प्रवेशः
०१ शन्नो मित्रः प्रारम्भे ...{Loading}...
शन्नो मित्रः ...{Loading}...
विश्वास-प्रस्तुतिः
शन् नो॑ मि॒त्रश्, शव्ँ वरु॑णः ।
शन् नो॑ भवत्व् अर्य॒मा ।
शन् न॒ इन्द्रो॒ बृह॒स्पतिः॑ ।
शन् नो॒ विष्णु॑र् उरुक्र॒मः ।
नमो॒ ब्रह्म॑णे ।
नम॑स् ते वायो । त्वम् ए॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि ।
त्वाम् ए॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि ।
ऋ॒तव्ँ व॑दिष्यामि। स॒त्यव्ँ व॑दिष्यामि ।
तन् माम् अ॑वतु । तद् व॒क्तार॑म् अवतु ।
अव॑तु॒ माम् । अव॑तु व॒क्तार॑म् ।
ओम् शान्ति॒श् शान्ति॒श् शान्तिः॑ ॥
शिक्षा
शीक्षाव्ँ व्या॑ख्यास्या॒मः ।
वर्णः॒ स्वरः ।
मात्रा॒ बलम् ।
साम॑ सन्ता॒नः ।
इत्युक्तश् शी॑क्षाद्ध्या॒यः ॥ (2)
संहितोपनिषत्
स॒ह नौ॒ यशः ।
स॒ह नौ ब्र॑ह्मव॒र्चसम् ।
अथातस् सँहिताया उपनिषदव्ँ व्या॑ख्यास्या॒मः,
पञ्चस्व् अधिक॑रणे॒षु - अधिलोकम् अधिज्यौतिषम् अधिविद्यम् अधिप्रज॑म् अद्ध्या॒त्मम् ।
ता महासँहिता इ॑त्य् आच॒क्षते ।
अथा॑धिलो॒कम् ।
पृथिवी पू॑र्वरू॒पम् । द्यौरुत्त॑ररू॒पम् । आका॑शस्स॒न्धिः । वायु॑स्सन्धा॒नम् ।
इत्य॑धिलो॒कम् ।
अथा॑धिज्यौ॒तिषम् ।
अग्निः पू॑र्वरू॒पम् । आदित्य उत्त॑ररू॒पम् । आ॑पस्स॒न्धिः । वैद्युत॑स् सन्धा॒नम् ।
इत्य॑धिज्यौ॒तिषम् ।
अथा॑धिवि॒द्यम् ।
आचार्यः पू॑र्वरू॒पम् । अन्तेवास्य् उत्त॑ररू॒पम् । वि॑द्या स॒न्धिः । प्रवचनँ॑ सन्धा॒नम् ।
इत्य॑धिवि॒द्यम् ।
अथाधि॒प्रजम् ।
माता पू॑र्वरू॒पम् । पितोत्त॑ररू॒पम् । प्र॑जा स॒न्धिः । प्रजननँ॑ सन्धा॒नम् ।
इत्यधि॒प्रजम् । (5)
अथाद्ध्या॒त्मम् ।
अधराहनुः पू॑र्वरू॒पम् । उत्तराहनुर् उत्त॑ररू॒पम् । वाक् स॒न्धिः । जिह्वा॑ सन्धा॒नम् ।
इत्यद्ध्या॒त्मम् ।
इतीमा म॑हासँ॒हिताः ।
य एवम् एता महासँहिता व्याख्या॑ता वे॒द, सन्धीयते प्रज॑या प॒शुभिः,, ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण॑ लोके॒न ॥ (6)
प्रकीर्णम्
०७ यश् छन्दसाम् ...{Loading}...
