०९ धाना-किरणादि

भास्करोक्त-विनियोगः

1अतिलाभिर् धानाभिस् त्रिः प्रसव्यं परिकिरति - एतास्त इति ॥

विश्वास-प्रस्तुतिः

ए॒तास्ते॑ स्व॒धा अ॒मृताः॑ करोमि॒ यास्ते॑ धा॒नाः प॑रि॒किरा॒म्यत्र॑ ।
तास्ते॑ य॒मः पि॒तृभि॑स्सव्ँ विदा॒नोऽत्र॑ धे॒नूः का॑म॒दुघाः॑ करोतु ।

मूलम्

ए॒तास्ते॑ स्व॒धा अ॒मृताः॑ करोमि॒ यास्ते॑ धा॒नाः प॑रि॒किरा॒म्यत्र॑ ।
तास्ते॑ य॒मः पि॒तृभि॑स्सव्ँ विदा॒नोऽत्र॑ धे॒नूः का॑म॒दुघाः॑ करोतु ।

भट्टभास्कर-टीका

अत्र स्थाने या धानास् ते त्वदर्थं परिकिरामि ता धानास् ते तुभ्यम् अमृता अविनाशिनीः करोमि ता धानास् ते यमः कामदुधा धेनूः करोतु पितृभिः संविदान ऐकमत्यं कुर्वन् अत्र कर्मणि ।।

भास्करोक्त-विनियोगः

2ओषधिस्तम्बान् प्रतिदिशम् अनन्वीक्षमाणः
प्रसव्यमुपदधाति,
तेषां मन्त्रलिङ्गेन द्रव्यनियमः - त्वामर्जुनेति ॥ इतःपरा अनुष्टुभः ।

विश्वास-प्रस्तुतिः

त्वामर्जु॒नौष॑धीनां॒ पयो॑ ब्र॒ह्माण॒ इद्वि॑दुः ।
तासा॑न्त्वा॒ मध्या॒दा द॑दे च॒रुभ्यो॒ अपि॑धातवे ।

मूलम्

त्वामर्जु॒नौष॑धीनां॒ पयो॑ ब्र॒ह्माण॒ इद्वि॑दुः ।
तासा॑न्त्वा॒ मध्या॒दा द॑दे च॒रुभ्यो॒ अपि॑धातवे ।

भट्टभास्कर-टीका

‘सर्वं च तृणमर्जुनम्’ इति नैघण्टुकाः । इह तु दूर्वादिसाहचर्यात् तादृश एवौषधिविशेषः श्वेतदूर्वाख्यः । हे अर्जुन ! स्तम्ब ! त्वाम् ओषधीनां ब्रीह्यादीनां मध्ये पयः क्षीरं विदुस् तद्रसत्वात् । ब्रह्माणः ब्राह्मणाः । इच्छब्दोऽवधारणे । साक्षात्पय एव विदुः । अतस् तासाम् ओषधीनां मध्यात् त्वामाददे चरुभ्यश् चरूणाम् अपिधातवे उपहितांश्चरूनपिधातुम् ॥

विश्वास-प्रस्तुतिः

दू॒र्वाणाँ॑ स्तं॒बमाह॑रै॒तां प्रि॒यत॑मां॒ मम॑ ।
इ॒मान्दिशं॑ मनु॒ष्या॑णां॒ भूयि॒ष्ठानु॒ वि रो॑हतु ।

मूलम्

दू॒र्वाणाँ॑ स्तं॒बमाह॑रै॒तां प्रि॒यत॑मां॒ मम॑ ।
इ॒मान्दिशं॑ मनु॒ष्या॑णां॒ भूयि॒ष्ठानु॒ वि रो॑हतु ।

भट्टभास्कर-टीका

3दूर्वाणामिति ॥ अन्तरात्मनः शरीरात्मानं प्रति प्रैषः । हे मदीयशरीरात्मन् ! एतां मम प्रियतमाम् । लिङ्गव्यत्ययः । पितृकृत्ये उपयुज्यमानत्वान् मम प्रियतमं दूर्वाणां स्तम्बम् आहर स चाहतो मयोपहृतस्सन् मनुष्याणामुपजीवनाय भूयिष्टा । लिङ्गव्यत्ययः । भूयिष्ठो बहुशाखो भूत्वा । इमां क्रमप्राप्तामुत्तरां दिशम् अनुविरोहतु । ओषधिरूपापेक्षया सर्वत्र स्त्रीलिङ्गनिर्देशः ।।

विश्वास-प्रस्तुतिः

काशा॑नाँ स्तं॒बमाह॑र॒ रक्ष॑सा॒मप॑हत्यै ।
य ए॒तस्यै॑ दि॒शः प॒राभ॑वन्नघा॒यवो॒ यथा॒ तेनाभ॑वा॒न्पुनः॑ ।

