदवाक्यात्केन निवार्यते। अपूर्वदेवतास्वर्गपदार्थाल्लोँकमानतः। १. ख. धक। २ ग. फलाद। ३ घ. भाट्टाः। ४ क. ख. ङ. कपरम।

[[481]]

व्युत्पाद्यालौकिकोऽप्यर्थो वाक्यादबुद्धस्त्वया यथा। यथाऽर्थवादादिवशात्स्वर्गाद्यर्थोऽवगम्यते। तर्ह्यवान्तरवाक्येन(ण) ब्रह्मार्थोऽप्यवगम्यताम्। अप्रसिद्धपदार्थोऽपि प्रसिद्धार्थपदैः सह। समभिव्याहृतेर्बोद्धुं शक्यो मधुकरादिवत्। अतो लोकानुसारिण्या व्युत्पत्त्याऽर्थोऽप्यलौकिकः। धर्मब्रह्मात्मकः सिध्येत्तत्र कस्मादमानता। अन्यत्रेवात्र वाक्यार्थो नैव संसृष्टलक्षणः। ब्रह्मणोऽनात्मतारूपमब्रह्मात्वं तथाऽऽत्मनः। तादात्म्यमनयोस्तस्मान्नीलोत्पलविलक्षणम्। नीलत्वमुत्पलत्वं च अन्योन्यं व्यभिचारिणौ। आत्मब्रह्मत्वयोर्नास्ति व्यभिचारो मनागपि। प्रत्यक्त्वमात्मता तद्वद्ब्रह्मत्वं चाद्वितीयता। द्वौ प्रत्यञ्चावसंभाव्यौ तत्रैकस्य पराक्त्वतः। अतः प्रत्यक्त्वमेवैतदद्वयत्वं न चेतरत्। तथाऽप्यविद्याविभ्रान्तिव्यवृत्त्यर्थं पदद्वयम्। आत्माऽपि सदिदं ब्रह्म मोहात्पारोक्ष्यदूषितम्। ब्रह्मापि संस्तथैवाऽऽत्मा सद्वितीयतयेक्ष्यते। आत्मा ब्रह्मेति पारोक्ष्यसद्वितीयत्वबाधनात्। अखण्डे निष्ठितं शास्त्रं पुरुषार्थे समोहिते । हानोपादनराहित्येऽप्यपुमर्थो भवेन्न हि। इष्टप्राप्तेरनिष्टार्थनिवृत्तेश्चेह संभवात्। त्वं ब्रह्मेति श्रुते वाक्ये सिध्यत्येवाप्रयत्नतः। अशेषानर्थविच्छेदो ब्रह्मानन्दोऽप्यनुत्तमः। पुरुषार्थोपदेष्टृत्वाद्यद्वत्कार्ये प्रमाणता। तथैकात्म्ये विशेषाद्वा पुमर्थातिशयत्वतः। न चैकात्म्याभ्युपायस्य मिथ्यात्वमिह चोद्यताम्।

  1. क. दद्वैतत्वं। २. ख. निश्चितं। ३. षार्थ स। ४. ग. घ. समीहते।

[[482]]

कदा वेदस्य मिथ्यात्वं भवता ज्ञायते वद। ऐकात्म्यप्रतिपत्तेः प्राङ्न मिथ्यात्वमबाधनात्। पुमर्थस्य समाप्तत्वादूर्ध्व वेदेन किं तव। अज्ञातमपि मिथ्यात्वं प्रागस्त्येवेति तच्छृणु। मानसत्यत्वमिथ्यात्वे न मात्वामात्वकारणे। सत्येनाप्यनुपायेन घटेनाग्निर्न मीयते। असत्येनाप्युपायेन प्रतिबिम्बेन बिम्बधीः। तस्मादर्थावबोधित्वाद्दुष्टकारणवर्जनात्। अबाधाच्च प्रमाणत्वं वस्तुन्यक्षादिवच्छ्रुतेः। ननु भेदाश्रितैर्वाक्यैर्विधायकनिषेधकैः। अक्षादिभिश्च नैकात्म्यं बाधितत्वात्प्रमायुतम्। न चास्यैकात्म्यशास्त्रस्य तैर्विकल्पसमुच्चयौ। यत एतावसंभाव्यौ क्रियायामिव वस्तुनि। व्रीहिभिर्वा यवैर्वेति यथा यागो विकल्प्यते। नैवमेकमनेकं वेत्येतद्वस्तु विकल्प्यते। समुच्चितौ यथा दर्शपूर्णमासौ तथा न तु। भिन्नाभिन्नात्मना वस्तु समुच्चेतुमिहार्हति। अत ऐकात्म्यमानस्य भेदमानस्य वा द्वयोः। एकस्य बाधसंप्राप्तावैक्ये धीर्बाध्यतेऽन्यथा। नेह नानेति भेदानां निषेधो नान्यबाधकः। वर्णादिग्रहणोपायप्रत्यक्षाद्युपजीवनात्। वर्णान्ग्रहीतुमर्थस्य व्युत्पत्त्यैवोपजीवति। श्रुतिरक्षानुमाने द्वे प्रबलत्वं तयोस्ततः। निषेधविध्योर्यच्छास्त्रं बाधो विध्यादिशास्त्रतः। औपचारिकमैकात्म्यशास्त्रं कर्त्रात्मसंस्तवात् । सावकाशं भवेद्यद्वा जपार्थमुपयुज्यते। भेदसाधनमक्षादिभेदादन्यत्र कुत्र वा। १. क. ख. ङ. त्। एकश। २. ख. त्रीदिस।

