२३-३२ आनन्द-वल्ली ब्रह्मविद् आप्नोति

२३ सहनाववतु ...{Loading}...

स॒ह ना॑व् अवतु ।
स॒ह नौ॑ भुनक्तु ।
स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्वि ना॒व् अधी॑तम् अस्तु॒,
मा वि॑द्विषा॒वहै॑ ।
ओं शान्ति॒श् शान्ति॒श् शान्तिः॑ ।। (23)

ब्रह्मविद् आप्नोति

ब्र॒ह्म॒विदा॑प्नोति॒ पर॑म् ।
तद् ए॒षाभ्यु॑क्ता ।
स॒त्यं ज्ञा॒नम् अ॑न॒न्तं ब्रह्म॑ ।
यो वेद॒ निहि॑त॒ङ् गुहा॑यां पर॒मे व्यो॑मन्न्, सो॑ऽश्नुते॒ सर्वा॒न् कामा॑न्त् स॒ह ब्रह्म॑णा विप॒श्चितेति॑ ।

अन्नरसमयः पुरुषः

तस्मा॒द् वा ए॒तस्मा॑द् आ॒त्मन॑ आका॒शस् सम्भू॑तः । आ॒का॒शाद् वा॒युः । वा॒योर् अ॒ग्निः । अ॒ग्नेर् आपः॑ । अ॒द्भ्यः पृ॑थि॒वी । पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्यो ऽन्न॑म् । अन्ना॒त् पुरु॑षः । स वा एष पुरुषो ऽन्न॑रस॒मयः ।

तस्येद॑म् एव॒ शिरः । अयन् दक्षि॑णः प॒क्षः । अयम् उत्त॑रः प॒क्षः । अयम् आत्मा॑ । इदं पुच्छं॑ प्रति॒ष्ठा ।

तद् अप्य् एष श्लो॑को भ॒वति - (24)

अन्नमहिमा

अन्ना॒द् वै प्र॒जाः प्र॒जाय॑न्ते,
याः काश् च॑ पृथि॒वीँ श्रि॒ताः ।
अथो॒ अन्ने॑नै॒व जी॑वन्ति,
अथै॑न॒द् अपि॑ यन्त्य् अन्त॒तः ।

अन्नँ॒ हि भू॒ताना॒ञ् ज्येष्ठ॑म्,
तस्मा॑त् सर्वौष॒धम् उ॑च्यते ।
सर्वव्ँ॒ वै तेऽन्न॑म् आप्नुवन्ति,
येऽन्नं॒ ब्रह्मो॒पास॑ते ।

अन्नँ॒ हि भू॒ताना॒ञ् ज्येष्ठ॑म् । तस्मा॑त् सर्वौष॒धमु॑च्यते । अन्ना॑द्भू॒तानि॒ जाय॑न्ते । जाता॒न्य् अन्ने॑न वर्धन्ते । अद्यतेऽत्ति च॑ भूता॒नि । तस्माद्+++(स्वरः?)+++ अन्नन् तद् उच्य॑त इ॒ति ।

प्राणमयपुरुषः

तस्माद् वा एतस्माद् अन्न॑रस॒मयात् अन्यो ऽन्तर आत्मा॑ प्राण॒मयः । तेनै॑ष पू॒र्णः ।
स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् अन्वयं॑ पुरुष॒विधः । तस्य प्राण॑ एव॒ शिरः+++(←स्वरः?)+++ । व्यानो दक्षि॑णः प॒क्षः । अपान उत्त॑रः प॒क्षः । आका॑श आ॒त्मा । पृथिवी पुच्छं॑ प्रति॒ष्ठा ।

तद् अप्य् एष श्लो॑को भ॒वति - (25)

प्रा॒णन् दे॒वा अनु॒ प्राण॑न्ति,
म॒नु॒ष्याः॑ प॒शव॑श् च॒ ये ।
प्रा॒णो हि भू॒ताना॒मायुः॑,
तस्मा॑त् सर्वायु॒षम् उ॑च्यते ।

सर्व॑म् ए॒व त॒ आयु॑र् यन्ति,
ये प्रा॒णं ब्रह्मो॒पास॑ते ।
प्राणो हि भूता॑नाम् आ॒युः,
तस्मात् सर्वायुषम् उच्य॑त
इ॒ति ।