विश्वास-प्रस्तुतिः
+++(ॐकारः→)+++ यश् छन्द॑साम् ऋष॒भो वि॒श्वरू॑पः।
छन्दो॒भ्यो ऽध्य॒मृता॑त् संब॒भूव॑।
स मेन्द्रो॑ मे॒धया॑ स्पृणोतु।
अ॒मृत॑स्य देव॒! धार॑णो भूयासम्।
शरी॑रं मे॒ विच॑र्षणम्।
जि॒ह्वा मे॒ मधु॑मत्तमा।
कर्णा॑भ्यां॒ भूरि॒ विश्रु॑वम्।
ब्रह्म॑णः को॒शो॑ऽसि मे॒धया पि॑हितः।
श्रु॒तं मे॑ गोपाय।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
मूलम्
यश् छन्द॑साम् ऋष॒भो वि॒श्वरू॑पः।
छन्दो॒भ्यो ऽध्य॒मृता॑त् संब॒भूव॑।
स मेन्द्रो॑ मे॒धया॑ स्पृणोतु।
अ॒मृत॑स्य देव॒धार॑णो भूयासम्।
शरी॑रं मे॒ विच॑र्षणम्।
जि॒ह्वा मे॒ मधु॑मत्तमा।
कर्णा॑भ्यां॒ भूरि॒विश्रु॑वम्।
ब्रह्म॑णः को॒शो॑ऽसि मे॒धया पि॑हितः।
श्रु॒तं मे॑ गोपाय।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
रङ्गरामानुजः
ब्रह्मविद्यार्थं प्रणवं प्रार्थयते - यश्छन्दसाम् इति ।
छन्दसाम् वेदानां यः ऋषभः - श्रेष्ठः ।
विश्वरूपः - विश्वं विष्णुः (सा.ना.१) इति नामसहस्रपाठात् विश्वं - विष्णुः । तत्प्रतीकत्वात् तद्ध्यानसाधनत्वाच् च तद्-रूपत्वम् । सर्वशब्दप्रकृतित्वाद्वा सर्वरूपत्वम् । एवंभूतः प्रणवः अमृतात् परमात्मनः सर्वेभ्यश् छन्दोभ्यो ऽधिकतया सम्बभूव - प्रादुर्भूतः ।
सः इन्द्रः - परमैश्वर्यशाली प्रणवः मा - मां मेधया - ज्ञानेन स्पृणोतु - उज्जीवयतु ।
स्पृप्रीतिरक्षणप्राणनेषु (धा.पा.१२६०) इति हि धातुः।
देवेति दीव्यतः प्रणवस्य सम्बोधनम् ।
अमृतस्य परमात्मनः हृदये धारको भूयासम् । सर्वदा ब्रह्मज्ञानम् अनुवर्तताम् इत्यर्थः ।
मदीयञ्च शरीरं विचर्षणं बलारोग्यादिना कान्तिमद्भवतु ।
मदीया च जिह्वा सर्वदा ब्रह्मवदनशीलतया भोग्यतमा भवतु ।
कर्णाभ्याञ्च भूरि - भूयो ब्रह्मप्रतिपादकं शास्त्रं शृणवानि । विश्रुवम् इति छान्दसं रूपम् ।
परमात्मनः त्वं वाचकतया कोशोऽसि - निधानस्थानमसि ।
मेधाजनकतया तद्भरिततया वा मेधया ऽच्छादितोऽसि । तादृशः त्वम्, श्रुतार्थो यथा अप्रमृष्टो भवति, तथा कुरु इत्यर्थः ।
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒वह॑न्ती वितन्वा॒ना,,
कु॒र्वा॒णा चीर॑म् आ॒त्मनः॑ ।
वासाँ॑सि॒ मम॒ गाव॑श् च,,
अ॒न्न॒पा॒ने च॑ सर्व॒दा ।
ततो॑ मे॒ श्रिय॒म् आव॑ह,,
लो॒म॒शां प॒शुभि॑स् स॒ह
स्वाहा॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
आ॒वह॑न्ती वितन्वा॒ना,,
कु॒र्वा॒णा चीर॑म् आ॒त्मनः॑ ।
वासाँ॑सि॒ मम॒ गाव॑श् च,,
अ॒न्न॒पा॒ने च॑ सर्व॒दा ।
