११ होमः

भास्करोक्त-विनियोगः

1वारणेनैव प्रतिलोमरुतेन+++(=??)+++ स्रुवेण दशाहुतीर् जुहोति - अप न इति ॥

विश्वास-प्रस्तुतिः

अप॑ न॒श्शोशु॑चद॒घमग्ने॑ शुशु॒ध्या र॒यिम् ।
अप॑ न॒श्शोशु॑चद॒घम् ।

मूलम्

अप॑ न॒श्शोशु॑चद॒घमग्ने॑ शुशु॒ध्या र॒यिम् ।
अप॑ न॒श्शोशु॑चद॒घम् ।

भट्टभास्कर-टीका

छन्दोगब्राह्मणे अधीतम् इतिहासम् आचक्षते - कुत्सश्च लुशश्चेन्द्रं व्यह्वयताम् । स इन्द्रः कुत्समुपावर्तत । स तं शतेन वाध्रीभिराण्डयोरबध्नात् । मायं लुशं प्रतिगमदिति । एतज् ज्ञात्वा लुश इन्द्रमुपालभत । प्रमुञ्च परिकुत्सादिहागहि किमु त्वा वां मुष्कयोर्बद्ध आसत इति । कुत्स इन्द्रातिक्रमजेन अघेन अभिभूतम् आत्मानं मन्यमानस् तदपनोदनार्थम् अग्निम् अभ्यष्टौत् । तत्र प्रथमा गता ॥

विश्वास-प्रस्तुतिः

सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे ।
अप॑ न॒श्शोशु॑चद॒घम् ।

मूलम्

सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे ।
अप॑ न॒श्शोशु॑चद॒घम् ।

भट्टभास्कर-टीका

2सुक्षेत्रिया ॥ सर्वत्र तृतीयाया याडागमः । इह लोके तावत् शोभनक्षेत्रेच्छया परलोके च सुगातुया सुगतीच्छया वसूया च धनेच्छया त्वां यजामहे । त्वं च अपनय नो ऽघम् ॥

विश्वास-प्रस्तुतिः

प्रयद्भन्दि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑ ।
अप॑ न॒श्शोशु॑चद॒घम् ।

मूलम्

प्रयद्भन्दि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑ ।
अप॑ न॒श्शोशु॑चद॒घम् ।

भट्टभास्कर-टीका

3प्र यदिति ॥ पुल्लिङ्गेऽपि ‘सुपां सुलुक्’ इत्यादिना सोर्लुक् । योऽहं प्रभन्दिष्ठः । भन्दतिर् अर्चतिकर्मा । प्रकर्षण स्तोता । कस्य? एषां पूर्वनिर्दिष्टस्य अग्नेर् अयं प्रतिनिर्देशः । व्यत्ययेन बहुवचनम् । अस्य अग्नेर् ये च अस्माकासो ऽस्माकं सम्बन्धिनः सूरयः मेधाविनः । प्रशब्दश्रुतेर् भन्दिष्ठ इत्येतद्वचनात् परिणामेन अपेक्ष्यते । ये अस्मदीयाः सूरयः प्रभन्दिष्टास् तेषां सर्वेषां नः पापम् अपनय ॥

विश्वास-प्रस्तुतिः

प्रयद॒ग्नेस्सह॑स्वतो वि॒श्वतो॒ यन्ति॑ सू॒रयः॑ ।
अप॒ न॒श्शोशु॑चद॒घम् ।

मूलम्

प्रयद॒ग्नेस्सह॑स्वतो वि॒श्वतो॒ यन्ति॑ सू॒रयः॑ ।
अप॒ न॒श्शोशु॑चद॒घम् ।

भट्टभास्कर-टीका

4प्र यदग्नेरिति ॥ यत् । षष्ठ्येकवचनस्य लुक् । यस्य अग्नेः सहस्वतः बलवतः ज्वालां स्वभूताः सूरयः विश्वतः सर्वतः प्रयन्ति स त्वं नो ऽघम् अपनय ॥

विश्वास-प्रस्तुतिः

प्रयत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम् ।
अप॑ न॒श्शोशु॑चद॒घम् ।
(25)

मूलम्

प्रयत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम् ।
अप॑ न॒श्शोशु॑चद॒घम् ।
(25)

भट्टभास्कर-टीका

5प्र यत्त इति ।। यदिति जसो लुक् । यद् ये वयं ते तव सूरयः प्रकर्षेण स्तोतारस् ते वयं प्रजायेमहि प्रजां प्राप्नुयामस् ते तव प्रसादेन । किञ्च - अस्माकम् अघम् अपनय ॥

विश्वास-प्रस्तुतिः

त्वँ हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ ।
अप॑ न॒श्शोशु॑चद॒घम् ।

मूलम्

त्वँ हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ ।
अप॑ न॒श्शोशु॑चद॒घम् ।

भट्टभास्कर-टीका

6त्वं हि इति ॥ हि शब्दो हेतौ । हे विश्वतोमुख! सर्वतोज्वाल ! अग्ने ! यस्मात् त्वं विश्वतः परिभूरसि । परिपूर्वो भवतिः परिग्रहे वर्तते । परिगृहीतोसि स्तोत्राणां यष्टॄणां च । तस्माद् अस्माकमपि तथाविधानाम् अघम् अपनय ॥