तस्यैष एव शारी॑र आ॒त्मा, यः॑ पूर्व॒स्य ।

मनोमयः

तस्माद् वा एतस्मा॑त् प्राण॒मयात्, अन्योऽन्तर आत्मा॑ मनो॒मयः । तेनै॑ष पू॒र्णः ।
स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् अन्वयं॑ पुरुष॒विधः ।

तस्य यजु॑र् एव॒ शिरः+++(←स्वरः?)+++ । ऋग् दक्षि॑णः प॒क्षः । सामोत्त॑रः प॒क्षः । आदे॑श आ॒त्मा । अथर्वाङ्गिरसः पुच्छं॑ प्रति॒ष्ठा । तद् अप्य् एष श्लो॑को भ॒वति । (26)

यतो॒ वाचो॒ निव॑र्तन्ते,
अप्रा॑प्य॒ मन॑सा स॒ह ।
आनन्दं ब्रह्म॑णो वि॒द्वान्,
न बिभेति कदा॑चने॒ति ।

तस्यैष एव शारी॑र आ॒त्मा, यः॑ पूर्व॒स्य ।

विज्ञानमयः

तस्माद् वा एतस्मा॑न् मनो॒मयात्, अन्योऽन्तर आत्मा वि॑ज्ञान॒मयः । तेनै॑ष पू॒र्णः ।
स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् अन्वयं॑ पुरुष॒विधः ।
तस्य श्र॑द्धैव॒ शिरः । ऋतन् दक्षि॑णः प॒क्षः । सत्यम् उत्त॑रः प॒क्षः । यो॑ग आ॒त्मा । महः पुच्छं॑ प्रति॒ष्ठा । तद् अप्य् एष श्लो॑को भ॒वति । (27)

वि॒ज्ञानय्ँ॑ य॒ज्ञन् त॑नुते,
कर्मा॑णि तनु॒तेऽपि॑ च ।
वि॒ज्ञान॑न् दे॒वास् सर्वे॑,
ब्रह्म॒ ज्येष्ठ॒म् उपा॑सते ।

वि॒ज्ञानं॒ ब्रह्म॒ चेद् वेद॑,
तस्मा॒च् चेन् न प्र॒माद्य॑ति ।
शरीरे॑ पाप्म॑नो हि॒त्वा,
सर्वान् कामान्त् समश्नु॑त
इ॒ति ।

तस्यैष एव शारी॑र आ॒त्मा, यः॑ पूर्व॒स्य ।

आनन्दमयः

तस्माद् वा एतस्माद् वि॑ज्ञान॒मयात्,, अन्योऽन्तर आत्मा॑ऽऽनन्द॒मयः । तेनै॑ष पू॒र्णः ।
स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् अन्वयं॑ पुरुष॒विधः ।
तस्य प्रिय॑म् एव॒ शिरः । मोदो दक्षि॑णः प॒क्षः । प्रमोद उत्त॑रः प॒क्षः । आन॑न्द आ॒त्मा । ब्रह्म पुच्छं॑ प्रति॒ष्ठा । तद् अप्य् एष श्लो॑को भ॒वति । (28)

अस॑न्न् ए॒व स॑ भवति,
अस॒द्ब्रह्मेति॒ वेद॒ चेत् ।
अस्ति ब्रह्मेति॑ चेद् वे॒द,
सन्तम् एनन् ततो वि॑दुर्
इ॒ति ।

तस्यैष एव शारी॑र आ॒त्मा, यः॑ पूर्व॒स्य ।

अनुप्रश्नाः

अथातो॑ऽनुप्र॒श्नाः ।
उ॒ता वि॒द्वान् अ॒मुल्ँ लो॒कं प्रेत्य॑, कश्च॒न ग॑च्छ॒ती(३),
आहो॑ वि॒द्वान् अ॒मुल्ँ लो॒कं प्रेत्य॑, कश्चि॒त् सम॑श्नु॒ता (३) उ॒ ।

सृष्टिः

सो॑ऽकामयत - ब॒हु स्यां॒ प्रजा॑ये॒येति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा - इ॒दँ सर्व॑म् असृजत - यद् इ॒दङ् किञ् च॑ ।
तत्सृ॒ष्ट्वा - तद् ए॒वानु॒ प्रावि॑शत् ।
तद॑नुप्र॒विश्य॑- सच्च॒ त्यच् चा॑भवत्, नि॒रुक्त॒ञ् चानि॑रुक्तञ् च, नि॒लय॑न॒ञ् चानि॑लयनञ् च, वि॒ज्ञान॒ञ् चावि॑ज्ञानञ् च, सत्यञ् चानृतञ् च।
स॑त्यम् अ॒भवत् । यद् इ॑दङ् कि॒ञ् च - तत् सत्यम् इ॑त्य् आच॒क्षते । तदप्य् एष श्लो॑को भ॒वति - (29)