[[483]]

सावकाशं ततस्तस्य बाधो नैकात्म्यशास्त्रतः। ऐकात्म्यबोधकत्वेऽपि वेदान्ता बाधितत्वतः। अप्रामाण्यं भजन्तीति पूर्वः पक्षो व्यवस्थितः। उच्यते लोकतः सिद्धं भेदमाश्रित्य चोदना। प्रवृत्ता पुरुषार्थाय न तु भेदावबुद्धये। आश्रयोऽप्यत्र यो भेदी मायिकोऽसौ न वास्तवः। नेह नानेति शास्त्रात्तु वास्तवः प्रतिषिध्यते। आगमो मायिकं भेदं न निषेधति किं त्विमम्। मायिको भेद इत्येवं प्रत्युत प्रतिपादयेत्। मायामात्रमिदं द्वैतमद्वैतं परमार्थतः। इति माण्डूक्यशाखायां श्रुतिवाक्यमधीयते। प्रत्यक्षादिभिरप्यत्र भेदो भात्येष मायिकः। उपजीव्यः स एवातो नोपजीव्यविरोधिता। वास्तवे ब्राह्मणे स्वप्ने मायिकी शूद्रता यथा। न विरुद्धा तथा भेदो नाद्वैतेन विरुध्यते। प्रत्यक्षादिप्रमाणानां प्रामाण्यं व्यावहारिकम्। आश्रित्यायं प्रपञ्चः स्यादलीकोऽपि प्रमाणवान्। अद्वैतागमवाक्यं तु तत्त्वावेदनलक्षणम्। प्रमाणभावं भजतां नातोऽन्योन्यविरोधिता। नायं शब्दः कुतो यस्माद्रूपं पश्यामि चक्षुषा। इति यद्वत्तथैवायं विरोधोऽक्षजवाक्ययोः। विभिन्नविषयत्वेन विरोधासंभवे सति। अबाधितत्वादैकात्म्यं प्रामाणिकमिति स्थितम्। ननु वेदान्तसिद्धान्तमजानन्तोऽपि वादिनः। लौकिकाश्च स्वमात्मानं जानन्ति स्वस्वमानतः। मानं प्रत्यक्षमन्यद्वा यथायोग्यं भवेत्ततः। ज्ञातात्मकथनादेते वेदान्ता अनुवादिनः। नैवाऽऽत्मनोऽन्यद्वस्त्वेतैर्वेदान्तैः प्रतिपाद्यते।

  1. ख. त्येव मा। २ क. ग. ङ. ज्ञानात्म।

[[484]]

