भास्करोक्त-विनियोगः
1नवम्यां व्युष्टायां
यज्ञोपवीत्य् अन्तरा ग्रामं श्मशानं च
अग्निम् उपसमाधाय सम्परिस्तीर्य
अपरेणाग्निं रोहितं चर्मानडुहं प्राचीनग्रीवम् उत्तरलोमास्तीर्य
तद्-वेतस-मालिनो ज्ञातीन् आरोहयति - आरोहतेति ॥
विश्वास-प्रस्तुतिः
आ रो॑ह॒तायु॑र्ज॒रस॑ङ्गृणा॒ना अ॑नुपू॒र्वय्ँयत॑माना॒ यति॒ष्ट ।
इ॒ह त्वष्टा॑ सु॒जनि॑मा सु॒रत्नो॑ दी॒र्घमायुः॑ करतु जी॒वसे॑ वः ।
मूलम्
आ रो॑ह॒तायु॑र्ज॒रस॑ङ्गृणा॒ना अ॑नुपू॒र्वय्ँयत॑माना॒ यति॒ष्ट ।
इ॒ह त्वष्टा॑ सु॒जनि॑मा सु॒रत्नो॑ दी॒र्घमायुः॑ करतु जी॒वसे॑ वः ।
भट्टभास्कर-टीका
हे ज्ञातयः! इदं चर्म आरोहत आयुर् जीवितं जरसं जरां गृणानाः प्रार्थयमाना यावज्जरमायुः प्रार्थयमाना आरोहत अनुपूर्वं ज्येष्ठक्रमेण वर्णक्रमेण च अन्येषु । प्रेतकर्मसु कनिष्ठक्रमेण प्रवृत्तिः । अत्र तु शान्तिकर्मणि सर्व एव प्रयत्नो अनुपूर्वं कर्तव्यः । यतिष्ट द्वे एते पदे । यतिशब्दो यावन्त इत्यस्य अर्थे । स्त इत्य् अस्तेर्लोटि मध्यमपुरुषबहुवचनम् । लडर्थे लोट् । यावन्त स्थ ते सर्वे आरोहतेति । बह्वृचास्तु - लडन्तमेवाधीयते - ‘यतिष्ठ’ इति । पदकाले च द्वैपद्यम् । इह कर्मणि त्वष्टा हविषां पापानां वा तनूकर्ताऽयमग्निः सुजनिमा शोभनजन्मा सुरत्नः भक्तेभ्यो देयैः शोभनैः रत्नैरुपेतः वः युष्मभ्यं दीर्घमायुः करतु ददातु जीवसे जीवनाय ॥
भास्करोक्त-विनियोगः
2अथैनान् अनुपूर्वान् कल्पयति - यथाऽहानीति ॥
विश्वास-प्रस्तुतिः
यथाहा॑न्यनुपूर्वं भव॑न्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्यन्ति॑ कॢ॒प्ताः ।
यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूँ॑षि कल्पयैषाम् ।
मूलम्
यथाहा॑न्यनुपूर्वं भव॑न्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्यन्ति॑ कॢ॒प्ताः ।
यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूँ॑षि कल्पयैषाम् ।
भट्टभास्कर-टीका
अहानि यथा अनुपूर्वं क्रमेण भवन्ति - आदित्यवारस्सोमवार इति । यथा वा वसन्तादय ऋतव ऋतुभिर् ग्रीष्मादिभिः क्रमेण कॢप्ता यन्ति गच्छन्ति । यथेति वचनात्तथेति गम्यते । तथा एषां ज्ञातीनां मध्ये पूर्व पूर्वोत्पन्नम् अपरः परोत्पन्नः यथा न जहाति तस्मिन् जीवति न म्रियते एवा एवं हे धातः ! प्रजापते ! एवम् एषाम् आयूंषि कल्पय ॥
भास्करोक्त-विनियोगः
3अथ प्रतिलोमकृतया वारण्या स्रुचा चतुर्गृहीते द्वे आहुती जुहोति - न हीति ॥
विश्वास-प्रस्तुतिः
न हि॑ ते अग्ने त॒नुवै॑ क्रू॒रञ्च॒कार॒ मर्त्यः॑ ।
क॒पिर्ब॑भस्ति॒ तेज॑नं॒ पुन॑र्ज॒रायु॒ गौरि॑व ।
मूलम्
न हि॑ ते अग्ने त॒नुवै॑ क्रू॒रञ्च॒कार॒ मर्त्यः॑ ।
क॒पिर्ब॑भस्ति॒ तेज॑नं॒ पुन॑र्ज॒रायु॒ गौरि॑व ।
भट्टभास्कर-टीका