अस॒द्+++(→ब्रह्म)+++ वा इ॒दम् अग्र॑ आसीत् ।
ततो॒ वै सद् अ॑जायत ।
तद् आत्मानँ स्वय॑म् अकु॒रुत ।
तस्मात् तथ्+++(=असत्)+++ सुकृतम् उच्य॑त
इ॒ति ।

रसानन्दौ

यद् वै॑ तत् सु॒कृतम् +++(ब्रह्म)+++- र॑सो वै॒ सः । रसँ ह्य् एवायल्ँ लब्ध्वा ऽऽन॑न्दी भ॒वति ।
को ह्य् एवान्या॑त्, कः प्रा॒ण्यात् - यद् एष आकाश+++(य्)+++ आन॑न्दो न॒ स्यात् ।
एष ह्य् एवान॑न्दया॒ति+++(=आनन्दयति)+++ - य॒दा ह्ये॑वैष॒ एतस्मिन्न् अदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने ऽभयं प्रति॑ष्ठाव्ँ वि॒न्दते ।
अथ सोऽभयङ्ग॑तो भ॒वति ।
य॒दा ह्ये॑वैष॒ एतस्मिन् नु दरम् अन्त॑रङ् कु॒रुते- अथ तस्य भ॑यं भ॒वति - तत् त्वेव भयव्ँ विदुषो ऽम॑न्वान॒स्य । तदप्य् एष श्लो॑को भ॒वति - (30)

विश्वास-प्रस्तुतिः

भी॒षाऽस्मा॒द् वातः॑ पवते
भी॒षोदे॑ति॒ सूर्यः॑ ।
भीषाऽस्माद् अग्नि॑श् चेन्द्र॒श् च,
मृत्युर् धावति पञ्च॑मः

रङ्ग-रामानुजः

भीषाऽस्मात् इति । अग्नीन्द्रसूर्यप्रमुखाः सर्वेऽपि देवप्रवराः परमात्मशासनातिवृत्तौ किं भविष्यतीति भीत्या स्वस्वकर्मसु जागरूका भवन्ति । अतश्च ब्रह्मव्यतिरिक्तं कृत्स्नमपि पदं दुःखोदर्कत्वात् अनर्थरूपमेव । अतश्च तादृशपदकामनया मननविच्छेदस्य अत्यन्तभयावहत्वात् ‘ततोपि न भयं किञ्चिदस्ति इत्यर्थः ॥

मूलम्

भी॒षाऽस्मा॒द् वातः॑ पवते
भी॒षोदे॑ति॒ सूर्यः॑ ।
भीषाऽस्माद् अग्नि॑श् चेन्द्र॒श् च,
मृत्युर् धावति पञ्च॑म

विश्वास-प्रस्तुतिः

इ॒ति ।

मूलम्

इ॒ति ।

आनन्दमीमांसा

विश्वास-प्रस्तुतिः

सैषाऽऽनन्दस्य मीमाँ॑सा भ॒वति ।

रङ्ग-रामानुजः

एवं ब्रह्मवेदनस्य जगत्कारणत्वतदौपयिकसार्वज्यादिगुणविशिष्टविषयकत्वम् अविच्छिन्नत्वं च विधाय प्राप्यस्याऽऽनन्दमयस्य ब्रह्मणः आनन्दमयशब्दप्रवृत्तिनिमित्तम् आनन्दप्राचुर्यं दर्शयति - सैषा इति । वक्ष्यमाणानन्दविषयकविचारो भवतीत्यर्थः ।

मूलम्

सैषाऽऽनन्दस्य मीमाँ॑सा भ॒वति ।

विश्वास-प्रस्तुतिः

युवा स्यात्।
साधु यु॑वा ऽद्ध्या॒यकः - आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः ।
तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् ।
स एको मानुष॑ आन॒न्दः ।

