१८-२१ वेद-सारः

विस्तारः (द्रष्टुं नोद्यम्)

॥ शीक्षावल्ली तैत्तिरीयोपनिषदि ॥ आङ्ग्लानुवादस् सरसो ऽत्र

वेदमनूच्याचार्यो ऽन्तेवासिनम् अ॑नुशा॒स्ति ।

सत्यव्ँ॒ वद ।
धर्म॒ञ् चर ।
स्वाद्ध्याया॑न्मा प्र॒मदः ।
आचार्याय प्रियन् धनमाहृत्य, प्रजातन्तुं मा व्य॑वच्छे॒त्सीः ।

सत्यान् न प्रम॑दित॒व्यम् ।
धर्मान् न प्रम॑दित॒व्यम् ।
कुशलान् न प्रम॑दित॒व्यम् ।
भूत्यै न प्रम॑दित॒व्यम् ।
स्वाद्ध्याय-प्रवचनाभ्यान् न प्रम॑दित॒व्यम् । (18) देवपितृकार्याभ्यान् न प्रम॑दित॒व्यम् ।

मातृ॑देवो॒ भव ।
पितृ॑देवो॒ भव ।
आचार्य॑देवो॒ भव ।
अतिथि॑देवो॒ भव ।

यान्य् अनवद्यानि॑ कर्मा॒णि- तानि सेवि॑तव्या॒नि, नो इ॑तरा॒णि ।
यान्यस्माकँ सुच॑रिता॒नि- तानि त्वयो॑पास्या॒नि, नो इ॑तरा॒णि ।

ये के चास्मच्छ्रेयाँ॑सो ब्रा॒ह्मणाः- तेषान् त्वया ऽऽसनेन प्रश्व॑सित॒व्यम् ।
श्रद्ध॑या दे॒यम् ।
अश्रद्ध॑याऽदे॒यम् ।
श्रि॑या दे॒यम् ।
ह्रि॑या दे॒यम् ।
भि॑या दे॒यम् ।
संवि॑दा दे॒यम् ।

अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकि॑त्सा वा॒ स्यात् - ये तत्र ब्राह्मणा॑स्, संम॒र्शिनः, युक्ता॑, आयु॒क्ताः, अलूक्षा॑, धर्म॑कामा॒स् स्युः- यथा ते॑ तत्र॑ वर्ते॒रन्, तथा तत्र॑ वर्ते॒थाः ।

अथाभ्या॑ख्याते॒षु - ये तत्र ब्राह्मणा॑स्, संम॒र्शिनः, युक्ता॑, आयु॒क्ताः, अलूक्षा॑, धर्म॑कामा॒स् स्युः - यथा ते॑ तेषु॑ वर्ते॒रन्, तथा तेषु॑ वर्ते॒थाः ।

एष॑ आदे॒शः । एष उ॑पदे॒शः । एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् । एवम् उ चैत॑दुपा॒स्यम् ॥ (21)