येनापूर्वार्थलाभेन तेषामननुवादता। उच्यते मान्तरात्सिद्धः किं देहात्माऽथवेतरः। नाऽऽद्ये स्यादनुवादित्वं देहात्माननुकीर्तनात्। न वेदान्ताः क्कचिद्देह आत्मेति प्रत्यपादयन्। यः कोशोऽन्नमयः प्रोक्तस्तत्रास्त्वेवानुवादता। देहेतरोऽपि किं कर्ता ब्रह्म वोभयथाऽपि वा। तयोर्मानान्तराबोधादाशङ्कया नानुवादता। वादिनो लौकिका वाऽत्र भविष्यद्देहभागिनम्। कर्त्तात्मानं न जानन्ति वेदान्तवचसा विना। देहान्तराभिसंबद्धो भावित्वान्नाक्षगोचरः। लिङ्गसादृश्यविरहान्नानुमानोपमा तथा। भावरूपात्मबोधाय नाभावोऽपि प्रवर्तते। अर्थापत्तिर्न संभाव्या दृष्टकल्पकवर्जनात्। अन्यथाऽनुपपन्नोऽपि श्रुतः स्वर्गो न कल्पकः। श्रुतार्थापत्तितोऽप्यत्र श्रुतिरेव बलीयसी। योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। इति वेदान्तवचसा भविष्यद्देहयोगधीः। भविष्यद्देहसंबन्धी वाक्यादात्मा न चेन्मतः। चार्वाक इव नो कुर्याददृष्टार्थाः क्रियाः सुधीः। योगिप्रत्यक्षतो भाविसंबन्धो ज्ञायते यदि। तथाऽपि योगिता श्रौतानुष्ठानादेव नान्यथा। यौगिभिर्व्यवधानाद्वा। साक्षाद्वा श्रुतिरेव हि। कर्त्रात्मनि प्रमाणं स्यात्स्वर्गादिफलभोक्तरि। ब्रह्मात्मन्यप्यहंबुद्धिर्न मानं स्यात्कथंचन। प्रत्युताहंबुद्धिरेव सिध्यत्यात्मानुभूतितः। शास्त्रैकवेद्यता प्रोक्ता विषयत्वनिरूपणात्। तस्मादननुवादित्वात्सिद्धा वेदान्तमानता। प्रमाणं मेयसापेक्षं मेयता कस्य युज्यते। इत्याकाङ्क्षानिवृत्त्यर्थं मेयमत्र निरूप्यते। अविज्ञातः प्रमाणस्य विषयो वादिनां मतः। सोऽज्ञातोऽर्थः प्रमाणात्किं सिध्येद्यद्वाऽनुभूतितः।

  1. क. ङ. जायते।

[[485]]

न तावन्मानतः सिद्धिर्मानात्पूर्वमपेक्षणात्। सिद्धमज्ञातमुद्दिश्य ज्ञप्त्यै मानं प्रवर्तते। अज्ञातत्वं न सिद्धं चेन्मानात्तत्केन सिध्यति। इति चेन्नित्यचैतन्यानुभावेनानुभूयते। मानप्रवृत्तितः पूर्वमज्ञातत्वं यथा तथा। ज्ञानतत्वमप्युत्तरत्र चैतन्येनानुभूयते। प्रवृत्तं विषये मानं बोधयेद्विषयाकृतिम् । ज्ञातताज्ञातते भातो न तेनाविषयत्वतः। रूपार्थं संप्रवृत्तेन नेत्रेण रसगन्धयोः। अगृहीतिर्यथा तद्वज्ज्ञाताज्ञातत्वयोर्भवेत्। नेत्रागृहीतयोरन्यद्बोधकं स्याद्यथा तथा। ज्ञातताज्ञातते ग्राह्ये अमेये अपि ते चिता। अज्ञानव्याप्तमज्ञातं ज्ञातं मानेन भासितम्। तच्चोभयं साक्षिभास्यमाहुर्वेदान्तपारगाः। सर्वे वस्तु ज्ञाततया ह्यज्ञातत्वेन वा सदा। साक्षिचैतन्यविषय इति शास्त्रेषु निश्चयः। चितैवाज्ञातातासिद्धावज्ञातो यः स मीयते। सर्वैर्मानैरतश्चिन्त्यं कस्याज्ञातात्वमीदृशम्। चेतनोऽचेतनो वाऽयमज्ञातो यद्यचेतनः। तन्नाज्ञातार्थकार्यस्य जडस्याज्ञातता कुतः। अज्ञातरज्जुकार्यस्य सर्पस्याज्ञातता न हि। अज्ञातब्रह्मकार्यस्य जडस्याज्ञातता कुतः। रज्जुसर्पं न जानामि बोद्धुमिच्छामि मानतः। इति व्यवहृतिं प्राज्ञा नाङ्गी कुर्वन्ति केऽपि च। किंचाज्ञातत्वतो लभ्यं तिरोधानं न चेतरत्। स्वयमेव तिरोभूते जडे काऽन्या तिरोहितिः। आविर्भूतस्वरूपे तु चेतनेऽन्येन निर्मितात्। तिरोधानाद्विशेषोऽस्ति शुभ्रवस्त्रे मषी यथा। चन्द्रं मलिनयेद्राहुर्नीलमेघं न तु क्कचित्। १.ख. नुभवे। २. क.ङ. यानपि। ज्ञा। ३. ग. तनाचे। ४ क. ख.घ.ङ. हृतिः प्रा। ५. क. ख. ङ. केषु च। ६. ग. किंवाऽज्ञा।

