१२ राज-गव्य्-उत्सर्गादि

भास्करोक्त-विनियोगः

1अथ उपाकृतां राजगवीं घ्नन्त्य् उत्सृजन्ति वा ।
यद्य् उत्सृजन्ति राजगवीं
दारुचितिम् अग्निं च त्रिः प्रसव्यं परिणयन्ति - अपश्यामेति तिसृभिः ॥

विश्वास-प्रस्तुतिः

अप॑श्याम युव॒तिमा॒चर॑न्तीं मृ॒ताय॑ जी॒वां प॑रिणी॒यमा॑नाम् ।
अ॒न्धेन॒ या तम॑सा॒ प्रावृ॑ताऽसि॒ प्राची॒मवा॑ची॒मव॒यन्नरि॑ष्ट्यै ।

मूलम्

अप॑श्याम युव॒तिमा॒चर॑न्तीं मृ॒ताय॑ जी॒वां प॑रिणी॒यमा॑नाम् ।
अ॒न्धेन॒ या तम॑सा॒ प्रावृ॑ताऽसि॒ प्राची॒मवा॑ची॒मव॒यन्नरि॑ष्ट्यै ।

भट्टभास्कर-टीका

हे राजगवि ! या त्वम् अन्धेन तमसा मरणभयजनितेन प्रावृताऽसि । पूर्वं येति वचनात् तामिति गम्यते । ताम् इदान्य् उत्स्रक्ष्यमाणां जीवां जीवन्तीं युवतिं यौवनं प्राप्तमिव शोभमानाम् आचरन्तीम् आभिमुख्येन आगच्छन्तीं तृणानि वा भक्षयन्तीं स्वस्थां मृताय परिणीयमानां मृतस्य संस्कारार्थं परितः नीयमानां वयम् अपश्याम । लडर्थे लङ् । पश्यामः । एतेऽपि पार्श्वस्था अवयन् अवयन्न्त्व् अनुजानन्त्व् अरिष्ट्यै अहिंसायै । प्राचीं प्राङ्मुखीम् अवाचीम् अवाङ्मुखीं परिणीयमानां यतस्ततोऽभिमुखी भवति । अवयन् इत्यत्र स्वरश्छान्दसः । उत्सर्गपक्ष एव परिणयनं, आलम्भपक्षानुगुणश्च मन्त्रः । तत्रापिशब्दाध्याहारेण योजनीयम् ॥

विश्वास-प्रस्तुतिः

मयै॒तां माँ॒स्तां भ्रि॒यमा॑णा दे॒वी स॒ती पि॑तृलो॒कय्ँयदैषि॑ ।
वि॒श्ववा॑रा॒ नभ॑सा॒ सव्व्ँय॑यन्त्यु॒भौ नो॑ लो॒कौ पय॒साऽऽवृ॑णीहि ।

मूलम्

मयै॒तां माँ॒स्तां भ्रि॒यमा॑णा दे॒वी स॒ती पि॑तृलो॒कय्ँयदैषि॑ ।
वि॒श्ववा॑रा॒ नभ॑सा॒ सव्व्ँय॑यन्त्यु॒भौ नो॑ लो॒कौ पय॒साऽऽवृ॑णीहि ।

भट्टभास्कर-टीका

2मयैतामिति ॥ प्रथमार्थे द्वितीया । एषा त्वं मया मांस्ताम् । मांसस्य अन्तलोपः । मांसतां भ्रियमाणा मांसतां नीता देवी देवभूयं गता विश्ववारा सर्वेषां वरणीया नभसा आकाशदानेन यदा पितृलोकम् एघि सदा उभौ लोकौ पयसा संव्ययन्त्य् आच्छादयन्ती नो ऽस्मभ्यम् आवृणीहि । पृणतिर् दानकर्मा, छान्दसो वकारः । आपृणीहि दातुम् अर्हसि । या त्वम् आलभ्यमानाऽप्येवमर्हसि किं पुनः सा उत्सृज्यमाना ।।

विश्वास-प्रस्तुतिः

रयि॑ष्ठाम॒ग्निं मधु॑मन्तमू॒र्मिण॒मूर्ज॑ स्सन्तन्त्वा॒ पय॒सोप॒ सँस॑देम ।
सँ र॒य्या समु॒ वर्च॑सा॒ सच॑स्वा नस्स्व॒स्तये॑ ।

मूलम्

रयि॑ष्ठाम॒ग्निं मधु॑मन्तमू॒र्मिण॒मूर्ज॑ स्सन्तन्त्वा॒ पय॒सोप॒ सँस॑देम ।
सँ र॒य्या समु॒ वर्च॑सा॒ सच॑स्वा नस्स्व॒स्तये॑ ।