रङ्ग-रामानुजः

युवा इत्यादि । अत्र व्यासार्यैः, साधु युवाध्यायकः साधु यथाविधि, सम्यक् संप्रदायसिद्धतया, स्वरवर्णादिभ्रंशरहितं वा । युवशब्देन प्रत्यग्रत्वं विवक्षितम् । अविस्मरणात् नित्यं नवं यथा भवति, तथाऽध्ययनवान् इत्यर्थः । यद्वा - स्वसमयवस्कानां सर्वेषामध्यायिकः अध्यापकः । तदधिकज्ञानः’ इत्यर्थः ।
आशिष्ठः - आशुतरक्रियः । यद्वा अशनक्षमः, अरोगः इत्यर्थः । यद्वा - आशीर्वादविषयभूतः । सर्वानुरञ्जकः इत्यर्थः । सर्वान् देवान् नमस्यन्ति इतिवन बलिष्ठः - मनोबलवान् । द्रढिष्ठः इति शारीरबलस्य उक्तत्वात् । यद्वा - द्रविष्ठः - दृढतरः न तु अव्यवस्थितस्वभावः इत्यर्थः । बलिष्ठः शारीरमानस सर्वविधबलवान् वित्तस्य पूर्णा - वित्तेन पूर्णा । पूरणगुणसुहितार्थ…… (पा.सू.२-२-११) इति षष्टया अनुज्ञानात् ।

एवं गुणसमुदायं ‘विभूति पौष्कल्यं च उक्त्वा,
स एको मानुष आनन्द इति श्रुत्या स्वरसतः तस्यैव आनन्दत्वम् उक्तम् ।
न च ज्ञान-भिन्नस्य गुण-विभूत्यादे कथम् आनन्दत्वम् इति शंक्यम् ।
अनुकूलत्वं हि आनन्दत्वम् । तञ्च स्वतः एव। इष्टत्वम् । तञ्च गुणविभूत्योः अपि सम्भवति । तद्विषयज्ञानस्यापि अनुकूलत्वं विषयानुकूलत्वप्रयुक्तमेव इति अन्वयव्यतिरेकसिद्धम् । अतः श्रुतिस्वारस्यात् गुणविभूत्यादेः। आनन्दत्वम् ।

मूलम्

युवा स्यात्।
साधु यु॑वा ऽद्ध्या॒यकः - आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः ।
तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् ।
स एको मानुष॑ आन॒न्दः ।

विश्वास-प्रस्तुतिः

ते ये शतं मानुषा॑ आन॒न्दाः । स एको मनुष्यगन्धर्वाणा॑म् आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

रङ्ग-रामानुजः

श्रोत्रियः - ब्रह्मनिष्ठः ।
अकामहतः - समस्तसांसारिकभोगानुपहतः ।
अतः मुक्तः उच्यते इत्युक्तम् ।
एवञ्च युवत्व-दृढगात्रत्व-सौन्दर्य-ज्ञानबलैश्वर्यादयः सम्भूय यत्र भवन्ति स एको मानुष आनन्दः ।
अकामहतश्रोत्रियस्य मुक्तस्यापि सः आनन्दोऽस्ति ।
मुक्तस्य सर्वानन्दानुभवशलित्वात्
तत्र मानुषानन्दस्य अन्तर्गतत्वात् इति भावः ।
ते ये शतम् इति ।
ये मनुष्या एव सन्तः
कर्मविशेषेण विद्याविशेषेण वा
अन्तर्धानादिशक्तत्य्-उपेततया गन्धर्वत्वं प्राप्ताः,
ते मनुष्यगन्धर्वाः ।

मूलम्

ते ये शतं मानुषा॑ आन॒न्दाः । स एको मनुष्यगन्धर्वाणा॑म् आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

विश्वास-प्रस्तुतिः

ते ये शतं मनुष्यगन्धर्वाणा॑म् आन॒न्दाः - स एको देवगन्धर्वाणा॑म् आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

रङ्ग-रामानुजः

अन्तरिक्षलोकवासिनः देवगन्धर्वाः ।

मूलम्

ते ये शतं मनुष्यगन्धर्वाणा॑म् आन॒न्दाः - स एको देवगन्धर्वाणा॑म् आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

विश्वास-प्रस्तुतिः

ते ये शतन् देवगन्धर्वाणा॑म् आन॒न्दाः - स एकः पितृणाञ् चिर-लोक-लोकाना॑म् आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