[[486]]

एवं चेतनमज्ञातं जडं त्वज्ञानदेहकम्। कार्यकारणरूपं यन्निखिलं जडमीक्ष्यताम्। तेन सर्वेण चिद्रूपः स्वप्रकाशस्तिरोहितः। तिरोहितेनोभयं तद्भासते चन्द्रराहुवत्। लयः प्रकाशनाशो वा नास्ति चन्द्रवदेव हि। राहुग्रस्तत्वमिन्दौ चेदस्मद्दृष्ट्यैव भासते। अज्ञातत्वं चितस्तद्वन्मूढद्दष्ट्यैव भासताम्। अतोऽनुभव एवैको विषयोऽज्ञातलक्षणः। अक्षादीनां स्वतःसिद्धे यत्र तेषां प्रमाणता। अनुभूतिग्रहायैव प्रवृत्तान्यपि दुष्टया। सामग्र्याऽखिलमानानि गृह्णते जडसंयुताम्। वेदान्तेतरसामग्री दुष्टैषा चक्षुरादिका । तज्जा धीरत्र गृह्णाति स्फूर्तिं रूपादिसंयुतम्॥ एवं च सति विभ्रान्तः कल्पिते रजते धियम्। प्रमाणं मनुते यद्वद्रूपादौ मनुजास्तथा। धर्मिण्यभ्रान्तमखिलं ज्ञानमिच्छन्ति वादिनः। विपर्ययं प्रकारे तु वदन्ति रजतादिके। सर्वधर्मिणि सद्रुपे प्रमा धीवृतत्योऽखिलाः। तथा रूपादिके बुद्धिः स्याद्विपर्ययरूपिणी। एवं न्यायेन संसिद्धा प्रमाणानां प्रमाणता। ब्रह्मण्येव तथा प्रज्ञा रूपादावेव तां विदुः। धर्मिण्येव प्रमाण सदपि मानं विमूढधीः। रजतग्राहकं मानमिति विद्याद्यथा तथा। ब्रह्मण्यक्षादिमानत्वमिति मूढधियो जगुः। किं बहूक्त्या प्रमेयं स्यादज्ञातत्वेन चेतनः। सर्वेषामपि मानानामज्ञातत्वाभिभाविनाम्। वेदान्तानां विशेषेण निःशेषाज्ञानघातिनाम्। १ क. ख. ङ. सिद्धो य। २ ङ. तज्जधी।

[[487]]

अज्ञातश्चेतनो मेयो नाज्ञातोऽन्योऽस्ति कश्चन। किं चाऽऽनन्दाप्तिरूपस्य पुरुषार्थस्य हेतवः। वेदान्तास्तेन तन्मेय आनन्दात्मा परः पुमान्। उक्तमात्रोपनिषदो विषयादिचतुष्टयम्। प्रामाण्यमपि तन्मेयमथ व्याख्या प्रवर्तते।

