३३-४२ भृगु-वल्ली

भृगुर् वै वारुणिः

भृगु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पित॑र॒म् उप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तस्मा॑ ए॒तत्प्रो॑वाच । अन्नं॑ प्रा॒णञ् चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑ । तँ हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते । येन॒ जाता॑नि॒ जीव॑न्ति । यत्प्रय॑न्त्य॒भिसंवि॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । (33) अन्नं॒ ब्रह्मेति॒ व्य॑जानात् । अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति । अ॒न्नं प्रय॑न्त्य॒भिसव्ँ वि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तँ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । (34) प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति । प्रा॒णं प्रय॑न्त्य॒भिसव्ँ वि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तँ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । (35) मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । मन॑सा॒ जाता॑नि॒ जीव॑न्ति । मनः॒ प्रय॑न्त्य॒भिसव्ँ वि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तँ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । (36) वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात् । वि॒ज्ञाना॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति । वि॒ज्ञानं॒ प्रय॑न्त्य॒भि सव्ँ वि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तँ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । (37) आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् । आ॒नन्दा॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति । आ॒न॒न्दं प्रय॑न्त्य॒भि सव्ँ वि॑श॒न्तीति॑ । सैषा भा॑र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न् प्रति॑ष्ठिता । य ए॒वव्ँ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या । (38)

अन्नश्लाघा

अन्न॒न्न नि॑न्द्यात् । तद्व्र॒तम् । प्रा॒णो वा अन्न॑म् । शरी॑रमन्ना॒दम् । प्रा॒णे शरी॑रं॒ प्रति॑ष्ठितम् । शरी॑रे प्रा॒णः प्रति॑ष्ठितः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितव्ँ॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या । (39)

अन्न॒न्न परि॑चक्षीत । तद्व्र॒तम् । आपो॒ वा अन्न॑म् । ज्योति॑रन्ना॒दम् । अ॒प्सु ज्योतिः॒ प्रति॑ष्ठितम् । ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितव्ँ॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या । (40)

अन्नं॑ ब॒हु कु॑र्वीत । तद्व्र॒तम् । पृ॒थि॒वी वा अन्न॑म् । आ॒का॒शो॑ऽन्ना॒दः । पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः । आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितव्ँ॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या । (41)

न कञ्चन वसतौ प्रत्या॑चक्षी॒त । तद्व्र॒तम् । तस्माद्यया कया च विधया बह्व॑न्नं प्रा॒प्नुयात् । अराद्ध्यस्मा अन्नमि॑त्याच॒क्षते । एतद्वै मुखतो॑ऽन्नँ रा॒द्धम् । मुखतोऽस्मा अ॑न्नँ रा॒द्ध्यते । एतद्वै मद्ध्यतो॑ऽन्नँ रा॒द्धम् । मद्ध्यतोऽस्मा अ॑न्नँ रा॒द्ध्यते । एतद्वा अन्ततो॑ऽन्नँ रा॒द्धम् । अन्ततोऽस्मा अ॑न्नँ रा॒द्ध्यते । य ए॑वव्ँ वे॒द ।

क्षेम इ॑ति वा॒चि । योगक्षेम इति प्रा॑णापा॒नयोः । कर्मे॑ति ह॒स्तयोः । गतिरि॑ति पा॒दयोः । विमुक्तिरि॑ति पा॒यौ । इति मानुषी॑स्समा॒ज्ञाः । अथ दै॒वीः । तृप्तिरि॑ति वृ॒ष्टौ । बलमि॑ति वि॒द्युति । यश इ॑ति प॒शुषु । ज्योतिरिति न॑क्षत्रे॒षु । प्रजातिरमृतमानन्द इ॑त्युप॒स्थे । सर्वमि॑त्याका॒शे । तत्प्रतिष्ठेत्यु॑पासी॒त । प्रतिष्ठा॑वान्भ॒वति । तन्मह इत्यु॑पासी॒त । म॑हान्भ॒वति । तन्मन इत्यु॑पासी॒त । मान॑वान्भ॒वति । तन्नम इत्यु॑पासी॒त । नम्यन्ते॑ऽस्मै का॒माः । तद्ब्रह्मेत्यु॑पासी॒त । ब्रह्म॑वान्भ॒वति । तद्ब्रह्मणः परिमर इत्यु॑पासी॒त । पर्येणं म्रियन्ते द्विषन्त॑स्सप॒त्नाः । परि ये॑ऽप्रिया॑ भ्रातृ॒व्याः । स यश् चा॑यं पु॒रुषे । यश् चासा॑वादि॒त्ये । स एकः॑ । स य॑ एवव्ँ॒ वित् । अस्माल्लो॑कात्प्रे॒त्य । एतमन्नमयमात्मानमुप॑सङ्क्र॒म्य । एतं प्राणमयमात्मानमुप॑सङ्क्र॒म्य । एतं मनोमयमात्मानमुप॑सङ्क्र॒म्य । एतं विज्ञानमयमात्मान- मुप॑सङ्क्र॒म्य । एतमानन्दमयमात्मानमुप॑सङ्क्र॒म्य । इमाल्ँ लोकान्कामान्नी कामरूप्य॑नुस॒ञ्चरन् । एतत्साम गा॑यन्ना॒स्ते ।

हा+++(३)+++वु॒ हा+++(३)+++वु॒ हा+++(३)+++वु॑ ।
अ॒हमन्नम॒हमन्नम॒हमन्नम् ।
अ॒हमन्ना॒दोऽ३ हमन्ना॒दोऽ३ हमन्ना॒दः ।
अ॒हँ श्लोक॒कृद॒हँ श्लोक॒कृद॒हँ श्लोक॒कृत् ।
अहमस्मि प्रथमजा ऋता+++(३)+++स्य॒ ।
पूर्वन्देवेभ्यो अमृतस्य ना+++(३)+++ भा॒इ॒ ।
यो मा ददाति स इदेवमा +++(३)+++ वाः॒ ।
अ॒हमन्न॒मन्न॑म॒दन्त॒मा +++(३)+++ द्मि॒ ।
अ॒हव्ँ विश्वं॒ भुव॑न॒मभ्य॑भ॒वाम् ।
सुव॒र् न ज्योतीः॑ ।

य ए॒वव्ँ वेद॑ । इत्यु॑प॒निष॑त् । (42)