हे अग्ने ! तनुवै । तृतीयार्थे चतुर्थी । तत्सम्बन्धिना तन्वा अस्मदीयो मर्त्यः क्रूरं कर्म पितृमेधं न हि चकार । लोडर्थे लिट् । हि शब्दोऽवधारणे । नैव करोतु । उत्तरेणार्धेन अग्निस्स्तूयते । तत्रैकवाक्यताप्रसिद्ध्यर्थं यस्य ते इत्यध्याहारः । यस्य ते तेजनं तेजः कपिर् आदित्यः कम् उदकं भूयिष्ठं पिबति रश्मिभिरादत्त इति । पुनः वीप्साया लोपो द्रष्टव्यः । पुनःपुनो ऽहरहः बभस्ति भक्षयति रात्री प्रवेशितं तेजः प्रातरुपादत्ते ; जरायु गौरिव यथा गौः प्रसूता अनिवार्यमाणा स्वं जरायु भक्षयते तद्वत् । ‘अग्निं वावादित्यः सायं प्रविशति । उद्यन्तं वावादित्यमग्निरनु समारोहति’ इति । एवं नामभागस्त्वं यथाऽऽदित्यमाप्याययसि तेन चाप्याय्यसे इति ॥
विश्वास-प्रस्तुतिः
अप॑ न॒श्शोशु॑चद॒घमग्ने॑ शुशु॒ध्या र॒यिम् ।
अप॑ न॒श्शोशु॑चद॒घं मृ॒त्यवे॒ स्वाहा॑ ।
मूलम्
अप॑ न॒श्शोशु॑चद॒घमग्ने॑ शुशु॒ध्या र॒यिम् ।
अप॑ न॒श्शोशु॑चद॒घं मृ॒त्यवे॒ स्वाहा॑ ।
भट्टभास्कर-टीका
4अप न इति ॥ हे अग्ने! नो ऽस्माकं सम्बन्ध्य् अघम् अपशोशुचत् । यद्यप्यन्यत्र शुचिर्दीप्तौ शोके वा दृष्टस् तथाऽप्यत्र उपसर्गवशाद् अपनये द्रष्टव्यः । पुरुषव्यत्ययः । पञ्चमो लकारः । अपशोशुचद् अपनय रयिं धनं च आशुशुद्धि । शुन्धीति याच्ञाकर्मसु पठ्यते । तस्यैवेदं सु[वि]कृतं रूपम् । याच्ञया च तत्पूर्वं दानं लक्ष्यते । आभिमुख्येन पापमपनय । अप न इत्यादि । पुनरादरार्थम् । मृत्यवे स्वाहा त्वत्प्रसादादिदं मृत्यवे दत्तमस्तु ॥
भास्करोक्त-विनियोगः
5उत्तरेणाग्निं लोहितोऽनड्वान् प्राङ्मुखोऽवस्थितो भवति । तं ज्ञातयोऽन्वारभन्ते - अनड्वाहम् इति ॥
विश्वास-प्रस्तुतिः
अ॒न॒ड्वाह॑म॒न्वार॑भामहे स्व॒स्तये॑ ।
स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्नि॑स्सं॒पार॑णो भव ।
(23)
मूलम्
अ॒न॒ड्वाह॑म॒न्वार॑भामहे स्व॒स्तये॑ ।
स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्नि॑स्सं॒पार॑णो भव ।
(23)
भट्टभास्कर-टीका
अनः शकटं तद्वहतीत्य् अनड्वान् तद्वहनयोग्यं तं त्वा अन्वारभामहे स्वस्तये अविनाशाय । स त्वं नो ऽस्मभ्यं वह्निर् वोढा सम्पारणः सम्यक्पारस्य च नेता भव इन्द्र इव देवेभ्यः यथा इन्द्रः वह्निः सम्पारणश्च तद्वत् ॥
भास्करोक्त-विनियोगः
6अथ प्राञ्चो गच्छन्ति - इमे जीवा इति ॥
विश्वास-प्रस्तुतिः
इ॒मे जी॒वा वि॑मृ॒तैराव॑वर्ति॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिन्नो अ॒द्य ।
प्राञ्जो॑गामानृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्रत॒रान्दधा॑नाः ।
मूलम्
इ॒मे जी॒वा वि॑मृ॒तैराव॑वर्ति॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिन्नो अ॒द्य ।
प्राञ्जो॑गामानृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्रत॒रान्दधा॑नाः ।
भट्टभास्कर-टीका