सेयं तैत्तिरीयोपनिषत्त्रिविधा। सांहिती वारुणी याज्ञिकी चेति। तत्र प्रथमप्रपाठके संहिताध्यायस्योक्तत्वात्तद्रूपोपनिषत्सांहिती। द्वितीयतृतीययोः प्रपाठकयोर्या ब्रह्मविद्याऽभिहिता तस्याः संप्रदायप्रवर्तकी वरुणस्तस्मात्तदुभयरूपोपनिषद्वारुणी। चतुर्थप्रपाठके यज्ञोपयुक्ता अपि मन्त्रास्तत्र तत्राऽऽम्नाता अतस्तद्रूपोपनिषद्याज्ञिकी। तासां तिसृणां मध्ये वारुणी मुख्या। तस्यां परमपुरषार्थस्य ब्रह्मप्राप्तिलक्षणस्य साक्षादेव साधनभूताया ब्रह्मविद्यायाः प्रतिपादितत्वात्। एवं तर्ह्यभ्यर्हितत्वेन सैव प्रथमं पठितव्येतिचेन्न। तस्यामधिकारसिद्धये सांहित्याः प्रथमं पठितव्यत्वात्। यद्यपि विविदिषोर्विद्यायामधिकारो विविदिषा च कर्मभिरेवोत्पादिता तथाऽपि न कर्मभिश्चित्तस्यैकाग्र्यमुत्पद्यते। प्रत्युत प्रवृत्तिबाहुल्याद्विक्षेपवासनैव भूयसी भवति। ऐकाग्र्यस्य साक्षात्कारहेतुत्वं कठा आमनन्ति – “दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः” इति। ऐकाग्र्यं च ध्यानाभ्यासेन जन्यते। अत एव पतञ्जलिर्योगस्वरूपं तत्साधनं च सूत्रयामास - “योगश्चित्तवृत्तिनिरोधः” “अभ्यासवैराग्याभ्यां तन्निरोधः” इति। अतो ध्यानाभ्यासाय सांहित्याः प्रथमभावित्वं युक्तम्। ‘श्रेयांसि बहुविघ्नानि’ इति लौकिकन्यायाद्विशेषतो ब्रह्मविद्यायां देवकृतविघ्नबाहुल्यसंभवाच्चाऽऽदौ विघ्नपरिहाराय प्रयतितव्यम्। दैविकविघ्नसंभावना च बृहदारण्यकेऽवगभ्यते - “अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानां यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषा तन्न प्रियं यदेतन्मनुष्या विद्युः” इति। अयमर्थः – द्वौ हि पुरुषौ ब्रह्मवित्कर्मी च। तत्र ब्रह्मविदः सर्वभावापत्तिर्भवतीति पूर्ववाक्ये समाम्नातम् - “य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति” इति। विदितब्रह्मतत्त्वस्य पुरुषस्य सर्वभावापत्तिवघ्नाय देवा अपि न समर्थाः। यस्मादयं ब्रह्मविदेषां देवानामात्मा भवति। एतदपि तत्रैवाऽऽम्नातम् - “तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवति” इति। इत्थं ब्रह्मविदः परमपुरुषार्थमाम्नाय विद्यारहितस्य तदभावं दर्शयितुमथ योऽन्यामित्यादि वाक्यमाम्नातम्। अथ ब्रह्माविद्यामहिमोक्त्यनन्तरमविद्यामहिमा वर्ण्यते। यः

  1. ग. घ. या वि। २ घ. त व।

[[488]]

पुमान्स्वातिरिक्तां देवतामुपास्ते सेवतेऽसावुपास्यो देवो मत्तोऽन्योऽहं चोपासको देवादन्योऽस्मीति सोऽयमुपासको भेददर्शी सन्स्वस्य ब्रह्मत्वलक्षणमहिमानं न जानाति। यथा गजाश्वादिरूपः पशुः स्वस्य शक्त्याधिक्यमज्ञात्वा स्वल्पशक्तीनामपि मनुष्याणामधीनो भवत्येवमज्ञानी स उपासको देवानामधीनो भवति। यथा धेन्वजाश्ववलीवर्दमहिषादयो बहवः पशवः क्षीरप्रदानभारवहनादिना स्वोचितव्यापारेणैकं मनुष्यं पालयन्त्येवमज्ञानी पुरुष एकैक एवाग्निसूर्येन्द्रादीन्देवान्हविष्प्रदानादिना पालयति। तस्मादेकैकः पुरुषो देवानां सर्वपशुस्थानीयः। यथा बहुपशुस्वामिनः पुरुषस्यैकस्मिन्नेव पशौ चोरव्याघ्रादिभिरपह्रियमाणे सति महदप्रियं भवति तत्र बहुषु पशुष्वपहृतेषु सत्सु किमु वक्तव्यम्। तस्मान्मनुष्या एतद्ब्रह्मात्मत्वं विद्युरिति यदेतदस्ति तदेतदेषां देवानामत्यन्तमप्रियमिति। एतस्य चाप्रियत्वस्य श्रुत्युक्तत्वाद्ब्रह्मविद्यायां देवकृतो विघ्नः संभाव्यते। अयमर्थो वार्तिकसारे स्वष्टं संगृहीतः – “स्वस्य तत्त्वमविज्ञाय यागदानादिकर्मभिः। स्वतोऽन्या देवताः पाति ह्मनड्वान्वणिजं यथा। अपि भूरिपशोः पुंस एकस्मिन्नपि तस्करैः। ह्रियमाणे पशौ दुःखं किमु सर्वापहारतः। सर्वस्वतुल्ये नृपशौ ब्रह्मधीपरिमोषिणा। ह्रियमाणे महद्दुःखं स्यात्सर्वेषां दिवौकसाम्। तस्मादेषामप्रियं तद्यन्मनुष्या विजानते। ब्रह्मात्मत्वमतो देवाः प्रतिबध्नन्ति वेदनम्। प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः। संन्यासिनोऽपि दृश्यन्ते देवसंदूषिताशयाः” इति। यथा देवाः प्रतिबन्धकास्तद्वदृष्यादयोऽपि ब्रह्मविद्यायाः प्रतिबन्धकाः। एतदपि बृहदारण्यक एव - “अथो अयं वा आत्मा सर्वेषां भूतानां लोकः” इत्यादिनाऽभिहितम्।