ततो॑ मे॒ श्रिय॒म् आव॑ह,,
लो॒म॒शां प॒शुभि॑स् स॒ह
स्वाहा॑ ।
रङ्गरामानुजः - टीका
विद्यौपयिक-होम-साधन-मन्त्राः उच्यन्ते - आवहन्ती इत्यादिः ।
लक्ष्मी-प्रार्थना-मन्त्रोऽयम् ।
आवहन्ती - उत्पादयन्ती, वितन्वाना वर्धयन्ती, यतस्त्वम्,
ततो मे चीरम् इतराणि वासांसि गाः अन्नपाने च सर्वदा कुर्वाणा सती,
सा हि श्रीरमृता सताम् (तै.ब्रा.१-२-१) इति त्रयी-लक्षणां श्रियम्, लोमशाम् - बहुलां यज्ञाद्यौपयिकपश्वादिद्रव्यैस्सह आवह - उत्पादय ॥ होमसाधनत्वात् मन्त्रस्य स्वाहान्तत्वम् । आ मा यन्तु इति । ब्रह्मविद्यायोग्याः ब्रह्मचर्यव्रतसम्पन्नाः शिष्याः ‘समागच्छन्तु इत्यनुकूलशिष्यप्रार्थनामन्त्रः ।
आ मा॑ यन्तु ब्रह्मचा॒रिण॒स् स्वाहा॑ ।
यशो॒ जने॑ ऽसानि॒+++(??)+++ स्वाहा॑ ।
श्रेया॒न् वस्य॑सो ऽसानि॒ स्वाहा॑ ।
तन्त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा॑ ।
स मा॑ भग॒ प्रवि॑श॒ स्वाहा॑ ।
तस्मि॑न्त् स॒हस्र॑शाखे, निभ॑गा॒हन् त्वयि॑ मृजे॒ स्वाहा॑ ।
यथापः॒ प्रव॑ता॒ यन्ति॑,
यथा॒ मासा॑ अहर्ज॒रम् ।
ए॒वं मां ब्र॑ह्मचा॒रिणः॑,
धात॒र् आय॑न्तु स॒र्वत॒स्
स्वाहा॑ ।
प्र॒ति॒वे॒शो॑सि॒, प्र मा॑ भाहि॒, प्र मा॑ पद्यस्व ॥
व्याहृतिभावः
सायण-टीका ऽत्र ।
भूर् भुव॒स् सुव॒र् इति॒ वा ए॒तास् ति॒स्रो व्याहृ॑तयः ।
तासा॑म् उ ह स्मै॒ताञ् च॑तु॒र्थीम् माहा॑चमस्यः॒ प्रवे॑दयते । मह॒ इति॑ । तद्ब्रह्म॑ । स आ॒त्मा । अङ्गा॑न्य॒न्या दे॒वताः॑ ।
लोकाः
भूर् इति॒ वा अ॒यल्ँ लो॒कः । भुव॒ इत्य॒न्तरि॑क्षम् । सुव॒रित्य॒सौ लो॒कः ।
मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यन्ते ।
ज्योतींषि
भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒र् इत्य् आ॑दि॒त्यः । मह॒ इति॑ च॒न्द्रमाः॑ ।
च॒न्द्रम॑सा॒ वाव सर्वा॑णि॒ ज्योतीँ॑षि॒ मही॑यन्ते ।
वेदाः
भूर् इति॒ वा ऋचः॑ । भुव॒ इति॒ सामा॑नि । सुव॒र् इति॒ यजूँ॑षि । मह॒ इति॒ ब्रह्म॑+++(=ॐकारः)+++ ।
ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यन्ते ।
प्राणाः
भूर् इति॒ वै प्रा॒णः । भुव॒ इत्य् अ॑पा॒नः । सुव॒र् इति॑ व्या॒नः । मह॒ इत्य् अन्न॑म् ।
अन्ने॑न॒ वाव सर्वे॑ प्रा॒णा मही॑यन्ते ।
फलश्रुतिः
ता वा ए॒ताश् च॑तस्रश् चतु॒र्धा, चत॑स्रश् चतस्रो॒ व्याहृ॑तयः ।
ता यो वेद॑ । स वे॑द॒ ब्रह्म॑ । सर्वे॑ऽस्मै दे॒वा ब॒लिमाव॑हन्ति ॥ (11)
पुरुषस्थानम्
स य ए॒षो॑ऽन्तर्-हृ॑दय आका॒शः, तस्मि॑न्न् अ॒यं पुरु॑षो मनो॒मयः॑ ।