रङ्ग-रामानुजः

चिरकालस्थायी लोकः चिरलोकः । चिरलोको लोको येषांते चिरलोकलोकाः पितरः ।

मूलम्

ते ये शतन् देवगन्धर्वाणा॑म् आन॒न्दाः - स एकः पितृणाञ् चिर-लोक-लोकाना॑म् आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

विश्वास-प्रस्तुतिः

ते ये शतं पितृणाञ् चिरलोकलोकाना॑म् आन॒न्दाः - स एक आजान+++(=देवलोक)+++-जानान् देवाना॑म् आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

रङ्ग-रामानुजः

आजानः - देवलोकः तत्र जाताः आजानजाः । स्मार्तकर्मविशेषतो देवस्थानेषु जाता इत्यर्थः ।

मूलम्

ते ये शतं पितृणाञ् चिरलोकलोकाना॑म् आन॒न्दाः - स एक आजानजानान् देवाना॑म् आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

विश्वास-प्रस्तुतिः

ते ये शतमाजानजानान् देवाना॑म् आन॒न्दाः - स एकः कर्मदेवानान् देवाना॑म् आन॒न्दः ।
ये कर्मणा देवान् अ॑पिय॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य ।

रङ्ग-रामानुजः

अग्निहोत्रादिकर्मणा अग्नीन्द्रादिसायुज्यं प्राप्ताः कर्मदेवाः ।

मूलम्

ते ये शतमाजानजानान् देवाना॑म् आन॒न्दाः - स एकः कर्मदेवानान् देवाना॑म् आन॒न्दः ।
ये कर्मणा देवान् अ॑पिय॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य ।

विश्वास-प्रस्तुतिः

ते ये शतङ्कर्मदेवानान्देवाना॑मान॒न्दाः - स एको देवाना॑म् आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

रङ्ग-रामानुजः

देवास्तु वसुरुद्रादयः त्रयस्त्रिंशत् हविर्भुजः ।

मूलम्

ते ये शतङ्कर्मदेवानान्देवाना॑मान॒न्दाः - स एको देवाना॑म् आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

विश्वास-प्रस्तुतिः

ते ये शतन् देवाना॑म् आन॒न्दाः - स एक इन्द्र॑स्यान॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

रङ्ग-रामानुजः

इन्द्रबृहस्पती प्रसिद्धौ ।

मूलम्

ते ये शतन् देवाना॑म् आन॒न्दाः - स एक इन्द्र॑स्यान॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

विश्वास-प्रस्तुतिः

ते ये शतम् इन्द्र॑स्यान॒न्दाः - स एको बृहस्पते॑र् आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

मूलम्

ते ये शतम् इन्द्र॑स्यान॒न्दाः - स एको बृहस्पते॑र् आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

विश्वास-प्रस्तुतिः

ते ये शतं बृहस्पते॑र् आन॒न्दाः - स एकः प्रजापते॑र् आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

रङ्ग-रामानुजः

प्रजापतिः चतुर्मुखः; न तु दक्षादयः, एकवचनश्रवणात् ।

मूलम्

ते ये शतं बृहस्पते॑र् आन॒न्दाः - स एकः प्रजापते॑र् आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

विश्वास-प्रस्तुतिः

ते ये शतं प्रजापते॑र् आन॒न्दाः - स एको ब्रह्मण॑ आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

रङ्ग-रामानुजः

ते ये शतं प्रजापतेः इति ।
अत्र ब्रह्मशब्दः, ब्रह्मविद् आप्नोति परम्
इति प्रकृत-ब्रह्म-परः ।
न च

ब्रह्मानन्दस्य “ते ये शतम्”
इति परिच्छिन्नत्वं कथम् ?

इति शंक्यम् - क्षणार्धेन बहूनि योजनानि गच्छति रवौ,
“इषुवद् गच्छति सविता” इति इषुसाम्यप्रतिपादकवचनस्य गतिमान्यनिवृत्तिपरत्ववत् ।
“ते ये शतम्” इति वाक्यस्यापि चतुर्मुखानन्दान्यूनानधिकत्व परत्वाभावात् ।

मूलम्

ते ये शतं प्रजापते॑र् आन॒न्दाः - स एको ब्रह्मण॑ आन॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य ।