तदर्थोऽप्येवं संगृहीतः – “वर्णाश्रमाभिमानी सन्नतत्त्वज्ञः पराङ्मतिः। देवादीनामाश्रयः स्यात्सर्वेषामापिपीलिकम्। देवानां यागहोमाभ्यामृषीणां वेदपाठतः। पितृणां श्राद्धतो नृणां वस्त्रान्नगृहदानतः। पशूनां तृणनीराभ्यामुच्छिष्टकणधान्यतः।

[[489]]

श्वाखुटिट्टिममुख्यानामेवं सर्वाश्रयो गृही। कर्मणा नार्जितो यस्मान्न कश्चिदुपकारकृत्। गृही देवादिभिस्तस्मादार्जितोऽभूत्स्वकर्मभिः। स्वस्वकर्मार्जितत्वेन देवाद्याः स्वस्वदेहवत्। अविनाशं सदेच्छन्ति गृहिणः स्वोपकारिणः। तत्त्वं बुद्ध्वाऽननुष्ठानं नाशोऽयं गृहिणो महान्। एष देवादिभिः सर्वैर्न हि शक्यश्चिकित्सितुम्। कर्मणामननुष्ठानं रोगालस्यादिना तु यत्। नासावात्यन्तिको नाशो यतः पश्चात्करिष्यति। मा भूत्सर्वस्वहानिर्नो ब्रह्मयाथात्म्यविद्यया। इति देवादयो विद्यां प्रतिबध्नन्ति यत्नतः” इति। एतदेवाभिप्रेत्य कठवल्लीष्वाम्नातम् - “श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः” इति।

भगवताऽप्येतदेवोक्तम् – “मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये। यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः” इति।

तदेवं परमपुरुषार्थस्य विघ्नबाहुल्यसंभवात्तच्छान्तये सांहित्यामुपनिषद्याद्यानुवाके जप्यो मन्त्र आम्नायते। कर्मकाण्डस्योपक्रमे तु नायं मन्त्र आम्नातः कर्मानुष्ठानस्य देवादिभिरप्यपेक्षितत्वेन तत्र विघ्नानामसंभवात्। ननु पूर्वकाण्डोक्तैर्यज्ञदानादि [भि]रेव विद्याविघ्न उपशाम्यति। बाढम्। तथाऽपि मन्त्रजपनिर्वतनीयं विघ्नान्तरं संभवति। विद्यायामरुचिराद्यो विघ्नः। स च संचितैर्महद्भिः पापैरापाद्यते। एतच्च पुराणेऽभिहितम् – “महापापवतां नृणां ज्ञानयज्ञो न रोचते। प्रत्युत ज्ञानयज्ञस्तु प्रद्वेष्यो भासते स्वतः” इति।

तानि च महान्ति पापानि ब्रह्मवेदने रुचिमुत्पादयद्भिर्यज्ञदानादिभिर्निवर्त्यन्ते। सेयं रुचिर्विविदिषाशब्दवाच्या तदुत्पादकत्वं च यज्ञादीनामेवमाम्नायते - “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इति। यज्ञादीनां च काम्यानां सांसारिकफलहेतुत्वेऽपीश्वरार्पितानां वेदनविघ्नकारिमहापातकनिवर्तकत्वं युक्तम्। १ ख. व. विघ्न।

[[490]]

अत एव भगवतोक्तम् – “ब्रह्मण्याधाय कर्माणि सङ्ग त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा” इति।