जीवन्त इमे मृतस्य सम्बन्धिनः वयम् । पञ्चम्यर्थे तृतीया । मृतेभ्यः पितृभ्यः व्याववर्तिन् । लङ्य् उत्तमपुरुषबहुवचने छान्दसं रूपम् । व्यावर्तामहे अतः परं च नो ऽस्माकं भद्रा देवहूतिम् । विभक्तिव्यत्ययः । देवहूतिर् देवयज्या अभूद् भवतु । प्रातः जकारश्छान्दसः । प्राञ्चः प्राङ्मुखा वयम् अगाम । वर्तमाने लुङ् । संहिताकाले छान्दसो दीर्घः । बह्वृचा ह्रस्वमेव पठन्ति । किमर्थं गच्छथ ? नृतये नृत्ताय हसाय हास्याय च । आभ्यां च स्वैरचेष्टा लक्ष्यते । स्वैरं चेष्टितुं द्राधीयः दीर्घतरम् आयुः प्रतरां दधाना अतिशयेन ॥
भास्करोक्त-विनियोगः
7जघन्यो वेतसशाखया अवकाभिश्च पदानि संलोपयन्नेति - मृत्योरिति ॥
विश्वास-प्रस्तुतिः
मृ॒त्योः प॒दय्ँ यो॒पय॑न्तो॒ यदैम॒ द्राघी॑य॒ आयुः॑ प्रत॒रान्दधा॑नाः ।
आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वथ यज्ञियासः ।
मूलम्
मृ॒त्योः प॒दय्ँ यो॒पय॑न्तो॒ यदैम॒ द्राघी॑य॒ आयुः॑ प्रत॒रान्दधा॑नाः ।
आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वथ यज्ञियासः ।
भट्टभास्कर-टीका
मृत्योर् आगतस्य पदं पदनीयस्थानं योपयन्तः लोपयन्तः प्रमृजन्तः यद् यस्माद् ऐम । एतेर्लुङ्य् अडागमे छान्दसो वृद्धिः । आगतवन्तो वयम् । अनडुहो यत् पदप्रमार्जनं तन् मृत्योरेवं पदानां प्रमार्जनत्वेन निरूप्यते । यस्माद् वयं मृत्योः पदं प्रमृजन्तः प्राङ्मुखा गताः, यत्नादिति । वचनात् तस्मादिति गम्यते; तस्माद् दीर्घतरम् आयुः प्रकृष्टतरं दधाना अस्मासु स्थापयन्त आप्याययन्तः । प्रजया च धनेन च आप्यायमाना वर्धमानाः शुद्धाः शरीरेण पूता मनसा यज्ञियासः यज्ञार्हा भवथ । पुरुषव्यत्ययः । भवामः ॥
भास्करोक्त-विनियोगः
8अथ एभ्योऽध्वर्युर् दक्षिणतोऽश्मानं परिधिं दधाति - इममिति ॥
विश्वास-प्रस्तुतिः
इ॒मञ्जी॒वेभ्यः॑ परि॒धिन्द॑धामि॒ मा नोऽनु॑ गा॒दप॑रो॒ अर्ध॑मे॒तम् ।
श॒तञ्जी॑वन्तु श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युन्द॑द्महे॒ पर्व॑तेन ।
मूलम्
इ॒मञ्जी॒वेभ्यः॑ परि॒धिन्द॑धामि॒ मा नोऽनु॑ गा॒दप॑रो॒ अर्ध॑मे॒तम् ।
श॒तञ्जी॑वन्तु श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युन्द॑द्महे॒ पर्व॑तेन ।
भट्टभास्कर-टीका
इमम् अश्मानं जीवेभ्यः जीवताम् एषामर्थाय परिधिं मृत्युर् येन परिधीयते तिरोधीयते स परिधिस् तं दधामि स्थापयामि नो ऽस्माकं मध्ये कश्चिदपि नु क्षिप्रम् अकाल एव अर्घम् । धकारश्छान्दसः । एतम् अर्थं मृत्युलक्षणं मा गान् मा गमः । अपरः मृतादन्यः सर्वे वयं शतं शरदः वत्सरान् जीवेम । पुरूचीः पुरूणि बहून्य् आर्तवानि कुसुमादीन्य् अञ्चति इति पुरूचीः शरदः । मृत्युं दद्महे दकारश्छान्दसः दध्महे केन पर्वतेन अनेन अश्मना ॥
भास्करोक्त-विनियोगः
9स्त्रीणाम् अञ्जलिषु सम्पातान् अवनयति । इमा नारीरिति तैर् मुखानि विमृजन्ते ॥
विश्वास-प्रस्तुतिः