अमृ॑तो हिर॒ण्मयः॑,, अन्त॑रेण॒ तालु॑के ।
य ए॒ष स्तन॑ इवाव॒लम्ब॑ते, से॑न्द्रयो॒निः ।
यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते, व्य॒पोह्य॑ शीर्षकपा॒ले।
भूर् इत्य् अ॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ । सुव॒र् इत्य् आ॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि ।
आ॒प्नोति॒ स्वारा॑ज्यम् । आ॒प्नोति॒ मन॑स॒स्-पति॑म् ।
वाक्प॑ति॒श् चक्षु॑ष्पतिः । श्रोत्र॑पतिर् वि॒ज्ञान॑पतिः ।
ए॒तत् ततो॑ भवति ।
आ॒का॒श-श॑रीरं॒ ब्रह्म॑ ।
स॒त्यात्म॑-प्रा॒णारा॑मं॒ मन॑ आनन्दम् ।
शान्ति॑-समृद्धम् अ॒मृत॑म् ।
इति॑ प्राचीनयो॒ग्योपा॑स्व । (13)
पाङ्क्तविद्या
पृ॒थि॒व्य् अ॑न्तरि॑क्ष॒न् द्यौर् दिशो॑ ऽवान्तरदि॒शाः,,
अ॒ग्निर् वा॒युर् आ॑दि॒त्यश् च॒न्द्रमा॒ नक्ष॑त्राणि,,
आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा
इत्य॑धिभू॒तम् ।
अथाद्ध्या॒त्मम् ।
प्रा॒णो व्या॒नो॑ ऽपा॒न उ॑दा॒नस् स॑मा॒नः,
चक्षुः॒ श्रोत्रं॒ मनो॒ वाक् त्वक्,
चर्म॑ माँ॒सँ स्नावा+++(=स्नायुर्)+++ ऽस्थि॑ म॒ज्जा ।
ए॒तद॑धि वि॒धाय॒र्षि॒र् अवो॑चत् ।
पाङ्क्तव्ँ॒ वा इ॒दँ सर्व॑म् । पाङ्क्ते॑नै॒व पाङ्क्तँ॑ स्पृणो॒तीति॑ । (14)
ॐकारः
ओम् इति॒ ब्रह्म॑ ।
ओम् इती॒दँ सर्व॑म् ।
ओम् इत्य् ए॒तद् अ॑नुकृति ह स्म॒ वा अ॒प्य् ओश्रा॑व॒येत्याश्रा॑वयन्ति ।
ओम् इति॒ सामा॑नि गायन्ति ।
ओँ शोम् इति॑ श॒स्त्राणि॑ शँसन्ति ।
ओम् इत्य् अ॑द्ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति ।
ओम् इति॒ ब्रह्मा॒ प्रसौ॑ति ।
ओम् इत्य् अ॑ग्निहो॒त्रम् अनु॑जानाति ।
ओम् इति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्न् आ॑ह॒ - ब्रह्मोपा॑प्नवा॒नीति॑ । ब्रह्मै॒वोपा॑प्नोति । (15)
स्वाध्यायप्रवचने
ऋतञ् च स्वाद्ध्यायप्रव॑चने॒ च ।
सत्यञ् च स्वाद्ध्यायप्रव॑चने॒ च ।
तपश् च स्वाद्ध्यायप्रव॑चने॒ च ।
दमश् च स्वाद्ध्यायप्रव॑चने॒ च ।
शमश् च स्वाद्ध्यायप्रव॑चने॒ च ।
अग्नयश् च स्वाद्ध्यायप्रव॑चने॒ च ।
अग्निहोत्रञ् च स्वाद्ध्यायप्रव॑चने॒ च ।
अतिथयश् च स्वाद्ध्यायप्रव॑चने॒ च ।
मानुषञ् च स्वाद्ध्यायप्रव॑चने॒ च ।
प्रजा च स्वाद्ध्यायप्रव॑चने॒ च ।
प्रजनश् च स्वाद्ध्यायप्रव॑चने॒ च ।
प्रजातिश् च स्वाद्ध्यायप्रव॑चने॒ च ।
सत्यम् इति सत्यवचा॑ राथी॒तरः ।
तप इति तपोनित्यः पौ॑रुशि॒ष्टिः ।
स्वाद्ध्यायप्रवचने एवेति नाको॑ मौद्ग॒ल्यः ।
तद्धि तप॑स्- तद्धि॒ तपः । (16)
त्रिशङ्कोर् वेदानुवचनम्