तस्य पापक्षयस्य विषयवैराग्यं लिङ्गम्। एतच्च नैष्कर्म्यसिद्धावुक्तम् – “शोध्यमानं तु तच्चित्तमीश्वरार्पितकर्मभिः। वैराग्यं ब्रह्मलोकादौ व्यनक्त्यथ सुनिर्मलम्” इति।

श्रेयोमार्गेऽप्यभिहितम् – “ब्रह्मादिस्तम्बान्ते संसारेऽस्मिन्नसारताबुद्धिः। अन्तर्यामिणि देवे समर्पितस्वक्रियाविपक्तिरियम्” इति।

विरक्तस्य विद्यायामरुचिकरे विघ्ने परित्द्दतेऽपि चित्तैकाग्र्यहेतोरुपासनस्य योगशब्दाभिधेयस्यान्तरायाः संभवन्ति। ते च पतञ्जलिना योगशास्त्रे सूत्रिताः - “व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपा योगान्तरायाः” इति। व्याधिः प्रसिद्धः। स्त्यानकर्मण्यता चित्तस्य। चित्तं हि कदाचित्तमोगुणबाहुल्येन व्यापारायोग्यं सन्मूढं भवति। उपास्यनिश्चयराहित्यं संशयः। उपासनस्य कदाचिद्विस्मृतिः प्रमादः। पश्चात्करिष्यामीत्युपेक्षाऽऽलस्यम्। वैराग्यराहित्यमविरतिः। उपास्यवस्तुन्यन्यथा निश्चयो भ्रान्तिदर्शनम्। चित्तैकाग्र्यस्योत्तरोत्तराभिवृद्धिराहित्यमलब्धभूमित्वम्। कदाचिदुपासने प्रवृत्तिः कदाचिद्यागदानादौ कदाचित्कृषिवाणिज्यादावित्येताद्दगनवस्थितत्वम्।

एतेषां योगान्तरायाणामुपशमनाय जप्यं मन्त्रमाह – हरिः ॐ। शं नो॑ मि॒त्रः शं वरु॑णः। शं नो॑ भवत्वर्य॒मा। शं न॒ इन्द्रो॒ बृह॒स्पतिः। शं नो॒ विष्णु॑रुरुक्र॒मः, इति। अह्णः प्राणवृत्तेश्चाभिमानी देवो मित्रो नोऽस्माकं शं सुखहेतुर्भवतु। एवमुत्तरत्रापि योज्यम्। रात्रेरपानवृत्तेश्चाभिमानी वरुणः। चक्षुष आदित्यमण्डलस्य चाभिमान्यर्यमा। बाह्वोर्बलस्या (स्य चा) भिमानीन्द्रः। वाचि बुद्धौ चाभिमानी बृहस्पतिः। पादयोरभिमानी विष्णुः स चोरुक्रमः त्रिविक्रमावतारे विस्तीर्णपादोपेतत्वात्। अथवा प्राणादिष्ववयवेष्वभिमानिनां मित्रादीनामुक्तत्वादवयविनि कृत्स्रदेहेऽभिमानी विराट्पुरुषः परिशिष्यते। स चोरुक्रमशब्देनाभिधीयते। ब्रह्माण्डदेहोपेतत्वेन सर्वव्यापित्वमुरुक्रमत्वम्।

  1. क. ख. ङ. म् – शुध्य। २ क. ख. ग. ङ. भिक्षिप्तम्। ३. ग. घ. मित्रः। सोऽस्मा।

[[491]]

इत्थमवयवेष्ववयविनि चाभिमानिनो देवा विघ्नपरिहारेण सुखहेतुतया प्रार्थिताः। अथ तेषां देवानामन्तर्यामित्वेन प्रेरकं यत्परं ब्रह्म तदेतन्नमस्क्रियते – नमो॒ ब्रह्म॑णे। नम॑स्ते वायो। त्वमे॒व प्रत्यक्षं॒ ब्रह्मा॑सि। त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि। ऋ॒तं व॑दि- ष्यामि। स॒त्यं व॑दिष्यामि। तन्माम॑वन्तु। तद्व॒क्तार॑ मवतु। अव॑तु॒ माम्। अव॑तु व॒क्तार॑म्, इति।