मूलम्

काशा॑नाँ स्तं॒बमाह॑र॒ रक्ष॑सा॒मप॑हत्यै ।
य ए॒तस्यै॑ दि॒शः प॒राभ॑वन्नघा॒यवो॒ यथा॒ तेनाभ॑वा॒न्पुनः॑ ।

भट्टभास्कर-टीका

4काशानामिति ॥ पूर्ववत् प्रैषः । काशानां स्तम्बमाहर । किमर्थं? रक्षसाम् अपहत्यै अपघाताय । ये राक्षसा अघायवः परेषामनर्थमिच्छन्त एतस्यै एतस्या दिशः प्रतीच्याः पराभवन् पराभूता भवन्ति । उपधानक्रममाहात्म्यात् ते यथा पुनः नाभवान् । पञ्चमो लकारः ॥

विश्वास-प्रस्तुतिः

द॒र्भाणाँ॑ स्तं॒बमाह॑र पितृ॒णा मोष॑धीं प्रि॒याम् ।
अन्वस्यै॒ मूल॑ञ्जीवा॒दनु॒ काण्ड॒मथो॒ फल॑म् ।
(21)

मूलम्

द॒र्भाणाँ॑ स्तं॒बमाह॑र पितृ॒णा मोष॑धीं प्रि॒याम् ।
अन्वस्यै॒ मूल॑ञ्जीवा॒दनु॒ काण्ड॒मथो॒ फल॑म् ।
(21)

भट्टभास्कर-टीका

5अयं प्रेतः काण्डं शाखाया अधस्तात्प्रदेशम् अनुजीवाद् अथो अपिच फलमप्यनुजीवात् ॥

भास्करोक्त-विनियोगः

6लोकं पृणा उपदधाति - लोकं पृणेति ॥

विश्वास-प्रस्तुतिः

लो॒कं पृ॑ण

मूलम्

लो॒कं पृ॑ण

भट्टभास्कर-टीका

पृणतिः पूरणकर्मा । लोकोऽवकाशः स च छिद्रस्य पृथगभिधानात् तद्व्यतिरिक्तः । अस्यां चितौ दृश्यमानं लोकं पृण पूरय । द्वयोरिष्टकयोरन्तरं छिद्रं तदपि पृण पूरय । अथो अपि च हे इष्टके! त्वं शिवा भूत्वा सीद । इन्द्राग्नी बृहस्पतिश्चेत्येते च देवा अस्मिन् योनौ त्वाम् असीषदन् । लोडर्थे लङ् । सादयन्तु ॥

भास्करोक्त-विनियोगः

7पुरीषेण अनुविकिरन्ति – ता अस्येति ॥
‘इमा मे अग्न इष्टका धेनवसन्त्वित्याह धेनूरेवैनाः कुरुते ता एनं कामदुधा अमुत्रामुष्मिन् लोक उपतिष्ठन्ते’ इति ब्राह्मणम् ।

विश्वास-प्रस्तुतिः

ता अ॑स्य॒ सूद॑दोहसः ।

मूलम्

ता अ॑स्य॒ सूद॑दोहसः ।

भट्टभास्कर-टीका

ता इष्टका अस्य यजमानस्य सूददोहसः क्षीरलक्षणम् अस्य दोग्ध्र्यः । पृश्नयः स्वल्पशरीरा गावः ‘तेषां पृश्निधर्मधुगासीत्’ इति दर्शनात् । ता इष्टका एवम्भूताः पृश्नयो भूत्वा अस्य सोमं श्रीणन्ति श्रयणीयक्षीरादिना संस्कुर्वन्ति क्व? जन्मन् देवानां विशः बिडन्नं देवानामनस्य जन्मभूमौ यज्ञे दिवः स्वर्गस्य आरोचने प्रकाशके त्रिषु सवनेषु ।।

भास्करोक्त-विनियोगः

8उदपात्रेण उदुम्बरशाखयाऽवोक्षति - शं वात इति ॥

विश्वास-प्रस्तुतिः

शव्ँ वात॒श्शँहि ते॒ घृणि॒श्
शमु॑ ते स॒न्त्वोष॑धीः ।
कल्पन्तान्ते॒ दिश॒स्सर्वाः॑ ।

मूलम्

शव्ँ वात॒श्शँहि ते॒ घृणि॒श्शमु॑ ते स॒न्त्वोष॑धीः ।
कल्पन्तान्ते॒ दिश॒स्सर्वाः॑ ।

भट्टभास्कर-टीका

गताः । ते तुभ्यं सर्वा दिशः कल्पन्ताम् ॥

भास्करोक्त-विनियोगः

9चितमग्निमुपतिष्ठते - इदमेवेति ॥

विश्वास-प्रस्तुतिः

इ॒दमे॒व मेतोप॑रा॒ मार्ति॑माराम॒ काञ्च॒न ।
तथा॒ तद॒श्विभ्या॑ङ्कृ॒तं मि॒त्रेण॒ वरु॑णेन च ।