विश्वास-प्रस्तुतिः

द्विषो॑ नो विश्वतोमु॒खाऽति॑ ना॒वेव॑ पारय ।
अप॑ न॒श्शोशु॑चद॒घम् ।

मूलम्

द्विषो॑ नो विश्वतोमु॒खाऽति॑ ना॒वेव॑ पारय ।
अप॑ न॒श्शोशु॑चद॒घम् ।

भट्टभास्कर-टीका

7द्विष इति ॥ हे विश्वतोमुख ! नो ऽस्माकं द्विषः शत्रून् अतिपारय यथा वयं तान् अतीत्य गच्छेम तथा कुरु नावेव यथा कश्चिन् नाविकः सिन्धुं नावा अतिपारयति तद्वत् । त्वम् अग्ने अघम् अपनय ॥

विश्वास-प्रस्तुतिः

स न॒स्सिन्धु॑मिव ना॒वयाति॑ पर्षा स्व॒स्तये॑ ।
अप॑ न॒श्शोशु॑चद॒घम् ।

मूलम्

स न॒स्सिन्धु॑मिव ना॒वयाति॑ पर्षा स्व॒स्तये॑ ।
अप॑ न॒श्शोशु॑चद॒घम् ।

भट्टभास्कर-टीका

8स न इति ॥ यस्त्व् एवमुक्तगुणः सस् त्वं नो ऽस्मान् अतिपर्ष अतिपारय स्वस्तये अविनाशाय सिन्धुमिव नावया नाविकः ॥

विश्वास-प्रस्तुतिः

आपः॑ प्रव॒णादि॑व य॒तीरपा॒स्मत्स्य॑न्दताम॒घम् ।
अप॑ न॒श्शोशु॑चद॒घम् ।

मूलम्

आपः॑ प्रव॒णादि॑व य॒तीरपा॒स्मत्स्य॑न्दताम॒घम् ।
अप॑ न॒श्शोशु॑चद॒घम् ।

भट्टभास्कर-टीका

9आप इति ॥ यथा आपः यतीर् यन्त्यः प्रवणात् । विभक्तिव्यत्ययः । प्रवणे निम्ने प्रदेशे स्यन्दन्ते तथा अस्मद् अस्मत्तो ऽघम् अपस्यन्दताम् अपेत्य स्रवतु । त्वं चाग्ने ! अघमपनय ॥

विश्वास-प्रस्तुतिः

उ॒द्व॒नादु॑द॒कानी॒वापा॒स्मत्स्य॑न्दताम॒घम् ।
अप॑ न॒श्शोशु॑चद॒घम् ।

मूलम्

उ॒द्व॒नादु॑द॒कानी॒वापा॒स्मत्स्य॑न्दताम॒घम् ।
अप॑ न॒श्शोशु॑चद॒घम् ।

भट्टभास्कर-टीका

10 उद्वनादिति ॥ उद्वनम् उन्नतप्रदेशस् तस्माद् यथा उदकानि स्यन्दन्ते । शिष्टं गतम् ॥

विश्वास-प्रस्तुतिः

आ॒न॒न्दाय॑ प्रमो॒दाय॒ पुन॒रागाँ॒ स्वान्गृ॒हान् ।
अप॑ न॒श्शोशु॑चद॒घम् ।

मूलम्

आ॒न॒न्दाय॑ प्रमो॒दाय॒ पुन॒रागाँ॒ स्वान्गृ॒हान् ।
अप॑ न॒श्शोशु॑चद॒घम् ।

भट्टभास्कर-टीका

11प्रत्येत्य गृहान् उत्तरपूर्वे देशे अगारस्य अग्निम् उपसमाधाय सम्परिस्तीर्य अनुलोमकतया वारण्या स्रुचा द्वे चतुर्गृहीते जुहोति - आनन्दायेति ॥ आनन्दाय सुखाय प्रमोदाय हर्षाय पुनो ऽहं स्वान् ग्रहान् आगाम् आगतवानस्मि । हे अग्ने ! त्वं च अघम् अपनय ॥

विश्वास-प्रस्तुतिः

न वै तत्र॒ प्रमी॑यते॒ गौरश्वः॒ पुरु॑षः प॒शुः ।
यत्रे॒दं ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒कमप॑ न॒श्शोशु॑चद॒घम् ॥ (26)

मूलम्

न वै तत्र॒ प्रमी॑यते॒ गौरश्वः॒ पुरु॑षः प॒शुः ।
यत्रे॒दं ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒कमप॑ न॒श्शोशु॑चद॒घम् ॥ (26)

भट्टभास्कर-टीका

12न वा इति ॥ तत्र गृहे गवादि न वै प्रमीयते नैव म्रियते यत्र गृहे इदं ब्रह्म अयं मन्त्रः क्रियते होमे विनियुज्यते । परिधिर् मृत्योः परिधिरूपम् इदं ब्रह्म जीवनाय ज्ञातीनां के सुखरूपं तद्धेतुभूतम् । हे अग्ने! त्वं च अघ अपनय ॥
इत्यारण्यके चतुर्थे एकादशोऽनुवाकः ॥