यच्च ब्रह्म ज्ञानक्रियाशक्त्युपेतसूत्रात्मना वायुमूर्तिधारिणां सर्वेषां प्राणिनां विधारकं भवति। “वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति” इति श्रुतेः। अतो वायुरपि नमस्क्रियते। तत्रान्तर्यामिणः शास्त्रानुमानाभ्यामेवावगम्यत्वेन परोक्षत्वान्नास्ति संबोधनम्। सूत्रात्मना वायुरूपेण स्पर्शनेन्द्रियगम्यत्वात्संबोध्यते। अयमेवाभिप्रायस्त्वमेव प्रत्यक्षमिति वाक्येन स्पष्टी क्रियते। यतो वायूपाधिकं ब्रह्मा प्रत्यक्षयोग्यं ततो हे वायो *त्वामेव व्याकरिष्यमाणेषूपासनवाक्येषु साक्षात्कारयोग्यं ब्रह्मा वदिष्यामि। सोपाधिकं ब्रह्म तु येन येन प्रकारेणेपास्यते तेन तेन प्रकारेण चिराभ्यासे सति साक्षात्कर्तुं शक्यते। अत एव च्छन्दोगाः शाण्डिल्यविद्यायामामनन्ति - “एतमितः प्रेत्याभिसंभविताऽस्मीति यस्य स्यादद्धा न विचिकित्साऽस्ति” इति। अद्धा साक्षादित्यर्थः। वाजसनेयिनोऽप्यामनन्ति - “देवो भूत्वा देवानप्येति” इति। इहैव जन्मनि साक्षात्कारो देवभावः। मरणादूर्ध्वं देवत्वापत्तिर्देवाप्ययः अतो वक्ष्यमाणवाक्येषु नानृतं वदिष्यामि किंतु विद्यमानमेवार्थं प्रत्यक्षं ब्रह्मेत्येतादृशं वदिष्यामि। विवक्षितस्य विद्यमानार्थस्याऽऽदौ मनसा पर्यालोचनमृतवदनं पश्चाद्वचसोच्चारणं सत्यवदनमिति तयोर्विवेकः। यदुत्तरत्र वक्ष्यमाणं प्रत्यक्षं ब्रह्म तन्मां विद्यार्थिनं शिष्यं वक्तारमाचार्य च विद्याग्रहणोपदेशसामर्थ्यप्रदानेनाप्युभौ पालयतु। अनयैव विवक्षया पुनरपि ‘अवतु माम्। अवतु वक्तारम्’ इत्यभिधीयते। इत्थं वायुरूपं प्रत्यक्षं ब्रह्म संप्रार्थ्यान्तर्यामिरूपं परोक्षं ब्रह्म तद्वाचकेन प्रणवेनानुस्मृत्य विघ्नशान्तिरस्त्विति प्रार्थ्यते –

ॐ शान्तिः॒ शान्तिः॒ शान्तिः (१), इति।

  • यद्यपि शान्तिवाक्ये त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामीत्येव वैदिकपाठ उपलभ्यते तथाऽप्युपसंहारशान्तौ त्वामेव प्रत्यक्षं ब्रह्मावादिषमित्येव वैदिकपाठात्तदनुरोधाच्छांकरभाष्येऽत्र चेतिकाराध्याराहेण लापनमकृत्वा त्वामेवेत्युद्दिश्यैवार्थकरणाच्च पुरातनपाठस्त्वामेवेत्येवानुमीयते। १. ख. वक्ष्यामि। २. ङ. मिप।

[[492]]

*स॒त्यं व॑दिष्यामि॒ पञ्च॑ च॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके प्रथमोऽनुवाकः॥१॥ विघ्नाश्च त्रिविधाः। तत्र ज्वरशिरोव्यथादय आध्यात्मिकाः। देवाद्युपद्रवास्त आधिदैविकाः। यक्षराक्षसाद्युपद्रवास्त आधिभौतिकाः। तेषां त्रयाणामुपशमनाय त्रिः शान्तिशब्दः पठ्यते। प्रणवेनेश्वरानुस्मरणस्य विघ्नोपशमनार्थत्वं पतञ्जलिश्चतुर्भिः सूत्रैः सूत्रयामास - “क्लेशकर्मविपाकाशयैरपरामृष्टः पुरषविशेष ईश्वरः” “तस्य वाचकः प्रणवः” “तज्जपस्तदर्थभावनम्” “ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च” इति।

इति श्रीमत्सायणाचार्यविरचिते बुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्यपरमे श्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तमप्रपाठके सांहित्यामुपनिषदि प्रथमोऽनुवाकः॥१॥