मूलम्

इ॒दमे॒व मेतोप॑रा॒ मार्ति॑माराम॒ काञ्च॒न ।
तथा॒ तद॒श्विभ्या॑ङ्कृ॒तं मि॒त्रेण॒ वरु॑णेन च ।

भट्टभास्कर-टीका

इदमेव अस्माकं यदिदानीमनुभूयते पित्रादिमरणकृतम् इतो व्यसनाद् अपरां काञ्चन आर्तिं माऽऽराम । आर्तेर् लङि रूपम् । मा प्राप्नुम । तथैव च तदश्विभ्यां मित्रेण वरुणेन कृतम् अस्तु यथा पुनरन्यामार्तिं माऽऽराम इति ॥

भास्करोक्त-विनियोगः

10वारणशाखां पुरस्तान् निदधाति - वरण इव वरणो वृक्षविशेषः ।

विश्वास-प्रस्तुतिः

व॒र॒णो वा॑रयादि॒दन्दे॒वो वन॒स्पतिः॑ ।
आर्त्यै॒ निर्ऋ॑त्यै॒ द्वेषा॑च्च॒ वन॒स्पतिः॑ ।

मूलम्

व॒र॒णो वा॑रयादि॒दन्दे॒वो वन॒स्पतिः॑ ।
आर्त्यै॒ निर्ऋ॑त्यै॒ द्वेषा॑च्च॒ वन॒स्पतिः॑ ।

भट्टभास्कर-टीका

स इदं स्थानं वारयाद् वारयतु रक्षतु । देवो दीप्तिमान् वनस्पतिर् वनस्य पाता । कुतो रक्षत्व् आर्त्यै आर्त्या दुःखान् निर्ऋत्यै निर्ऋत्याः कृच्छ्रापत्तेः । द्वेषाच शत्रोर् वनस्पतिः । जातिशब्दोऽयम् । ‘फली वनस्पतिर्ज्ञेयः’ इति; पूर्वस्तु यौगिक इत्यपौनरुक्त्यम् ॥

भास्करोक्त-विनियोगः

11लोष्टमुत्तरतो निदधाति - विधृतिरित ॥

विश्वास-प्रस्तुतिः

विधृ॑तिरसि॒ विधा॑रया॒स्मद॒घा द्वेषाँ॑सि श॒मि श॒मया॒स्मद॒घा द्वेषाँ॑सि य॒व य॒वया॒स्मद॒घा द्वेषाँ॑सि ।

मूलम्

विधृ॑तिरसि॒ विधा॑रया॒स्मद॒घा द्वेषाँ॑सि श॒मि श॒मया॒स्मद॒घा द्वेषाँ॑सि य॒व य॒वया॒स्मद॒घा द्वेषाँ॑सि ।

भट्टभास्कर-टीका

हे लोष्ट ! त्वं विधृतिरसि विधारणस्य कर्ताऽसि स त्वम् अस्मद् अस्मत्तः ॥ शमीशाखां पश्चात् - शमि शमय ॥ यवं दक्षिणतः - यवेति गतम् ॥

भास्करोक्त-विनियोगः

12अथैनं चितमग्निमुपतिष्ठते - पृथिवीं गच्छेति ॥

विश्वास-प्रस्तुतिः

पृ॒थि॒वीङ्ग॑च्छा॒न्तरि॑क्षङ्गच्छ॒ दिव॑ङ्गच्छ॒ दिशो॑ गच्छ॒ सुव॑र्गच्छ॒ सुव॑र्गच्छ॒ दिशो॑ गच्छ॒ दिव॑ङ्गच्छा॒न्तरि॑क्षङ्गच्छ पृथि॒वीङ्ग॑च्छा॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः ।

निगदसिद्धम् ॥

मूलम् - प्रतीकानि

अश्म॑न्वती रेवती॒र्
यद् वै दे॒वस्य॑ सवि॒तुः प॒वित्रय्ँ॒
या रा॒ष्ट्रात् प॒न्नाद्
उद्व॒यन् तम॑स॒स्परि॑
धा॒ता पु॑नातु ॥ (22)

भट्टभास्कर-टीका

13-17जघनेन चिति कर्षादि समानमास्नानात् । अश्मन्वतीरित्यादयः पञ्च गताः ॥
इत्यारण्यके चतुर्थे नवमोऽनुवाकः ॥