अ॒हव्ँ वृ॒क्षस्य॒ रेरि॑वा ।
की॒र्तिः पृ॒ष्ठङ् गि॒रेरि॑व ।
ऊ॒र्द्ध्वप॑वित्रो वा॒जिनी॑व स्व॒मृत॑म् अस्मि ।
द्रवि॑णँ॒ सव॑र्चसम् ।
सुमेधा अ॑मृतो॒क्षितः ।
इति त्रिशङ्कोर् वेदा॑नुव॒चनम् । (17)
१८-२१ वेद-सारः ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)
॥ शीक्षावल्ली तैत्तिरीयोपनिषदि ॥ आङ्ग्लानुवादस् सरसो ऽत्र।
वेदमनूच्याचार्यो ऽन्तेवासिनम् अ॑नुशा॒स्ति ।
सत्यव्ँ॒ वद ।
धर्म॒ञ् चर ।
स्वाद्ध्याया॑न्मा प्र॒मदः ।
आचार्याय प्रियन् धनमाहृत्य, प्रजातन्तुं मा व्य॑वच्छे॒त्सीः ।
सत्यान् न प्रम॑दित॒व्यम् ।
धर्मान् न प्रम॑दित॒व्यम् ।
कुशलान् न प्रम॑दित॒व्यम् ।
भूत्यै न प्रम॑दित॒व्यम् ।
स्वाद्ध्याय-प्रवचनाभ्यान् न प्रम॑दित॒व्यम् । (18)
देवपितृकार्याभ्यान् न प्रम॑दित॒व्यम् ।
मातृ॑देवो॒ भव ।
पितृ॑देवो॒ भव ।
आचार्य॑देवो॒ भव ।
अतिथि॑देवो॒ भव ।
यान्य् अनवद्यानि॑ कर्मा॒णि- तानि सेवि॑तव्या॒नि, नो इ॑तरा॒णि ।
यान्यस्माकँ सुच॑रिता॒नि- तानि त्वयो॑पास्या॒नि, नो इ॑तरा॒णि ।
ये के चास्मच्छ्रेयाँ॑सो ब्रा॒ह्मणाः- तेषान् त्वया ऽऽसनेन प्रश्व॑सित॒व्यम् ।
श्रद्ध॑या दे॒यम् ।
अश्रद्ध॑याऽदे॒यम् ।
श्रि॑या दे॒यम् ।
ह्रि॑या दे॒यम् ।
भि॑या दे॒यम् ।
संवि॑दा दे॒यम् ।
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकि॑त्सा वा॒ स्यात् - ये तत्र ब्राह्मणा॑स्, संम॒र्शिनः, युक्ता॑, आयु॒क्ताः, अलूक्षा॑, धर्म॑कामा॒स् स्युः- यथा ते॑ तत्र॑ वर्ते॒रन्, तथा तत्र॑ वर्ते॒थाः ।
अथाभ्या॑ख्याते॒षु - ये तत्र ब्राह्मणा॑स्, संम॒र्शिनः, युक्ता॑, आयु॒क्ताः, अलूक्षा॑, धर्म॑कामा॒स् स्युः - यथा ते॑ तेषु॑ वर्ते॒रन्, तथा तेषु॑ वर्ते॒थाः ।
एष॑ आदे॒शः । एष उ॑पदे॒शः । एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् । एवम् उ चैत॑दुपा॒स्यम् ॥ (21)
२२ शन्नो मित्रः समापनम् ...{Loading}...
शन्नो मित्रः ...{Loading}...
विश्वास-प्रस्तुतिः
शन् नो॑ मि॒त्रश्, शव्ँ वरु॑णः ।
शन् नो॑ भवत्व् अर्य॒मा ।
शन् न॒ इन्द्रो॒ बृह॒स्पतिः॑ ।
शन् नो॒ विष्णु॑र् उरुक्र॒मः ।
नमो॒ ब्रह्म॑णे ।
नम॑स् ते वायो । त्वम् ए॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि ।
… त्वामे॒व प्र॒त्यक्षं॒ ब्रह्माऽवा॑दिषम् ।
ऋ॒तम् अ॑वादिषम् । स॒त्यम् अ॑वादिषम् ।
तन् माम् आ॑वीत् । तद्व॒क्तार॑म् आवीत् ।
आवी॒न् माम् । आवी॑द् व॒क्तार॑म् ।
ओम् शान्ति॒श् शान्ति॒श् शान्तिः॑ ॥