भट्टभास्कर-टीका

3रयिष्ठामिति प्रेतीं प्रत्युच्यते ॥ रयिर् धनं तत्र तिष्ठतीति रयिष्ठा ‘श्रियमिच्छेत् हुताशनात्’ इति । अग्निं मधुमन्तं मधुभिः स्वादुभिर् आज्यादिभिर् युक्तम् ऊर्मिणम् उर्म्याकाराभिर् ज्वालाभिर् युक्तम् ऊर्जस्वन्तं बलवन्तं त्वा पयसा पयस्विन्या राजगव्या सह उपसंसदेम सम्यक् उपसम्पन्नाः स्मः । स त्वं नो ऽस्मान् रय्या धनेन संसचस्व सङ्गमय । उश्चार्थे । वर्चसा च संसचस्व स्वस्तये अविनाशाय ॥

भास्करोक्त-विनियोगः

4उत्स्त्रक्ष्यमाणां राजगवीम् अभिमन्त्रयते - ये जीवा इति ॥

विश्वास-प्रस्तुतिः

ये जी॒वा ये च॑ मृ॒ता ये जा॒ता ये च॒ जन्त्याः॑ ।
तेभ्यो॑ घृ॒तस्य॑ धारयितुं॒ मधु॑धारा व्युन्द॒ती ।

मूलम्

ये जी॒वा ये च॑ मृ॒ता ये जा॒ता ये च॒ जन्त्याः॑ ।
तेभ्यो॑ घृ॒तस्य॑ धारयितुं॒ मधु॑धारा व्युन्द॒ती ।

भट्टभास्कर-टीका

ये अस्मिन् लोके जीवन्तः ये च मृता ये च जनिष्यमाणास् तेभ्यः सर्वेभ्यः घृतस्य घृतं धारयितुम् उत्पादयितुं वा मधुधारा मधुनः स्वादुनः क्षीरस्य धारा व्युन्दती । उन्दी क्लेदने; इह तु तद्धेतुभूतं क्षरणं विवक्षितम् । क्षरन्त्य् उत्तरत्र वाक्यसमाप्तिः ॥

भास्करोक्त-विनियोगः

5-6उत्सृजते - मातेत्यादि । उत्सृजतेत्यन्तं मधुपर्के गतम्27 ।

विश्वास-प्रस्तुतिः

मा॒ता रु॒द्राणा॑न्दुहि॒ता वसू॑नाँ॒ स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ ।
प्रणु॒वोच॑ञ्चिकि॒तुषे॒ जना॑य॒ मागामना॑गा॒मदि॑तिव्ँवधिष्ट ।

मूलम्

मा॒ता रु॒द्राणा॑न्दुहि॒ता वसू॑नाँ॒ स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ ।
प्रणु॒वोच॑ञ्चिकि॒तुषे॒ जना॑य॒ मागामना॑गा॒मदि॑तिव्ँवधिष्ट ।

भट्टभास्कर-टीका

इयं रुद्रादीनां देवानां मात्रादिस्थानीया, सर्वेषां यज्ञभागित्वात् । तस्य च आज्यादिगव्यसाध्यत्वाद् अमृतस्य अमृतत्वप्राप्तिहेतोर् यज्ञस्य नाभिः प्रधानावयव आज्यादिद्वारेण, ‘एष वाव यज्ञो यदाज्यम्'28 इत्यादिश्रुतेः । एवं नाम प्रशस्तेयम् अतश्च प्रणुवोचं नु क्षिप्रं प्रकर्षेण ब्रवीमि चिकितुषे जिज्ञासते । कित ज्ञाने । सनन्तः । जनाय किङ्किं ब्रवीषि ? मा गाम् अनागाम् अनागसम् इमां गाम् अदितिम् अखण्डितां मा वधिष्ट ।

विश्वास-प्रस्तुतिः

पिब॑तूद॒कन्तृणा॑न्यत्तु ।

मूलम्

पिब॑तूद॒कन्तृणा॑न्यत्तु ।

भट्टभास्कर-टीका

एषा कामं पिबतु उदकम्, तृणानि च अत्तु ।

विश्वास-प्रस्तुतिः

ओमुत्सृ॒जत ॥ (27)

मूलम्

ओमुत्सृ॒जत ॥ (27)

भट्टभास्कर-टीका

ओम् उत्सृजतेत्याह ॥

इत्यारण्यके चतुर्थे प्रश्ने द्वादशोऽनुवाकः ॥