विश्वास-प्रस्तुतिः

स यश् चा॑यं पु॒रुषे, यश् चासा॑व् आदि॒त्ये - स एकः॑ ।

रङ्ग-रामानुजः

एवंभूत-आनन्दमयः यो वेद निहितं गुहायाम् इति हृदयगुहानिहितत्वेन उपास्यमानः ।
कीदृशविग्रहविशेष विशिष्टः को वा देवताविशेषः? इत्याकाङ्क्षायाम् आह - स यश्चायम् इति ।
य एषोऽन्तरादित्ये हिरण्मयः पुरषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेशः आप्रणखात् सर्व एव सुवर्णः, तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी ।

तस्योदिति नाम (छां.उ.१-६-६) इति आदित्य मण्डलान्तर्वी कमनीयविग्रहयुक्तो यः पुण्डरीकाक्षः, स एव हदयगुहावर्ती विज्ञानमयादन्तरः । ततश्च पुण्डरीकाक्षत्वादिविग्रहोपेतो नारायण एव इत्यर्थः । ततश्च तादृशविग्रहविशिष्टत्वेन हृदयगुहावर्तिनो भगवतो ध्यानं कर्तव्यमिति फलितार्थः । ।

अत्र सञ्च त्यञ्चभवत् इति चिदचिच्छरीरकत्वेन अनुसन्धानम् उक्तम् ।
सत्यं ज्ञानम् इति स्वरूपेण अनुसन्धानम् उक्तम् ।
तच्च स्वरूपेण अनुसन्धानम् आदित्यमण्डलान्तर्वति पुण्डरीकाक्षत्व विशिष्टतया च उक्तं भवति ।
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यात् (ब्र.सू.१-१-३२) इति सूत्रे भगवता भाष्यकृता तदिदं त्रिविधं ब्रह्मानुसन्धान प्रकरणान्तरेषु अपि आश्रितम् । सत्यं ज्ञानमनन्तं ब्रह्म इत्यादिषु स्वरूपेण अनुसन्धानम् । तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य सञ्च त्यञ्चाभवत् इति भोक्तृशरीरकतया भोग्यभोगोपकरणशरीरकतया च अनुसन्धानम् इत्युक्तम् ।

मूलम्

स यश् चा॑यं पु॒रुषे, यश् चासा॑व् आदि॒त्ये - स एकः॑ ।

विश्वास-प्रस्तुतिः

स य॑ एवव्ँ॒ वित्, अस्माल् लो॑कात् प्रे॒त्य,
एतम् अन्नमयमात्मानम् उप॑सङ्क्रा॒मति,
एतं प्राणमयम् आत्मानम् उप॑सङ्क्रा॒मति,
एतम् मनोमयम् आत्मानम् उप॑सङ्क्रा॒मति,
एतं विज्ञानमयम् आत्मानम् उप॑सङ्क्रा॒मति,
एतम् आनन्दमयम् आत्मानम् उप॑सङ्क्रा॒मति ।

रङ्ग-रामानुजः

एवमस्य प्राप्यत्वोपयुक्तम् उक्त्वा, उताहो विद्वानमुं लोकम् इत्यादिना उपक्षिप्तानां प्रश्नानामुत्तरमाह - स य एवम् इति । अत्र स य एवंवित् अस्मात् लोकात् प्रेत्य इत्यनेन सर्वेषां ब्रह्मविदामर्चिरादिमार्गः उक्तो भवति । आनन्दमयमात्मानमुपसङ्क्रामति इति मुक्तिदशायां जीवब्रह्मणोः उपास्योपासकयोः भोग्यभोक्तृभावप्रतिपादनात् मुक्तौ ब्रह्मणा ऐक्यपक्षो निरस्तो भवति । एतमन्नमयं इत्यादिषु पञ्चस्वपि पर्यायेषु एतच्छब्दः परमात्मपरः । अन्नमय-प्राणमय-मनोमय विज्ञानमयशब्दाः तच्छरीरकपरमात्मपराः । अत्र व्यासार्यैः, सर्वोऽपि विद्वान् अस्माल्लोकात् प्रेत्य अन्नमयादिसमष्टिव्यष्टि भूतिकं निरतिशयानन्दं परमात्मानं भोग्यभूतं भोक्ता सन् अनुभवति इति प्रश्नोत्तरम् उक्तं भवति इत्युक्तम् । अभयं प्रतिष्ठां विन्दते ।