इ॒मा नारी॑रविध॒वास्सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ संमृ॑शन्ताम् ।
अ॒न॒श्रवो॑ अनमी॒वा स्सु॒शेवा॒ आरो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ।
मूलम्
इ॒मा नारी॑रविध॒वास्सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ संमृ॑शन्ताम् ।
अ॒न॒श्रवो॑ अनमी॒वा स्सु॒शेवा॒ आरो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ।
भट्टभास्कर-टीका
इमा नारीर् नार्यो ऽमात्यस्त्रियो ऽविधवा भर्तृमत्यः सुपत्नीः सुपत्न्यः शोभनः पतिर् यासाम् अविधवा इत्यनेनैव सिद्धे शोभनत्वविशेषविवक्षया पुनर्वचनम् । आञ्जनेन । आङ् ईषदर्थे । ईषदञ्जनसाधनेन । सर्पिषा सम्पाताज्येन । सम्मृशन्तां सम्यक् मुखानि मृजन्तु । अनश्रवो ऽश्रुरहिता अरुदन्त्यो ऽनमीवा अरोगाः सुशेवा मानसदुःखराहिता आरोहन्तु जनयो ऽपत्यजननयोग्या वध्वः योनिं गृहम् अग्रे प्रथमं पुम्भ्यः ॥
भास्करोक्त-विनियोगः
10त्रैककुदेन अञ्जनेनाञ्जीरन् - यदाञ्जनमिति ॥
विश्वास-प्रस्तुतिः
यदाञ्ज॑नन्त्रैककु॒दञ्जा॒तँ हि॒मव॑त॒स्परि॑ ।
तेना॒मृत॑स्य॒ मूले॒नारा॑तीर्जंभयामसि ।
मूलम्
यदाञ्ज॑नन्त्रैककु॒दञ्जा॒तँ हि॒मव॑त॒स्परि॑ ।
तेना॒मृत॑स्य॒ मूले॒नारा॑तीर्जंभयामसि ।
भट्टभास्कर-टीका
त्रिककुन्नामपर्वतस् त्रैककुदं यद् एवम्भूतम् आञ्जनम् अक्ष्णोर् ईषदञ्जनसाधनं हिमवतः पर्य् उपरि जातम् । तेन अमृतस्य अमरणस्य मूलेन कारणेन अक्षीण्यञ्जाना अरातीः शत्रुजातीर् जम्भयामसि जम्भमयामः नाशयामः ॥
भास्करोक्त-विनियोगः
11पृथिव्याम् ओषधिस्तम्बं प्रतिष्ठापयति - यथेति ॥
विश्वास-प्रस्तुतिः
यथा॒ त्वमु॑द्भि॒नत्स्यो॑षधे पृथि॒व्या अधि॑ ।
ए॒वमि॒म उद्भि॑न्दन्तु की॒र्त्या यश॑सा ब्रह्मवर्च॒सेन॑ ।
मूलम्
यथा॒ त्वमु॑द्भि॒नत्स्यो॑षधे पृथि॒व्या अधि॑ ।
ए॒वमि॒म उद्भि॑न्दन्तु की॒र्त्या यश॑सा ब्रह्मवर्च॒सेन॑ ।
भट्टभास्कर-टीका
हे ओषधे यथा त्वम् उद्भिद्य प्रकाशसे पृथिव्या अधि । अधिः पञ्चम्यर्थानुवादी । पृथिव्या उद्भिनत्सि । एवम् इमे मृतस्य अमात्या उद्भिन्दन्तु प्रकाशन्तां कीर्त्यादिभिः । कीर्तेर् यशसश्च विद्यादिकारणभेदेन भेदः । वृत्तस्वाध्यायसम्पद् ब्रह्मवर्चसम् ॥
भास्करोक्त-विनियोगः
12अजम् एतदहः पचन्ति यवोदनं च - अजोसि इति ॥ अजस्य प्राश्नन्ति । यवोसीति यवोदनं च ॥
विश्वास-प्रस्तुतिः
अ॒जो॑ऽस्यजा॒स्मद॒घा द्वेषाँ॑सि
मूलम्
अ॒जो॑ऽस्यजा॒स्मद॒घा द्वेषाँ॑सि
भट्टभास्कर-टीका
अजोसि । त्वं तद्विकारमांसस्य अयं प्रकृतिशब्दो ऽज क्षिप । अस्मद् अस्मत्तो ऽघानि द्वेषांसि द्विषां चास्मासु शत्रूणाम् ।
विश्वास-प्रस्तुतिः
य॒वो॑ऽसि य॒वया॒स्मद॒घा द्वेषाँ॑सि ॥ (24)
मूलम्
य॒वो॑ऽसि य॒वया॒स्मद॒घा द्वेषाँ॑सि ॥ (24)
भट्टभास्कर-टीका
यवोसीति निगदसिद्धम् । यवय अस्मत्तः पृथक्कुरु ॥
इत्यारण्यके चतुर्थे दशमोऽनुवाकः ॥