मूलम्

स य॑ एवव्ँ॒ वित्, अस्माल् लो॑कात् प्रे॒त्य,
एतम् अन्नमयमात्मानम् उप॑सङ्क्रा॒मति,
एतं प्राणमयम् आत्मानम् उप॑सङ्क्रा॒मति,
एतम् मनोमयम् आत्मानम् उप॑सङ्क्रा॒मति,
एतं विज्ञानमयम् आत्मानम् उप॑सङ्क्रा॒मति,
एतम् आनन्दमयम् आत्मानम् उप॑सङ्क्रा॒मति ।

विश्वास-प्रस्तुतिः

तदप्येष श्लो॑को भ॒वति - (31)

रङ्ग-रामानुजः

अथ सोऽभयं गतो भवति इत्युक्तार्थे साक्षित्वेन श्लोकं पठति तदपि इति ॥

मूलम्

तदप्येष श्लो॑को भ॒वति - (31)

विश्वास-प्रस्तुतिः

यतो॒ वाचो॒ निव॑र्तन्ते
अ-प्रा॑प्य॒ मन॑सा स॒ह ।
आनन्दं ब्रह्म॑णो वि॒द्वान्
न बिभेति कुत॑श्चन ।

  • इ॒ति।
विस्तारः (द्रष्टुं नोद्यम्)

यतो वाचः इति । वाङ्मनसी आनन्दस्य इयत्तालक्षणं पारं गन्तुं प्रवृत्ते। तदप्राप्यैव निवृत्ते भवतः । तादृशाऽऽनन्दगुणकब्रह्मोपासनेन सर्वक्लेशभयात्यन्तिकनिवृत्तिः भवति इत्यर्थः ।

मूलम्

यतो॒ वाचो॒ निव॑र्तन्ते
अप्रा॑प्य॒ मन॑सा स॒ह ।
आनन्दं ब्रह्म॑णो वि॒द्वान्
न बिभेति कुत॑श्चने॒ति ।

विश्वास-प्रस्तुतिः

एतँ ह वाव॑ न त॒पति - “किम् अहँ साधु॑ नाक॒रवम्? किम् अहं पापम् अकर॑वम्” इ॒ति ।

विस्तारः (द्रष्टुं नोद्यम्)

तदेव उपपादयति । एतम् इति । स्वर्गादिहेतुभूतं सुकृतं न अकार्षम् । नरकादिहेतुभूतं दुष्कृतम् अकार्षम् इति ईदृशी चिन्ता एतं ब्रह्मविदं न बाधते । स्वर्गादिलोकेषु इच्छायाः अभावात् । ब्रह्मज्ञानाग्निदग्धपापतया नरकादिभयस्यापि अभावात् ।

मूलम्

एतँ ह वाव॑ न त॒पति - “किम् अहँ साधु॑ नाक॒रवम्? किम् अहं पापम् अकर॑वम्” इ॒ति ।

विश्वास-प्रस्तुतिः

स य एवव्ँ विद्वान्
एते आत्मा॑नँ स्पृ॒णुते+++(=रक्षति)+++।
उ॒भे ह्य् ए॑वैष॒ एते आत्मा॑नँ स्पृ॒णुते ।

विस्तारः (द्रष्टुं नोद्यम्)

एतादृशं ब्रह्मविद्या-प्रयुक्तमाहात्म्यम् अपि ध्येयम् इत्य् आह - स यः इति ।
एते - एताभ्यां पुण्यपापाभ्याम् आत्मानं स्पृणुते - रक्षति इत्यर्थः ।
पुण्य-पाप-फलानुभवो नास्तीति उक्तं भवति ।
उभे इति । पुनर्वचनं पुण्यपाप-विधूनन-सातत्यतात्पर्यद्योतनाय, अनुवाकसमाप्तिद्योतनाय च ।

मूलम्

स य एवव्ँ विद्वान्
एते आत्मा॑नँ स्पृ॒णुते -
उ॒भे ह्य् ए॑वैष॒ एते आत्मा॑नँ स्पृ॒णुते ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वेद॑ । इत्यु॑प॒निष॑त् । (32)

विस्तारः (द्रष्टुं नोद्यम्)

इत्युपनिषत् इति । इत्थं परम-रहस्य-रूपोपदेश-योग्यायैव वक्तव्यम् इति भावः ।+++(5)+++

मूलम्

य ए॒वव्ँ वेद॑ । इत्यु॑प॒निष॑त् । (32)